पादुकासहस्रम्
रेखापद्धतिः
सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् । अलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम्।। 27.1
मणिमौळिनिघर्षणात् सुराणां वहसे काञ्चनपादुके ! विचित्रम् । कमलापतिपादपद्मयोगात् अपरं लक्षणमाधिराज्यसारम्।। 27.2
अभितो मणिपादुके ! स्फुरन्त्याः तव रेखाविततेस्तथाविधायाः । मुरवैरिपदारविन्दरूढैः अनुकल्पायितमाधिराज्यचिह्नैः।। 27.3
रेखया विनमतां दिवौकसां मौळिरत्नमकरीमुखोत्थया । पादुके ! वहसि नूनमद्भुतं शौरिपादपरिभोगलक्षणम्।। 27.4
त्रिदशमकुटरत्नोल्लेखरेखापदेशात् परिणमयसि पुं सां पादुके ! मूर्ध्नि लग्ना । नरकमथनसेवासं पदं साधयित्री नियतिविलिखितानां निष्कृतिं दुर्लिपीनाम्।। 27.5
पदकमलतलान्तः सं श्रितान्यातपत्र- ध्वजसरसिजमुख्यान्यैश्वरीलक्षणानि । अवगमयसि शौरेः पादुके ! मादृशानाम् उपरि परिणतैः स्वैर्देवि ! रेखाविशेषैः।। 27.6
स्नाता पदावनि चिरं परिभुज्य मुक्ता पादेन रङ्गनृपते शुभलक्षणेन । रेखान्तरैर्नवनवैरुपशोभसे त्वं सं स्कारचन्दनविलेपनपङ्कलग्नैः।। 27.7
भक्त्या मुहुः प्रणमतां त्रिदशेश्वराणां कोट् ईरकोटिकषणादुपजायमानैः । आभाति शौरिचरणादधिकानुभावा रेखाशतैस्तव पदावनि ! काऽपि रेखा।। 27.8
पादावनि ! प्रतिपदं परमस्य पुं सः पादारविन्दपरिभोगविशेषयोग्या । स्वाभाविकान् सुभगभक्तिविशेषदृश्यान् रेखात्मकान् वहसि पत्रलताविशेषान्।। 27.9
रेखापदेशतस्त्वं प्रशमयितुं प्रळयाविप्लवाशङ्काम् । वहसि मधुजित्पदावनि ! मन्ये निगमस्य मातृकालेख्यम्।। 27.10
******