पादुकासहस्रम्
शृङ्गारपद्धतिः
शौरेः शृङ्गारचेष्टानां प्रसूतिं पादुकां भजे । यामेष भुङ्क्ते शुद्धान्तात् पूर्वं पश्चादपि प्रभुः।। 10.1
प्रणतत्रिदशेन्द्रमौळिमाला मकरन्दार्द्रपरागपङ्किलेन । अनुलिम्पति पादुके ! स्वयं त्वाम् अनुरूपेण पदेन रङ्गनाथः।। 10.2
अबदातहिमां शुकानुषक्तं पदरक्षे ! त्वयि रङ्गिणः कदाचित् । किमपि स्थितमद्वितीयमाल्यं विरलावस्थितमौक्तिकं स्मरामि।। 10.3
असहायगृहीतरङ्गनाथां अवरोधाङ्गणसीम्नि पादुके ! त्वाम् । सुदृशः स्वयम् अर्चयन्ति दूरात् अवतं सोत्पलवासितैरपाङ्गैः।। 10.4
निर्विश्यमानमपि नूतनसन्निवेशं कैवल्यकल्पितविभूषणकायकान्तिम् । कालेषु निर्विशसि रङ्गयुवानम् एका शृङ्गारनित्यरसिकं मणिपादरक्षे !।। 10.5
निद्रायितस्य कमितुर्मणिपादुके ! त्वं पर्यङ्किकापरिसरं प्रतिपद्यमाना । श्वासानिलप्रचलितेन भजस्यमीक्ष्णं नाभीसरोजरजसा नवमङ्गरागम्।। 10.6
शयितवति रजन्यां पादुके ! रङ्गबन्धौ चरणकमलपार्श्वे सादरं वर्तसे त्वम् । फणिपतिशयनीयादुत्थितस्य प्रभाते प्रथमनयनपातं पावनं प्राप्तुकामा।। 10.7
चरणकमलसङ्गाद्रङ्गनाथस्य नित्यं निगमपरिमळं त्वं पादुके ! निर्वमन्ती । नियतमतिशयाना वर्तसे सावरोधं हृदयमधिवसन्तीं मालिकां वैजयन्तीम्।। 10.8
उपनिषदबलाभिर्नित्यमुत्तं सनीयं किमपि जलधिकन्याहस्तसं वाहनार्हम् । तव तु चरणरक्षे ! देवि लीलारविन्दं चरणसरसिजं तच्चारु चाणूरहन्तुः।। 10.9
अखिलान्तः पुरवारेष्वनेकवारं पदावनि ! स्वैरम् । अनुभवति रङ्गनाथो विहारविक्रान्तिसहचरीं भवतीम्।। 10.10
*******