श्रीमद्वेङ्कटनाथवेदान्तदेशिकस्वामिविरचितं
श्रीरङ्गनाथ पादुकासहस्रम् ।
प्रस्तावपद्धतिः
1.1 सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः ।
जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥
1.2 भरताय परं नमोऽस्तु तस्मै
प्रथमोदाहरणाय भक्तिभाजाम् ।
यदुपज्ञमशेषतः पृथिव्यां
प्रथितो राघवपादुकाप्रभावः ॥
1.3 वर्णस्तोमैर्वकुलसुमनोवासनामुद्वहन्तीम्
आम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् ।
पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तुः
त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ॥
1.4 दिव्यस्थानात् त्वमिव जगतीं पादुके गाहमाना
पादन्यासं प्रथममनघा भारती यत्र चक्रे ।
योगक्षेमं सकलजगतां त्वय्यधीनं स जानन्
वाचं दिव्यां दिशतु वसुधाश्रोत्रजन्मा मुनिर्मे ॥
1.5 नीचेऽपि हन्त मम मूर्धनि निर्विशेषं
तुङ्गेऽपि यन्निविशते निगमोत्तमाङ्गे ।
प्राचेतसप्रभृतिभिः प्रथमोपगीतं
स्तोष्यामि रङ्गपतिपादुकयोर्युगं तत् ॥
1.6 धत्ते मुकुन्दमणिपादुकयोर्निवेशात्
वल्मीकसम्भवगिरा समतां ममोक्तिः ।
गङ्गाप्रवाहपतितस्य कियानिव स्यात्
रथ्योदकस्य यमुनासलिलाद्विशेषः ॥
1.7 विज्ञापयामि किमपि प्रतिपन्नभीतिः
प्रागेव रङ्गपतिविभ्रमपादुके त्वाम् ।
व्यङ्क्तुं क्षमास्सदसती विगताभ्यसूयाः
सन्तः स्पृशन्तु सदयैर्हृदयैः स्तुतिं ते ॥
1.8 अश्रद्दधानमपि नन्वधुना स्वकीये
स्तोत्रे नियोजयसि मां मणिपादुके त्वम् ।
देवः प्रमाणमिह रङ्गपतिस्तथात्वे
तस्यैव देवि पदपङ्कजयोर्यथा त्वम् ॥
1.9 यदाधारं विश्वं गतिरपि च यस्तस्य परमा
तमप्येका धत्से दिशसि च गतिं तस्य रुचिराम् ।
कथं सा कंसारेर्द्रुहिणहरदुर्बोधमहिमा
कवीनां क्षुद्राणां त्वमसि मणिपादु स्तुतिपदम् ॥
1.10 श्रुतप्रज्ञासम्पन्महितमहिमानः कति कति
स्तुवन्ति त्वां सन्तः श्रुतिकुहरकण्डूहरगिरः ।
अहं त्वल्पस्तद्वद्यदिह बहु जल्पामि तदपि
त्वदायत्तं रङ्गक्षितिरमणपादावनि! विदुः ॥
1.11 यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि! ततो
महिम्नः का हानिस्तव मम तु सम्पन्निरवधिः ।
शुना लीढा कामं भवतु सुरसिन्धुर्भगवती
तदेषा किम्भूता स तु सपदि सन्तापरहितः ॥
1.12 मितप्रेक्षालाभक्षणपरिणमत्पञ्चषपदा
मदुक्तिस्त्वय्येषा महितकविसंरम्भविषये ।
न कस्येयं हास्या हरिचरणधात्रि! क्षितितले
मुहुर्वात्याधूते मुखपवनविष्फूर्जितमिव ॥
1.13 निस्सन्देहनिजापकर्षविषयोत्कर्षोऽपि हर्षोदयप्रत्यूढक्रमभक्तिवैभवभवद्वैयात्यवाचालितः ।
रङ्गाधीशपदत्रवर्णनकृतारम्भैर्निगुम्भैर्गिरां नर्मास्वादिषु वेङ्कटेश्वरकविर्नासीरमासीदति ॥
1.14 रङ्गक्ष्मापतिरत्नपादु! भवतीं तुष्टूषतो मे जवात् जृम्भन्तां भवदीयशिञ्जितसुधासन्दोहसन्देहदाः ।
श्लाघाघूर्णितचन्द्रशेखरजटाजङ्घालगङ्गापयस्त्रासादेशविशृङ्खलप्रसरणोत्सिक्ताः स्वयं सूक्तयः ॥
1.15 हिमवन्नलसेतुमध्यभाजां
भरताभ्यर्चितपादुकावतंसः ।
अतपोधनधर्मतः कवीनाम्
अखिलेष्वस्मि मनोरथेष्वबाह्यः ॥
1.16 अनिदम्प्रथमस्य शब्दराशेरपदं रङ्गधुरीणपादुके! त्वाम् ।
गतभीतिरभिष्टुवन् विमोहात् परिहासेन विनोदयामि नाथम् ॥
1.17 वृत्तिभिर्बहुविधाभिराश्रिता
वेङ्कटेश्वरकवेः सरस्वती ।
अद्य रङ्गपतिरत्नपादुके!
नर्तकीव भवतीं निषेवताम् ॥
1.18 अपारकरुणाम्बुधेस्तव खलु प्रसादादहं
विधातुमपि शक्नुयां शतसहस्रिकां संहिताम् ।
तथापि हरिपादुके! तव गुणौघलेशस्थितेः
उदाहृतिरियं भवेदिति मिताऽपि युक्ता स्तुतिः ॥
1.19 अनुकृतनिजनादां सूक्तिमापादयन्ती
मनसि वचसि च त्वं सावधाना मम स्याः ।
निशमयति यथाऽसौ निद्रया दूरमुक्तः
परिषदि सह लक्ष्म्या पादुके! रङ्गनाथः ॥
1.20 त्वयि विहिता स्तुतिरेषा पदरक्षिणि! भवति रङ्गनाथपदे ।
तदुपरि कृता सपर्या नमतामिव नाकिनां शिरसि ॥
*******