श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्री-भूस्तुतिः
सङ्कल्प कल्प लतिकामवधिं क्षमायाः
स्वेच्छा वराह महिषीं सुलभानुकम्पाम् ।
विश्वस्य मातरमकिं चन कामधेनुं
विश्वं भरामशरणः शरणं प्रपद्ये ॥ 1 ॥
त्वां व्याहृतिः प्रथमतः प्रणवः प्रियं ते
सं वेदयत्यखिल मन्त्र गणस्तमेव ।
इत्थं प्रतीत विभवामितरेष्विदानीं
स्तोतुं यथावदवने क इवार्हति त्वाम् ॥ 2 ॥
नित्यं हिताहित विपर्यय बद्ध भावे
त्वद्वीक्षणैक विनिवर्त्य बहु व्यपाये ।
मुग्धाक्षरैरखिल धारिणि मोदमाना
मातः स्तनन्धय धियं मयि वर्तयेथाः ॥ 3 ॥
सङ्कल्प किं कर चराचर चक्रवाळं
सर्वातिशायिनमनन्त शयस्य पुंसः ।
भूमानमात्म विभवैः पुनरुक्तयन्ती
वाचामभूमिरपि भूमिरसि त्वमेका ॥ 4 ॥
वेधस्तृणावधि विहार परिच्छदं ते
विश्वं चराचरतया व्यतिभिद्यमानम् ।
अम्ब त्वदाश्रिततया परिपोषयन्ती
विश्वंभरस्य दयिताऽसि तदेक नामा ॥ 5 ॥
सर्वं सहेत्यवनिरित्यचलेति मातः
विश्वं भरेति विपुलेति वसुन्धरेति ।
अन्यानि चान्यविमुखान्यभिधान वृत्त्या
नामान्यमूनि कथयन्ति तवानुभावम् ॥ 6 ॥
तापान् क्षिपन् प्रसविता सुमनो गणानां
प्रच्छाय शीतळ तलः प्रदिशन् फलानि ।
त्वत्सङ्गमात् भवति माधवि लब्ध पोषः
शाखा शतैरधिगतो हरि चन्दनोऽसौ ॥ 7 ॥
स्मेरेण वर्धित रसस्य मुखेन्दुना ते
निस्पन्दतां विजहतो निजया प्रकृत्या ।
विश्रान्ति भूमिरसि तत्त्व तरङ्ग पङ्क्तेः
वेलेव विष्णु जलधेरपृथग्भवन्ती ॥ 8 ॥
स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये
पत्युर्महिम्नि भवतीं प्रतिपन्न वासाम् ।
शङ्के विमान वहन प्रतिमा समानाः
स्तम्बेरम प्रभृतयोऽपि वहन्ति सत्त्वाः ॥ 9 ॥
संभावयन् मधुरिपुः प्रणयानुरोधात्
वक्षः स्थलेन वरुणालय राजकन्याम् ।
विश्वं भरे बहुमुख प्रतिपन्न भोगः
शेषात्मना तु भवतीं शिरसा दधाति ॥ 10 ॥
क्रीडा वराह दयिते कृतिनः क्षितीन्द्राः
संक्रन्दनस्तदितरेऽपि दिशामधीशाः ।
आमोदयन्ति भुवनान्यळिकाश्रितानाम्
अम्ब त्वदङ्घ्रि रजसां परिणाम भेदैः ॥ 11 ॥
भूतेषु यत् त्वदभिमान विशेष पात्रं
पोषं तदेव भजतीति विभावयन्तः ।
भूतं प्रभूतगुण पञ्चकमाद्यमेतत्
प्रायो निदर्शनतया प्रतिपादयन्ति ॥ 12 ॥
कान्तस्तवैष करुणा जलधिः प्रजानाम्
आज्ञातिलङ्घन वशादुपजात रोषः ।
अह्नाय विश्व जननि क्षमया भवत्या
सर्वावगाहन सहामुपयात्यवस्थाम् ॥ 13 ॥
आश्वासनाय जगतां पुरुषे परस्मिन्
आपन्न रक्षण दशामभिनेतुकामे ।
अन्तर्हितेतर गुणादबला स्वभावात्
औदन्वते पयसि मज्जनमभ्यनैषीः ॥ 14 ॥
पूर्वं वराह वपुषा पुरुषोत्तमेन
प्रीतेन भोगि सदने समुदीक्षितायाः ।
पादाहताः प्रळय वारिधयस्तवासन्
उद्वाह मङ्गळ विधेरुचिता मृदङ्गाः ॥ 15 ॥
व्योमातिलङ्घिनि विभोः प्रळयाम्बु राशौ
वेशन्त लेश इव मातुमशक्य मूर्तेः ।
सद्यः समुद्र वसने सरसैरकार्षीः
आनन्द सागरमपारमपाङ्ग पातैः ॥ 16 ॥
दंष्ट्रा विदारित महासुर शोणिताङ्कैः
अङ्गैः प्रियस्तव दधे परिरम्भ लीलाम् ।
सा ते पयोधि जल केळि समुत्थितायाः
सैरन्ध्रिकेव विदधे नवमङ्गरागम् ॥ 17 ॥
अन्योन्य सं वलन जृम्भित तूर्य घोषैः
सं वर्त सिन्धु सलिलैर्विहिताभिषेका ।
एकातपत्रयसि विश्वमिदं गुणैः स्वैः
अध्यास्य भर्तुरधिकोन्नतमं स पीठम् ॥ 18 ॥
भर्तुस्तमाल रुचिरे भुज मध्य भागे
पर्याय मौक्तिकवती पृषतैः पयोधेः ।
तापानुबन्ध शमनी जगतां त्रयाणां
तारापथे स्फुरसि तारकिता निशेव ॥ 19 ॥
आसक्त वासव शरासन पल्लवैस्त्वां
सं वृद्धये शुभ तटिद्गुण जाल रम्यैः ।
देवेश दिव्य महिषीं धृत सिन्धु तोयैः
जीमूत रत्न कलशैरभिषिञ्चति द्यौः ॥ 20 ॥
आविर्मदैरमर दन्तिभिरुह्यमानां
रत्नाकरेण रुचिरां रशना गुणेन ।
मातस्त्रिलोक जननीं वन मालिनीं त्वां
माया वराह महिषीमवयन्ति सन्तः ॥ 21 ॥
निष्कण्टक प्रशम योग निषेवणीयां
छाया विशेष परिभूतसमस्त तापाम् ।
स्वर्गापवर्गसरणिं भवतीमुशन्ति
स्वच्छन्द सूकरवधूमवधूत पङ्काम् ॥ 22 ॥
गण्डोज्ज्वलां गहन कुन्तळ दर्शनीयां
शैलस्तनीं तरळ निर्झर लम्ब हाराम् ।
श्यामां स्वतस्त्रियुग सूकर गेहिनि त्वं
व्यक्तिं समुद्र वसनामुभयीं बिभर्षि ॥ 23 ॥
निः सं शयैर्निगम सीमनि विष्णुपत्नि
प्रख्यापितं भृगु मुखैर्मुनिभिः प्रतीतैः ।
पश्यन्त्यनन्य पर धी रस सं स्कृतेन
सन्तः समाधि नयनेन तवानुभावम् ॥ 24 ॥
सं चोदिता करुणया चतुरः पुमर्थान्
व्यातन्वती विविध मन्त्र गणोपगीता ।
सं चिन्त्यसे वसुमति स्थिर भक्ति बन्धैः
अन्तर्बहिश्च बहुधा प्रणिधान दक्षैः ॥ 25 ॥
क्रीडा गृहीत कमलादि विशेष चिह्नां
विश्राणिताभयकरां वसुधे सभूतिम् ।
दौर्गत्य दुर्विष विनाश सुधा नदीं त्वां
सं चिन्तयन् हि लभते धनदाधिकारम् ॥ 26 ॥
उद्वेल कल्मष परम्परितादमर्षात्
उत्तं सितेन हरिमञ्जलिनाऽप्यधृष्यम् ।
आकस्मिकोऽयमधिगम्ययति प्रजानाम्
अम्ब त्वदीय करुणा परिणाम एव ॥ 27 ॥
प्रत्येकमब्द नियुतैरपि दुर्व्यपोहात्
प्राप्ते विपाकसमये जनितानुतापात् ।
नित्यापराध निवहाच्चकितस्य जन्तोः
गन्तुं मुकुन्द चरणौ शरणं क्षमे त्वम् ॥ 28 ॥
त्राणाभिसंधिसुभगेऽपि सदा मुकुन्दे
संसार तन्त्र वहनेन विळम्बमाने ।
रक्षा विधौ तनुभृतामनघानुकम्पा
मातः स्वयं वितनुषे महतीमपेक्षाम् ॥ 29 ॥
धर्म द्रुहं सकल दुष्कृति सार्वभौमम्
आत्मानभिज्ञमनुतापलवोज्झितं माम् ।
वैतान सूकरपतेश्चरणारविन्दे
सर्वं सहे ननु समर्पयितुं क्षमा त्वम् ॥ 30 ॥
ताप त्रयीं निरवधिं भवती दयार्द्राः
संसार घर्म जनितां सपदि क्षिपन्तः ।
मातर्भजन्तु मधुरामृत वर्ष मैत्रीं
माया वराह दयिते मयि ते कटाक्षाः ॥ 31 ॥
पत्युर्दक्षिण पाणि पङ्कज पुटे विन्यस्त पादाम्बुजा
वामं पन्नग सार्वभौम सदृशं पर्यङ्कयन्ती भुजम् ।
पोत्र स्पर्श लसत्कपोल फलका फुल्लारविन्देक्षणा
सा मे पुष्यतु मङ्गळान्यनुदिनं सर्वाणि सर्वं सहा ॥32॥
अस्येशाना जगत इति या श्रूयते विष्णुपत्नी
तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या ।
श्रद्धा भक्ति प्रचय गुरुणा चेतसा संस्तुवानः
यद्यत् काम्यं सपदि लभते तत्र तत्र प्रतिष्ठाम् ॥33॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥