पादुकासहस्रम्
यन्त्रिकापद्धतिः
उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् । उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम्।। 26.1
प्रसभं प्रतिरुध्य कण्टकादीन् भवती शौरिपदाम्बुजादधस्तात् । चरणावनि ! धारयत्यमुष्मिन् उचितच्छायमुपर्यपि प्रतीकम्।। 26.2
मुरभिन्मणिपादुके ! त्वदीयां अनघामङ्गुलियन्त्रिकामवैमि । स्वयमुन्नमितां प्रदेशिनीं ते परमं दैवतमेकमित्यृचन्तीम्।। 26.3
स्वदते मणिपादुके ! त्वदीया पदशाखायुगयन्त्रिका विचित्रा । परमं पुरुषं प्रकाशयन्ती प्रणवस्येव परेयमर्घमात्रा।। 26.4
अनुयातमनोरथा मुरारेः भवती केळिरथश्रियं दधाति । चरणावनि ! यन्त्रिका तवैषा तनुते कूबरसम्पदं पुरस्तात्।। 26.5
शङ्के भवत्याः सुभगं प्रतीकं रङ्गेशपादाङ्गुळिसङ्ग्रहार्थम् । त्राणाय पादावनि ! विष्टपानां आज्ञाकरीमङ्गुळिमुद्रिकां ते।। 26.6
अलङ्कृतं कर्णिकयोपरिष्टाद् उदग्रनाळं तव यन्त्रिकां शम् । पद्मापतेः पादसरोजलक्ष्म्याः प्रत्येमि पादावनि ! केळिपद्मम्।। 26.7
उपरि विनिहितस्य केशवाङ्घ्रेः उपरि पदावनि ! यन्त्रिकात्मिका त्वम् । इति तव महिमा लघूकरोति प्रणतसुरेश्वरशेखराधिरोहम्।। 26.8
नित्यं पदावनि ! निबद्धकिरीटशोभं पद्मालयापरिचितं पदमुद्वहन्त्याः । अङ्गीकरोति रुचिमङ्गुळियन्त्रिका ते साम्राज्यसं पदनुरूपमिवातपत्रम्।। 26.9
प्रथमा कलेव भवती चरणावनि ! भाति रङ्गचन्द्रमसः । शृङ्गोन्नतिरिव यत्र श्रियं विभावयति यन्त्रिकायोगः।। 26.10
******