श्रीमते रामानुजाय नमः
श्री वेदान्तदेशिक सुप्रभातम् (श्रीकृष्ण ब्रह्मतन्त्रमुनिवर्यकृतिः)
श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।।
पादारविन्दयुगळीनतचेतनौघ-
खेदापहारिकरुणादि-गुणामृताब्धे ।
मोदाय सर्वजगतां भवतान्नितान्तं
वेदान्तदेशिकमणे! तव सुप्रभातं ।। (१)
निद्रानुभूतिशबलैरमलैः कटाक्षैः
विद्रावितार्तिभिरुपाश्रितलोकरक्षैः ।
भद्राणि सर्वजगतां भगवन् विधातुं
निद्रां विमुञ्च निगमाञ्चलदेशिकेन्द्र ।। (२)
अन्तर्हरौ लसति धामनिधौ प्रकाशम्
अत्यन्तमेत्य जगतां जनयन् प्रबोधम् ।
प्राचीप्रदेश इव भाति भवान् प्रकामं
प्राचीनवाक् शिखरदेशिक! जागृहि त्वम् ।। (३)
तमोऽवश्यं नश्येत् प्रचुरमपि तत् तादृशगुरु-
प्रबोधे सञ्जाते न विशय इहास्तीति तमिमम् ।
नृणामर्थं सम्यक् प्रकटयदिव भ्रश्यति तमो
विबुध्यस्व श्रीमन्! निगममकुटीदेशिकमणे ।। (४)
तेजस्वितां दधदुदारतमो विधूय
निस्स्नेहभावमुपगम्य दशावसाने ।
शान्त्याद्य हन्त हरिपादसमर्पितात्मा
दीपः प्रसन्न इव जागृहि देशिकेन्द्र ।। (५)
गाढाऽविद्येव रात्रिर्विगलति विशदज्ञानवत् भानुतेजः
प्रोन्मीलत्यब्जबन्धुः जलजनवद्दृक्पथं याति मन्दम् ।
आनन्दं याति सान्द्रं मुनिसमुदयवत् कोकलोकस्समन्तात्
भूयाद्वेदान्तविद्यागुरुवर भवतो दिव्यभास्सुप्रभातम् ।। (६)
इदमभिगमोपादानेज्या मुखं परमार्हणं
तुरगवदनं ज्योतिस्त्वत्तोऽधिगन्तुमपेक्षते ।
तदिह समयः प्राप्तो योगोपसंहरणोचितः
भवतु भवतस्सुप्रातः श्रीत्रयीमकुटीगुरो ।। (७)
एते शुद्धा विमलवसनाः सत्पत्रवित्रोर्ध्वपुण्ड्राः
सन्ध्या जप्यप्रयतहृदया वैष्णवास्त्वन्नियोज्याः ।
त्वत्क्कैङ्कर्यप्रवणमतयस्त्वप्रबोधप्रतीक्षाः
सुप्रातर्भो निगममकुटीदेशिक स्तादिदं ते ।। (८)
भाष्यादिगूढतमतत्त्वबुभुत्सयामी
श्रीब्रह्मतन्त्रयतिवर्य मुखामहान्तः ।
क्लृप्ताह्निकास्सनियमाः प्रतिपालयन्ति
त्वामागमान्तगुरुवर्य जहीहि शय्याम् ।। (९)
रविसदृशतनुः श्रीवेङ्कटेशार्यवर्यः
करकलितपवित्रस्सूत्तरीयोपवीतः ।
सरसिजमणिमालामूर्ध्वपुण्ड्रान् दधानो
मम मनसि विभाते सन्ततं सन्निधत्ताम् ।। (१०)
सुदान्तं दुर्ध्वान्तक्षपणनिपुणं त्वां नतततेः
अनन्तं वेदान्तं स्फुटमुपदिशन्तं करुणया ।
महान्तं श्रीमन्तं गुणनिधिमनन्तार्यतनयं
विभान्तं मत्स्वान्तं श्रयतु निगमान्तार्यमुषसि ।। (१२)
अगणेय-महासुगुणाम्बुनिधिं
प्रगुणात्म-गुणार्यगणाभिनुतम् ।
सुगमान् निगमान् कलयन्तमिमं
निगमान्तगुरुं प्रणमामि सदा ।। (१३)
विजयतां गुरुपङ्क्तिशिखामणिः
विजयतां यतिराजमतध्वजः ।
विजयतां कवितार्किककेसरी
विजयतां निगमान्तगुरुश्चिरम् ।। (१४)
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ।।