।। श्रीः ।।
बृहदारण्यकोपनिषत्
(शुक्लयजुर्वेदकाण्वशाखान्तर्गता)
[उपक्रमशान्तिपाठः]
हरिः ओम्
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ।। ओं शान्तिः शान्तिः शान्तिः ।।
शुक्लयजुर्वेदीयानां एषः शान्तिपाठमन्त्रः । परब्रह्मणः समग्रस्वरूपस्वभावप्रतिपादकः इति यथासिद्धान्तं विपुलविशदं विवरणं अर्हति । तथा हि – पूरी आप्यायने (धा.पा.१८०४) इत्यस्मात् चौरादिकत्वेन स्वार्थणिजन्तात् धातोः क्तप्रत्यये सति वा दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्ताः (पा.सू.७-२-२७) इति पाणिनि सूत्रेण पूर्णशब्दोऽयं निपात्यते । इडागमाभावः निपातस्य फलम् । णिलोपः, रात् परत्वात् प्रत्ययतकारस्य नत्वं, तस्य णत्वं चेति पूर्णशब्दसिद्धौ प्रक्रिया । क्तप्रत्ययश्च इह कर्तरि कर्मणि वेति उभयथापि भाव्यम् । तत्र कर्तरि – ब्रह्मस्वरूपेण पूरयति – व्याप्नोति इत्यर्थः । कर्मणि तु ब्रह्म कल्याणगुणैः सम्भृतमित्यर्थः । असङ्कुचितवृत्तिनानेन पूर्णशब्देन सर्वत्र सर्वदा सर्वथा च पूर्णत्वं ब्रह्मणः प्रतिपाद्यते ।
तद्यथा – सर्वत्रेति सर्वदेशव्याप्तिविवक्षा । सर्वत्र पूर्णता नाम सर्वव्याप्तस्य तत्तद्देशावच्छेदेनापि परिसमाप्यवृत्तित्वपर्यवसानम् । तद्वा कथम्? न हि एकत्र पूर्णतया स्थितस्य अन्यत्र वृत्तिसम्भवः, इति शङ्का निरस्यते सिद्धान्तिभिः विशिष्टाद्वैतिभिः व्यक्तिषु परिसमाप्तामपि व्यापिनीं तार्किकाणां जाति निदर्शयद्भिरिति भाव्यम् । सर्वदा-इति कालानवच्छेदेन व्याप्तिविवक्षा । सर्वथा-इति व्याप्तिप्रकारविवक्षा च । तत्र स्वरूपतः गुणतश्चेति व्याप्तिप्रकारद्वैविध्यम् । तेन दीपादुत्पन्नप्रदीपन्यायेन परस्वरूपवत् उत्तरेषां ‘व्यूह-विभव-अन्तर्यामि-अर्चावताराणां अपि गुणैः पूर्णतासिद्धिः । एतदभिप्रायेणैव मन्त्रपदानि व्याख्येयानि । तथा हि – पूर्णमदः पूर्णमिदं इति पूर्णमिदं पूर्णमदः इति च पाठभेदः दृश्यते । तत्र विप्रकृष्टवाचिना अदश्शब्देन नित्यविभूतिवर्तिपरस्वरूपग्रहणम् । सन्निहितवाचिना इदंशब्देन च हृदयगुहावतिं अन्तर्यामिरूपं विवक्षितम् । पूर्णशब्दः गुणपौष्कल्यवचनः । तथा च – परवासुदेवमूर्तिरिव अन्तर्यामिस्वरूपं च षाड्गुण्यपुष्कलमिति प्रथमवाक्यार्थः । अथ, पूर्णात् – पूर्वोक्तपरवासुदेवसकाशात् आविर्भूतं पूर्णं – व्यूहस्वरूपं, उदच्यते – बहुप्रकारं भवति । सङ्कर्षण-प्रद्युम्न-अनिरुद्ध-रूपेण द्वि-द्वि-गुणाविष्करणशालि सत् त्रिप्रकारं भवतीति भावः । तत्र व्यूहत्रये प्रतिव्यक्ति गुणद्वयमात्राविष्करणेऽपि स्वतः गुणषट्कमेव इति न न्यूनता भाव्या । इदं चोक्तं पाञ्चरात्रानुसारतः श्रीवत्सचिह्नगुरुभिः वरदराजस्तवे-
गुणैष्षभिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ ।
ततस्तिस्रः तेषां त्रियुगयुगळैर्हि त्रिभिरभूत् ।। (१६) इत्यादिना ।
पूर्णस्य पूर्णं – इह षष्ठ्यन्तपूर्णशब्दः सर्वावतारकन्दभूतं क्षीराब्धिशायि व्यूहरूपं वदति । तत्सम्बन्धि पूर्ण रामकृष्णादि विभवावतारजातम् । तत् (द्वितीयान्तम्) आदाय स्वहेतुत्वेन स्वीकृत्य, पूर्णमेवावशिष्यते – अर्चावताररूपमेव चरमतया वर्तते सर्वसमाश्रयणोपयोगि नित्यसन्निहितं कल्याणगुणपूर्ण च, इति मन्त्रस्य पदार्थविवरणम् । एतेन परब्रह्मणः सर्वव्याप्तिः सर्वत्र गुणपौष्कल्यं च प्रतिपादितं भवति । अध्ययनारम्भे एवंविधपरिपूर्ण-ब्रह्मस्वरूपध्यानं शान्तिमन्त्रेणानेन विधित्सितमिति बोध्यम् । श्रीवचनभूषणस्य अरुम्बदाख्ये द्रविडभाषामयटिप्पणे समञ्जसमिदं विवरणं दृश्यम् ।
यद्यपि श्रीरङ्गरामानुजमुनीन्द्रः बृहदारण्यके (७-१) अयं मन्त्रः प्रकरणात् प्रणवस्तुति-परतया व्याख्यातः । तदेवम् – पूर्णमदः पूर्णमिदं इत्यनेन परोक्षप्रत्यक्षसर्वलोकानां वेदशब्दप्रभवत्वात् तद्व्याप्तत्वं प्रोच्य, (कारणेन कार्यस्य व्याप्तत्वात् कारणीभूतवेदशब्दव्याप्तता लोकानां इति) । एवं पूर्णात् (व्याप्तात् लोकात्) पूर्ण पूरणकर्तृव्याहृतिरूपभूर्भुवरादि शब्दजातम् उदच्यते – उत्कृष्टं भवति इति च व्याख्याय, पूर्णस्य पूर्णं – व्याप्तलोकस्य पूरकं व्याहतिरूपशब्दजातम्, आदाय – उपसंहृत्य, पूर्णं – तस्यापि व्यापकं ओङ्काररूपं वस्तु, अवशिष्यते – कार्यसर्वशब्दजाते नष्टेऽपि परिशिष्यते इति विवरणं कृतम् । अथ तैरेव अन्ते इदं च रुच्युत्पादनाय प्रणवस्तुतिमात्रम् । अन्यथा निमित्तकारणस्य व्याहत्यादेः कार्यव्यापकत्वासम्भवात् । उपादानभूतस्य भूतपञ्चकस्यैव व्यापकत्वसम्भवात् असामञ्जस्यं स्यात् इति समापितम् । तथापि एवं स्वेनैव रुच्युत्पादनाय प्रणवस्तुतिपरत्वोक्त्या अवास्तवमेवेदं प्रणवस्तुतिपरत्वमिति व्यञ्जनात्, युक्तं प्रणवप्रतिपाद्यस्य ब्रह्मण एव परत्वादिपञ्चकपरतया व्याख्यानमिति प्रतीमः । वस्तुतः इदं श्रीरङ्गरामानुजीयं विवरणं वाक्यान्वयाधिकरणगतश्रुतप्रकाशिका वचनविरुद्धमपि । तत्र हि व्यासार्यै: यादवप्रकाश-पक्षनिराससन्दर्भ परमात्मपरतयैव मन्त्रोऽयं विवृतः । तत्रेयं तदीयसूक्तिः परमात्मनः पूर्णत्वं च अणुमात्रेऽपि वस्तुनि स्थितस्य निरवधिकषाड्गुण्यविशिष्टतया प्रतिपत्तियोग्यत्वम् इति ।।
।। इति शान्तिपाठविवरणम् ।।
[1. व्यूहः – पर एवोपासनार्थं जगत्सृष्ट्याह्यर्थञ्च वासुदेव – सङ्कर्षण – प्रद्युम्न -अनिरुद्ध भेदेन चतुर्धाऽवस्थितः । विभवः – तत्तत्सजातीयरूपेणाविर्भावः । अन्तर्यामि – स्वर्गनरकाद्यनुभवदशायामपि जीवात्मनः योगिभिः द्रष्टव्यतया हृदयप्रदेशावस्थितरूपम् । अर्चावतारः – देशकालविप्रकर्षरहितः आश्रिताभिमतद्रव्यादिकं शरीरतया स्वीकृत्य तस्मिन्नप्राकृतशरीरविशिष्टस्सन् अर्चकपराधीन-स्रानभोज्या-सनशयनसनस्थितिः सर्वसहिष्णुः परिपूर्णो गृहग्रामनगरप्रशस्तदेशशैलादिषु वर्तमानो मूर्तिविशेषः ।]
बृ ह दा र ण्य को प नि ष त्
तृतीयोऽध्यायः
प्रथमं ब्राह्मणम्
अश्वब्राह्मणम्
[अश्वमेधीयाश्वस्य अङ्गेषु उषा आदि दृष्टिः]
हरिः ओम् । उषा वा अश्वस्य मध्यस्य शिरः । सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिश: पार्श्वे अवान्तरदिशः पर्शवः, ऋतवोऽङ्गानि मासाश्चार्द्धमासाश्च च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि, नभो माँसानि । उवध्यँ सिकता: सिन्धवो गुदा यकृञ्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि । उद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत् स्तनयति, यन्मेहति तद्वर्षति, वागेवास्य वाक् ।।
प्रकाशिका
रङ्गरामानुजमुनिविरचिता
[मङ्गलाचरणम्]
अतसीगुच्छसच्छायमञ्चितोरस्थलं श्रिया ।
अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।।
[आचार्यवन्दनम्]
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।
बृहदारण्यकव्याख्यां करोमि विदुषां मुदे ।।
[अवतारिका]
अष्टाध्यायात्मके बृहदारण्यके प्रवर्योपसत्प्रतिपादक प्रथमद्वितीयाध्यायौ उपेक्ष्योत्तरोऽध्यायगणो व्याख्यायते । यद्यपि उषा वा अश्वस्य इत्यादिकमपि अश्वमेधादि-कर्मविषयकमेव, तथापि ब्रह्मदृष्टिः विधिरूपतया ब्रह्मात्मकत्व प्रतिपादनपरतया’ यथाकथञ्चित् ब्रह्मसम्बन्धित्वेन तद्व्याख्यानस्योचितत्वात् । अत एवाश्वमेधब्राह्मणादेब्रह्मपरोपनिषद्भाग-सङ्गतिरुपपद्यते। न च प्रवर्ग्योपसत्पराध्यायद्विकस्य ब्रह्मपर आरण्यकमध्ये विद्यासन्निधौ पाठाद्विद्यार्थत्वं शङ्क्यम्; वेधाद्यर्थभेदात् (ब्र.सू.३-३-२५) इति अधिकरणे शुक्रं प्रविध्य हृदयं प्रविध्य (अथर्व.उ.१) तेजस्वि नावधीतमस्तु (तै.आन.१) इत्यादीनां शत्रुहृदय-वेधाध्ययनादि प्रकाशकानां मन्त्राणां, देवा ह वै सत्रं निषेदुः (शत.ब्रा.१४-१-१) इति बृहदारण्यक आरम्भपठितब्राह्मणप्रतिपादितप्रवर्ग्यादेः च कर्मणः, लिङ्गादिबलेन अन्यत्र विनियुक्तत्वेऽपि विद्यासन्निधिपाठाऽऽनर्थक्यपरिहाराय विद्यार्थत्वं इति पूर्वपक्षे, विद्यासन्निधिपाठस्य दिवाकीर्त्यत्वारण्यपाठ्यत्वादिसौकर्यार्थतया अपि उपपत्तेः बलवद्भिः लिङ्गादिभिः अभिचाराध्ययनज्योतिष्टोमादि अर्थत्वं इति वेधाद्यर्थभेदात् (ब्र.सू.३-३-२५) इति सूत्रेण सिद्धान्तितत्वात् । तस्य च सूत्रस्य अयं अर्थः – ‘मन्त्रप्रतिपाद्यस्य वेधाद्यर्थस्य विद्यार्थत्वाभावेन विद्यार्थात् भेदात् तत्प्रकाशनद्वारा विद्याशेषत्वमपि इत्यभिचारादिशेषत्वम्’ इति । ततः च न विद्यार्थत्वशङ्कायाः अवकाशः ।
सर्वकर्मश्रेष्ठ अश्वमेधाङ्गभूते अश्वे-यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छां.उ.१-१-१०) इति कर्मवीर्यवत्तरत्वापादिका विश्वरूपत्व उपासना उपदिश्यते- उषा वा अश्वस्य मध्यस्य शिरः । मेघः।– यज्ञः, तं अर्हति इति मेध्यः । यज्ञार्थस्य पशोः यत् शिरः तत् उषा: – ब्राह्मः मुहूर्तः । लिङ्गव्यत्ययः छान्दसः । उषसः अहर्मुखत्वेन अहश्शिरस्त्वात् पशोः शिरसि तद्बुद्धिः उपपद्यते इति द्रष्टव्यम् । आदित्यादिमतयश्च अङ्ग उपपत्तेः (ब्र.सू.४-१-६) इति अधिकरणे य एव असौ तपति तं उद्गीथं उपासीत (छां.उ.१-३-१) इत्यत्र कर्माङ्गभूते उद्गीथे आदित्यदृष्टिः कर्तव्या, उत आदित्ये उद्गीथदृष्टिः इति विशये, ब्रह्मदृष्टिरुत्कर्षात् (ब्र.सू.४-१-५) इति सूत्रोक्तन्यायेन उत्कृष्टदृष्टेः एव अपकृष्टे कर्तव्यत्वात् कर्माङ्गस्य उद्गीथस्य कर्मोपकारकत्वेन उत्कृष्टतया तद्बुद्धिः एव आदित्ये कर्तव्या इति पूर्वपक्षे प्राप्ते-आदित्यादिमतयश्च अङ्गे उपपत्तेः (ब्र.सू.४-१-६) इति सूत्रेण सिद्धान्तितम् । अत्र च शब्दः अवधारणे । अङ्ग एव आदित्यादिमतयः कार्याः, कर्माराध्यतया आदित्यादीनां एव उत्कृष्टत्वस्य उपपत्तेः इति तदर्थः । ततः च अश्वस्य शिरःप्रभृति अवयवेषु कर्माङ्गभूतेषु एव उष आदि बुद्धिः, कार्या, न तु उष आदौ शिर आदिबुद्धिः । सूर्यश्चक्षुः इति – अश्वस्य चक्षुस्सूर्यः ।
सूर्याधिष्ठातृकत्वात् तद्बुद्धिस्तत्र कार्येत्यर्थः । वातः प्राणः अश्वस्य प्राण एव वातः । वाय्ववस्थाविशेषत्वात्प्राणस्य तद्बुद्धिस्तत्र कार्येत्यर्थः । व्यात्तमग्निः वैश्वानरः विवृतं मुखमेव वैश्वानरोऽग्निः । अग्निर्वाग्भूत्वा मुखं प्राविशत् (ऐत.उ.१-२-४) इति अग्नेर्मुखाधिष्ठा-तृत्वात् तद्बुद्धिस्तत्र कार्येत्यर्थः । संवत्सरः इति – संवत्सरः अश्वस्य मध्यस्य आत्मा स्वरूपमित्यर्थः । ऋतवोऽङ्गानि इत्यादिना संवत्सरावयव ऋतुमासादीनां तदवयवत्वेन निरूपयिष्यमाणत्वात् संवत्सरस्यावयविशरीरात्मकत्वम् । अश्वस्य मध्यस्य इति सर्वत्रानुषङ्गार्थं पुनर्वचनम् । संवत्सर शब्देन संवत्सराभिमानी प्रजापतिर्वा विवक्षितः । द्यौः पृष्ठम् – ऊर्ध्वत्वसामान्यात् । अन्तरिक्षमुदरम् – अवकाशत्वसाम्यात् । पृथिवी पाजस्यम् । भुजान्तरामित्यर्थः । द्यौः पृष्ठमन्तरिक्षमुदरमियमुर (बृ.उ.१-२-३) इत्यग्नेरुरसि पृथिवीदृष्टि-दर्शनात् । दिश: पार्श्वे – दिशः दक्षिणोत्तरत्वाद्याश्रयत्वात्पार्श्वे । अवान्तरदिशः पर्शवः वायव्याद्या अवान्तरदिशः पार्श्वास्थीनी । ऋतवोऽङ्गानि – स्पष्टोऽर्थः ।
मासाश्चार्धमासाश्च पर्वाणि इति । पर्वाणि अङ्गसन्धयः । समविभागसाम्यात् । अहोरात्राणि प्रतिष्ठा – पादा इत्यर्थः । नक्षत्राण्यस्थीनि – शुक्लत्वसाम्यात् । नभो मांसानि अस्थ्यात्मकनक्षत्रसंपृक्तत्वात् । उवध्यं सिकताः अर्धजीर्णं घासाद्यशनं सिकताः । विश्लिष्टावयवसाम्यात् । सिन्धवो गुदाः । गुदा इति अवयवाभिप्रायेण बहुवचननिर्देशः । सिन्धवः – नद्य इत्यर्थः । यकृच्च क्लोमानश्च पर्वता: हृदयस्याधःप्रदेशवर्तिदक्षिणोत्तरमांसखण्डौ यकृत्क्लोमशब्दवाच्यौ । क्लोमानः – इति एकस्मिन् व्यत्ययाद्बहुवचनम् । पर्वता: – काठिन्योन्नतत्वपिण्डाकारत्वसाम्यात् । ओषधयश्च वनस्पतयश्च लोमानि – सूक्ष्मत्वसाम्यात् । उद्यन् पूर्वार्धः सूर्य इति शेषः । उद्यन् सूर्यः शरीरपूर्वार्ध इत्यर्थः । निम्लोचन् जघनार्ध: । निम्लोचन् – अस्तं गच्छन् सूर्यः अपरार्धः, पूर्वापरत्व-साम्यात् । यद्विजृम्भते तद्विद्योतते – मुखव्यादानमेवान्तरप्रकाशहेतुत्वात् विद्युत् । यद्विधूनुते तत्स्तनयति – रोमविधूननमेव सशब्दत्वात् मेघनिर्घोषः । यन्मेहति तद्वर्षति मूत्रोत्सर्जनमेव सेचनत्वसाम्यावर्षणम् । वागेवास्य वाक् – नात्र कल्पनापेक्षा ।। १ ।।
[अश्चानुबन्धिषु दृष्टिः]
अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत । तस्य पूर्वे समुद्रे योनिः। रात्रिरेनं पश्चान्महिमान्वजायत । तस्यापरे समुद्रे योनिः । एतौ वा अश्वं महिमानावभितः संबभूवतुः। हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान् । समुद्र एवास्य बन्धुः समुद्रो योनिः।। २ ।।
॥ इति तृतीयाध्याये प्रथमं ब्राह्मणम् ।।
प्र. – अहर्वा अश्वमिति– अश्वस्याग्रतः पृष्ठतश्च सौवर्णराजतौ महिमाख्यौ ग्रहौ पात्रविशेषौ स्तः । तयोर्मध्ये अश्वं पुरस्तात्–अश्वस्य पुरस्तात् यो महिमा महिमाख्यो ग्रहविशेषः । सः अहरेव अन्वजायत -समपद्यत । तत्राहर्भावना कर्तव्येति यावत् । अह्न इव सौवर्णपात्रस्यापि पीतप्रभत्वात् । तस्य पूर्वे समुद्रे योनि: – पूर्वः समुद्रो योनि: – आसादनस्थानम् । सौवर्णपात्रग्रहासादनस्थाने पूर्वसमुद्रबुद्धिः कार्येत्यर्थः । यद्वा – महिमान्वजायत इत्यत्रानुर्लक्षणार्थः । कर्मप्रवचनीयत्वात्तद्योगे अश्वमिति द्वितीया । रात्रिरेनम् इति । एनम् – अस्य अश्वस्य पश्चाद्यो राजतो महिमाख्यो ग्रहविशेषः । सः रात्रिरन्वजायत – रात्रिस्समपद्यतेत्यर्थः । चन्द्रिकाधवलत्वसाम्यात् । तस्यापरे समुद्रे योनि: – पश्चिमस्समुद्रः तदासादनस्थानमित्यर्थः । एतौ वा इति – एतौ वै महिमाख्यौ ग्रहौ अश्वस्य पूर्वोत्तरपार्श्वयोः प्रतिष्ठितावित्यर्थः । अतः सर्वतो महिमशाल्यश्व इति स्तुत्वा हयवाज्यर्वाश्वरूपैश्चितुर्भिर्जातिविशेषैर्देवगन्धर्वासुरमनुष्यवोढृत्वेनाश्वं स्तौति – हयो भूत्वा देवानवहत् इत्यादिना । समुद्र एवास्य बन्धुः इति । अस्य अश्वस्य समुद्रो बन्धुः । तत्र बन्धुदृष्टिः कर्तव्येत्यर्थः । तत्र हेतुमाह – समुद्रो योनिः इति – उच्चैश्श्रवसोऽश्वस्य वारुणाश्वानां च तस्मादुत्पत्तिदर्शनात् समुद्रो योनित्वेन ध्यातव्य इत्यर्थः ।। २ ।।
।। इति तृतीयाध्याय प्रथमब्राह्मण प्रकाशिका ।।
तृतीयाध्याये द्वितीयं ब्राह्मणम्
अश्वमेधब्राह्मणम्
[अश्वमेधादौ दृष्टिविधानाय मृत्युकर्तृकसृष्टिवर्णनम्]
नैवेह किञ्चनाग्र आसीत् । मृत्युनैवेदमावृतमासीदशनायया । अशनाया हि मृत्युः। तन्मनोऽकुरुत आत्मन्वी स्यामिति । सोऽर्चनचरत् । तस्यार्चत आपोऽजायन्त । अर्चते वै मे कमभूदिति । तदेवार्कस्यार्कत्वम् । कँ ह वा अस्मै भवति, य एवमेतदर्कस्यात्वं वेद ।। १ ।।
प्र. अश्वमेधाङ्गभूतचित्याग्नौ तदङ्गभूतसंवत्सरकाले च ब्रह्मदृष्टिं विधित्सन् प्रथमतो अग्नेरुत्पत्तिप्रकारमाह – नैवेह किञ्चनाग्र आसीत् इत्यादिना । केचित्तु नात्र दृष्टिर्विधीयते, अपि तु तात्त्विकतदात्मकत्वानुसन्धानसिद्धये परमात्मन उत्पत्त्यादिकमाम्नायते इत्याहुः । नोभयथापि विरोधं पश्यामः । इह – ‘जगति’ किञ्चन – परिदृश्यमानं स्थूलावस्थं वस्तु अग्रे – सृष्टेः प्राक् नैवासीत् । अत्र अग्रे नैवासीत् इत्यनेन न शून्यत्वमुच्यते, असत्कार्यानभ्युपगमात् तथा हि सति शशविषाणादेर प्युत्पत्तिप्रसङ्गात् । घट: प्राक्नैवासीदिति प्रतीतेर्घटत्वावस्थापूर्वभाविपिण्डत्वावस्थाविषयकत्वदर्शनेन इहापि, ‘नाग्र आसीत्’ इति प्रतीतेः परिदृश्यमानस्थूलावस्थाविरोध्यवस्थावत्त्वमेवार्थः । ननु परिदृश्यमानमिदं जगत् दृश्यमानस्थूलावस्थाविरोधिनी कामवस्थामभजदित्यय आह मृत्युनैवेदमावृत–मासीदशनायया इति । कारणवाक्यत्वादत्र मृत्युशब्देन मृत्युसंज्ञकाचिच्छरीरपरमात्मोच्यते । यस्याव्यक्तं शरीरं, यस्याक्षरं शरीरं, यस्य मृत्युश्शरीरं, एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण: (सुबा.उ.७) इति सुबालश्रुतौ मृत्युशब्दस्य तमसि प्रयुक्तत्वात् । अत्र अशनाया नाम सञ्जिहीर्षा । अशनायोदन्याधनाया बुभुक्षापिपासागर्धेषु (पा.सू.७.४.३४) इति बुभुक्षार्थे निपातितोऽशनायाशब्दः सञ्जिही लक्षयित्वा तद्वतिलक्षितलक्षणया वर्तते ।
ततश्चायमर्थः – सञ्जिहीर्षुणा तमश्शरीरेण परमात्मना परिदृश्यमानं स्थूलावस्थं जगत् आवृतमासीत् – तिरोहितस्थूलावस्थमासीत् । स्थूलावस्थां विहाय तमश्शरीरकपरमात्मा-वस्थमासीदित्यर्थः । अशनायाशब्दस्य मृत्युशब्दिते परमात्मनि प्रयोगे हेतुमाह – अशनाया हि मृत्युः इति । लोके बुभुक्षाविशिष्टो हि पुरुषो जन्तून् हिनस्ति । अतो बुभुक्षायाः मरणहेतुत्वेन मृत्युत्वं प्रसिद्धमित्यर्थः । यद्यपि तत्रत्याशनायामृत्युशब्दयोर्भिन्नत्वात् प्रकृते मृत्युशब्दप्रतिपाद्यस्य तमश्शरीरकपरमात्मनः सञ्जिहीर्षा वाच्यशनायाशब्दप्रयोगविषयतायां न तदुपपादकम्, तथाप्येकशब्दरूषितत्वेनार्थद्वयैकीकरणेन श्रुतिप्रवृत्तिरुपपद्यत इति द्रष्टव्यम् । तन्मनोऽकुरुतात्मन्वी स्यामिति इति । तदिति लिङ्गव्यत्ययः छान्दसः । सः – मृत्युः, तमश्शरीरकः परमात्मा, अहं आत्मन्वी – शरीरीचेतनाचेतनप्रपञ्चशरीरकस्यामिति सङ्कल्प्यमनः कृतवानित्यर्थः । न च साञ्जिहीर्षोः सिसृक्षाकार्यमनस्सृष्टिविरुद्धेति वाच्यम् । सृष्ट्वा संहरिष्यामीत्येवंभूतसृष्टिसंहारलक्षणविहारेच्छया एव अशनाया शब्देन विवक्षितत्वात् । अत्र मनश्शब्देन ‘मनोमहान्मतिब्रह्म’ (अ.को.) इति नामपाठात् महत्तत्वमुच्यते । तच्चोप-लक्षणमहङ्करादिभूतावधिकसृष्टेरपि । मनश्शब्दस्यान्तःकरणार्थकत्वेपि मनश्शब्दः स्वपूर्वभावि महदादीनामप्युपलक्षकः, महदादिसृष्ट्यभावे मनस्सृष्ट्यभावात् । अन्यत्सर्वं पूर्ववत् । आत्मशब्दात् ‘तदस्यास्तीत्यस्मिन्’ (पा.सू.५.२.९४) इति अर्थे विनिप्रत्ययः छान्दसः । सोर्चन्नचरत् इति । अर्चन् – प्रीणयन् । आत्मानमिति शेषः । कर्मकारकञ्च स्वयमेव, अश्रुताध्याहारादपि प्रकृतस्यैव कर्मत्वोपपत्तेः । अर्चन् इत्यत्र लक्षणहेत्वोः क्रियायाः (पा.सू.३-२-१२६) इति हेतौ शतृप्रत्ययः । जगद्व्यापारलीलया स्वात्मानं प्रीणयितुमचरदित्यर्थः । उक्तं हि भगवता बादरायणेन जगत्सृष्टेर्लीलारस एव प्रयोजनमिति । तथाहि – द्वितीयाध्याये स्मृतिपादे – जन्मजरामरणादिदुःखबहुळं जगत्सृजतोऽ’वाप्त-समस्तकामस्य परमात्मनः प्रवृत्तेः स्वार्थत्वपरार्थत्वासम्भवात् , प्रयोजनानुद्देशेन प्रेक्षावत्प्रवृत्तेर-योगात्, प्रवृत्तिर्नोपपद्यते इति न प्रयोजनवत्त्वात् (ब्र.सू.२-१-३२) इति सूत्रेण पूर्वपक्षं कृत्वा, लोकवत्तु लीला कैवल्यम् (ब्र.सू.२-१-३३) वैषम्यनघृण्ये न सापेक्षत्वात् तथा हि दर्शयति (ब्र.सू.२-१-३४) न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू.२-१-३५) सर्वधर्मोपपत्तेश्च (ब्र.सू.२-१-३६) इति चतुर्भिस्सूत्रैः सिद्धान्तितम् ।
तेषां चायमर्थः यथा महाराजस्यापि केवललीलप्रयोजनाः ‘कन्दुकादिक्रीडाः दृष्टाः । एवं परमात्मनोऽपि केवललीलार्था जगत्सृष्ट्यादि प्रवृत्तिरिति लोकवत् इति सूत्रस्यार्थः । ननु विषमं देवमनुष्यतिर्यगादि सृजतः परमात्मनो वैषम्यं प्रसजेत्, अतिघोरनरकादि-सृष्ट्या निर्घृणत्वञ्च प्रसजेदिति चेत् – न । तत्तत्कर्मानुसारेण कर्मसापेक्षतया सृजतो न पक्षपातादिप्रसक्तिः । साधुकारी साधुर्भवति पापकारी पापो भवति । (बृ.उ.६-४-५) ‘निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः’ ।। (वि.पु.१-४-५१) निमित्तमात्रं साधारणमित्यर्थः । सृज्यशक्तयः – कर्माणीत्यर्थः – इति श्रुतिस्मृतिलक्षणं प्रमाणं दर्शयति । अतो वैषम्यनैर्घृण्ये नेति वैषम्यनैर्घृण्यसूत्रस्यार्थः ।
ननु प्रळये जीवस्य ब्रह्मणा । अविभागेन तदाश्रितानां च कर्मणामभावात् सर्गाद्यसृष्टौ स्वेच्छया तरतमभावापन्नं जगत्सृजतो वैषम्यादिकमपरिहार्यमिति, न कर्माविभागात् इति सूत्रखण्डेन परिचोद्य, नानादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू.२-१-३५) इति सूत्रखण्डेन परिहृतम् । जीवानामनादित्वात्, तदानीं कर्मणामपि सत्वात् न वैषम्यादिप्रसङ्गः । न च जीवानामनादित्वे प्रळये, सदेव सोम्येदमग्र आसीत् (छां.उ.६-२-१) इति अविभागो नोपपद्यते इति वाच्यम् – अविभक्तनामरूपतया भेदकाकारास्फुरणमात्रेणाविभाग-व्यवहारोपपत्तेः । तदनादित्वं च श्रुतिस्मृतिषूपलभ्यते न जायते म्रियते वा विपश्चित् (कठ.उ.२-१-१८) प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि (भ.गी.१३-१९) इति इति सूत्रार्थः । सर्वधर्मोपपत्तेश्च (ब्र.सू.२-१-३६) प्रधानादिष्वसम्भावितानामपि सृष्ट्युपयुक्त-सार्वज्ञ्यसर्वशक्तित्वादिसकलधर्माणां परमात्मन्येव उपपत्तेश्च परमात्मैव जगत्कारणमिति सृष्टिीलाप्रयोजनत्वं स्थितम् ।
अतः सोऽर्चन्नचरत् इत्यस्योक्त एवार्थः । तस्यार्चत आपोऽजायन्त । अर्चत: प्रीणनाय प्रवृत्तस्य तस्य – परमात्मनः सकाशादाप उत्पन्ना इत्यर्थः । तत्र चापां प्राधान्यात् अप्छब्दप्रयोगः । अपां सृष्टिश्च स्रष्टुर्नारायणत्वे लिङ्गम् । एको ह वै नारायणः (महा.ना.१-१) इत्युपक्रम्य ता इमा आपः इति श्रुतेः । अर्चते वै मे कमभूत् इति वै शब्दोऽवधारणे । अर्चनप्रवृत्ताय मे – मह्यं कम् – जलं अभूदिति स परमात्मा अमन्यतेत्यर्थः । तदेवार्कस्यार्कत्वम् इति। यस्माद्धेतोरेवममन्यत, अत एतत्तदेवार्क शब्दितस्य परमात्मनः अर्कशब्दप्रवृत्तौ निमित्तमित्यर्थः । अर्कशब्दितत्त्वं च परमात्मनः अर्को वाजसनिशृङ्गी (स.ना.८५) इति भगवन्नामसहस्रपाठादिति द्रष्टव्यम् । एतत्सर्वं सर्व-व्याख्यानाधिकरणे व्यासार्यै: स्पष्टमुक्तम् । नामनिरुक्तिज्ञानस्य फलमाह – कं ह वा अस्मै भवति इति । कं – सुखं, हः – प्रसिद्धौ । वै शब्दोऽवधारणे । सुखमेवेत्यर्थः । शिष्टं स्पष्टम् ।। १ ।।
[चित्याग्निसृष्टि:]
आपो वा अर्कः । तद् यदपां शर आसीत् तन् समहन्यत । सा पृथिव्य-भवत् । तस्यामश्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजोरसं निरवर्तताग्नि: ॥२॥
प्र. – अण्डस्य भगवदात्मकभूतपरिणामत्वं वक्तुम् अपां भगवदात्मकत्वमाह –आपो वा अर्क इति । आप: – अर्कशब्दित भगवदात्मिका इत्यर्थः । तद्यदपां शर आसीत् इति । दध्नोमण्डांश इव भूतान्तरसंसृष्टानामपां यः शरः – सारांश आसीत, तत् समहन्यत – बाह्येन तेजसा पच्यमानं सत् सङ्घातभावमापद्यत । सा पृथिव्यभवत् -तत इति शेषः । ततः – संहन्यमानेभ्यो भूतेभ्यः सा पृथिवी – अण्डरूपा पृथिव्यभवत् ।
ता – आप: तद्धिरण्मयमण्डमभवत् (महो.१-४) इति महोपनिषदैकार्यात् । तस्यामश्राम्यत् इति । तस्यां – अण्डाकारेण परिणतायां पृथिव्यां सत्यामिति शेषः । मृत्युशब्दितः परमात्मा । अश्राम्यत् अत्र ‘श्रान्तिशब्द: करणलक्षणया यत्नपरः । अयततेत्यर्थः । तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः इति। तस्य -परमात्मन: श्रान्तस्य– कृतयत्नस्य, तप्तस्य – सृज्यवर्गपर्यालोचनवतः शरीरात् तेजोरसः । तेजस्सारभूतोऽग्नि: निरवर्तत । एवमेव व्यासार्यैरुक्तम् ।। २ ।।
[चित्याग्नयङ्गेषु दृष्टि:]
स त्रेधात्मानं व्याकुरुत आदित्यं तृतीयं वायुं तृतीयम् । स एष प्राणस्रोधा विहितः । तस्य प्राची दिक् शिरोऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक् पुच्छमसौ चासौ च सक्थ्यौ । दक्षिणा चोदीची च पार्श्वे । द्यौः पृष्टमन्त–रिक्षमुदरमियमुरः । स एषोऽप्सु प्रतिष्ठितः । यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ।। ३ ।।
प्र. – स त्रेधात्मानं व्याकुरुत इति । सः – अग्निरात्मानं त्रेधा व्यभजदित्यर्थः । आदित्यं तृतीयं वायुं तृतीयम् इति । अग्न्यादित्यवाय्वात्मना त्रेधा विभक्त इत्यर्थः । त्रयाणां मध्ये चित्याग्निः अंशी; वाय्वादित्यावंशाविति भावः । अग्निवाय्वपेक्षया आदित्यस्य तृतीयत्वम् । अग्न्यादित्यापेक्षया वायोस्तृतीयत्वम् । स एष प्राणस्रोधा विहितः इति । यः त्रेधा विभक्त: अग्निवाय्वादित्यात्मना – वाय्वादित्यांशको यः एषोग्निः – स एष प्राण: – परमात्मेत्यर्थः । तत्र तद्दृष्टिः कर्तव्येति यावत् । स एषोग्निरर्क इति उत्तरत्राग्नौ अर्कशब्दित परमात्मा ध्यानस्य वक्ष्यमाणत्वात् इति द्रष्टव्यम् । तस्य प्राची दिक् शिर इति । तस्य – अग्नेः शिर आदौ प्रागादि बुद्धिः कर्तव्येत्यर्थः । शिरसः प्राचीनसम्बन्धित्वात्तत्र तप्टुद्धिः कर्तव्या । एवमुत्तरत्रापि द्रष्टव्यम् । असौ चासौ चेर्मौ इति । ‘ईशान्याग्नेयौ’ । ईर्मौ – बाहू । अथास्य प्रतीची दिक्पुच्छम् । पुच्छे प्रतीचित्वबुद्धिः कर्तव्या । तत्सम्बन्धित्वादिति भावः । असौ चासौ च सक्थ्यौ इति । वायव्यनैऋत्यौ सक्थिनी – ऊरु इति यावत् । सक्थ्याविति छान्दसः प्रयोगः । दक्षिणा चोदीची च पार्श्वे । दक्षिणोत्तरपार्श्वे अपि दक्षिणोत्तरदिग्द्वयम् । ‘तद्दिग्वर्तित्वादिति भावः। द्यौः इत्यादि । इयं – पृथिवीत्यर्थः । शिष्टं स्पष्टम् । स एषोप्सु प्रतिष्ठित इति । स एषः – अग्निः । अप्सु प्रतिष्ठितत्वं च उक्तरीत्या तन्मूलोत्पत्तिकत्वादिति द्रष्टव्यम् । यत्र क्व चैति तदेव प्रतितिष्ठति य एवं विद्वान् इति । एवं विद्वान् यत्र क्व च – प्रदेशे एति – गच्छति । तदेव – ‘तत्रैव प्रतितिष्ठति – प्रतिष्ठां लभत इत्यर्थः ।। ३ ।।
[मृत्युकर्तृकसंवत्सरसृष्टिः]
सोऽकामयत द्वितीयो म आत्मा जायतेति । स मनसा वाचं मिथुनँ समभवदशनाया मृत्युः । तद्यद्रेत आसीत्, स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर आस । तमेतावन्तं कालमबिभः, यावान् संवत्सरः । तमेतावत: कालस्य परस्तादसृजत । तं जातमभिव्याददात् । स भाणमकरोत् सैव वागभवत् ।। ४ ।।
प्र. – एवमर्कप्राणशब्दितपरमात्मदृष्टिविशिष्टमश्वमेधाङ्गभूतचित्याग्निमुत्पत्त्यादि-प्रकारोपेतमुपवर्ण्य अश्वमेधाङ्गभूतसंवत्सरकालं मृत्युशब्दितपरमात्मदृष्टिविशिष्टं प्रतिपादयितुमुपक्रमते – सोऽकामयत इत्यादिना । सः अशनाया मृत्युः – पूर्वोक्तः सञ्जिहीर्षुः मृत्युशब्दितः परमात्मा पूर्वसृष्टाग्निरूपात्मापेक्षया द्वितीय आत्मा आत्मान्तरं मे जायतामिति सङ्कल्पं कृतवान् । सङ्कल्प्य च त्रयीलक्षणां वाचं मनसा मिथुनं द्वन्द्वभावं समभवत् – संभावितवान् । स्रक्ष्यमाणप्रपञ्चपरिज्ञानाय । नामरूपञ्च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः ।। (वि.पु.१-५-६४) इति न्यायेन साक्षाद्वा चतुर्मुखशरीरकतया वा त्रयीं पर्यालोचितवान् इत्यर्थः । तद्यद्रेत आसीत्स संवत्सरो भवत् इति । मनसा त्रयी पर्यालोचनलक्षणसंभोगे यद्रेत: – बीजम् । कारणमुत्पन्नं इदमित्थं कर्तव्यमिति निश्चयात्मकम् । तेन संवत्सरः – संवत्सरलक्षण-कालशरीरकः संवत्सरो विश्वकर्मा, संवत्सरः प्रजापतिः, प्रजापतिः संवत्सरो महान् कः? इति संवत्सराभिमानितया प्रसिद्धः प्रजापतिः द्वितीय आत्मा अभवदित्यर्थः । यद्यपि संवत्सरकालस्यैवाश्वमेधाङ्गत्वम् न तदभिमानि प्रजापतेः । तथापि तयोरभेदोपचारेण श्रुतिप्रवृत्त्युपपत्तिरिति द्रष्टव्यम् । न ह पुरा ततस्संवत्सर आस इति । ततः . तस्मादिदं इत्यं कर्तव्यमिति निश्चयरूपात् रेतश्शब्दितात् कारणात् पुरा – प्रथमतः – सद्य एवेति यावत् । सद्य एव संवत्सररूप आत्मा न बभूव । द्वादशमासपरिमाणस्य संवत्सरस्य सद्यो निष्पत्त्यसम्भवादिति भावः । तमेतावन्तं कालमबिभ इति । यावान् संवत्सरः – यावता कालेन संवत्सरः पूर्णोऽभवत् । तावन्तं कालं रेतश्शब्दितकारणाकारेण अबिभः – भरणं कृतवानित्यर्थः । अबिभ इति “भृञ् भरणे’ (धा.पा.८९८) इति धातोर्लङि रूपम् । तमेतावत: कालस्य परस्तादसृजत इति । एतावत: कालस्य परस्तात् । द्वादशसु मासेषु पूर्णेषु संवत्सररूपं द्वितीयमात्मानम् असृजतेत्यर्थः । तं जातमभिव्याददात् इति । जातं तं संवत्सरं अभि – अभिमुखीकृत्य, व्याददात् – विशिष्य पुत्रत्वेन परिजग्राहेत्यर्थः । स भाणमकरोत् इति । सः – संवत्सर आत्मा बालस्वभावत्वात् भाणिति शब्दमकरोत् । सैव वागभवत् – भूरादिव्याहतिरूपा वागभवदित्यर्थः ।। ४ ।।
[संवत्सरकर्तृक सर्वसृष्टिः]
स ऐक्षत, यदि वा इममभिमँस्ये कनीयोऽन्नं करिष्य इति । स तया वाचा तेनात्मना इदं सर्वमसृजत, यदिदं किञ्चऋचो यजूँषि सामानि च्छन्दाँसि यज्ञान् प्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति तददितेरदि–तित्वम् । सर्वस्यैतस्यात्ता भवति, सर्वमस्यान्नं भवति, य एवमेतददितेरदितित्वं वेद ।। ५।।
प्र. – स ऐक्षत इत्यादि । यद्यहमिमं संवत्सरं सृष्ट्वा आत्मानं कृतकृत्यतया अभिमँस्ये, ततः अन्नं कनीयः करिष्ये – अन्नमल्पीय एव स्यादिति यावत् । अत्तव्यस्य भूयसोऽर्थस्याभावात् इति सः मृत्युः ऐक्षत – अचिन्तयदित्यर्थः । स तया इति । सः -मृत्युशब्दितः परमात्मा, तया वाचा संवत्सरनिष्पादितया भूरादिव्याहृतिलक्षणया वाचा, तेनात्मना – संवत्सररूपेणात्मना च निमित्तभूतेन, यदिदं किञ्च तत्सर्वमसृजत इत्यर्थः । स भूरिति व्याहरत् (ते.ब्रा.२-२-४) आदी वेदमयी दिव्या यतस्सर्वाः प्रसूतयः इत्यादिना भूरादिशब्दस्य सृज्यमान प्रपञ्चहेतुत्वगमनात्, संवत्सराख्यकालस्यापि कार्यमात्रहेतुत्वाचा इति भावः । यदिदं किञ्च इत्येतत्प्रपञ्चयति ऋचो यजूँषि इत्यादि । छन्दांसि – गायत्र्यादीनि शिष्टं स्पष्टम् । ‘ननु त्रय्या’ मिथुनीभूतया कथं ऋगादीनां सृष्टिः, तेषां तदभिन्नत्वादिति चेन्न । कर्मसु विनियुक्तत्वावस्थाविशिष्टतया ऋगादीनामुत्पत्तिसम्भवात् । सर्वप्रत्यक्षगोचरतया वा । स यद्यत् इति । सः – मृत्युः परमात्मा यद्यदेवासृजत – तत्तत् सृष्टं सर्वं, अत्तुं . संहर्तुं अध्रियत – ऐच्छदित्यर्थः । सर्वं वा अत्तीति तददितेरदितित्वाम् इति । अदितेः . अदितिशब्दवाच्यस्य परमात्मनः सर्वात्तृत्वत्वादेवादितिशब्दप्रवृत्तिनिमित्तात् अदितित्व-मित्यर्थः । नामनिरुक्तज्ञानस्य फलमाह – सर्वस्य इति । अत्ता भवति – अनुभविता भवति । अन्नं भवति अनुभाव्यं भवति । न चैकस्य भोक्तृत्वोक्तौ तत्प्रतिसम्बन्धिन इतरस्य भोग्यत्वं सिद्धमिति तत्कथनवैयर्थ्यं शङ्कनीयम् । तद्दाढ्यार्थतया तत्प्रपञ्चनरूपत्वेनादोषात् ।। ५ ।।
[अश्वस्य सृष्टिप्रकारं अश्वमेधनिर्वचनं अश्वमेधे आदित्यदृष्टिश्च]
सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत्। स तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशोवीर्यमुदक्रामत् । प्राणा वै यशोवीर्यम् । तत् प्राणेषुक्रान्तेषु शरीरं श्वयितुमध्रियत । तस्य शरीर एव मनः आसीत् ।। ६ ।।
प्र. एवमश्वमेधाङ्गभूतयोरग्निसंवत्सरयोः सृष्टिप्रकारादिकं उक्त्वा अश्वस्य सृष्टि प्रकारं, अश्वमेधनिर्वचनं, अश्वमेधे आदित्यदृष्टिं च वक्तुमारभते – सोऽकामयत इति । सः प्रजापतिशरीरकः परमात्मा अकामयत । किमति? भूयसा महता यज्ञेन परमात्मानं भूयः – मुहुर्मुहुः यजेयेति । यद्वा – भूयश्शब्दो भूमवाची । भूमानं परमात्मानं यजेयेतीत्यर्थः । सोऽश्राम्यत् इति महायज्ञसामग्र्यसम्पत्त्या श्रान्त इवाभवत् । स तपोऽतप्यत इति । परमात्मानमुद्दिश्य तपश्चचारेत्यर्थः । तस्य श्रान्तस्य इति । यशश्च वीर्यं च यशोवीर्यम् । यशोवीर्यशब्दार्थमेवाह – प्राणा वे यशोवीर्यम् इति । यशसो वीर्यस्य च प्राणायत्तत्वात् प्राणा एव यशोवीर्यम् इत्यर्थः । ततश्च यशोवीर्यमुदक्रामत् इत्यस्य प्राणा उदक्रामन्नित्यर्थः । तत्प्राणेषूत्क्रान्तेषु इति । प्राणेषु उत्क्रन्तेषु सत्सु तत् . प्रजापतेश्शरीरं श्वयितुमध्रियत – उच्छूनतां गन्तुं प्रवृत्तम् । तस्य शरीर एव मन आसीत् इति । तस्य – प्रजापतेः ‘शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन आसीत् । मया त्यक्तं स्थूलं शरीरमच्छूनं हेयमासीदिति शरीरविषय एव चिन्ता सर्वदा संवृता इत्यर्थः ।।६।।
[संवत्सरेण यज्ञार्थं स्वशारीरस्याश्वीकरणम्]
सोऽकामयत मेध्यं म इदँ स्यात्, आत्मन्व्यनेन स्यामिति । ततोऽश्वः समभवत् । यदश्वत् तन्मेध्यमभूदिति । तदेवाश्वमेघस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद, य एनमेवं वेद । तमनवरुध्यैवामन्यत । तें संवत्सरस्य परस्तादात्मन आलभत। पशून् देवताभ्यः प्रत्यौहत् । तस्मात् सार्वदैवत्यं प्रोक्षितं प्राजापत्य–मालभन्ते। एष वा अश्वमेधो य एष तपतिः तस्य संवत्सर आत्मा । अयमग्निरर्कः, तस्येमे लोका आत्मानः । तावेतावर्काश्वमेधो । सो पुनरेकैव देवता भवति मुत्युरेव । अप पुनर्मृत्युं जयति, नैनं मृत्युराप्नोति, मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ।। ७ ।।
।। इति तृतीयाध्याये द्वितीयं ब्राह्मणम् ।।
प्र. – सोऽकामयत इति । एवं चिन्ताविशिष्टः प्रजापति: मे – मदीयं इदं – शरीरं मेध्यं – यज्ञार्हं स्यात् । अनेन च शरीरेणाहं आत्मन्वी – शरीरी स्यामित्येवं अकामयत -समकल्पयत् । एवं सङ्कल्प्य पुनरपि सः प्राणस्सन् प्रजापतिः ‘तत्र प्रविष्ट इति भावः । ततोश्वस्समभवत् इति । ततः – प्रजापतिना पुनरनुप्रविष्टात् स्थूलशरीरात् उपादानभूता-दश्वरूपस्सन् प्रजापतिरुत्पन्न इत्यर्थः । यदश्वयत् इत्यादि । यत् – यस्मात्कारणात् प्रजापते-श्शरीरमुत्क्रान्तेषु प्राणेषु अश्वयत् – उच्छूनं, तत एव मेध्यञ्चाभवत्, तदेव पश्चादश्वरूपं मेध्यमभूत् । तत एवास्याश्वरूपस्य प्रजापतेरश्वमेधत्वम् । अश्वयदित्यश्वः । मेधार्हत्वान् मेधः । यद्यप्यश्वमेधशब्दो यागनाम, तथापि यागद्रव्ययोरभेदोपचारात् तथोक्तिरुपपद्यत इति द्रष्टव्यम् । यागपरत्वेऽपि न दोषः – यज्ञार्थकमेधशब्दस्वारस्यात् इति वदन्ति । एष ह वा इत्यादि । य एनम् – पशु एवं यथोक्तनिर्वचनं वेद – स एवाश्वमेधवेत्ता, नान्य इत्यर्थः । तमनवरुध्यैवामन्यत इति । तम् – अश्वरूप पशुं अनवरुध्य – अवरोधनमकृत्वा संवत्सरमात्रमुत्सृष्टबन्धनमेव कृत्वा, परमात्मानमनेन यक्ष्य इत्यवमन्यत इत्यर्थः । तं संवत्सरस्य परस्तादात्मन आलभत पशून् देवताभ्यः प्रत्यौहत् इति । संवत्सरस्य परस्तात् – पूर्णं संवत्सरे ततः परं प्रजापतिः, आत्मने स्वान्तर्यामिणे परमात्मने तम् – अश्वं, आलभत – अश्वालम्भं कृतवान् । ग्राम्यानारण्यानप्यन्यान् पशून् अग्नीन्द्रादिभ्यः देवताभ्यः प्रत्यौहत् – ‘परि विभज्यालभतेत्यर्थः । तस्मात्सर्वदैवत्यं प्रोक्षितं प्राजापत्य–मालभन्ते इति । तस्माद्धेतोरिदानीन्तना अपि यजमानाः सर्वदेवतासमष्टिभूतप्रजापतिरूप परमात्मदेवताकत्वेन ‘सर्वदैवयं प्रोक्षणपर्यग्निकरणादि संस्कृतं प्रजापतिदेवताकमश्वम् आलभन्ते इत्यर्थः ।
एष वा अश्वमेधो य एष तपति इति । तपत आदित्यस्य दृष्टिरश्वमेधे कर्तव्या इत्यर्थः । तत्र युक्तिमाह – तस्य संवत्सर आत्मा । तस्य – अश्वमेधशब्दितस्य संवत्सर आत्मा । अश्वस्य मेध्यस्य (बृ.उ.३-१-१) इति पूर्वब्राह्मणे उक्तत्वात् संवत्सरात्मकत्वं सिद्धम् । संवत्सरादिकालचक्रप्रवर्तकस्यादित्यस्य संवत्सरात्मकत्वात् संवत्सरात्मके मेध्येऽश्वे संवत्सरात्मकादित्याध्यासो युज्यत इत्यर्थः । अयमग्निरर्क इति । अयं चित्याग्निः अर्कः – पूर्वमर्कशब्दनिर्दिष्टः परमात्मेत्यर्थः । तत्र तदध्यासः कर्तव्य इति यावत् । तत्र युक्तिंं वक्ति – तस्येमे लोका आत्मान इति । तस्य अध्यस्यमानस्य परमात्मनः स्वर्गाद्या इमे लोका आत्मान: – शरीरभूता इत्यर्थः । द्यौः पृष्ठमन्तरिक्षमुदरम् इत्यादिना चित्याग्नेः सर्वलोकशरीरकत्वस्य प्रतिपादितत्वात् धुलोकादिशरीरके चित्याग्नौ प्रतीके तादृशस्य परमात्मनोऽध्यसनम्, अश्वस्य च ‘संवत्सर आत्म’ इत्युक्तत्वात् तस्मिन् अश्वमेधे संवत्सरात्मकादित्याध्यसनं च युज्यत इति भावः । तावेतावर्काश्चमेघौ इति ।
अर्कशब्देन ‘अयमग्निरर्क’ इत्यर्कशब्दितश्चित्याग्निरुच्यते । तावेतौ – चित्याग्न्यश्वमेधौ प्रागुक्तेदृशमहिमशालिनावित्यर्थः । सो पुनरेकैव देवता भवति इति । उ शब्दोऽव-धारणार्थः । अग्न्यश्वमेधाभ्यामेतादृशदृष्टिविशिष्टाभ्यां प्रीणनीया देवतैकैव भवतीत्यर्थः । सा केत्याशङ्क्याह – मृत्युरेव इति । परमात्मैवैत्यर्थः । यद्वा – तावेतावग्न्यश्वमेधौ अप्ययकाले मृत्युशब्दितः परमात्मैवेत्यर्थः । एतादृशानुसन्धानविशिष्टाग्न्यश्वमेधयोः प्रयोजनमाह – अपपुनर्मृत्युं जयति इति । अपमृत्युं जयति इत्यर्थः । नैनं मृत्युराप्नोति इति । एनं संसारो नाप्नोतीत्यर्थः ।
ननु ब्रह्मज्ञानसाध्यायाः संसारनिवृत्तेः कथं दृष्टिविशिष्टचित्याग्न्यश्वमेध-साध्यत्वमित्यत्राह – मृत्युरस्यात्मा भवति इति । मृत्युः – परमात्मा अस्य – अश्वमेधानुष्ठातुः आत्मा भवति – आत्मत्वेनावगतो भवतीत्यर्थः । नित्यसिद्धस्यात्मत्वस्यासाध्यत्वात् । ततश्चाग्न्यश्वयोर्ब्रह्मात्मकत्वावगमद्वारा संसारनिवृत्तिहेतुत्वमुपपद्यत इति भावः । एतासां देवतानाम् इति । अग्नीन्द्रादिसायुज्यकामस्य तदपि भवतीत्यर्थः ।। ७ ।।
।। इति तृतीयाध्याय द्वितीयब्राह्मण प्रकाशिका ।।
तृतीयाध्याये तृतीयं ब्राह्मणम्
उद्गीथं ब्राह्मणम्
[मुख्यप्राणदृष्टिविधानाय देवासुरस्पर्धाख्यायिका]
द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एवं देवाः, ज्यायसा असुराः । स एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर्हन्ताऽसुरान् यज्ञ उद्गीथेनात्यया इति ॥१॥
प्र. – अथ कर्माङ्गभूतोद्गातरि मुख्यप्राणदृष्टिं विधातुमाख्यायिका आह – द्वया ह वै प्राजापत्या देवाश्चासुराश्च इत्यादिना । ह शब्दो वृत्तार्थस्मरणे। प्रजापतेरपत्यानि प्राजापत्याः। ‘दित्यदित्यादित्य (पा.सू.४-१८५) इत्यादिना अपत्यार्थे ण्यप्रत्ययः । द्वयाः द्विविधाः द्विप्रकाराः इत्यर्थः । द्वित्रिभ्यां तयस्यायज्वा (पा.सू.५-२-४३) इत्ययच्प्रत्ययः । के ते? देवाश्चासुराश्च । ततः कानीयसा इति । ततः तत्र, तेष्वित्यर्थः । देवाः कानीयसाः कनीयांसः। स्वार्थे अण् । अल्पीयांस इति यावत् । ज्यायसाः ज्यायांसः, भूयांसः । भूयांसोऽसुरा इति श्रुत्यन्तरात् । त एषु लोकेष्वस्पर्धन्त इति । ते -देवासुराः एषु लोकेषु – त्रैलोक्यराज्यनिमित्ते अस्पर्धन्त – परस्परविजिगीषां कृतवन्त इत्यर्थः । ते ह देवा ऊचुः इत्यादि । हन्त इत्यसुरविजयोपायदर्शनजहर्षे । अत्रोद्गीथशब्द उद्गातृपरः । उत्तरत्र उद्गातुरेवाध्यस्तप्राणभावस्योपास्यताप्रतीतेः । उद्गात्रात्येष्यन्ति इति (बृ.उ.३-३-२) इति उत्तरत्र बहुकृत्व उद्गातृशब्दस्याभ्यसिष्यमाणतया तदनुरोधेन ‘प्रक्रमस्थ उद्गीथशब्दस्य उद्गातृपरत्वस्य वक्तव्यत्वात् । सति बाधके कर्मवाचिशब्दस्य लक्षणया कर्तृपरत्वयोगात् ।। १ ।।
यद्वा उद्गीथशब्दः उद्गातृविशेषणभूतोद्गीथपर इति न लक्षणा । तथा च असुरान् अस्मिन् यज्ञे यज्ञाङ्गभूते उद्गीथेन अध्यस्तप्राणभावेनोद्गानकर्त्रा – यज्ञांगभूतोद्गातरि प्राणदृष्टिरूपोपासनेनेति यावत् । अत्ययाम – अतितरेम, जयेम; अन्यथा भूयसामसुराणां अल्पीयोभिः स्वै: – दृष्टोपकरणैर्जेतुमशक्यत्वादिति देवा हर्षेणान्योन्यं उक्तवन्त इत्यर्थः ।
[गुणोपसंहारपादविचारः]
तथा हि गुणोपसंहारपादे अन्यथात्वाधिकरणे (ब्र.सू.अ.३-३-२) – अत्रोद्गीथशब्द: केवलोद्गीथपर इति अन्यथात्वं शब्दादिति चेन्नाविशेषात् (ब्र.सू.३-३-६) इति सूत्रेण पूर्वपक्षं कृत्वा – न वा प्रकरणभेदापरोवरीयस्त्वादिवत् (ब्र.सू.३-३-७) संज्ञातश्चेत्तदुक्तमस्ति तु तदपि (ब्र.सू.३-३-८) व्याप्तेश्च समञ्जसम् (ब्र.सू.३-३-९) इति त्रिभिस्सूत्रै:, अत्रोद्गीथ-शब्दस्योद्गातृगीयमानोद्गीथपरतया कृत्स्नोद्गीथगानकर्तरि मुख्यप्राणदृष्टिरूपाया उद्गीथविद्याया उद्गीथाङ्गभूते प्रणवे मुख्यप्राणदृष्टिरूपा छान्दोग्योपात्त उद्गीथविद्या भिद्यत इति सिद्धान्तितम् । इत्थं हि तत्र भाष्यम् – अस्ति हि उद्गीथविद्या वाजिनां छन्दोगानां च । वाजिनां तावत् – द्वया ह वै प्राजापत्या देवाश्चासुरश्च इत्यारभ्य ते ह देवा ऊचुः हन्तासुरान् यज्ञ उद्गीथेनात्ययाम इत्युद्गीथेनासुरविध्वंसनं प्रतिज्ञाय उद्गीथे वागादिमनःपर्यन्तदृष्टावसुरैरभिभवमुक्त्वा अथ हेममास प्राणमूचुः इत्यादिनोद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टि: विहिता । एवं छन्दोगानामपि देवासुरा ह वै यत्र संयेतिरे (छां.उ.१-२-१) इत्यारभ्य, तद्ध देवा उद्गीथमाजहुरनेनैनानभिभविष्याम (छां.उ.१-२-१) इत्युद्गीथेनासुरपराभवं प्रतिज्ञाय तद्वदेव उद्गीथे वागादिदृष्टौ दोषमभिधाय अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे (छां.उ.१-२-७) इत्यादिनोद्गीथे प्राणदृष्ट्यासुरपराभवमुक्त्वा यथाश्मानमाखणमृत्वा विध्वंसते एवं ह वै स विध्वंसते य एवंविदि पापं कामयते (छां.उ.१-२-८) इति शत्रुपराभवायोद्गीथे प्राणदृष्टिविहिता । वेदना विषयविधिप्रत्ययाश्रवणेपि फलसाधनत्वश्रवणात् वेदनविषयो विधिः कल्प्यते । उद्गीथविद्यायाः क्रत्वर्थत्वेन क्रतुसाद्गुण्यफलकत्वेप्यार्थवादिकमपि फलं तदविरुद्धं ग्राह्यमेवेति देवताधिकरणे (ब्र.सू.अ.१-३-७) प्रतिपादितम् । तत्र संशय्यते, किमत्र विद्यैक्यं उत नेति । किं युक्तम्? विद्यैक्यमिति । कुतः? उभयत्रोद्गीथस्यैव अध्यस्तप्राणभावस्य उपास्यत्वश्रवणात् चोदनाद्यविशेषात् । फलसंयोगस्तावच्छत्रुपरिभवरूपो न विशिष्यते । रूपमप्यध्यस्तप्राणभावोद्गीथाख्योपास्यैक्यादविशिष्टम् । चोदना च विदिधात्वर्थ-गताऽविशिष्टा । आख्या चोद्गीथविद्येत्यविशिष्टा । अत्र सिद्धान्तच्छायया परिचोद्य परिहरति – अन्यथात्वं शब्दादिति चेन्नाविशेषात् इति (ब्र.सू.३-३-६) यदुक्तं विद्यैक्यमिति, तन्नोपपद्यते, रूपभेदात् । रूपान्यथात्वं हि शब्दादेव प्रतीयते । वाजसनेयके हि – अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत् (बृ.उ.३-३-७) इत्युद्गानस्य कर्तरि प्राणदृष्ट्याऽसुरपराभवमुक्त्वा, य एवं वेद इति कर्तर्येव प्राणदृष्टिरेवंशब्दादवगम्यते । छान्दोग्ये – अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे (छां.उ. १-२-७) इत्युद्गानस्य कर्मण्येवोद्गीथे प्राणदृष्टिर्विहिता । अत एकत्र कर्तरि प्राणदृष्टिशब्दात् अन्यत्र कर्मणि प्राणदृष्टिशब्दाञ्च रूपान्यथात्वं स्पष्टम् । रूपान्यथात्वे च विधेयभेदे सति केवलचोदनाद्यविशेषाऽकिञ्चित्कर इति विद्याभेद इति चेत् – तन्न। अविशेषात् । अविशेषेण ह्युभयत्रोद्गीथसाधनकः परपरिभवः उपक्रमे प्रतीयते । वाजसनेयके – ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्याम इत्युपक्रमे श्रूयते । छान्दोग्येपि – तद्ध देवा उद्गीथमाजहुरनेनैनानभिभविष्याम (छां.उ.१-२-१) इति । अत उपक्रमाविरोधाय तेभ्य एष प्राण उदगायत् इत्यध्यस्तप्राणभाव उद्गीथः उद्गानकर्मभूत एव पाकादिष्वोदनादिवत् सौकर्यातिशयविवक्षया कर्तृत्वेनोच्यते । अन्यथोपक्रमगत उद्गीथशब्दः कर्तरि लाक्षणिकः स्यात् । अतः विद्यैक्यमिति प्राप्ते प्रचक्ष्महे -न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् (ब्र.सू.३-३-७)। न वेति पक्षं व्यावर्तयति । न चैतदस्ति, यद्विद्यैक्यमिति । कुतः? प्रकरणभेदात् । ओमित्येतदक्षरमुद्गीथमुपासीत’ (छां.उ.१-१-१) इति प्रकृतमुद्गीथावयवभूतं प्रणवं प्रस्तुत्य एतस्य वा अक्षरस्योपव्याख्यानं भवति । देवासुरा ह वै यत्र संयेतिरे इत्यारभ्य अथ य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे इत्युद्गीथावयवभूतप्रणवविषयमुपासनं छन्दोगा अधीयते । वाजसनेयिनस्तु तादृशप्राचीन प्रकरणाभावात् हन्तासुरान्यज्ञ उद्गीथेनात्ययाम इति कृत्स्नमुद्गीथं प्रस्तुत्य अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गाय (बृ.उ.३-३-७) इत्यादिकृत्स्रोद्गीथविषयमधीयते । ततः प्रकरणभेदेन विधेयभेदः – विधेयभेदे च रूपभेद इति न विद्यैक्यम् । किञ्च अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे इति पूर्वप्रकृत उद्गीथावयवभूतः प्रणव एवाध्यस्तप्राणभावः छन्दोगानां उपास्यः । वाजिनां तु कृत्स्नस्यैवोद्गीथस्य कर्तोद्गाता प्राणदृष्ट्या उपास्य इति । अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति, तथेति तेभ्य एष प्राण उदगायत् इत्युद्गातरि प्राणाध्यासं निर्दिश्य – य एवं वेद इत्युद्गातेवाध्यस्तप्राणभाव उपास्यो विधीयते । अतश्च रूपभेदः । न च उद्गातर्युपास्ये विहिते उद्गीथेनात्ययाम इत्याख्यायिकोपक्रमविरोधः शङ्कनीयः । उद्गातुरुपासने उद्गीथस्योद्गानकर्मभूतस्यावश्यापेक्षितत्वात् तस्यापि परपरिभवाख्यं फलंप्रति हेतुत्वात् । अतो रूपभेदाद्विद्याभेद इति चोदनाऽविशेषेऽपि न विद्यैक्यम् । परोवरीयस्त्वादिवत् । यथैकस्यामेव शाखायामुद्गीथावयवभूते प्रणवे परमात्मदृष्टिविधानसाम्येऽपि हिरण्मय-पुरुषदृष्टिविधानात् परोवरीयस्त्वादिगुणविशिष्टदृष्टिविधानमर्थान्तरभूतम् । संज्ञातश्चेत्तदुक्तमस्ति तु तदपि (ब्र.सू.३-३-८)। उद्गीथविद्येति संज्ञैक्यात् तत् विद्यैक्तमुक्तं चेत्, तत् . संजैक्यं विधेयभेदेप्यस्त्येव । यथाग्निहोत्रसंज्ञा नित्याग्निहोत्रे कुण्डपायिनामयनाग्निहोत्रे च। यथा चोद्गीथविधेति छान्दोग्यप्रथमप्रपाठकोपात्तासु बह्वीषु विद्यासु । व्याप्तेश्च समञ्जसम् (ब्र.सू.३-३-९) । छान्दोग्ये प्रथमप्रपाठके उत्तरास्वपि विद्यासुद्गीथावयवस्य प्रणवस्य प्रथमप्रस्तुतस्योपास्यत्वेन व्याप्तेश्च तन्मध्यगतस्य तद्ध देवा उद्गीथमाजह्नु: इत्युद्गीथशब्दस्य प्रणवविषयत्वमेव समञ्जसम् । अवयवे च समुदायशब्दः ‘पटो दग्धः’ इत्यादिषु दृश्यते ।
अतश्चोद्गीथावयवभूतः प्रणव एवोद्गीथशब्दनिर्दिष्ट इति स एव प्राणदृष्ट्या उपास्यः छान्दोग्ये प्रतिपत्तव्यः । वाजसनेयके तु कृत्स्नोद्गीथविषय उद्गीथशब्द इति कृत्स्नोद्गीथस्य कर्तोद्गाता प्राणदृष्ट्या उपास्य इति विद्यानानात्वं सिद्धमिति । अतोऽत्रोद्गीथशब्दः उद्गातृगीयमानोद्गीथपर एव । न तु तद्ध देवा उद्गीथमाजहुरनेनैनानभिभविष्यामः (छां.उ.१-२-१) इति छान्दोग्यगतोद्गीथशब्दात् स्वतन्त्रोद्गीथपर इति द्रष्टव्यम् ।। १ ।।
[वागादिकं प्रति वेदोक्तवाक्यानि]
ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति तेभ्यो वागुदगायत् । यो वाचि भोगस्तं देवेभ्य आगायत्, यत् कल्याणं वदति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रति–रूपं वदति स एव । स पाप्मा ।। २ ।।
प्र.-ते ह वाचमूचुस्त्वं न उद्गायति इति । त्वं न उद्गाता भवति यागभिमानिनीं देवतां प्राथितवन्त इत्यर्थः । तथेति तेभ्यो वागुदगायत् इति । तथेत्यङ्गीकृत्य तेभ्यः – देवेभ्यो वागुद्गानं कृतवतीत्यर्थः । दृष्टिविधिप्रकरणत्वा-दसम्भवदर्थकत्वाच्च आवित्यादिमतयश्चांग उपपत्तेः’ (ब्र.सू.४-१-६) इति न्यायेन क्रत्वङ्गभूते उद्गातरि वाग्दृष्टिं कृतवन्त इत्यर्थः । यो वाचि भोगस्तं देवेभ्य आगायद्यत्कल्याणं वदति तदात्मन इति । वाचि निमित्ते यो भोग: गानादिजन्यो यः सुखानुभवः । तम् – भोगं देवेभ्य आगायत् । देवानां भोगमुद्दिश्य आगायत् – गानं कृतवती । गानेन देवानां भोगं सम्पादितवतीति यावत् । यत् कल्याणवार्ताभिलपनरूपं वागिन्द्रियकार्यं, तदप्यात्मने ‘वाक्सम्पादितवती’त्यर्थः । तेऽविदुरनेन इति । ते – असुराः अविदुः . ज्ञानवन्त इत्यर्थः । किमिति? अनेन – वाग्रूपेणोद्गात्रा नः अस्मान् अत्येष्यन्ति ज्येष्यन्तीति । तमभिद्रुत्य इति । तं – उद्गातारं अभिद्रुत्य – शीघ्रं प्राप्य पाप्मना अविध्यन् – पापेन संयोजितवन्तः। स य: सपाप्मायदेव इति । यः स पाप्मा तद्वेधनसाधनभूतः, स तु यदेवेदं अप्रतिरूपं – अनुचितमशिवानृतपैशुन्यादि वदति, स एव – तद्रूप एव; स पाप्मेत्यर्थः । अयं भावः – वागिन्द्रियमसुराः क्रोधाद्युत्पादनद्वारा परुषातिवादपैशुन्यादिदूषितमकुर्वन्निति । ततश्चासुरबुद्धिकार्या तत्तदिन्द्रियाणां पापप्रवृत्तिरिति भावः ।। २ ।।
[वागादीनां असुरपराभूतत्वम्]
अथ ह प्राणमूचुस्त्वं न उद्गायेति । तथेति तेभ्य: प्राण उदगायत् । य: प्राणे भोगस्तं देवेभ्य आगायत् यत् कल्याणं जिघ्रति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव । स पाप्मा ।। ३ ।।
अथ ह चक्षुरूचुस्त्वं न उद्गायेति । तथेति तेभ्यश्चक्षुरुदगायत् । यश्चक्षणि भोगस्तं देवेभ्य आगायत्; यत् कल्याणं पश्यति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव । स पाप्मा ।। ४ ।।
अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति । तथेति तेभ्यश्श्रोत्रमुदगायत् । य: श्रोत्रे भोगस्तं देवेभ्य आगायत् यत् कल्याणँ शृणोति तदात्मने ।तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव । स पाप्मा ।। ५ ।।
प्र.-अथहप्राणमूचुः इत्यादि । प्राणम् – घ्राणम् । शिष्टं स्पष्टम् ।। ३-५ ।।
अथ ह मन ऊचुस्त्वं न उद्गायेति । तथेति तेभ्यो मन उदगायत् । यो मनसि भोगस्तं देवेभ्य आगायत्; यत् कल्याणं सङ्कल्पयति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपैं सङ्कल्पयति स एव । स पाप्मा । एवमु खल्वेता देवताः पाप्मभिरुपासृजन् । एवमेनाः पाप्मनाऽविध्यन् ।। ६।।
प्र.-उक्तमर्थं निगमयति – एवमु खल्वेताः इति । उ शब्दः अवधारणे । एवमेव खलु उक्तया रीत्या एता देवताः – वागाद्याः उक्ताः अनुक्ताष्टा पाप्मभिः – अनृतवदनादिलक्षणैः उपासृजन् – ‘उपगतवत्यः’ इत्यर्थः । एवमेनाः पाप्मना अविध्यन् इति । एवम् -उक्तया रीत्या असुराः एनाः – वागादिदेवताः । पाप्मना अविध्यन् – अनृतादिपाप्मना वेधनं कृतवन्तः इत्यर्थः ।। ६ ।।
[मुख्यप्राणस्य असुरपरिभवितृत्वम्]
अथ हेममासन्यं प्राणमूचुस्त्वन्न उद्गायेति । तथेति तेभ्य एष प्राण उदगायत् । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मना‘ऽविव्यत्सन्‘ । स यथाऽश्मानमृत्वा लोष्टो विध्वँसेत, एवँ हैव विध्वँसमाना विष्वञ्चो विनेशः । ततो देवा अभवन् पराऽसुराः । भवत्यात्मना, पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ।। ७ ॥
प्र. अथ हेममासन्यं प्राणम् इति । ‘आसन्यं‘ – मुख्यमित्यर्थः । यद्वा आस्ये भव: आसन्यः । आस्य शब्दस्य । पद्दन्’…. (पा.सू.६-१-६३) इत्यादिना आसन्नादेशः । मुख्यमिति यावत् । तं प्राणं देवाः ऊचुः उक्तवन्तः । किमिति? त्वं न उद्गायेति स्पष्टोऽर्थः । तेभ्य एष प्राण उदगायत् इति – उद्गातरि मुख्यप्राणदृष्टिं कृतवन्तः इत्यर्थः । तथैव हि व्याख्यातं व्यासार्यै: अन्यथात्वं शब्यात (अ.सू.३-३-६) इत्यधिकरणे । तेऽविदु: इत्यादि । ‘अवित्सन् – बेद्धुमैच्छन् । व्यध ताडने (धा.पा.११८२) तस्मात् सीन नेट्। अकित्वान्न सम्प्रसारणम् । शिष्टं स्पष्टम् । स यथा अश्मानं ऋत्वा लोष्टो विध्वंसेत इति । यथा अश्मचूर्णनाय ‘क्षिप्तः लोष्टः – पांसुपिण्डः अश्मानम्-पाषाणं ऋत्वा प्राप्य विध्वंसेत – चूर्णीभवेत् । सः दृष्टान्तो यथा, तथा अध्यस्त मुख्यप्राणभावोद्गात्रु-पासनानिष्ठान् देवान् प्राप्य विध्वंसमाना: – चूर्णीभवन्तः विष्वञ्चः – नानागतयः विनष्टा: अभवन्नित्यर्थः । ततो देवाः अभवन् पराऽसुराः इति। ततः परं देवाः देवा जाता, द्योतमाना अभवन्नित्यर्थः । यद्वा देवाः अभवन् – सत्तां अलभन्तेत्यर्थः । विजयिनो अभवन्निति वा अर्थः । असुरास्तु परा अभवन् – पराभूता अभवन् । भवत्यात्मना पराऽस्य द्विषन् भ्रातृव्यो भवति य एवं वेद इति । यः उद्गातारम् अध्यस्तप्राणभावमुपास्ते, सः आत्मना भवति – उत्तरो भवतीत्यर्थः । यद्वा, आत्मना मनसा समीचीनेन युक्तो भवतीत्यर्थः । अस्य द्विषन् द्विषश्शतुर्वा (वा.१५२२) वचनमिति कर्मणि षष्टी । एनं प्रति द्वेषं कुर्वन् शत्रुः पाप्मा च पराभूतो भवतीत्यर्थः । भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टिविहिता भाष्यस्योपलक्षणतया पाप्मपराभवस्य, आत्मना भवनस्य च फलत्वप्रतिपादनस्य न विरोध इति द्रष्टव्यम् । यद्वा अस्य द्विषन् भ्रातृव्यः आत्मना स्वत एव पराभवति, पाप्मा च भवति निन्दादियुक्तश्च भवतीत्यर्थः ।। ७ ।।
[मुख्यप्राणस्य आङ्गीरस नामधेयम्]
ते होचुः, क्व नु सोऽभूत्, यो न इत्थमसक्तेति । अयमास्येऽन्तरिति । सोऽयास्य आङ्गिरसः । अङ्गानौं हि रसः ।। ८ ।।
प्र.- ते होचुः क न सोऽभूद्यो नः इत्थमसक्तेति इति । ते ह देवाः ऊचुः । किमति? यः मुख्यप्राणः नः अस्माकम् इत्थम् – उक्तरूप शत्रुपराजयम् असक्तः . संयोजितवान् । षञ्जे: सिचि व्यत्ययेनात्मनेपदे झलो झलि (पा.सू.८-२-२६) इति सिज्लोपे तस्य ‘छान्दसेन ञित्त्वे सिद्धत्वेन’ ‘अनिदिताम्’ (पा.सू.६-४-२४) इत्यनुनासिकलोपः; कुत्वम् । यः संयोजितवान्, सः क्व नु कस्मिन् देशे प्रतिष्ठित: इत्यूचुः – ‘मन्त्रयाञ्चक्रुः’ इत्यन्वयः । एवं सम्मन्त्र्य ददृशुः, अयमास्येन्तरिति सोऽयास्यः इति अन्तरास्ये अयमिति प्रत्यक्षतो दृष्टो यः प्राणः सोऽयास्यः । आङ्गिरसो अङ्गानां रसः इति । अङ्गानां प्राणो हि रसः, अतः आङ्गिरसः इत्यर्थः ।। ८ ।।
[मुख्यप्राणस्य दूर्नामकत्वम्]
सा वा एषा देवता दूर्नाम । दूर ह्यस्या मृत्युः । दूरँ ह वा अस्मान् मृत्युर्भवति य एवं वेद ।। ९ ।।
प्र. सा वा एषा देवता दूर्नाम दूरं ह्यस्या मृत्युः इति । हि – यस्मात् कारणात् अस्याः मुख्यप्राणरूपाया देवतायाः मृत्युः दूरं भवति, तस्मात् प्राणस्य दूर्नामत्वं इत्यर्थः । दूर्नामकत्वेन प्राणविद्यायाः फलमाह – दूरं ह वा इत्यादिना । स्पष्टोऽर्थः ।। ९ ।।
[मुख्यप्राणेन वागादिषु आपादित दोषबहिष्करणम्]
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयाञ्चकार । तदासां पाप्मनो विन्यदधात् । तस्मान्न जनमियात्, नान्तमियात्। नेत् पाप्मानं मृत्युमन्ववायानीति ।। १० ।।
प्र. – सा वा एषा देवता इति । सा उद्गातरि अध्यस्योपासिता एषा–मृत्युदूरत्वेन दूर्नामिका मुख्यप्राणरूपा देवता पूर्वमसुरैः अनृतादिपाप्मभिः संयोजितानां वागादिदेवतानां मृत्युम् – मरणादिदुःखहेतुतया मृत्युशब्दितं पाप्मानं अपहत्य – वागादि-देवताभ्यः आच्छिद्य, यत्र आसां दिशामन्तः – सर्वदिगन्तप्रदेशः तद्गमयाञ्चकार । दूर्नामत्याद्दूरं मृत्युं निनायेत्यर्थः । तदासां पाप्मनो विन्यदधात् इति । आसाम् । वागादिदेवतानां पाप्मनः पापानि तत् – तेषु दिगन्तदेशेषु विन्यदधात् – विशिष्य निधानं कृतवतीत्यर्थः ।
तस्मातन्न जनमियात् नान्तमियात् इति । यस्मात् कारणात् प्रत्यन्तदेशानां वागादिदेवताविनिर्मुक्त अनृतादिलक्षण पापनिधानाश्रयतया म्लेच्छदेशत्वम् ,अत एव तत्र देशे जनम् – जननम् – उत्पत्तिमिति यावत् । अन्तम् – मरणं च नेयात् – न प्राप्नुयात् । तत्र देशे उत्पत्तिमरणे अशोभने इति यावत् । नेत् पाप्मानं मृत्युम् अन्ववायानीति इति । नेत् – नैवेत्यर्थः । पाप्मानं मृत्यु नैव अन्वावायानि नानुगच्छेयमिति भीतस्सन् उत्पत्तिमरणे न प्राप्नुयात् इत्यन्वयः । उत्पत्तिमरणे ‘तादृशदेशे यथा न भवतः, तथा यतेत इति यावत् ।। १० ।।
[मुख्यप्राणेन वागादीनां यथावत् रक्षणम्]
सा वा एषा देवतैतासां देवतानां पाप्मानां मृत्युमपहत्याथैना मृत्युमत्यवहत् ।। ११ ।।
प्र. – सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युम् अपहत्य अथ एनाः मृत्युम् अत्यवहत् इति । सैषा मुख्यप्राणदेवता । आसाम् – वागादिदेवतानां पाप्मानं मृत्युम् अपहत्य– ततः आच्छिद्य अथ – तदनन्तरं एनाः -वागादिदेवताः मृत्युमतीत्यावहत्, मृत्युमतिक्रान्तं स्वरूपं प्रापयदित्यर्थः ।। ११ ।।
स वै वाचमेव प्रथमामत्यवहत्, सा यदा मृत्युमत्यमुच्यत, सोऽग्निरभवत् । सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ।। १२ ।।
प्र.-तदेव प्रपञ्चयति – स वै वाचमेव प्रथमां अत्यवहत् इत्यादिना । सः -प्राणः प्रथमाम् – इतरदेवतासु प्रधानभूतां वाचम् अत्यवहत् – मृत्युमत्यक्रामयत् इत्यर्थः सा – वाक् यदा मृत्युमत्यमुच्यत – मृत्योरतिमुक्ताः – अन्यन्तमुक्ता आसीत्, सोऽग्नि–रभवत् । तदेति शेषः । सः इति अग्न्यपेक्षया पुल्लिङ्गनिर्देशः । यद्यपि वागभिमानिनी देवता सर्वदा अग्निरेव – तथापि अपगतदोषतया अग्रनयनादिप्रवृत्तिनिमित्तपौष्कल्यशालितया अग्निरभवत् । अद्य रामस्य रामत्वम् इत्यादिवदिति भावः । तदेवाह – सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यत इति । एवं मृत्युमतिक्रान्तो अग्निः निरस्तपापरूपमलतया मृत्युं परेण – मृत्योः परस्तात् दीप्यत इत्यर्थः ।। १२ ।।
अथ प्राणमत्यवहत् । स यदा मृत्युमत्यमुच्यत, स वायुरभवत् । सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ।। १३ ।।
अथ चक्षुरत्यवहत् । तद् यदा मृत्युमत्यमुच्यत, स आदित्योऽभवत् । सोऽसावादित्यः परेण मृत्युमतिक्रान्तः तपति ।। १४ ।।
प्र. – एवमुत्तरत्रापि द्रष्टव्यम् ।। १३-१४ ।।
अथ श्रोत्रमत्यवहत् । तद्यदा मृत्युमत्यमुच्यत, ता दिशोऽभवन् । ता इमा दिशः परेण मृत्युमतिक्रान्ताः ।। १५ ।।
प्र. -अतिक्रान्ता इति । अत्र भान्तीति शेषः । दिक् शब्दः दिग्देवतापरः ।। १५ ।।
अथ मनोऽत्यवहत् । तद्यदा मृत्युमत्यमुच्यत, स चन्द्रमा अभवत् । सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति । एवँ ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ।। १६ ।।
प्र. -एवं ह वा एनमेषा देवता मृत्युम् अतिवहति य एवं वेद इति । यः पुमान् वागाद्यभिमानि अग्न्यादिदेवतानां मृत्य्वतिवहनकर्म वेद, तमेनमेषा प्राणदेवता मृत्युमति–वहति – अतितारयतीत्यर्थः । शिष्टं स्पष्टम् ।। १६ ।।
[मुख्यप्राणेन स्वार्थगृहीतस्य अन्नस्य वागादिभ्योऽपि विभजनम्]
अथात्मनेऽन्नाद्यमागायत् । यद्धि किञ्चान्नमद्यते, अनेनैव तदद्यते । इह प्रतितिष्ठति ।। १७ ।।
प्र. अथात्मने अन्नाद्यम् आगायत् इति। यो वाचि भोगस्तम् देवेभ्य आगायत् यत् कल्याणं वदति तदात्मने इति यजमानगामिफलव्यतिरिक्तं कल्याणवदनादिकं यथा वागाद्या देवता आगायन् , तथा प्राणोऽप्यात्मने अन्नाद्यम् आगायत् । अन्नमत्तीत्यन्नादः । तस्य भावः अन्नाद्यम् । आदिवृद्ध्यभावः छान्दसः। अथवा अन्नं च तत् आद्यं च अन्नाद्यम् । आद्यम् – अदनार्हम् । भक्षणार्हमित्यर्थः । आगायत् – गानसामर्थ्येन उपास्थापयत् । संपादितवान् इत्यर्थः। यद्धि किञ्चान्नमद्यते, अनेनैव तदद्यते इति । अत्र अनशब्दः प्राणवाची । अद्यमानं सर्वं प्राणेनैव अद्यत इत्यर्थः । इह प्रतितिष्ठति इति ।इह-अन्ने सत्येव प्राणः प्रतिष्ठितो भवतीत्यर्थः । तस्मादन्नस्य प्राणाहारत्वात् अन्नादत्वं सिद्धमिति भावः ।। १७ ।।
ते देवा अब्रुवन्, एतावद्वा इदँ सर्वं यदन्नम् । तदात्मन आगासी: । अनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माऽभिसंविशतेति । तथेति तँ समन्तं परिण्य–विशन्त । तस्माद्यदनेनान्नमत्ति, तेनैतास्तृप्यन्ति । एवँ ह वा एनँ स्वा अभिसंविशन्ति, भर्ता स्वानाँ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद । य उ हेवंविदँ स्वेषु प्रति प्रतिबुभूषति‘, न हैवालं भार्येभ्यो भवति । अथ य एवैतमनुभवति, यो वै तमनु भार्यान् बुभूर्षति, स हैवालं भार्येभ्यो भवति ।। १८।।
प्र– ते देवा अब्रुवन् इति । वागाद्याः ते देवाः प्राणमब्रुवन् । किमिति? एतावद्वा इदं सर्वं यदन्नम्, तदात्मन आगासी:, अनुनोऽस्मिन्नन्न आभजस्वेति इति । यदिदमन्नमस्ति, एतावद्वै सर्वमिदम् । तत् – तादृशमन्नम् आत्मने – स्वार्थमागासीः । वयञ्च अन्नार्थिनः, अन्नं विना स्थातुम् अशक्यत्वात् । तस्मादस्मिन्नन्ने अनु – त्वद्भोगानन्तरं न:-अस्मान् आभजस्व आङ् ईषदर्थे अन्तर्भावितण्यर्थोऽयं भजि:-भाजय, अल्पाल्पभागवतः कुरु इत्यर्थः ।
सः एवमुक्तः प्राणः प्रत्याह –ते वै माऽभिसंविशतेति । ते वै-तादृशा: अन्नार्थिनः यूयं मा – माम् अभि – अभितः संविशत – उपविशत इत्यब्रवीत् । तथेति तं समन्तं परिण्यविशन्त इति । वागाद्या देवताः तथेति प्रतिश्रुत्य समन्तात् – परितः न्यविशन्त – निविष्टा इत्यर्थः । भागिनश्च अभवन्निति भावः । तस्मात् यदनेन अन्नमत्ति तेनैताः तृप्यन्ति इति । तस्माद्धेतोः अनेन–प्राणेन सहितस्सन् जीवो यदन्नमत्ति, तेनैवान्नेन वागाद्याः तृप्यन्ति । प्राणे अन्नेन आप्यायिते वागाद्याः प्राणा अन्नेन आप्यायिता भवन्तीत्यर्थः ।।
एतद्वेदनस्य फलमाह- एवं ह वा एनं स्वा अभिसंविशन्ति, भर्ता स्वानाँ श्रेष्ठः पुर एता भवति अन्नादो अधिपतिः य एवं वेद इति । यस्तु एवं वेद – उपास्ते, तादृशं एनम् – विद्वांसम्, यथा वागाद्याः प्राणस्य परितो निविष्टाः, एवं स्वा: – ज्ञातयः अभितः संविशन्ति – परितः उपासते । स्वानाम् – ज्ञातीनां भर्ता – पोषकः श्रेष्ठश्च पुर एता – अग्रेसर: अन्नादः अरोगदृढगात्रतया अभिमतान्नभोक्ता अन्येषां अधिपतिश्च भवतीत्यर्थः । य उ हैवंविदँ स्वेषु प्रति प्रतिबुभूषति न हैवालं भार्येभ्यो भवति इति ।
एवं विधम् – एतादृश प्राणविद्यानिष्ठं प्रति स्वेषु – ज्ञातिषु प्रति – प्रतिभटः, छान्दसस्सुलोपः । बुभूषति – भवितुमिच्छति, प्रतिस्पर्धी भवितुं इच्छतीत्यर्थः प्रतिपत्तिर्बुभूषति इति पाठेऽपि स एवार्थः । सः भार्येभ्यः – भर्तव्यभार्यापुत्रादिभ्यः -भार्यापुत्रादिभरणाय इति यावत् । नालं भवति – पुत्रकळत्रादि भरणेपि असमर्था भवतीत्यर्थः । अथ य एवैतम् अनुभवति यो वै तमनुभार्यान् बुभूर्षति स एवालं भार्येभ्यो भवति । अथ शब्दः प्रकृतमपेक्ष्यार्थान्तरपरत्वे । ज्ञातीनां मध्ये य एतम् – प्राणविदम् अनुभवति – अनुगतो यो वा एतम् – प्राणविदम् अनु – अनुसृत्य भार्यान् – भर्तव्यान् पुत्रकळत्रादीन् बुभूर्षति – भर्तुम् इच्छति । भृञः सनि उदोष्ठ्यपूर्वस्य (पा.सू.७-१-१०२) इत्युत्वम् । स एवालं भार्येभ्यो भवति – उक्तोऽर्थः ।। १८ ।।
[मुख्यप्राणस्य अनेकादि नामनिर्देशेन तन्निर्वचनम्]
सोऽयास्य आङ्गिरसोऽङ्गानाँ हि रसः । प्राणो वा अङ्गानाँ रस: । प्राणो हि वा अङ्गानाँ रसः । तस्मात् यस्मात् कस्माच्चाङ्गात् प्राण उत्क्रामति, तदैव तच्छुष्यति । एष हि वा अङ्गानाँ रसः ।। १९ ।।
प्र-पूर्वमुक्तमेव अयास्यत्वम् आङ्गिरसत्वञ्च विद्याभेदभ्रमापनुत्तये पुनराह सोऽयास्य इत्यादिना । सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः प्राणो वा अङ्गानां रसः इत्यन्तेन उक्त एवार्थः स्मारितः । पुनस्तमेवार्थ प्रसिद्ध्योपपादयति – प्राणो हि वा इत्यादिना । हि – यस्मात् प्राणानाम् अङ्गरसत्वम् , तस्मात् यस्मात् कस्माश्चिदङ्गात् प्राण उत्क्रामति, तदैव तदङ्गं शुष्यति । नीरसत्वादिति भावः ।। १९ ।।
एष उ एव बृहस्पतिः । वाग्वै बृहती । तस्या एष पतिः । तस्मादु बृहस्पतिः ।। २० ।।
प्र. –एष उ एव बृहस्पतिः इति । उ: चार्थे । बृहस्पतिश्च एष एवेत्यर्थः । तत्र हेतुमाह – वाग्वै ‘बृहती‘ इति । बृहत्याख्यच्छन्दसो वाग्रूपत्वादिति भावः । तस्याः तादृश्या वाचः एषः–प्राण: पति: रक्षक: इत्यर्थ: । वागादिसत्ताया: तदधीनत्वादिति भावः ।। २० ।।
एष उ एव ब्रह्मणस्पतिः । वाग्वै ब्रह्म । तस्या एष पतिः ब्रह्मणस्पतिः ।। २१ ।।
प्र. – एष उ एव ब्रह्मणस्पतिः इति । ब्रह्म शब्दः वेदपरः । शिष्टं पूर्ववत् ।। २१ ।।
एष उ एव साम । वाग्वै सा अमैषः । सा च अमश्चेति तत् साम्नस्सा–मत्वम् । यद्वेव समः पॢषिणा समो मशकेन समो नागेन समः एभिः त्रिभिर्लोकै: समोऽनेन सर्वेण, तस्माद्वैव साम । अश्नुते साम्नः सायुज्यं सलोकतां जयति, य एवमेतत् साम वेद ।। २२ ।।
प्र. – एष उ एव साम इति । एष उ एव – वाग्विशिष्टो मुख्यप्राण एव साम । सा च अमश्चेति सामशब्दनिर्वचनात् । सा इति स्त्रीलिङ्गेन तच्छब्देन वाक् परामृश्यते । अम गतिभाजनशब्देषु (धा.पा.४६५) इति गमनार्थादमतेरः। अमति‘ – गच्छति इति अमः प्राणः । तदुपपादयति – वाग्वै सा अम एष इति – उक्तोऽर्थः । प्रकारान्तरेण सामशब्दनिर्वचनमाह – यद्वेव पॢषिणा इत्यादि । यद्वेव – यत् उ एव इति पदच्छेदः । उ शब्दः वा अर्थः । यस्मादेव वा पॢषिणा – पुत्तिका शरीरेण समः, मशकशरीरेण समः, हस्तिशरीरेण समः, समष्टिजीवभूतत्रैलोक्यशरीरकब्रह्मणः शरीरेणापि समः, देवमनुष्यादिसर्वप्राणशरीरेणापि समः । यथा घटप्रदीपप्रभा तावन्मात्रव्यापिनी, प्रासाद-प्रदीपप्रभा च प्रासादव्यापिनी, एवं प्राणोऽपि ब्रह्मादिपिपीलिकान्तशरीरेषु तत्तत् शरीरानुरूपव्याप्तिमत्त्वेन समः, तस्माद्वै साम–तस्मादेव वा सामेत्यर्थः ।
एतदेव वाक्यमवलम्ब्य मुख्यप्राणस्य विभुत्वं पूर्वपक्षीकृत्य इन्द्रियाणामिव मुख्यप्राणस्यापि उत्क्रान्त्यादि श्रवणात् अणुत्वमिति प्राणपादे अणुश्च (ब्र.सू.२-४-१२) इति सूत्रेण सिद्धान्तितम् ।
एतत् ज्ञानस्य फलमाह – अश्नुते साम्न: सायुज्यं सलोकतां जयति य एवमेतत् साम वेद इति । साम्नः सामशब्दितस्य प्राणस्य सायुज्यम् प्राणदेवतासमानभोगताम् अश्नुते । सलोकतां जयति – सालोक्यं प्राप्नोति, य एवं वेद सामशब्दनिरुक्तं सर्वदा अनुसन्धत्ते ।। २२ ।।
एष उ वा उद्गीथः । प्राणो वा उत् । प्राणेन हीदँ सर्वमुत्तब्धम् । वागेव गीथा उच्च गीथा चेति स उद्गीथः ।। २३ ।।
प्र– एष उ वा उद्गीथः इति । एष उ वा – एष एव वाक्प्राणसमुदायः’ उद्गीथः – उद्गीथाख्यप्राणभक्तिरित्यर्थः । तदुपपादयति – प्राणो वा उत् । प्राणेन हीदँ सर्वम् इत्यादिना । उत्तब्धम् – धृतमित्यर्थः । शिष्टं स्पष्टम् ।। २३ ।।
तद्धापि ब्रह्मदत्त: चैकितायनेयो राजानं भक्षयन् उवाच–अयं त्यस्य राजा मूर्धानं विपातयतात्, यदितो अयास्याङ्गिरसो अन्येनोदगायदिति । वाचा च ह्येव स प्राणेन चोदगायदिति ।। २४ ।।
प्र. – तद्धापि ब्रह्मदत्तश्चैकितायनेयो राजानं भक्षयन् उवाच इति । तत् -तत्र, आख्यायिकेति शेषः । ह शब्दः प्रसिद्धी । आख्यायिकाऽपि प्रसिद्धा अस्तीत्यर्थः । चैकितायनेयः – ‘चिकितस्य’ अपत्यं चैकिति: ‘अत इब्’ (पा.सू.४-१-९५) तरय गोत्रापत्यं युवा चैकितायन: फक्’ । तस्य अयनादेशः । चैकितायनस्य अपत्यं चैकितायनेयः । चैकितायनेयो ब्रह्मदत्तनामा ऋषिः राजानम् – सोमं भक्षयन्नुवाच । किमिति? अयं त्यस्य राजा मूर्धानंविपातयतात् । अयम् – भक्ष्यमाणो राजा -सोम: त्यस्य -अन्यस्य शिरः विपातयतु । ननु किं तेनापराद्धम् इत्याशङ्क्याह . यदितो अयास्य आङ्गिरसो अन्येन उदगायत् इति । यत् – यस्मात् कारणात् इतः अस्मात् अयास्य आङ्गिरसः – मुख्यप्राणात् अन्येन – देवतान्तरेण अन्यः उदगायत् – उद्गानं कृतवान् । अयास्याङ्गिरसशब्दितमुख्यप्राणवेदनमन्तरेण देवतान्तरदृष्टिं कृत्वा यस्तूद्गायति, तस्य सोमं पिबतो मूर्धा पततु इत्यर्थः । इति शब्दो ब्रह्मदत्तवचस्समाप्तौ । वाचा च ह्येव स प्राणेन चोदगायत् । हि – यस्माद्धेतोः सोमं पिबन् शपथं कृतवान्, तस्मात् ब्रह्मदत्तः अयास्य आङ्गिरस शब्दित वाक् सहित प्राणवेदनमेव कृत्वा उद्गानं कृतवान् इत्यर्थः ।। २४ ।।
तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर एव स्वम् । तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत् । स तया वाचा स्वरसंपन्नयाऽऽर्त्विज्यं कुर्यात् । तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव; अथो यस्य स्वं भवति । भवति हास्य स्वम्, य एवमेतत् साम्नः स्वं वेद ।। २५ ।।
प्र–तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् इति । एतस्य–प्रकृतस्य सामशब्दवाच्यस्य तस्य– प्राणस्य यः स्वं वेद, तस्य स्वम् – धनं भवति इति प्रथमतः प्रलोभ्य शुश्रूषामुत्पाद्याह – तस्य वै स्वर एव स्वम् इति । स्वरः – कण्ठध्वनिः । तस्मादाऽऽर्त्विज्यं करिष्यन् वाचि स्वरम् इच्छेत् इति । ऋत्विजः कर्म आर्त्विज्यम् – औद्गात्रादिकं करिष्यन् वाचि स्वरम् – कण्ठध्वनिम् इच्छेत् । इच्छेत् इति पदव्यत्ययः छान्दसः । यथा कण्ठध्वनिर्भवति, तमुपायं मधुपिप्पलीसेवादिलक्षणं कुर्यादित्यर्थः ।स तया इत्यादि स्पष्टम् । तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव इति । यस्मात् स्वर एव साम्न: स्वम्, तस्माद्यज्ञे स्वरवन्तमेव स्तोतारं दिदृक्षन्ते । जना इति शेषः । अथो यस्य स्वम् भवति इति । यस्य स्वम् – धनमस्तीत्यर्थः । अथ शब्दो वाक्यान्तरापक्रमे । अत्यल्पमिदमुच्यते स्वरवन्तं दिदृक्षन्त इति; यस्य स्वम् – धनमस्ति तं सर्वं दिदृक्षन्त इत्यर्थः । अतः स्वर एव स्वमिति निर्दिष्टस्वरवतो दिदृक्षितत्वं युज्यत इत्यर्थः । सामस्वरे स्वत्ववेदनस्य फलमाह – भवति ह्यस्य स्वम् इत्यादि । स्पष्टोऽर्थः ।। २५ ।।
तस्य हैतस्य साम्नो यस्सुवर्णं वेद, भवति हास्य सुवर्णम् । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णम्, य एवमेतत् साम्नः सुवर्णं वेद ।। २६ ।।
प्र– तस्य हैतस्य साम्नो: यः सुवर्णं वेद भवति हास्य सुवर्णम् इति । साम्नः प्रकृतस्य सामशब्दितस्य । अन्यः स्पष्टार्थः । एवं फलप्रदर्शनेन शुश्रूषामुत्पाद्याह – तस्य वै स्वर एव सुवर्णम् इति । क्रुष्टप्रथमादिलक्षणसामस्वरविदः स्वर एव सुवर्णम् भूषणम् इत्यर्थः । सामस्वरे सुवर्णत्व ज्ञानस्य फलमाह – भवति हास्य सुवर्णम् इत्यादि ।स्पष्टोऽर्थः ।।
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद, प्रति ह तिष्ठति । तस्य वै वागेव प्रतिष्ठा । वाचि हि खल्वेष एतत्प्राण: ‘प्रतिष्ठितो गीयते इत्युहैक‘ आहुः ।। २७ ।।
प्र. – तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति इति । एवं फल प्रदर्शनेन पूर्ववच्छुश्रूषाम् उत्पाद्याह – तस्य वै वागेव प्रतिष्ठा इति । तस्य सामशब्दितस्य प्राणस्येत्यर्थः । कुत इत्यत्राह-वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते इत्युहैक आहुः । एषः – मुख्यप्राणो वाचि – वागिन्द्रियस्थानभूतजिह्वामूलीय स्थानेषु प्रतिष्ठितस्सन् एतत् साम गीयते–सामभावमापन्न उद्गीयत इत्येक आहुः ।उ शब्दोऽवधारणे । पूर्वत्र इह प्रतितिष्ठतीति – प्राणस्य अन्नप्रतिष्ठितत्वोक्तेः वाक्छब्दित जिह्वामूलादि प्रतिष्ठितत्वं एकीयमतमिति भावः ।। २७ ।।
[अभ्यारोहमन्त्रः]
अथात: पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम प्रस्तौति । स यत्र प्रस्तुयात्, तदैतानि जपेत् – असतो मा सद्गमय, तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमयेति । स यदाहासतो मा सद्गमयेति, मृत्युर्वा असत् सदमृतं मृत्योर्माऽमृतं गमय अमृतं मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति । मृत्युर्वे तमो ज्योतिरमृतम् । मृत्योर्माऽमृतं गमय अमृतं मा कुर्वित्येवैतदाह । मृत्योर्माऽमृतं गमयेति । नात्र तिरोहितमिवास्ति ।
अथ यानीतराणि स्तोत्राणि तेष्वात्मने अन्नाद्यमागायेत् । तस्माद् तेषु बरं वृणीतं यं कामं कामयेत् तम् । स एष एवंविदः उद्गाताऽऽत्मने वा यजमानाय वा यं कामं कामयते तमागायति। तद्धैतल्लोकजिदेव । न हैवालोक्यताया आशास्ति, य एवमेतत् साम वेद ।। २८ ।।
।। इति तृतीयाध्याये तृतीयं ब्राह्मणम् ।।
प्र. – एवमुद्गातृप्राणविद्योपदेशानन्तरं एवम्भूत प्राणविदमुद्गातारं प्रति प्रार्थनारूपाणां ब्रह्मलोकाभ्यारोहहेतुतया अभ्यारोह शब्दिताना मन्त्राणां प्रयोगकालं मन्त्रार्थञ्च आह – अथातः पवमानानामेव अभ्यारोहः‘ – इति । बहिष्पवमानामाध्यन्दिनपवमानाऽऽर्भव-पवमानभेदभिन्नानां त्रयाणां पवमानानामेव अभ्यारोहः – अध्यारोहमन्त्रः इति संज्ञेति शेषः । नेतरेषाम् आज्यपृष्टादिस्तोत्राणाम् इत्यर्थः । एतेषाम् अभ्यारोहमन्त्राणां जपकालं वक्तुं प्रथमं प्रस्तोतृसंज्ञार्थमाह – स वै खलु प्रस्तोता साम प्रस्तौति । यः साम प्रस्तौति, स एव खलु प्रस्तोतेत्यर्थः । स यत्र प्रस्तुयात् तदैतानि जपेत् इति । सः ‘प्रस्तोता यत्र–यदा प्रस्तौति, तदा एतानि – यजूंषि यजमानो जपेदित्यर्थः । यजूंषि पठति – असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमयेति इति । एतानि यजूंषि स्वयमेव व्याचष्टे – स यदाह असतो मा सद्गमयेति मृत्युर्वा असत्सदमृतं मृत्योर्मा अमृतं गमय अमृतं मा कुरु इत्येवैतदाह इति । मा – मां असतः सद्गमय मृत्योः अमृतं कुरु । मृत्योः – संसारात् उद्धृत्यामृतं कुरु इत्यर्थः । स यदाह – अनेन मन्त्रेण यत् प्रतिपाद्यमाह, तदमृतं मा कुरु इत्येतदाह इत्यन्वयः । एवमुत्तरत्रापि द्रष्टव्यम् । मृत्योर्मा अमृतं गमयेति नास्ति तिरोहितमिव अस्ति इति । तृतीयपर्यायः स्पष्टार्थ इत्यर्थः ।
अथ यानीतराणि स्तोत्राणि तेष्वात्मने अन्नाद्यम् आगायेत् इति । यस्मात् कारणात् त्रिष्वपि पवमानेषु उद्गाता एभिः यजुर्मन्त्रै: यजमानेन स्वगतं फलं याचितः; अत: यजमानगामि फलमुद्दिश्यैव आगायेत् । पवमानत्रयव्यतिरिक्तेषु आज्यादिषु नवसु स्तोत्रेषु आत्मने स्वार्थम् अन्नाद्यमुद्दिश्य आगायेत् इत्यर्थः । तस्माद् तेषु वरं वृणीत यं कामं कामयेत् तम् इति । तस्माद्धेतोः तेषु – पवमानव्यतिरिक्तस्तोत्रेषु यं कामं कामयेत – तं वरं वृणीतेत्यर्थः । स एष एवंविद उद्गाता इत्यादि । तमागायति . तमुद्दिश्य आगायति । आगानेन तं संपादयति इत्यर्थः । तद्धैतल्लोकजिदेव इति । ह – प्रसिद्धं पूर्वोक्तं तदेतत् – प्राणवेदनं लोकजिदेव–ब्रह्मलोकसाधनमेवेत्यर्थ:। न हैवालोक्यताया आशास्ति, य एवमेतत् साम वेद इति । सामशब्दनिर्दिष्टं प्राणं एवम् – अयास्याङ्गिरसत्वादि प्रागुक्त गुणविशिष्टं यो वेद–य उपास्ते स: अलोक्यताया:- लोक्यता लोकार्हता तदभावः अलोक्यता–ब्रह्मलोकार्हत्वाभावतो भीत्या न हैवाशास्ति – नैवाशास्ते । साधनान्तरं नाभिलषति, तस्य कृतार्थत्वादिति भावः ।। २८ ।।
।। इति तृतीयाध्याये तृतीयब्राह्मणप्रकाशिका ।।
तृतीयाध्याये चतुर्थं ब्राह्मणम्
आत्मब्राह्मणम्
[सर्गारम्भे आत्मसद्भावः]
आत्मैवेदमग्र आसीत् पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् । सोऽहमस्मीत्यग्रे व्याहरत् । ततोऽहन्नामाभवत् । तस्मादप्येतामन्त्रितो ऽहमयमित्येव अग्रे उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति । स यत् पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन ‘औषत् तस्मात् पुरुषः। औषति ह वै स तं योऽस्मात् पूर्वो बुभूषति, य एवं वेद ।। १ ।।
प्र.-अथ नारायण तदुपासन – तत्प्राप्तीनां ‘परमतत्त्वहितपुरुषार्थत्वम् तत्प्रसङ्गात् सनकादियोगीश्वर लक्षणातिसृष्टेः विसृष्ट्यपेक्षया’ अतिशयितत्वं च वक्तुमुपक्रमते आत्मैवेदमग्र आसीत् पुरुषविधः इत्यादिना । इदं – जगत्, अग्रे – सृष्टेः प्राक् पुरुषविधः आत्मैव आसीत् । अस्य वाक्यस्य कारणवाक्यत्वात् आत्म शब्दः नारायणपरः । स यो हैतमग्निं ‘वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ ‘अन्वयं पुरुषविदः’ (तै.आन-२) इत्यादौ पुरुषविधशब्दस्य भगवति प्रयुक्तत्वाञ्च । पुरुषस्य विधेव विधा यस्य सः पुरुषविधः -पुरुषाकारः इत्यर्थः। अस्यात्मनः पुरुषविधत्वं च आनन्दमयत्वं ज्ञापयति, आत्मन आकाश: सम्भूतः (तै.आन-१) इत्युपक्रम्य, अन्योन्तर आत्माऽऽनन्दमयः (तै.आन-५) इत्युक्त्वा तस्य पुरुषविधत्वप्रतिपादनात् इति व्यासार्यै: सर्वव्याख्यानाधिकरणे (श्री.भा.१-४-८) हि उक्तम् ।
सोऽनुवीक्ष्य नान्यदात्मनो अपश्यत् । सः–पुरुषः अनुवीक्ष्य – अन्वीक्ष्य साक्षत्कुर्वन् आत्मनोऽन्यम् – विभक्तं नापश्यत्। सृष्टेः प्राक् तमः परे देव एकी भवति (सुबा.उ.३-२-२) इत्युक्तरीत्या अय:पीताम्बुवत् चिदचित्प्रपञ्चस्य परमात्मना अविभक्त्तत्वात् इति भावः । सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहन्नामाभवत् इति। अहम् इति हिरण्यगर्भनाम । अहमभिमानाश्रयव्यष्टिपुरुषाणां प्रथमजत्वात् हिरण्यगर्भस्य ।
उक्तञ्च मोक्षधर्मे भृगुभरद्वाजसंवादे-
तस्मात् पद्यात् समभवत् ब्रह्मा वेदमयो निधिः ।।
अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् ।। (म.भा.शां.१७५-१५,१६)
इति तस्मादयमर्थः- अहमस्मि – अहङ्कारः स्याम् , चतुर्मुखः स्यामिति सङ्कल्प’वाक्यम् अग्रे – ब्रह्मसृष्टिपूर्वकाले व्याजहार’ । ततो अहन्नामा – चतुर्मुखः अभवदिति । तस्मादप्येतर्हि आमन्त्रितो अहमयम् इत्येवाग्र उक्त्वा अथ अन्यन्नाम प्रब्रूते यदस्य भवति इति । यस्माद्धेतोः भगवता प्रथमतश्चतुर्मुखे अहंशब्दः प्रयुक्तः तस्माद्धेतोः एतर्ह्यपि ‘अस्मिन्नपि’ काले केनचित् पुंसा ‘आमन्त्रितोऽयं जनः अहमित्येवाग्रे उक्त्वा अथ पश्चात् अस्य यत् पित्रादिकृतं नाम भवति तद्वदतीत्यर्थः ।
स यत् पूर्वो अस्मात् सर्वस्मात् सर्वान् पाप्मन औषत्तस्मात् पुरुष: इति। सः आत्मा यस्मात् कारणात् अस्मात् – दृश्यमानात् जगतः सर्वस्मात् पूर्वः, यस्मात् च हेतोः सर्वान् पाप्मन औषत् – अदहत् – उष दाहे (धा.पा.६९६) तस्मात् ‘कारणात् पुरुषशब्दवाच्य इत्यर्थः । अत्र सः इत्यनेन नाव्यवहितस्यापि अहन्नाम्नो ग्रहणमुचितम्, तस्य “कर्मवश्यस्य स्वयं सर्वपापप्रदाहकत्वाद्यसंभवादिति द्रष्टव्यम् । पूर्वत्वं चात्र कारणत्वम् । ततश्च सर्वकारणत्वे सति सर्वपापप्रदाहकत्वं पुरुषशब्दप्रवृत्तिनिमित्तमिति भाव:।
पुरसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः ।
शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ।।
इति भगवदसाधारणपुरुषशब्देन उपक्रमात् इयम् उपनिषत् नारायणपरेति अवगन्तव्यम्। तवेदनस्य फलमाह – औषति ह वै स तं यः अस्मात् पूर्वो बुभूषति य एवं वेद इति । य एवम् – पुरुषत्वनिरुक्तिक्रमं वेद – निरन्तरम् अनुसन्धत्ते, सः तम् औषति – दहति किम् इत्यत्राह – य: अस्मात् – इति । पूर्वो बुभूषति – श्रेष्ठो भवितुम् इच्छति । यः अस्मात् – उपासकात् श्रेष्ठो भूयासमिति इच्छति इत्यर्थः। विजिगीषुं तिरस्करोतीति पिण्डितार्थः ।। १ ।।
सोऽबिभेत् । तस्मादेकाकी बिभेति । स हायम् ईक्षाञ्चक्रे – यन्मदन्य न्नास्ति कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत् ? द्वितीयाद्वै भयं भवति ।। २ ।।
प्र. – सोऽबिभेत् इति । सः ‘अहन्नामा चतुर्मुखः अबिभेत् – आत्मन एकाकि तां दृष्ट्वा अस्थानभयाविष्टः अभवदित्यर्थः। अत्र सः इति न परमप्रकृतस्य परमात्मनः परामर्शः सम्भवति, तस्य ‘अपहतपाप्मत्वेन भयसम्बन्धाभावादिति द्रष्टव्यम् । तस्मादेकाकी बिभेति इति । अत एव हि लोके ‘अद्यतनोपि’ असहायो बिभेति इत्यर्थः। स हायमी– क्षाञ्चक्रे इति । ह शब्द: वृत्तार्थस्मरणे । सः -अयं चतुर्मुखः एवम् ईक्षाञ्चक्रे – इत्थम् अचिन्तयत् इत्यर्थः । किमिति? यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति इति। यत् यस्माद्धेतोः मत् – मत्तः अन्यत् – मत्प्रतिद्वन्द्वि वस्त्विह नास्ति, कुतोऽहं बिभेमीति । लोके हि प्रतिद्वन्द्विसत्वे असहायत्वं भयहेतुः । तदभावे असहायत्वं न भयहेतुरिति भाव:। तत एवास्य भयं वीयाय इति । तत एव – विवेकरूपात् ‘ज्ञानादस्य हिरण्यगर्भस्य भयं वीयाय – वीतमीत्यर्थः । उक्तमर्थम् श्रुतिः स्वयमेव अनुमोदते – कस्माद्ध्यभेष्यत् द्वितीयाद्वै भयं भवतीति । द्वितीयस्य प्रतिद्वन्द्विन एव भयहेतुत्वम्, अतः तस्यैव अभावे कुतो भयं प्राप्स्यतीति भावः । हिरण्यगर्भस्यापि शरीरपरिग्रहानन्तरमेव भयोत्पते शरीरित्वम् कष्टमिति भावः।
अत्र अद्वैतसाक्षात्कारात् भयं निवृत्तमिति नार्थः । तथा सति आत्मरतेः तस्योत्तरत्र नैव रेमे इत्यादिना अरतिरिरंसा प्रतिपादनविरोधात् । प्रारब्धवशात् अरतिरिरंसानुवृत्तौ भयमपि तद्वशात् कुतो नानुवर्ततेत्यास्तां तावत् ।। २ ।।
[स्त्रीपुरुषरूपेण आविर्भूय मनुष्यादिसृष्टिः]
स वै नैव रेमे । तस्मादेकाकी न रमते । स द्वितीयमैच्छत् । स हैतावानास, यथा स्त्रीपुमांसौ संपरिष्वक्तौ । स इममेवात्मानं द्वेधा अपातयत् । ततः पतिश्च पत्नी च अभवताम् । तस्मादिदम् अर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः । तस्मादयमेकांश:’ स्त्रिया पूर्यत एव । ताँ समभवत् । ततो मनुष्या अजायन्त ।। ३ ।।
प्र.- स वै नेव रेमे इत्यादि । सः – चतुर्मुखः नैव रेमे । इष्टार्थसंयोगजा प्रीतिः रतिः । तां न लब्धवान् इत्यर्थः । तस्मादेकाकी न रमते इति । यस्मादेकाकिन: चतुर्मुखस्य न रतिः अत एव अद्यापि असहायस्य रतिः नोपलभ्यत इत्यर्थः। स द्वितीयमैच्छत् इति । स: प्रजापतिः द्वितीयं रन्तुमैच्छत् इत्यर्थः । स हैतावानास यथा स्त्रीपुंसौ संपरिष्वक्तौ इति । ह शब्दः वृत्तार्थस्मरणे । यथा लोके स्त्रीपुंसौ रत्यर्थ संपरिष्वक्तौ यत्परिमाणो स्याताम् , तत् परिमाणो विवृद्धौ बभूवेत्यर्थः । स इममेवात्मानं द्वेधा अपातयत् इति । सः प्रजापतिः इमम् – विवृद्धम् आत्मानं – शरीरं द्वेधा अपातयत् । ततः पतनादेव पतिपत्नी-शब्दवाच्यौ दम्पती अभवतामित्यर्थः । उक्तञ्च श्रीविष्णुपुराणे – ब्राह्मणोऽभून्महान् क्रोधः त्रैलोक्यदहनक्षमः। (वि.पु.१–७–१) भ्रूकुटीकुटिलात् तस्य ललाटात् क्रोधदीपितात् । समुत्पन्नस्तदा रुद्रो मध्याह्नार्कसमप्रभः।। अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् । विभजाऽऽत्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ।। तथोक्तोऽसौ द्विधास्त्रीत्वं पुरुषत्वं तथाकरोत् ।। (वि.पु.१.७–११,१२.१४) इति ।
श्रीभागवते च –
कस्य रूपमभूद्द्वेधा यत् कायमभिचक्षते ।
ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ।। (भाग.३–१२–५२) इति।
तस्मादिदम् अर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः इति । तस्माद्धेतोः इदं शरीरं स्वः स्वस्य आत्मन इति यावत् । विभक्तिव्यत्ययः छान्दसः । विवाहात् प्राक् अर्धबृगलमिव – अर्धविदळमिव इति ह याज्ञवल्क्य आह स्म उक्तवान् । तस्मादयमेकांश: स्त्रिया पूर्यत एव इति । यस्मात् विवाहात् प्राक् अर्धविदळम् तस्मात् एकांश: पुरुषशरीरार्धभागः विवाहे सति स्त्रिया पूर्यते । अर्धो वा एष आत्मनो यत् पत्नी इति श्रुतेरित्यर्थः। आकाश: स्त्रिया पूर्यत इति पाठेऽपि आकाश: पूरणीयावकाशः इत्यर्थः । तां समभवत् इति । ताम् शतरूपाख्यां आत्मनो दुहितरं स प्रजापतिः समभवत् – मैथुन्यम् उपगतवान् । ततः – तस्मात् सङ्गमात् मनुष्या उत्पन्ना इत्यर्थः ।
उक्तञ्च विष्णुपुराणे – शतरूपाश्च तां नारी तपोनिर्धूतकल्मषाम् ।
स्वायम्भुवो मनुर्देव: पत्नीत्वे जगृहे प्रभुः ।। (वि.पु.१.७.१७) इति ।। ३ ।।
सो हेयमीक्षाञ्चक्रे–कथन्नु मा आत्मन एव जनयित्वा सम्भवति? हन्त तिरोऽसानीति । सा गौरभवत्, ऋषभ इतरः । तां समेवाभवत् । ततो गावोऽजायन्त । वडबेतराऽभवत्, अश्ववृष इतरः । गर्दभीतरा, गर्दभ इतरः । ताँ समेवाभवत् । तत एकशफमजायत । अजेतराऽभवत् बस्त इतरः अविरितरा, मेष इतरः । तां तां समेवाभवत्‘ । ततोऽजावयोऽजायन्त । एवमेव यदिदं किञ्च मिथुनमापिपीलिकाभ्यः तत् सर्वमसृजत ।। ४ ॥
प्र. – सो हेयमीक्षाञ्चक्रे इति । सा उ ह इयम् इति पदच्छेदः । ‘सेयं ह – प्रसिद्धा शतरूपा’ कन्या ईक्षाञ्चक्रे – इत्थम् अचिन्तयत् इत्यर्थः । चिन्ताप्रकारमेवाह – कथन्नु मा आत्मन एव जनयित्वा सम्भवति इति । नु इति वितर्के कथंनु – कथं वा मा – मां आत्मन एव उत्पाद्य सम्भवति – उपगच्छति। इति वितर्क्य, ततः तत्रोपायं निश्चित्याह – हन्त तिरोसानीति । हन्त इत्युपायदर्शनजहर्षे । तिरोसानि – जात्यन्तरेण तिरोहिता भवानि इति निश्चितवतीत्यर्थः । इति ईक्षित्वा सा शतरूपा गौरभवत् । वृषभ इतरः इति । इतर: मनुः वृषभः – ‘पुंगवः अभूत् । ताम् – गोरूपां शतरूपां समेवाभवत् – समभवदेव । पुनरपि मैथुन्यम् उपगतवान् इत्यर्थः। ततो गावो अजायन्त इति । स्पष्टोऽर्थः । वडबेतरा अभवत् इति । इतरा-शतरूपा वडबा– अश्वा अभवत् । अश्ववृष इतरः । इतरस्तु – मनुः अश्ववृष: – पुमश्वो अभवदत्यर्थः । वृषः वृष सेचने (धा.पा.७०६) रेतस्सेक्तेत्यर्थः । तत एकशफमजायत इति। अश्वाश्वतरगर्दभादयः अजायन्त इत्यर्थः । इतरत् स्पष्टम् । अजेतरा अभवत् वस्त इतरः इत्यादि । बस्त: – छागः। तां तां समेवाभवत् इति । [तां तां इति वीप्सा] ताम् – अजां ताम् – अविञ्च समभवदेव इत्यर्थः । इतरस्य स्पष्टोऽर्थः।। ४ ।।
सोऽवैदहं वाव सृष्टिरस्मि, अहं हीदं सर्वम् असृक्षीति । ततः सृष्टिरभवत् । सृष्ट्यां हास्येतस्यां भवति, य एवं वेद ।। ५ ।।
प्र. – सोऽवैदहं वाव सृष्टिरस्मि अहं हीदं सर्वं असृक्षीति इति । हि -‘यस्मात् अहं इदं सर्वं जगत् असृक्षि – सृष्टवानस्मि । तस्मात् अहं वाव अहमेव सृष्टिः। सृज्यते इति सृष्टि: जगदुच्यते। अहमेव सृष्टिरिति – मत्सृष्टमिदं जगदहमेवेति सः प्रजापतिः अवैत् – ज्ञातवान् इत्यर्थः । ततः सृष्टिरभवत् इति । यस्माद्धेतोः प्रजापतिः अहमेव सृष्टिरिति अभेदोपचारेण ‘स्वस्मिन् सृष्टिशब्द’ प्रायुंक्त, ततः स सृष्टिनामा अभवदित्यर्थः । सृष्ट्यां हास्यैतस्यां भवति, य एवं वेद इति । य एवम् – सृष्टिनिरुक्तिं वेद, सः अस्य प्रजापतेः एतस्यां सृष्टौ ब्रह्मसृष्टौ ह प्रसिद्धः मुख्यो भवतीत्यर्थ: ।। ५ ।।
[अग्न्यादिदेवता सृष्टिरूपविसृष्टि:]
अथेत्यभ्यमन्यत् स मुखाच्च योनेर्हस्ताभ्याञ्चाग्निमसृजत । तस्मात् एतदुभय–मलोमकमन्तरत: । अलोमका हि योनिरन्तरतः । तद् यदिदमाहुरमुं यजामुं यजेत्येकैकं देवम्, एतस्यैव सा विसृष्टिः । एष उ होव सर्वे देवाः । अथ यत् किञ्चेदमार्द्रम् तद् रेतसोऽसृजत । तदु सोमः । एतावद्वा इदं सर्वम्, अन्नच्चेवान्नादश्च । सोम एव अन्नमग्निरन्नादः । सैषा ब्रह्मणोऽतिसृष्टिः यच्छ्रेयसो देवानसृजत । अथ यन्मर्त्यस्सन् अमृतान–सृजत, तस्मादतिसृष्टिः । अतिसृष्ट्यां हास्यैतस्यां भवति, य एवं वेद ।।६।।
प्र.- अर्थत्यभ्यमन्यत् इति । सः – चतुर्मुखः अथ इति मङ्गलशब्दोच्चारण पूर्वकम् अभ्यमन्यत्। एवं मुखाच्च हस्ताभ्याञ्च मन्थनं कृत्वा योनेः कारणभूतात् मुखात् हस्ताभ्याञ्च अग्निमसृजत इत्यर्थः । तस्मादेतदुभयम् अलोमकम् अन्तरतः इति एतदुभयम् – फूत्कारनिर्मन्थनसाधनमुखहस्तात्मकमुभयं तस्मात् – अग्रेर्योनित्वात् अन्तरतः – मध्ये अलोमकम् – लोमशून्यमित्यर्थः । अग्नियोनित्वात् मुखस्य हस्तयोः अन्तरतः लोमशून्यत्वसिद्ध्यर्थं योनेरन्तरतो निर्लोमकत्वप्रसिद्धिं दर्शयति – अलोमका हि योनिरन्तरतः इति । स्पष्टोऽर्थः । तद्यदिदमाहुरमुं यजामुं यजेत इति । तत् – तस्माद्धेतोः यज्ञे याज्ञिका: अमुं यज अमुं यजेति यदिदं वचनम् एकैकं देवम् – इन्द्रादि-लक्षणं निर्दिश्याहुः, सा – तद्वचननिर्दिष्ट इन्द्रादिदेवविषयिणी सर्वा विसृष्टिः विविधसृष्टिः एतस्य – प्रजापतेरेव । अग्निद्वारा सर्वदेवतासृष्टिरपि प्रजापतिकर्तृकैवेत्यर्थः । सर्वस्य यष्टव्यदेवजातस्य अग्न्यधीनसत्ताकत्वादिति भावः । एष ह्येव इति । अत एत तत्सृष्टत्वादेव सर्वे देवाः एष उ ह्येव – ‘एष प्रजापतिरेव’। कार्यकारणयोः अभेदोपचारात् तथोक्तिः। अथ यत्किञ्चेवम् आर्द्रम् इति । अथ इति वाक्यान्तरोपक्रमे । यत्किञ्चेदं कार्यम् आर्द्रम् – द्रवरूपं दृश्यते,. तद्रेतसो असृजत ‘तद्रेतसा’ प्रजापतिः असृजतेत्यर्थः। शिश्नाद्रेतो रेतस आपः …इति श्रुतेः । तदुसोम इति । उ: अवधारणे । तदु – तद्द्र्व-द्रव्यमेव सोमः सोमरसः । एतावद्वा इदम् इति । इदम् सर्वम् – कार्यजातम् एतावद्वै -एतावदेव । किं तत् ? अन्नं चैव अन्नादश्च – अन्नान्नादात्मकम् इत्यर्थः। सर्वस्य जगतः अन्नान्नादात्मकत्वे अग्नीषोमात्मकत्वम् आयातमित्याह – सोम एवान्नम् अग्निरन्नादः इति । सोमस्य ‘भक्ष्यमाणत्वात् अन्नत्वम्, अग्ने: ताद्दाहकतया अन्नादत्वम् । अतो जगत् अग्निषोमात्मकमिति भावः।
सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवान् असृजत इति । यत् – यस्मात् श्रेयसः – श्रेष्ठान् ऊर्ध्वरेतसः सनकसनन्दनादीन् देवान् असृजत, सैषा ब्रह्मणो अतिसृष्टिः – अतिशयिता सृष्टिः अतिसृष्टिः । कथम् अतिशयितसृष्टित्वम् इत्यत आह अथ यन्मर्त्यस्सन् अमृतान् – असृजत, तस्मादति सृष्टिः इति । अथ यत् यस्मात् प्रजापतिः स्वयम् मर्त्यस्सन् – मरणधर्मा सन् अमृतान् मुक्तियोग्यान् ज्ञानवैराग्यादिसम्पन्नान् मुमुक्षून् सनकसनन्दनादीन् असृजत, तस्मात् सा अतिसृष्टिः इत्यर्थः । अतिसृष्ट्यां हास्यैतस्यां भवति इति । य एवं वेद – य एवं प्रकारेण ज्ञानवान्, स एतस्यां अस्य–‘चतुर्मुखस्य अतिसृष्टौ’ ह प्रसिद्धः मुख्यो भवतीत्यर्थः । ज्ञानवैराग्यमुमुक्षासम्पन्नो भवतीति यावत् ।। ६ ।।
[अव्याकृतरूपेण आदौ स्थितिः]
तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यामेव व्याक्रियत असौनामाऽयमिदंरूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियते असौनामायमिदंरूप इति । स एष इह प्रविष्ट आनखाग्रेभ्यः, यथा क्षुरः क्षुरधाने अवहितः स्यात्,
विश्वम्भरो वा विश्वम्भरकुलाये । तं न पश्यति‘ अकृत्स्नो हि सः । प्राणन्नेव प्राणो नाम भवति, वदन् वाक्, पश्यंचक्षुः, शृण्वन् श्रेत्रम्, मन्वानो मनः । तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते, न स वेद । अकृत्स्नो ह्येषोऽत एकैकेन भवति। आत्मेत्येव उपासीत । अत्र ह्येते सर्व एकं भवन्ति । तदेतत् पदनीयमस्य सर्वस्य, यदयमात्मा । अनेन ह्येतत् सर्वं वेद। यथा ह वै पदेनानुविन्देत् एवम् । कीर्तिं श्लोकं, विन्दते, य एवं वेद ।। ७ ।।
प्र. – ननु आत्मैवेदमग्र आसीत् इत्ययुक्तम्, यदिदं किञ्च मिथुनमापिपीलिकाभ्यः तत्सर्वम् असृजत इति सृष्टतया निर्दिष्टस्य मिथुनादिरूपस्य प्रपञ्चस्य इदंशब्दनिर्दिष्टस्य आत्मभिन्नत्वेन आत्मैवेदमग्र आसीत् इति वक्तुमयुक्तत्वात् इत्याशङ्क्य इदमादि-
नामरूपभाक्त्वात् इदंशब्दवाच्यमपि तच्छरीरं ब्रह्मैव । तस्य च ‘आत्मैवेदमग्र आसीत्’ इत्यात्मशब्दवाच्य सूक्ष्मचिदचिद्विशिष्टब्रह्माभेद उपपद्यत इत्येतत् तदर्थोऽत्र सन्दर्भ आरभ्यते-तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत इति । ह शब्दो वृत्तार्थस्मरणे तदिदम् – मिथुनादिलक्षणं जगत् तर्हि तदासृष्टेः प्राक् अव्याकृतमासीत् – अव्यक्तमासीत्, अव्यक्तशरीरकं ब्रह्मासीत् इत्यर्थः; नामरूपाभ्यां न व्याकृतमिति व्युत्पत्या अव्याकृतशब्दस्य अव्यक्तवचनत्वात् । अव्यक्तत्वञ्च नामरूपविशिष्टतया अनभिव्यक्तत्वम् । अव्याकृतशब्दस्य तच्छरीरकब्रह्मपरत्वे युक्तिः समनन्तरमेव स्पष्टयिष्यते। तदेव अव्याकृतशरीरं ब्रह्मैव-नामरूपाभ्याम् इति इत्थंभावे तृतीया – नामरूपवत्तया व्याक्रियत – व्याकृतमासीत् । व्याङ्भ्याम् उपसर्गाभ्याम्, विविच्य समन्तात्कृतमासीत् इत्यर्थः । तदेव दर्शयति असौनामायमिदंरूप इति । असौ नामा देवमनुष्यादिनामा, इदंरूप: – करचरणादिरूपवान् इत्येवं अयम् – पूर्वोक्त आत्मैव व्याक्रियतेत्यर्थः । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियते असौनामाऽयमिदंरूप इति इति । अनेन वाक्येन सृषट्यादिकालिके अप्रत्यक्षे अव्याकृतनामरूपव्याकरणे सुग्रहत्वाय निदर्शनमुच्यते । तत् – पूर्वं तथा नामरूपाभ्यां व्याकरणाद्धेतोः एतदपि – इदानीमपि इदम् – उत्पद्यमानं चराचरव्यक्तिजातम् , इदं रूपोऽयम् – एतादृशसंस्थानवानयम् असौ नामा – देवदत्त यज्ञदत्तादिनामवानिति नामरूपाभ्यामेव व्याक्रियते । इत्थमेव आदावपि नामरूपाभ्यां व्याकरणमवधेयम् इत्यर्थः । उभयत्र, असौ नामा इति छान्दसोऽलुक् । अदोनामेति वक्तव्ये, असौ नामेति लिङ्गव्यत्ययोऽपि छान्दसः । ततश्च नामरूपवत्वमव्याकृतशब्दितस्य ब्रह्मणः सिद्धमिति सर्वाणि च नामानि तत्प्रवृत्तिनिमित्तभूतानि च रूपाणि तदीयान्येव।अतः इदमादिशब्दैरपि तस्यैव निर्देशसम्भवात् ‘आत्मैवेदमग्र आसीत्’ इत्यभेदनिर्देशे न अनुपपत्तिरिति भावः ।
नामरूपाभ्यामेव इत्यत्र एवकारो भिन्नक्रमः । तदेव नामरूपाभ्याम् स्वयमेव व्याक्रियतेत्यर्थः । व्याक्रियत इत्यत्र कर्मकर्तरि लकारः । कर्त्रन्तराक्षेपे गौरवात् तदात्मानं स्वयमकुरुत (तै.आन.७) इत्यनेन ऐकार्थ्यात् । उक्तञ्च भगवता भाष्यकृता – तदेव
अविभक्तनामरूपं ‘ब्रह्मसंज्ञ’ सत्यसंकल्पं स्वेनैव विभक्तनामरूपं स्वयमेव व्याक्रियत इत्युच्यते इति ।
ननु अव्याकृतमासीत् इत्यत्र क्तप्रत्ययस्य कर्मार्थकत्वमेव वक्तव्यम्; न तु कर्मकर्त्रर्थकत्वम् । न च कर्मकर्तर्यपि कर्मवद्भावेन क्तप्रत्ययसिद्धिरस्तु इति वाच्यम् लान्तस्य यः कर्मणा तुल्यक्रियः कर्ता, तस्यैव कर्मवद्भावविधानात् । ‘कृत्यर्थखलर्थेषु’ कर्मवद्भावा-
भावात् अवश्यं कर्मण्येव क्तः वक्तव्यः। ततश्च तदवैरूप्याय व्याक्रियत इत्यत्रापि कर्मण्येव लकारः अस्त्विति चेन्न – एवकारेण कर्त्रन्तरव्यवच्छेदात् कर्त्रन्तराक्षेपे गौरवाञ्च व्याक्रियतेति लकारस्य कर्मकर्तर्येव अभ्युपगन्तव्यत्वात्, वैरूप्यस्यापि सोढव्यत्वात् ।
[तस्यात्मनः सर्वत्रान्तःप्रवेशः]
ननु आत्मनः कथं देवमनुष्यादिनामरूपवत्वम् देवमनुष्यादिशरीरे तस्य अवर्तमानत्वादिति इमां शङ्कां व्यावर्तयति – स एष इह प्रविष्टः आनखाग्रेभ्यः इति । एष:– अव्याकृतशरीरकः सः – पूर्वमात्मशब्दितः परमात्मा इह – कार्यवर्गे आनखाग्रेभ्यः प्रविष्टः – कारणावस्थायां चिदचितोः व्याप्य स्थितत्वात् कार्यावस्थायामपि तयोः परिपूर्ण एव स्थित इत्यर्थः । प्रविष्टः – अन्तर्यामिरूपेणेति शेषः । तत्र द्रष्टान्तम् आह- यथा क्षुरः क्षुरधाने अवहितः स्यात् विश्वम्भरो वा विश्वम्भर कुलाये इति । क्षुरो धीयते अस्मिन्निति क्षुरधानम् – क्षुरकोशः । तस्मिन् यया क्षुरः अवहितः – पिहिताप्रविष्टः, विश्व बिभर्ति वैश्वानराग्निरूपेणेति विश्वम्भरः – अग्निः। ‘सः तस्य विश्वम्भरस्याग्ने: कुलाये . हनीडे – दारुणीति यावत् – यथा पिहितप्रविष्टः तथा इह प्रविष्ट इति पूर्वेणान्चयः । तत्र पश्यत्यकृत्स्रो हि सः इति । यस्तिलतैलवत् सर्वस्वरूपव्याप्तं परमात्मानं न पश्यति स: अकृत्स्न:- अपूर्णस्वरूपः। असत्कल्प इति यावत् ।
[तस्यैव प्राणवागादित्वम्]
परमात्मन एव सर्वनामरूपवत्वमुपपादयति – प्राणन्नेव प्राणो नाम भवति इत्यादिना । प्राणन्नेव – प्राणनक्रियां कुर्वन्नेव परमात्मा प्राणनामा’ भवति । प्राणितीति प्राणः इति व्युत्पत्तेरित्यर्थः । वदन् वाक् – वदनक्रियां कुर्वन्नेव वाङ्नामा भवति । वक्तीति वाक् । पश्यंश्चक्षुः – दर्शनक्रियां कुर्वन् चक्षुर्नामा भवति। चष्ट इति चक्षुः । शृण्वन् सन् श्रोत्रं भवति । शृणोतीति हि श्रोत्रम्। मन्वानः–मननं कुर्वन्नेव मनो भवति । मनुत इति हि मनः । तान्येतानि प्राणादिनामानि अस्य ‘परमात्मनः पाचक-लावकादिवत् कर्मनामान्येव । अतः स परमात्मैव प्राणवागादिद्वारा प्राणनवदनादिकर्ता, तथा तत्तच्छब्दप्रवृत्तिनिमित्तभूत जातिगुणक्रियाद्याश्रयः स एवेति तस्यैव तत्तत्प्रवृत्तिनिमित्तक-चराचरशब्दवाच्यत्वमपि इति सर्वनामरूपाश्रयत्वं परमात्मनो अस्तीति भावः। अत्र प्राणानादिकरणेषु प्राणादिषु कर्तृत्वोपचारः प्राधान्यादवगन्तव्यः ।
[कारणत्वाधिकरणम्]
इदञ्च वाक्यं का रणत्वेन च आकाशादिषु (ब्र.सू.अ.१-४-४) इत्यधिकरणे समन्वयाध्याये चिन्तितम् । तथाहि – सदेव सोम्येदमग्र आसीत् (छा.उ.६-२-१) इति क्वचित् सत्पूर्विका सृष्टिराम्नायते । असद्वा इदमग्र आसीत् (शत.ना.मा.पा.६-१-१,तै.आन.७-१) इति क्वचित् असत्पूर्विका। अतो वेदान्तेषु सृष्टिरव्यवस्थितेति जगतो ब्रह्मैककारणत्वम् निश्चेतुं न शक्यम् । तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत (बृ.उ.३-४-७) इति अव्याकृतकर्तृकसृष्टेराम्नातायाः साङ्ख्यस्मृत्यनुरोधित्वात् प्रधानमेव जगत्कारणम् । अत ईक्षणादयो गौणा नेतव्याः इति पूर्वपक्षे प्राप्ते – कारणत्वेन च आकाशादिषु यथाव्यपदिष्टोक्ते: (ब्र.सू.१-४-१४) समाकर्षात् (ब्र.सू.१-४-१५) इति सूत्राभ्यां सिद्धान्तितम् ।
जन्माद्यस्य यतः (ब्र.सू.१-१-२) इत्यादि सूत्रेषु प्रतिपादितम् सर्वज्ञं सत्यसङ्कल्पं ब्रह्म यथाव्यपदिष्टम् इत्युच्यते । तस्यैव, आत्मन आकाशस्सम्भूतः (तै.आन.१-१) इत्यादिषु वाक्येषु आकाशादिकारणत्वेनोक्तेः। समाकर्षात् (ब्र.सू.१-४-१५) असद्वा इदमग्र आसीत्
(शत.ब्रा.मा.पा.६-१-१, तै.आन.७-१) इत्यत्र सोऽकामयत (तै.आन.६-२) इति प्रकृतस्य ब्रह्मण एव । तदप्येष श्लोको भवति (तै.आन.६-३) इति समाकृष्य असद्वा इदमग्र आसीत् (शत.ब्रा.मा.पा.६-१-१,तै.आन.७-१) इत्यभिधानात् असच्छब्दः सूक्ष्म-
चिदचि द्विशिष्टब्रह्मपरः’, तद्धेदं तर्ह्यव्याकृतमासीत् (बृ.उ.३-४-७) इत्यत्रापि अव्याकृतस्य स एष इह प्रविष्ट: आनखाग्रेभ्यः पश्यँश्चक्षुः इत्यादिना उत्तरत्र समाकृष्यमाणत्वात् । पश्यत्वादीनामचेतनेऽभावात् । अव्याकृतशब्दोऽपि अव्याकृतशब्दित अव्यक्तशरीरक-
परमात्मपर एवेत्यर्थः इति निर्णीतम् ।
[स्मृत्यधिकरणम्]
तथा साङ्ख्ययस्मृतिश्च नानुरोद्धव्येति स्मृतिपादे, स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्न अन्यस्मृत्यनकाशदोषप्रसङ्गात् (ब्र.सू.२-१-१) इत्यधिकरणे स्थितम् । तत्र हि सदेव सोम्येदमग्र आसीत् (छां.उ.६-२-१) तद्धेदं तर्ह्यव्याकृतमासीत् (बृ.उ.३-४-७) इत्येवंरूपश्रुतीन परस्परविरुद्धार्थतया प्रतीयमानानां स्वतोऽर्थनिर्णयासमर्थानां तत्त्वप्रतिपादक-सर्वज्ञ’कपिलप्रगीतस्मृत्यनुसारेणैव’ अर्थो निर्णेतव्यः। इतरथा साङ्ख्यस्मृतेः मन्वादिस्मृतिवत् कर्मस्वरूपे सावकाशत्वाभावेन अनवकाशत्वरूपो दोषः प्रसज्येत इति पूर्वपक्षं कृत्वा – यद्वै किञ्च मनुः अवदत् तद् भेषजम् (तै.सं.२-२-१०) इति श्रुतिप्रतिपादितप्रामाण्यानां श्रुत्यविरुद्धानांभूयसीनां मन्वादिस्मृतीनां प्रधानकारणवादेऽनवकाशप्रसङ्गेन श्रुतिविरुद्धायाः एतादृश्या एकस्याः साङ्ख्यस्मृतेरेव अनादरणीयत्वमुचितम् । मन्वादिस्मृतयो हि ऐककण्ठ्येन सर्वज्ञं ‘परमात्मानं जगत्कारणम्’ अभिदधति ।
यथाऽऽह मनुः-
आसीदिदं तमोभूतम् (म.स्मृ.१–५) इत्यारभ्य–
ततःस्वयंभूर्भगवान् अव्यक्तो व्यञ्जयन्निदम् ।
महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुदः।।
सोऽभिध्याय शरीरात् स्वात् सिसृक्षुः विविधाः प्रजाः।
अप एव ससर्जादौ तासु वीर्यम् अपासृजत् ।। (म.स्मृ.१–६–८) इति ।
भगवद्गीतासु च –
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । (भ.गी.७–६)
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।। (भ.गी.१०–८) इति।
महाभारते च –
कुतः सृष्टमिदं सर्वं जगत् स्थावरजङ्गमम् ।
प्रळये च कमप्येति तं मे ब्रूहि पितामह ।। (म.भा.शां.८–१) इति पृष्ट आह .
नारायणो जगन्मूर्तिरनन्तात्मा सनातनः । (म.भा.शां.८–१२) इति ।
तथा-
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम । (म.भा.शां.८-१३) इति;
अव्यक्तं पुरुषे ब्रह्मनिष्क्रिये संप्रलीयते । (म.भा.शा.८-१४) इति च ।
आह च भगवान् पराशरः-
विष्णोः सकाशात् उद्भूतं जगत् तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगञ्च सः ।। (वि.पु.१-१-३१) इति।
आह च आपस्तम्ब:-
पू: प्राणिनः सर्वगुहाशयस्य अहन्यमानस्य विकल्मषस्य (आप.ध.सू.२२-६) इत्यारभ्य;
तस्मात् कार्याः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्या: (आप.ध.सू.२६-१-२) इति ।
न च मन्वादिस्मृतीनां कर्मस्वरूपे सावकाशत्वम् । कर्माराध्यपरमात्मस्वरूपेऽपि तात्पर्यात्।
ननु कपिलेन मन्वाद्यभिमतस्य परमात्मनः अनुपलब्धेः तस्य अप्रामाणिकत्वमिति चेत्, तत्राह-
इतरेषाञ्च अनुपलब्धः (ब्र.सु.२-१-२)। इतरेषां मन्वादीनां वैदिकानां बहूनां साङ्ख्योक्तप्रकारेण तत्वानुपलब्धेः साङ्ख्यस्मृतिः अननुरोद्धव्या इति सिद्धान्तः कृतः।
[रचनानुपपत्यधिकरणम्]
तथा साङ्ख्याभिमतस्य प्रधानस्य जगत्सृष्टृत्वं न युक्तिसहमिति तर्कपादे रचनानुपपत्तेः (ब्र.सू.अ.२-२-१) इत्यधिकरणे स्थितम् । तथाहि – रचनानुपपत्तेश्च नानु पानं प्रवत्तेश्च (ब्र.सू.२-२-१) । सत्त्वरजस्तमोमयसुखदुःखमोहात्मकं जगत् तत्स्वरूपोपादा न कं कार्यत्वात् इत्यनुमानसिद्धं साङ्ख्याभिमतं प्रधानं न जगत्कारणम् अनुमीयते इति व्युत्पत्य । अनुमानशब्दः आनुमानिकप्रधानपरः – तादृशस्य प्रधानस्य तादृशस्वभावाभिज्ञचेतन अनधिष्ठितत्वेन विचित्रप्रपञ्चरचनासामर्थ्यानुपपत्तेः । तादृशचेतनाधिष्ठितस्यैव दार्वादेरचेतनस्य कार्यप्रवृत्तेः दर्शानाञ्च न प्रधानं जगत्कारणमित्यर्थः । पयोम्बुवञ्चेत् तत्रापि (ब्र.सू.२-२-२) । ननु पयसः चेतनानधिष्ठितस्यापि दधिभावेन परिणामवत्, वारिदमुक्तजलस्य नाळिकेररसात् आत्मना परिणामवत् चेतनानधिष्ठितस्यापि प्रधानस्य परिणामः किं न स्यादिति चेन्न तत्रापि प्राज्ञाधिष्ठानमस्त्येव; तस्यापि पक्षत्वादित्यर्थः । अन्यत्राभावाञ्च न तृणादिवत्
(ब्र.सू.२-२-४) । धेन्वाधुपयुक्ततृणादेः प्राज्ञानधिष्ठितस्यापि क्षीराकारेण परिणामदर्शनात् इत्युदाहरणान्तरावलम्बनेन शङ्का । धेन्वाद्युपयुक्तातृणवत् अनडुदाधुपयुक्ततृणादेः क्षीरभावेन परिणामाभावात् तत्रापि प्राज्ञादिष्ठानमपेक्षितमिति परिहाराभिप्रायः । पुरुषाश्म-वदिति चेत् तथापि (ब्र.सू.२-२-५)। दृक्छक्तियुक्त पुरुषसन्निधानात् दृक्छक्तिशून्योऽप्यन्धो यथा प्रवर्तते, यथा अयस्कान्ताश्मसन्निधानात् अयसः अचेतनस्य प्रवृत्तिः एवं चिन्मात्रात्मक- पुरुषसन्निधानात् अचेतनं प्रधानं जगत्सर्गे प्रवर्तते इति चेत् – तथापि प्रधानस्य स्रष्टृत्वं नोपपद्यते । पुरुषस्य चिन्मात्रवपुषः तदनुगुणोपदेशादिव्यापाराभावात्, सन्निधानमात्रस्य प्रयोजकत्वे नित्यसर्ग प्रसङ्गात् । अङ्गित्वानुपपत्तेश्च (ब्र.सू.२-२-६) प्रळये साम्यावस्थानां सत्त्वरजस्तमसाम् उत्कर्षापकर्षलक्षण अङ्गागिभाववशेन जगत्सृष्टिः ‘वक्तव्या । सा नोपपद्यते । कालविशेषे अङ्गागिभावे नियामकाभावात् इत्यर्थः। अन्यथाऽनुमितौ च
ज्ञशक्तिवियोगात् (ब्र.सु.२-२-७) । दूषितप्रकारातिरिक्तप्रकारेण प्रधानानुमानेऽपि ज्ञातृत्व-शक्त्यभावात् ‘जगत्स्रष्टृत्वं प्रधानस्य नोपपद्यते । अभ्युपगमेऽप्यर्थाभावात् (ब्र.सू.२-२-८) आनुमानिकप्रधानाभ्युपगमेऽपि पुरुषस्य तन्मते चिन्मात्रत्वेन निष्क्रियत्वेन भोगाप-वर्गयोरभावात् पुरुषभोगाद्यर्था प्रधानप्रवृत्तिरिति नोपपद्यते । अतो व्यर्थः प्रधानाभ्युपगमः । विप्रतिषेधाञ्चासमञ्चसम् (ब्र.सू.२-२-९) । पुरुषो न संसरति न मुच्यते – इत्युक्त्वा ‘पुरुषभोगाद्यर्था’ प्रधानप्रवृत्तिरित्याधुपपादयत् साङ्ख्यदर्शनं पूर्वोत्तरविरोधाच्च असमञ्जसमिति स्थितम् ।
ततश्च साङ्ख्याभिमतप्रधानस्य तुच्छत्वात्। तद्धेदं तर्ह्यव्याकृतम् आसीत् (बृ.उ.३-४-७) इत्यत्र न तत्प्रतिपादकत्वशङ्कावकाशः । प्रकृतमनुसरामः स योऽत एकैकमुपास्ते न स वेद । अत: – अस्माद्धेतोः सर्वनामरूपविशिष्टं परमात्मानं विहाय, एकैकम् – एकैकनामरूपविशिष्टं जीवमुपास्ते, न स वेद-स नोपास्ते। तदुपासनम् उपासनमेव न भवतीत्यर्थः। उपासनशब्दमध्यपठितत्वात्
विदिरुपासनपरः । उक्तं च व्यासार्यै: लघुसिद्धान्ते – न स वेद इत्यस्य, स योऽत एकैक-मुपास्ते इत्येतद्वाक्यपूर्वकत्वात् उपक्रमोपसंहारयोः उपासनशब्दः, मध्ये वेदनशब्दः इति । कुत इत्यत्राह – अकृत्स्रो ह्येषोऽत एकैकेन भवति इति। अतः – ब्रह्मण एव सर्वनामरूपविशिष्टतया सर्वात्मत्वात् ‘एकैकेन नामरूपेण विशिष्टः एष:-जीव: अकृत्स्न: – अपूर्णा भवतीत्यर्थः । एकैकेनेति इत्थंभूतलक्षणतृतीया’ । तस्माद्धेतोः, आत्मेत्येव उपासीत । अत्र ह्येते सर्व एकं भवन्ति इति । ‘एकैक ‘नामरूपं जीवं विहाय सर्वनामरूपभाजं परमात्मानमुपासीत । अत्र – परमात्मनि हि ‘यस्मात् सर्वे’ पदार्थाः शरीरतया एकं भवन्ति । न तु स्वरूपैक्यम्: जडाजडयोः ऐक्यासम्भवात् : शरीर-शरीरिणोश्च पृथक्-स्थित्याद्यभावेन एकत्वव्यवहारस्य दृष्टत्वादिति द्रष्टव्यम्। ततश्च देवदत्तस्य आत्मा यज्ञदत्तस्य आत्मेति किञ्चित्प्रतियोगिकतयोपासने हि न सर्वान्तर्भावः । आत्मत्वेनैव उपासने सङ्कोचकाभावात् असङ्कुचितं सर्वात्मत्वं लभ्यते इति भावः ।
यद्वा-स योऽत एकैकमुपास्ते न स वेद इति । यस्मात् नामरूपात्मक प्रपञ्च विशिष्टं ब्रह्म , अतः यः एकैकं विशेषणांशं विशेष्यांशं वा पृथक्सिद्धतया उपास्ते न स वेद । तत् उपासनमेव न भवतीत्यर्थः। कुत इत्यत्राह – अकृत्स्रोह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीत इति । हि – यस्मात् एषः विशिष्टपदार्थः एकैकेन – विशेषणांशेन विशेष्यांशेन वा अकृत्स्नः – अपूर्णो भवति – केवलविशेषणांशेऽपि पूर्णता नास्ति । केवलविशेष्यांशेऽपि पूर्णता नास्ति । यतः अतः आत्मेत्येव नामरूपात्मकचिदचित्प्रपञ्चा-
पृथक्सिद्धविशेष्यत्वेन उपासीत इत्यर्थः । अत्र ह्येते सर्वं एकं भवन्ति इति । अत्र हि विशिष्टे सर्वे पदार्थाः एकं भवन्ति – अन्तर्भवन्ति इत्यर्थः । विशिष्टे विशेषण विशेष्ययोः अन्तर्भूतत्वादिति भावः । एतदेव अभिप्रेत्य ‘आत्मेति तु उपगच्छन्ति (ब्र.सू.४-१-८)
इत्यत्र व्यासार्यै: अकृत्स्नःअपूर्णः । विशिष्ट एव हि पूर्णः इत्युक्तम् ।
तदेतत् पदनीयम् अस्य सर्वस्य इति । तदेतत् परमात्मस्वरूपम् अस्य सर्वस्य नामरूपात्मकप्रपञ्चस्य पदनीयम् – प्रपदनीयम् प्रपत्तव्यमित्यर्थः । पदेर्धातोः अनीयर् प्रत्ययः । अथवा पदनीयम् – ज्ञातव्यमिति वा अर्थः । तत्र हेतुमाह यदयमात्मा इति ।
अस्य सर्वस्य इत्येतदत्रापि ‘काकाक्षिन्यायेन अन्वेति । यत् – यस्मात् कारणात् अस्य – सर्वस्य अयमात्मा, अत इत्यर्थः । तमेवैकं जानथात्मानं (मुं.उ.२-२-५) इति आत्मन एव ज्ञातव्यत्वाभिधानादिति भावः । अनेन ह्येतत् सर्वं वेद इति । अनेन आत्मना अभिज्ञातेन सर्वं वेद – सर्वज्ञो भवतीत्यर्थः । ‘अत्र दृष्टान्तमाह – यथा‘ ह वै पदेन अनुविन्दे देवम् इति । ह वै शब्दौ प्रसिद्धौ । यथा चोराद्यपहृतं गवादिधनं पदेन – तत्पदाङ्कितप्रतिपदेन ‘लभते’, एवं पदनीयत्वेन प्राङ् निर्दिष्टेन’ सर्वस्य पदभूतेन ब्रह्मणा सर्वम् अनुविन्देत् वेदेत्यर्थः । अनुङ्गिकञ्च फलमाह – कीर्तिं श्लोकं विन्दते य एवं वेद इति । कीर्तिम् – ख्यातिसामान्यम् , श्लोकम् – पुण्यश्लोकत्वं च लभत इत्यर्थः ।। ७ ।।
[आत्मनः पदनीयत्वं प्रेयस्त्वच्च]
तदेतत् प्रेयः पुत्रान् ‘प्रेयो मित्रात्‘ प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरो‘ यदयमात्मा। स योऽन्यमात्मन: प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यति इतीश्वरो ह तथैव स्यात् । आत्मानमेव प्रियमुपासीत । स य आत्मानमेव प्रियमुपास्ते, न हास्य प्रियं प्रमायुकं भवति ।। ८ ।।
प्र– तदेतत् प्रेयः पुत्रात् प्रेयो मित्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरी यदयमात्मा इति । यत् – यस्मात् कारणात् अयं सर्वेषां ‘अन्तरतर: अभ्यन्तरतरः ‘अत्यन्तान्तरङ्ग: – मुख्य’ इति यावत् तादृश आत्मा, तत् – तस्माद्धेतो: एतत् – एषः पुत्रमित्रादिप्रियान्तरापेक्षया अतिप्रियतरः इत्यर्थः । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् इति। स यः -एववित् आत्मनोऽपि परमात्मापेक्षयापि अन्यत् प्रिय अस्तीति ब्रुवाणं प्रति व: ईश्वर:- प्रयं रोत्स्यति – प्रियनिरोधमीश्वरः करिष्यतीति यदि ब्रूयात्, तथैव भवेदित्यर्थः । आत्मानमेव प्रियमुपासीत इति। तस्माद्धेतोः निरतिशयप्रियम् परमात्मानमेव उपासीतेत्यर्थः । ‘परमात्मनो हि अनुभूयमानस्य निरतिशयानन्दताया प्रियत्वमानन्दवल्ल्यादिसिद्धं द्रष्टव्यम्। स य आत्मानमेव प्रियमुपास्ते इत्यादि । प्रमायुक्तम् – प्रकृष्टं मायुः मरणं यस्य तत् । प्रमायुक्तं न भवति – अविनष्टं भवतीत्यर्थः । शिटं स्पष्टम् ।।८।।
[अहं ब्रह्मास्मीत्युपासनविधानोद्धातः]
तदाहुः यद ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते, किमु तद् ‘ब्रह्मावैत्‘, यस्मात् तत् सर्वम् अभवदिति ।। ९ ।।
प्र. – तदाहुः इति । तत् – वक्ष्यमाणं आहुः – पप्रच्छुः इत्यर्थः । यद् ब्रह्मविद्यया सर्वं भविष्यन्ती मनुष्या मन्यन्ते किमु तद्ब्रह्मावैत्, यस्मात् तत् सर्वमभवदिति । इदं हि वाक्यं व्यासार्यै:, ‘यद्ब्रह्मविद्यया सर्वं भविष्यन्तः – सर्वशब्दवाच्य परमात्मपर्यन्ता-
विर्भाव’कामाः मनुष्या मन्यन्ते, किमु तद्ब्रह्मावैत् यस्मात्तत्सर्वमभवदिति – तत् ब्रह्म किं वेद्यं वस्त्वन्तरमवैत् यस्माद्वेदनात् तत् सर्वमभवदिति ब्रह्मणोऽपि परं तदुपास्यं वस्त्वस्ति न वेति बुभुत्सा उत्थापिता इति सर्वव्याख्यानाधिकरणे व्याख्यातम् ।। ९ ।।
[‘अहम् ब्रह्मास्मि‘ इत्युपासनौचित्यनिरूपणम्, उपासकस्य
देवैरनभिभाव्यत्वम्, अन्येषां दैवपशुत्वं च]
ब्रह्म वा इदमग्र आसीत् । तदात्मानमेवावैदहं ब्रह्मास्मीति । तस्मात् तत् सर्वमभवत् । तद्यो यो देवानां प्रत्यबुध्यत, स एव तदभवत् तथर्षीणाम्, तथा मनुष्याणाम् । तद्धेतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेद अहं ब्रह्मास्मीति, स इदं सर्वं भवति । तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति । अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद । यथा पशुरैवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्यु: एवमेकैकः पुरुषो देवान् भुनक्ति । एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति, किमु बहुषु? तस्मादेषां तन्न यम्, यदेतन्मनुष्या विद्युः ।। १० ।।
प्र. – ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावैदहं ब्रह्मास्मीति तस्मात्तत्सर्व–मभवदिति इति । इदमपि वाक्यं व्यासार्यै: उपास्यान्तरशून्यमित्युत्तरमाह – तदात्मानमेवावैदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत् इति आत्मानमेव अवैत् । नतु अन्यदुपास्यम् । तस्मात् तत् सर्वम् अभवदित्यर्थः। अन्यवेदनस्य उपायत्वनिषेधे तात्पर्यम्: न तु स्ववेदनस्य उपायत्वविधाने । यथा, स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः (श्वे.उ.६-९) इति कारणानन्तरनिषेधेन परमकारणत्वसिद्धिः । एवमुपास्यान्तरनिषेधेन ब्रह्मणः परमोपास्यत्वमिह विविक्षितम् इति सर्वव्याख्यानाधिकरणे विवृतम् । अत्र आत्मेतरत् न अवैत् इति वक्तव्ये, आत्मानमेवावैदहं ब्रह्मास्मीति इत्युक्ति: तदिदमप्येतर्हि य एवं वेद अहं ब्रह्मास्मीति इत्यादिना वक्ष्यमाणब्रह्मवेदन प्रशंसाहेतुसिद्ध्यर्था । ब्रह्म वा इदमग्र आसीत् इति तस्य ब्रह्मणः जगत्कारणत्वोक्तिश्च, कारणं तु ध्येयः (अथर्वशिखा.३) इति
कारणस्यैव ध्येयतया सर्वकारणस्य ब्रह्मणः कारणान्तराभावादेव ध्येयान्तरं नास्तीति द्योतनार्थेति तात्पर्य द्रष्टव्यम् ।
एवमुपास्यान्तरशून्यं ब्रह्म ज्ञातवतः फलमाह – तद्यो यो देवानां प्रत्यबुध्यत, स एव तदभवत्। तथर्षीणाम्, तथा मनुष्याणाम् इति । देवानाम् ऋषीणां मनुष्याणां वा मध्ये’ यो यो ब्रह्म प्रत्यबुध्यत, स सर्व एव तदभवत् – सर्वमभवत् । सर्वशब्दवाच्य-परमात्मपर्यन्ताविर्भाववान् अभवदित्यर्थः । सर्वात्मभूतपरमात्मात्मको अभवत् । सर्वेणैकात्म्यं, प्राप्तवानिति यावत् । ऐकात्म्यस्य नित्यप्राप्तस्य प्राप्तव्यत्वासम्भवात् तत्साक्षात्कारः फलमिति फलति । तदेवाह – तद्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवम् सूर्यश्चेति इति। ह शब्दो वृत्तार्थस्मरणे। तदेतत् – ब्रह्म पश्यन् – उपासीनो वामदेवर्षिः अहं मनुरभवं सूर्यश्चेति – मदात्मैव मन्वादीनामात्मेति प्रतिपेदे। मन्वादिना सर्वेण स्वस्येकात्म्यं साक्षात्कृतवानित्यर्थः । तदितमप्येतर्हि य एवं वेद अहं ब्रह्मास्मीति स इदं सर्वं भवति इति । एतर्ह्यपि – एतस्मिन्नपि काले तदिदं ब्रह्म अहमस्त – सर्वात्मक-ब्रह्मात्मकोऽहमस्मीत्येवं यो यो वेद, ‘स सर्वोऽपि इदं सर्वं भवति – एतत्सर्वात्मक-ब्रह्मपर्यन्ताविर्भाववान् भवतीत्यर्थः। ततश्च ब्रह्मात्मकत्वोपासनस्य सर्वैकात्म्य-
साक्षात्कारहेतुत्वं पूर्वकाले एव, नास्मिन् काले इति न मन्तव्यमिति भावः ।
तस्य ह न देवाश्चनाभूत्या ईशते इति । तस्य – ब्रह्मविदः देवाश्चन – देवा अपि अभूत्यै – मुक्त्यैश्वर्यविधाताय नेशते – न समर्थाः कुतोऽन्ये इति भावः । च न शब्दोऽप्यर्थः। व्यवधानं छान्दसम् । तत्र हेतुमाह – आत्मा ह्येषां स भवति इति। सः ब्रह्मवित् यस्मात् देवानामपि आत्मा – ‘नियन्ता भवति । ब्रह्मविद्याप्रभावेन वशित्वादि-सिद्धिमत्तया तानपि नियन्तुं शक्त इत्यर्थः। अतः तस्य मुक्त्यैश्वर्यव्याघाते न कोऽपि समर्थं इत्यव्याहता एवंविदो मुक्तिरिति भावः ।
एवं ब्रह्मात्मविदां कृतार्थतामुक्त्वा अतादृशामनर्थं दर्शयति- अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् इति। यः पुमान् धारकत्वनियन्तृत्वादिना स्वस्मात् आत्मत्वेन अन्यां देवतां -परमात्मरूपाम्, असौ – देवता अन्यः – धारकत्वनियन्तृत्वादिना आत्मभूतादन्यः अहं च धार्यत्वनियाम्यत्वादिप्रयुक्त तच्छरीरत्वाश्रयात् अन्यः – भिन्न इत्युपास्ते, न स वेद . ‘सः अज्ञ’ इत्यर्थः । यथा इत्यादि यथा लोके पशुःमनुष्याणां शेषभूतः, एवं स देवानां पशुः। तक्तिङ्करतया शेषभूतः इत्यर्थः । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युः एवमेकैकः पुरुषो देवान् भुनक्ति इति । ह वै शब्दःप्रसिद्ध्यर्थे । यथा बहवः पशवः एकं मनुष्यं दोहवाहादिक्रियाभिः भुञ्ज्युः – परिपालयन्ति, एवमेकैकः अब्रह्मवित् पुरुषः शुश्रूषया अग्नीन्द्रादीन् देवान् भुनक्ति – परिपालयति, प्रीणयति । तक्तिङ्करो भवतीति यावत् । एतावांस्तु विशेषः – बहवः पशवः एकस्य किङ्कराः । अब्रह्मवित् पुरुषस्तु एकैक एव सर्वदेवानां किङ्कर इति । ततः फलितमाह – एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति, किमु बहुषु । तस्मादेषां तन्न प्रियम्, यदेतन्मनुष्या विद्युः इति । लोके हि पशुस्वामिन आच्छिद्य राजचोरादिभिः, एकस्मिन् पशौ आदीयमाने ‘गृह्यमाणे अप्रियं भवति, किमुत बहुषु पशुषु ह्रियमाणेषु । तस्मात् एषां देवानां तत् प्रियं न भवति। मनुष्या ब्रह्म विद्युः – ब्रह्मज्ञानिनो भवन्तीति यदेतत् , तन्न प्रियमित्यन्वयः । अतः स्वकिङ्करतया पशुभूता मनुष्याः ब्रह्मविद्यां प्राप्य पशुभावात् मुच्येरन्निति बुद्ध्या यथाशक्ति देवतेभ्यो विघ्नमाचरन्तीति भावः । अतः । श्रेयांसि बहुविघ्नानि ‘ इति न्यायेन विघ्रबाहुल्यजटिलेऽपि ब्रह्मज्ञाने विघ्नवारणक्षमभगवत्प्रणामार्चनादिकम् अनुतिष्ठन् अवहितो ब्रह्मविद्यायां यतेतेति भावः ।
[आत्मवोपासनाधिकरणार्थतत्त्वम्]
आत्मेत्येव उपासीत इति वाक्यं भगवता बादरयणेन चतुर्थाध्याये चिन्तितम् । तत्र हि – पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.उ.१-६) इति जीवेश्वरपृथक्त्वज्ञानस्य अमृतत्वसाधनत्वश्रवणात् स्वात्मानं प्रति अपृथक्सिद्ध विशेष्यत्वलक्षणमात्मत्वं ब्रह्मणो नास्त्येव। अत एव आत्मेत्येव उपासीत इति करणेन दृष्टिविधित्वं सूच्यते। तादृशी च’ दृष्टिः ‘न मोक्षार्थोपासनविषया । ततश्च मोक्षोपासने तात्त्विकविषयत्ववश्यम्भावेन अतस्मिन् तदारोपरूपदृष्टिविधेरयुक्तत्वात् पृथक्त्वेनैव अनुसन्धानं कार्यम् न तु अपृथक्सिद्धविशेष्यत्वरूपात्मत्वेनेति पूर्वपक्षे पठति-आत्मेति तूपगच्छन्ति ग्राहयन्ति च (ब्र.सू.४-१-३) इति । त्वं वा अहमस्मि भगवो देवते, अहं वै त्वमसि भगवो देवते (वरा.उ.२-३४) इति पूर्वे उपासितारः आत्मत्वेन उपगच्छन्ति–उपासत इत्यर्थः। य आत्मनि तिष्ठन् इत्यादीनि न शास्राणि प्रत्यगात्मापेक्षया आत्मतां ग्राहयन्ति प्रतिपादयन्ति । न च पृथक्त्वानुसन्धानस्य विरोधः शक्यः । किञ्चिज्ज्ञत्वसर्वज्ञत्वादि-लक्षणभेदकाकारस्य पारमर्थिकत्वात् भेदरूपं पृथक्त्वमस्त्येव । नियमेन आधारत्वलक्षणम्
अपृथक्सिद्धविशेष्यत्वरूपम् आत्मत्वमप्यस्त्येव । न हि ईदृशं आत्मत्वं भेदविरोधि। अतः आत्मेत्येव उपासीत इति विधिवशात् आत्मत्वेनैव उपासनं कर्तव्यमिति स्थितम् । प्रकृतमनुसरामः ।। १० ।।
[देवलोके इन्द्रादिक्षत्रसृष्टिः]
ब्रह्म वा इदमग्र आसीदेकमेव । तदेकं सन्न व्यभवत् । तच्छ्रेयोरूपमत्यसृजत क्षत्रम्, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति। तस्मात् क्षत्रात् परं नास्ति । तस्मात् ब्रह्मणः क्षत्रियमधस्तात् उपास्ते राजसूये । क्षत्र एव तद्यशो दधाति । सैषा क्षत्रस्य योनिर्यत् ब्रह्म । तस्मात् यद्यपि राजा परमतां गच्छति, ब्रह्मैवान्तत उपनि: अयति स्वां योनिम् । य उ एने हिनस्ति, स्वां स योनिमृच्छेति। स पापीयान् भवति, यथा श्रेयांसं हिंसित्वा ।। ११ ।।
प्र. – स मुखाच्च योनेर्हस्ताभ्याञ्च अग्रिम् असृजत इति तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्नि: इति च ब्राह्मणवर्णानिवसष्टिः प्रागुक्ता । इदानीम् इन्द्रादिरूपक्षत्रादि-सृष्टिं वक्तुम् आत्मैवेदम् अग्र आसीत् इत्यादिनोक्तमेवप्रपञ्चस्य ब्रह्मोपादनकत्वम्, बहुकृत्वोऽपि पथ्यं वदितव्यम् इति नीतिमनुसृत्य शिष्यावधानाय पुनरपि स्मारयति ब्रह्म वा इदमग्र आसीदेकमेव इति । स्पष्टोऽर्थः ।
तदेकं सन्न व्यभवत् इति । न व्यभवत् – वैभवं न प्राप्तमित्यर्थः । न च अग्नि सृष्ट्यनन्तरं ब्रह्मणः कथमेकत्वोक्तिरिति वाच्यम् । तदविवक्षया एकत्वोक्तत्युपपत्तेरिति द्रष्टव्यम् । तदच्छ्रेयोरूपम् अत्यसृजत क्षत्रम् इति । क्षत्रम् – क्षत्रियाख्यं श्रेयः – श्रेष्ठं रूपम् – शरीरभूतम् अत्यसृजत – अतिक्रान्ततया सर्वाधिकतया ससर्जेत्यर्थः । तदेव प्रपञ्चयति – यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति इति । देवत्रा – देवेषु । ‘देवमनुष्य’ (पा.सू.५-४-५६) इत्यादिना सप्तम्यर्थे त्राप्रत्ययः । देवेषु इन्द्रवरुणादीनि यान्येतानि क्षत्राणि, तानि ससर्जेत्यर्थः। ब्रह्म बृहस्पतिः क्षत्रमिन्द्रः मरुतो वै देवानां विश: (तै.सं.५-४-७) इति श्रुतेः इन्द्रादीनां क्षत्रियत्वम् । देवेष्वपि तपोविशेषणवर्णविशेषसम्भवात् अभिमानित्वाद्वा क्षत्रियत्वं द्रष्टव्यम् । उभयमपि व्यासार्यै: वर्णितम् । तस्मात् क्षत्रात् परं नास्ति इति । यस्माद्धेतोः इन्द्रादयो देवश्रेष्ठा अपि क्षत्रियाः, तस्मात् क्षत्रियात् परम् श्रेष्ठं नास्तीत्यर्थः । तस्माद्ब्राह्मणः क्षत्रियमधस्तात् उपास्ते राजसूये इति । यस्मात् क्षत्रियः श्रेष्ठः तस्मात् ब्राह्मणपि राजसूय यज्ञे क्षत्रियमधस्तात् – क्षत्रियस्य अधस्तात् – ततोऽन्यत्रापि दृश्यते इति द्वितीया – उपास्ते – उपविशति इत्यर्थः । क्षत्र एव तद्यशो दधाति इति । राजसूये राज्ञा ब्रह्मन् इत्यामन्त्रितः ऋत्विक् राजानमाह – त्वं राजन् ब्रह्मासि इति श्रवणात् तद्यशः – ब्राह्मणत्वप्रयुक्तं यशो राजसूये क्षत्रे – क्षत्रिये एव ब्राह्मणो यस्मात् कारणात् आदधाति, तस्माच्च हेतोः क्षत्रिय एव श्रेष्ठ इत्यर्थः ।
सैषा क्षत्रस्य योनिः यद्ब्रह्म इति । एवं विधस्यापि क्षत्रस्य, ब्रह्म – ‘ब्राह्मण इति यत्, सा योनिरित्यर्थः’ । राजसूये क्षत्रियगतातिशयस्यापि ब्राह्मणधीनत्वात् यजन अध्ययनयोः तदधीनत्वाच्च क्षत्रियस्य श्रैष्ठ्यं ब्राह्मणानुग्रहप्रयुक्तमिति भावः । योनिशब्दाभि-प्रायेण सैषा इति स्त्रीलिङ्गनिर्देशः । तस्माद्यद्यपि राजा परमतां गच्छति, ब्रह्मवान्तत उपनिश्रयति स्वां योनिम् इति । तस्मादेव हेतोः यद्यपि राजसूयाभिषेकदशायां परमताम् – श्रेष्ठतां राजा – क्षत्रियो गच्छति, कर्मावसाने तु स्वां योनिम् – स्वयोनिभूतं ब्रह्म-ब्राह्मणमेव उपनिःश्रयति – याजनादिकार्याय ब्राह्मणसमीपमुपेत्य निहीनतया श्रयतीत्यर्थः । य उ एनं हिनस्ति स्वां स योनिमृच्छति इति । य उ -यस्तु क्षत्रिय: एनम् – ब्राह्मणं हिनस्ति, सः स्वां योनिं स्वोत्पतिस्थानमेव ऋच्छति – हिनस्तीत्यर्थः । ‘मातृपितृहा’ भवतीति यावत् । तदेव विवृणोति स पापीयान् भवति, यथा श्रेयांसं हिंसित्वा इति । यथा श्रेयांसम् – पित्रादिकं हिंसित्वा पापीयान् भवति, एवं पापीयान् भवतीत्यर्थः ।। ११ ।।
[देवलोके वैश्यादिसृष्टिः]
स नेव व्यभवत् । स विशमसृजत, यान्येतानि देवजातानि गणश आख्यायन्ते – वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२ ॥
प्र- स नैव व्यभवत् । स विशमसृजत इति । सः परमात्मा क्षत्रं सृष्ट्वापि न व्यभवत् – विभुत्वं नाप्तवान् । ततो विशम् – वैश्यमसृजतेत्यर्थः । तदेव दर्शयति -यान्येतानि देवजातानि गणश आख्यायन्ते-वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति । देवजातानि – देवसमूहा: गणशः – गणरूपेण आख्यायन्ते । वसुरुद्रादित्य- विश्वदेवमरुतां गणदेवतात्वप्रसिद्धे: ।। २२ ।।
स नैव व्यभवत् । स शौद्रं वर्णमसृजत पूषणम् । इयं वै पूषा । इयं हीदँ सर्वं पुष्यति, यदिदं किञ्च ॥ १३ ॥
स नैव व्यभवत् । स शौद्रं वर्णम् असृजत पूषणम् इति । स्पष्टोऽर्थः । इयं वै पूषा, इयं हि इदं सर्वं पुष्यति यदिदं किञ्च इति । इयम् – पृथिव्येव पूषा इत्युच्यते । हि – यस्मात् यदिदं किञ्च – दृश्यमानम् इदं सर्वं पुष्यति । अतः पृथिव्या एव सर्वकार्य-पोषकत्वात् पृथिव्येव पूषा इत्यर्थः । यथा अग्रीन्द्रादीनां ब्राह्मणत्वक्षत्रियत्वाश्रयत्वम् , एवं पृथिव्या अपि शूद्रत्वाश्रयत्वं तदभिमानित्वं वा द्रष्टव्यम् ।। २३ ।।
[क्षत्र – क्षत्रभूत धर्मसृष्टिः]
स नैव व्यभवत् । स तच्छ्रेयोरूपमत्यसृजत धर्मम् । तदेतत् क्षत्रस्य क्षत्रम्, यद्धर्मः । तस्मात् धर्मात् परं नास्ति । अथो अबलीयान् बलीयाँसम् आशँसते धर्मेण, यथा राज्ञैकम् । यो वै स धर्मः सत्वं वै तत् । तस्मात् सत्यं वदन्तमाहुः धर्मं वदतीति, धर्म वा वदन्तँ सत्यं वदतीति । एतद्ध्येवैतत् उभयं भवति ।। १४ ।।
प्र. – स नैव व्यभवत् । तच्छ्रेयोपमत्यसृजत धर्मम् इति । एवं चातुर्वर्ण्यं-सृष्ट्यनन्तरमपि सः आत्मा नैव व्यभवत् – विभूतिं न आप्तवान् । अतो विभूति वृद्धयर्थं तच्छ्रेयोरूपम् – तस्य श्रेयोरूपत्वेन प्राङ्निर्दिष्टस्य क्षत्रियस्यापि श्रेयोरूपं धर्मं सृष्टवानित्यर्थः ।
तदेतत् क्षत्रस्य क्षत्रं यद्धर्मः इति । तदेतत् – धर्म इत्युक्तमेतत् वस्तु क्षत्रस्य ‘क्षत्रम्‘ – सर्वनियन्तृतया उग्रादपि क्षत्रानियन्तृतया उग्रमित्यर्थः । तस्माद्धर्मात्परं नास्ति । तस्मात् धर्मात् परम् – अधिकं किमपि नास्ति इत्यर्थः । अथो अबलीयान् बलीयांसम् आशंसते धर्मेण, यथा राज्ञा, एवम् इति । अथो शब्दः अप्यर्थः । अबलीयानथो – ‘अबलिष्टोपि’ पुमान् बलीयांसं पुमांसं जेतुमाशंसते धर्मेण – धर्मबलेन । यथा राजा एवम् इति । यथा राजबलमवलम्ब्य दुर्बलो बलीयांसं’ जिगीषति तथेत्यर्थः । लोकेऽस्मिन् दुर्बलस्य दारादिकम् अपहरन् बलवानपि बाधितो दृष्टः । अतः बलवतः तस्य धर्मविरोधिनः तद्दण्डनं धर्मेणैव कृतमिति गम्यत इति भावः । यो वै स धर्मः, सत्यं वै तत् इति । यः क्षत्रादपि श्रेयोभूतः वै प्रसिद्धो धर्मः, सः सत्यं वै सत्यवदनमेव इत्यर्थः ।
तत्र युक्तिमाह – तस्मात् सत्यं वदन्तमाहुः धर्म वदतीति, धर्म वा वदन्तँ सत्यं वदतीति इति । स्पष्टोऽर्थः । एतद्ध्येवैतदुभयं भवति इति । एतद्ध्येव – सत्यवदनमेव एतदुभयम् – सत्यधर्मलक्षणोभयरूपं भवति । तस्मात् सत्यवदनं सर्वशेषभूतमिति भावः ।। १४ ।।
[लोकद्वयेऽपि ब्राह्मणादिविभागः, ब्रह्मणः अविदितत्वे अरक्षकत्वम् च]
तदेतत् ब्रह्म क्षत्रं विट्छूद्रः । तदग्निनैव देवेषु ब्रह्माभवत् । ब्राह्मणो मनुष्यषु, क्षत्रियेण क्षत्रियो, वैश्येन वैश्यः, शूद्रेण शूद्रः । तस्यादग्रावेव देवेषु लोकमिच्छन्ते, ब्राह्मणे मनुष्येषु । एताभ्याँ हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल्लोकात् स्वं लोकम् अदृष्ट्वा प्रैति, स एनमविदितो न भुनक्ति, यथा वेदो वा अननूक्तो अन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत् पुण्यं कर्म करोति, तद्धास्यान्ततः क्षीयत एव । आत्यानमेव लोकमपासीत । स य आत्यानमेव लोकमुपास्ते, न हास्य कर्म क्षीयते । अस्माद्ध्येवात्मनो यद्यत् कामयते, तत्तत् सृजते ।। १५ ।।
प्र. – उक्तां – ‘चतुर्वर्णस्वरूपत्वं निगमयति – तदेतत् ब्रह्म क्षत्रं विट् छूद्र: इति । तत् – तस्मात् उक्तरीत्या ब्राह्मणक्षत्रादिवर्णानां ब्रह्मणो जातत्वात् एतद्ब्रह्मैव ब्रह्मक्षत्र-विट्छूद्रात्मकनिति भावः । ननु ब्रह्मणः कथं चातुर्वर्ण्यस्वरूपत्वम् । क्षत्रादिवर्णत्रय-सृष्टिर्ह्युक्ता; न ब्रह्मवर्णसृष्टिः अत्र इत्यपेक्षायामाह – तदग्निनैव देवेषु ब्रह्माभवत् इति । अग्निना इति इत्थंभावे तृतीया । स मुखाञ्च योनेहस्ताभ्यां च अग्निमसृजत इति, तेनारसो निरवर्तताग्निः इति च सृष्टत्वेन प्रागुक्तेन अग्निनैव विशिष्टं सत् तत् – परं ब्रह्म देवेषु ब्रह्माभवत् – ब्राह्मणोऽभवत् । अग्निरूपं ब्रह्म ब्राह्मणत्वजातिमत् । काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने नमः (वि.पु.१-४-२८) इतिवत् । अत: ब्रह्मणोऽग्निद्वारा ब्रह्मणत्वम् इत्यग्निरूपो ब्राह्मणो अभवदिति पर्यवसितोऽर्थः । एवमेव इन्द्रादिरूपविशिष्टं ब्रह्म तद्द्वारा क्षत्रियत्वजातिमदभूत्; वसुरुद्रादिरूपविशिष्टं ब्रह्म तद्द्वारा वैश्यत्व-जातिमदभूत् पृथिवीरूपविशिष्टं ब्रह्म तद्द्वारा शूद्रत्वजातिमदभूत् इति सिद्धम् । एवं परब्रह्मणो देवेषु ब्राह्मणत्व-क्षत्रियत्वादिजातिमत्त्वम् अग्नीन्द्रादिद्वारकमित्युक्त्वा मनुष्येषु ब्राह्मणत्वादिजातिमत्त्वप्रकारं ब्रह्मणो दर्शयति – ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो बैश्येन वैश्यः शूद्रेण शूद्रः इत्यादि । ब्राह्मणो मनुष्येषु इत्यत्र ब्राह्मणेन इत्यध्याहर्तव्यम्, ब्राह्मणेन ब्राह्मण इति । क्षात्रियेण क्षत्रिय इत्युत्तरग्रन्थानुसारात् । ततश्च देवेषु अग्न्यादिद्वारेणेव मनुष्येष्वपि परं ब्रह्म ब्राह्मणद्वारा ब्राह्मणत्वजातिमदभवत् । क्षत्रियवैश्यादिद्वारा क्षत्रियत्वादि-जातिमदभवत् इत्यर्थः ।
प्रसङ्गात् अग्निब्राह्मणौ प्रशंसति – तस्मात् अग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु इत्यादि । तस्मात् -बुद्धिस्थाद्वक्ष्यमाणाद्धेतोः, पूर्वोक्तहेतोर्वा – देवेषु -देवानां मध्ये लोकम् अग्नावेव इच्छन्ते – इच्छन्ति । लोकम् फलम् । अग्नौ इति निमित्तसप्तमी । अग्ने: निमित्तादेव इच्छन्ति लोकम् । मनुष्येषु – मनुष्याणां मध्ये ब्राह्मणादेव निमित्तात् लोकमिच्छन्ति इत्यर्थः । यद्वा – देवानां मध्ये अग्नावेव हुत्वा, मनुष्याणां मध्ये ब्राह्मण एव दत्वा लोकमिच्छन्ति इत्यर्थः । तस्मात् इति पूर्वपरामृष्टं प्राशस्त्यहेतुमाह – एताभ्यां हि रूपाभ्यां ब्रह्माभवत् । प्रथमत इति शेषः । एताभ्याम् अग्निब्राह्मणरूपाभ्यां हि यस्मात् परं ब्रह्म प्रथमतो विशिष्टम् अभवदित्यर्थः । अतोऽग्ने: देवेषु, ब्राह्मणस्य मनुष्येषु अग्नजत्वात् प्राशस्त्यमिति भावः । यदभवत्, तस्माल्लोकम् इच्छन्ति इति पूर्वेणान्वयः ।
एवं निखिलजगत्कारणत्वादिगुणकम् आत्मस्वरूपमुक्त्वा तद्वेदनस्य अवश्य-कर्तव्यत्वमाह – अथ यो ह वा अस्माल्लोकात् स्वं लोकमदृष्ट्वा प्रैति, स एनमविदितो न भुनक्ति, यथा वेदो वा अननूक्तो अन्यद्वा कर्माकृतम् इति । अथ शब्दो वाक्यान्त-रोपक्रमे । ह वै शब्द: प्रसिद्धौ । लोक्यते दृश्यत इति लोकः । नित्यसूरिभिः सर्वदा आलोक्यमानत्वात् परमात्मा लोक इत्युच्यते । एवंमूतं स्वम् – स्वीयमन्तरात्मानम् अदृष्ट्वा – दर्शनसमानाकारेणज्ञानेन अविषयीकृत्य यः पुमान् अस्माल्लोकात् प्रैति – लोकान्तरं गच्छति, तमेनं सः परमात्मा ‘स्व: आत्मभूतोऽपि न भुनक्ति – न परिपालयति । कस्त हेतोः इत्यत आह – अविदितः । अनुपासिता इत्यर्थः । उपासनाभावे वस्तुगत्या शेषितया आत्मभूतोऽपि संसारं न निवर्तयति इत्यर्थः । ययाऽऽह योगी याज्ञवल्क्यः –
गवां सर्पिः शरीरस्थं न करोत्यङ्गपोषणम् ।
निस्सृतं कर्मचरितं पुनस्तस्यैव भेषजम् ।।
एवं स हि शरीरस्थः सर्पिर्वत् परमेश्वरः ।
विना चोपासनां देवो न करोति हितं नृणाम् ।। इति ।।
तत्र दृष्टान्तमाह – यथा वेदो वा अनूक्तो अन्यद्वा कर्माकृतम् इति । वेदस्य सर्वोपकारार्थप्रवृत्ततया सर्वसाधारण्येऽपि अनधीतो न पालयति, ‘यथा’ ज्योतिष्टोमादि वैदिकं कर्म अननुष्ठितं नोपकरोति, तथेश्वरः स्वस्य शेषिभूतोऽपि अनुपासितः संसारं न निवर्तयति इत्यर्थः । यदि ह वा अप्यनेवंवित् महत्पुण्यं कर्म करोति, तद्धास्यान्ततः क्षीयत एव इति । ह शब्दः प्रसिद्धौ । अनेवंवित् अब्रह्मवित् यदि वाऽपि महदश्वमेधादि पुण्यं कर्म करोति – कुर्यात् , तत् – अस्य अब्रह्मविदः कर्म अन्ततः सुदूरं गत्वापि बहुकालं स्थित्वापीति यावत् – क्षीयते – नश्यत्येव इत्यर्थः । क्षीणफलं भवतीति यावत् । यो वा एतदक्षरं गार्ग्यविदित्वा अस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्त्राणि अन्तवदेवास्य तद्भवति (बृ.उ.-५-८-९) इति श्रुतेरिति भावः । अतः किं कार्यमित्यत आह – आत्मानमेव लोकमुपासीत इति । इतरत् परित्यज्य आत्मानमेव लोकमुपासीत इत्यर्थः । लोक्यत इति लोकः फलम् । उपायभूतम् आत्मानमेव उपेयभूतं भजेत इत्यर्थः ।
एवंसति न पूर्वोक्तो दोष इत्याह – स य आत्मानमेव लोकमुपास्ते, न हास्य कर्म क्षीयते इति । उक्तरीत्या परमात्मोपासकस्य कर्म न क्षीयत इत्यर्थः । अत्र कर्मशब्द: उपासना परः; तदङ्गभूतकर्मपरो वा । आत्मोपासकस्य इतरकर्माप्रसक्तेरिति द्रष्टव्यम् । कर्मणः क्षणिकस्य अत्र निषिध्यमानं क्षयित्वं नाम क्षयिफलकत्वरूपम् । कर्मणश्च अक्षयफलकत्वम् उपासनाद्वारेति द्रष्टव्यम् । अस्माध्येवात्मनो यद्यत्कामयते तत्तत् सृजते इति । तस्मादेव – ब्रह्मवेदनाद्धेतोः – हि शब्दः श्रुत्यन्तरप्रसिद्धिं दर्शयति । अयमुपासकः स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति (छां.उ.८-२-१) सड़कल्पादेव तच्छ्रुतेः (ब्र.सू.४-४-८) इति श्रुतिसूत्रोक्तरीत्या आत्मनः स्वस्य यद्यत् कामयते – यद्यदभिलषितम्, तत् सर्वं सङ्कल्पमात्रेण सृजति इत्यर्थः ।। १५।।
[जीवात्मनोपि सर्वभूतलोकत्वम्]
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । स यज्जुहोति यद्यजते, तेन देवानां लोकः । अथ यदनुब्रूते तेनर्षिणाम् । अथ यत् पितृभ्यो निपृणाति यत् प्रजामिच्छते, तेन पितृणाम् । अथ यन्मनुष्यान् वासयते, यदेभ्योऽशनं ददाति, तेन मनुष्याणाम् । अथ यत् पशुभ्यतृणोदकं विन्दति, तेन पशूनाम् । यदस्य गृहेषु श्वापदा वयाँस्यापिपीलिकाभ्य उपजीवन्ति, तेन तेषां लोकः । यथा ह वै स्वाय लोकायारिष्टमिच्छेत् । एवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा एतद्विदितं मीमाँसितम् ।। १६ ।।
प्र. – ननु आत्मानमेव लोकमुपासीत इत्युक्तमयुक्तम् । लोको हि नाम प्राणिभोगस्थानविशेषः । तथात्वात्मनः कथमित्याशङ्क्य ‘कैमुतिकन्यायेन’ ‘परब्रह्मण: लोकत्वं दर्शयितुं प्रत्यगात्मन एव ‘सर्वोपकारकत्वेन सर्वभूतोपेयत्वात् सर्वभूतलोकत्वं प्रथममाह’ – अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । अथो शब्दो वाक्यान्तरोप-क्रमे । वैशब्दोऽवधारणे । अयं अहमिति प्रत्यक्षसिद्धः आत्मा वै जीवात्मैव सर्वेषां भूतानां लोक इत्यर्थः । तदेव उपपादयति – स यज्जुहोति यद्यजते तेन देवानां लोकः ।
स: – प्रत्यगात्मा जुहोति इति यत्, यजत इति च यत्; आभ्यां यागहोमाभ्यां देवानाम् उपकारकत्वेन लोक इत्यर्थः । अथ यदनुब्रूते तेनर्षीणाम् इति । अनुब्रूते – स्वाध्यायमधीते इति यत् । तेन – अध्ययनेन ऋषीणां लोक इत्यर्थः । अथ यत्पितृभ्यो निपृणाति पिण्डोदकादि प्रयच्छतीति यदित्यर्थः । निर्मृणानि इति पाठे निर्मर्णनं और्ध्वदैहिकम् । मृण – हिंसायाम् (धा.पा.१३३२) इति हि धातुः । यत्प्रजामिच्छते । प्रजामुत्पादयतीति यदिति यावत् । तेन पितॄणां लोक इति शेषः । अथ यन्मनुष्यान् – – – – मनुष्याणाम् अथ अपि च वासयते – गृहे शयनासनावकाश प्रदानेन अतिथीन्’ वासयते इति यत्; वसद्भ्यश्च अन्नं ददाति इति यत्’, ततो मनुष्याणां लोक इत्यर्थः । अथ यत्पशुभ्यः – पशूनाम् इति । तृणानि च उदकञ्च तृणोदकं पशुभ्य: गवादिभ्यः विन्दति ‘लम्भयतीति’ यदित्यर्थः । तेन पशूनाम् – लोक इति शेषः । यदस्य ……लोकः । आपिपीलिकाभ्यः इत्यत्र आङ् अभिविधौ । श्वापदाः —श्वादयः । वयांसि – काकादीनि । कणबलिभाण्डप्रक्षाळनादि यदस्य गृहस्थस्य गृहे श्वपक्षिपिपीलिकादयः उपजीवन्ति, अतस्तेषां लोक इत्यर्थः । एवं स्वात्मनः सर्वभूतलोकत्वपरिज्ञानस्य फलमाह यथा ह वै स्वायलोकाय इति । ह वै शब्दः प्रसिद्धौ । यथा लोके जनः स्वायलोकाय – स्वभोगस्थानाय । अरिष्टं – रिष्टं नाश: रिष हिंसायां (धा.पा. ६९४) इति हि धातुः, भावे क्तः । अरिष्टं – अनाशम् इच्छति । एवमेव आत्मनः सर्वभूतलोकत्वविदे ‘सर्वाणि – देवपितृप्रभृति’ आपिपीलिकं भूतानि अरिष्टं – क्षेमं वाञ्छन्ति इत्यर्थः । एवं परमात्मन: लोकत्वोपपादनोपयुक्तं प्रत्यगात्मनः सर्वभूतलोकत्वमुपपाद्य अथ तदुपजीवनेन परमप्रकृतं परमात्मन: लोकत्वमुपसंहरति – तद्वा एतद्विदितं मीमांसितम् । तद्वा -एवं प्रत्यगात्मनः सर्वभूतलोकत्वदर्शनादेव एतत् – परमप्रकृतं परमात्मनः ‘लोकत्वं विदितं मीमांसितं‘ – कैमुतिकन्यायतर्कानुगृहीतं ‘सत् विदितमित्यर्थः’ । उक्तरीत्या प्रत्यगात्मन एव सर्वभूतलोकत्वे प्रत्यक्षसिद्धे सर्वात्मनः परमात्मनः सर्वभूतलोकत्वं न सन्देग्धव्यम् इति यावत् ।।
[आत्मनः जायापुत्रवित्तकर्मापेक्षा]
आत्मेवेदमग्र आसीदेक एव । सोऽकामयत जाया मे स्यात्, अथ प्रजायेय, अथ वित्तं मे स्यात्, अथ कर्म कुर्वीयेति । एतावान् वै कामः । नेच्छँश्चनातो भूयो विन्देत् । तस्मादप्येतर्ह्येकाकी कामयते – जाया मे स्यादथ प्रजायेय, अथ वित्तं मे स्यादथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं न प्राप्नोति अकृत्स्न एव तावन्मन्यते । तस्योकृत्स्नता – मन एवास्यात्मा । वाग् जाया प्राणः प्रजा । चक्षुः मानुषं वित्तम्, चक्षुषा हि विन्दते, श्रोत्रं दैवँ श्रोत्रेण हि तच्छृणोति आत्मैवास्य कर्म । आत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः, पाङ्क्त: पशुः, पाङ्क्त: पुरुषः। पाङ्क्तमिदँ सर्वं यदिदं किन्च । तदिदँ सर्वमाप्नोति, य एवं वेद ।। १७ ।।
॥ इति तृतीयाध्याये चतुर्थब्राह्मणम् ।।
प्र. – आत्मैवेदमग्र आसीदेक एव । इदं – जायापुत्रादिविभागवज्जगत् अग्रे-तत्सृष्टेः पूर्वकाले जायापुत्रादिविभागशून्यतया एक एव आत्मैवासीत् । परं ब्रह्म जायापुत्रादिसृष्टेः पूर्वं केवलपुरुषरूप एव स्थित इत्यर्थः । सोऽकामयत इत्यादि । सः पुरुषरूपः परमात्मा अकामयत । किमिति? मे-मम जाया भूयात्, अथ–तदनन्तरं पुत्रादिरूपेण प्रजायेय, अथ वित्तञ्च में भवतु, तेन यज्ञादिकर्म कुर्वीय .करवाणि इत्यकामयत इत्यर्थः । परमात्मनः सर्वनामरूपाश्रयत्वात् कर्मानुगुणं प्रथम पुरुषरूपेण सृष्टजीवद्वारा एतादृशकामनाश्रयत्वम् । काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने (वि.पु.१-४-२८) इतिवत् मुख्यमेव द्रष्टव्यम् । एतावान् वै कामः । जायापुत्रवित्तकमव्यतिरेकेण संसारिणां कामः – कामनाविषयः कोऽपि नास्ति । किन्तु एतावानेव इत्यर्थः । नेच्छंश्चनातो भूयो विन्देत् । च न शब्दोप्यर्थः । इच्छत्रापि ‘चिन्तयन्नपि अतो भूयः एभ्यः जायापुत्रवित्तकर्मभ्यः अधिकं त्रैगुण्यनिष्ठः न लभत इत्यर्थः । तस्मादप्येतर्हि एकाकी कामयते इत्यादि । कस्माद्धेतो: एतर्ह्यपि अद्यत्वेऽपि एकाकी पुरुषः जायापुत्रवित्तादिरहितः जायापुत्रवित्तकर्माणि एव कामयते इत्यर्थः । अतः इदानीन्तनैकाकीपुरुषे दृश्यमाना एषा कामना, एवमेवाग्रेप्यभूत् इत्यत्र ज्ञापिका इति भावः । स यावदप्येतेषामेकैकं न प्राप्नोति इति । सः – एकाकी पुरुषः यावत् -यावन्तं कालं एतेषां – जायादीनां चतुर्णां मध्ये एकैकमपि न प्राप्नोति तावत्कालं अकृत्स्न: एकांशहीन इत्येव स्वात्मानं मन्यते इत्यर्थः । अत इदानीन्तनदर्शनानु-गुण्येनाग्रेऽप्येतेषां जायादीनां चतुर्णामपि कामनाविषयत्वम् अवधेयमिति भावः । यस्तु वैराग्येण वा अलाभेन वा जायापुत्रवित्तकर्मान्यतमहीनतया अकृत्स्नः तस्य कृत्स्नतासम्पत्तिप्रकारं दर्शयति तस्योकृत्स्नता । उशब्दोऽवधारणे तस्य – तादृशल्य कृत्स्नता ‘पूर्णता एवमेव’ भवति इत्यर्थः । मन एवास्यात्म इति । अस्य – अकृत्स्नत्वं मन्यमानस्य पुरुषस्य मन एव आत्मा त्रिवर्गप्रधानस्वस्वरूपतया कल्पनीयम् इत्यर्थः । मनसः प्रधानत्वात् इति भावः । वाग्जाया इति । वाचः मनोधीनवृत्तिकत्वात् स्रीत्वसाम्याच वाचं जायां कल्पयेत् इति भावः । प्राणः प्रजा पुत्र इत्यर्थः । वाङ्मनसाधीनत्वात् ‘प्राणस्य, प्राणं पुत्रत्वेन कल्पयेत् इत्यर्थः । देवमानुषभेदेन वित्तम् द्वेधा विभज्य दर्शयति – चक्षुर्मानुषं – तच्छृणोति इति । तत् – हिरण्यपश्चादिकं मानुषवित्तं हि – यस्मात् चक्षुषा विन्दते, अत: मानुषवित्तोपलम्भकत्वाञ्चक्षुरेव मानुषं वित्तं कल्पनीयम् । तत् – दैवशब्दितादृष्टं तत्प्रतिपादकश्रुतिस्मृतिद्वारा श्रोत्रेण हि – यस्माच्छृणोति तस्मात् तदुपलम्भकत्वात् श्रोत्रं दैवं वित्तं कल्पयेत् इत्यर्थः । आत्मैवास्य कर्म आत्मना हि कर्म करोति इति । अत्र आत्मशब्दः शरीरपरः । ऐहिकामुष्मिककर्म-करणत्वात् शरीरं कर्म कल्पयेत् इत्यर्थः । स एषो पाङ्क्तो यज्ञः । आत्मजायापुत्रवित्त-कर्मलक्षणपञ्चकनिर्वर्त्य: सः एषः समुदाय: ‘पञ्चाक्षराः पङ्क्ति: पाङ्क्तो यज्ञः’ इतिनिर्दिष्टपाङ्क्तयज्ञात्मा, पञ्चत्वसङ्ख्यासामान्यात् इत्यर्थः । तथा पाङ्क्त: पशुः । पशोरपि पाञ्चभौतिकत्वात् पाङ्क्त्वम् । अतः मन आदि पूर्वोक्त समुदायोऽपि पञ्चत्वसङ्ख्याश्रयत्वात् पाङ्क्त: पशुरित्यर्थः । पाङ्क्त: पुरुषः । पुरुषस्यापि पाञ्चभौतिकत्वेन पाङ्क्त्वम् । अतः मन आदि पञ्चकसमुदायोऽपि’ पञ्चत्वसङ्ख्यासामान्यात् पाङ्क्त: पुरुष एवेति भावः । पाङ्क्तमिदं सर्वं यदिदं किञ्च । यदिदं किञ्चित् दृश्यते लोके, तस्य सर्वस्यापि पाञ्चभौतिकत्वात् पाङ्क्त्वम् इत्यर्थः । अतः मनोलक्षणात्मादि समुदायस्यापि पञ्चत्वसङ्ख्याश्रयत्वेन पाङ्क्त्वात् पाङ्क्तयज्ञत्व पाङ्क्तपशुत्व पाङ्क्तपुरुषत्व पाङ्क्तसर्वत्वदृष्टिः तत्र कर्तव्या इति भावः । एतत् दृष्ट्युपासनस्य फलमाह – तदिदं सर्वमाप्नोति य एवं वेद इति । मनोवाक्प्राणचक्षुश्श्रोत्र-शरीरलक्षण समुदायमात्मजायापुत्रवित्तकर्मरूपेण पूर्वोक्तक्रमेण पाङ्क्तयज्ञत्व पाङ्क्तपशुत्व पाङ्क्तपुरुषत्व पाङ्क्तसर्वत्वरूपेण य उपास्ते, स तदिदँ सर्वं– पाङ्क्तशब्दितं ‘निखिलं प्राप्नोति’ इत्यर्थः ।। १७ ।।
।। इति तृतीयाध्यायस्य चतुर्थ ब्राह्मण प्रकाशिका ।।
तृतीयाध्याये पञ्चमं ब्राह्मणम्
सप्तान्नब्राह्मणम्
[अत्रसप्तक सृष्टिः]
यत् सप्तान्नानि मेधया तपसाऽजनयत् पिता ।
एकमस्य साधारणं द्वे देवानभाजयत् ।।
त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।।
‘तस्मात्तानि‘ न क्षीयन्ते अद्यमानानि सर्वदा ।
यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन ।।
स देवानपि गच्छति स र्जमुपजीवति ।। इति श्लोकाः ।।
प्र. – यत्साप्तान्नानि मेधया तपसा अजनयत् पिता इत्यादि प्रथमखण्डश्लोकाः श्रुत्यैव व्याख्यास्यन्ते इति नेह तन्यते ।। १ ।।
[अन्नसप्तकविवरणम्]
यत्साप्तान्नानि मेधया तपसाऽजनयत् पितेति । मेधया हि तपसाऽजनयत् पिता ।
एकमस्य साधारणमिति । इदमेवास्य तत् साधारणमन्नम् यदिदमद्यते । स य एतदुपास्ते, न स पाप्मानो व्यावर्तते । मिश्रँ ह्येतत् । द्वे देवानभाजयदिति हुतञ्च प्रहुतञ्च । तस्माद्देवेभ्यो जुह्वति प्र च जुह्वति । अथो आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति । तत्ययः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोप–जीवन्ति । तस्मात् कुमारं जातं घृतं वैवाग्रे ‘प्रतिलिलेहयन्ति‘, स्तनं वा नु धापयन्ति। अथ वत्सं जातमाहुरतृणाद इति ।
तस्मिन्त्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । पयसि हीदँ सर्वं प्रतिष्ठितम्, यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदपपुनर्मृत्युं जयतीति, न तथा विद्यात् । यदहरेव जुहोति, तदहः पुनर्मृत्युमपजयति । एवं विद्वान् सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । तस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा ।। इति ।
पुरुषो वा अक्षितिः । स हीदमन्नं पुनःपुनर्जनयते । यो वै तामक्षिर्ति वेदेति । पुरुषो वा अक्षितिः । स हीदमन्नं धिया धिया जनयते कर्मभिः । यद्वैतन्न कुर्यात्। क्षीयते ह । सोऽन्नमत्ति प्रतीकेनेति । मुखं प्रतीकं मुखेन इत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशँसा ।। २ ।।
प्र– प्रथमखण्डोदाहृतान् एतान् श्लोकान् श्रुतिः स्वयमेव व्याकरोति । यत्सप्तान्नानि …पिता इति । अत्र पितेतीति ‘इति करणपर्यन्तं व्याख्येयप्रतीकग्रहणम’ । मेधया हि तपसा अजनयत्पिता इत्यंशः तस्य व्याख्यानम् । पिता – सर्वजनकः परमात्मा मेधया – ज्ञानरूपेण तपसा सप्तान्नानि अजनयत् इति यत् तदिदमन्नजनकत्वम्, तपसा चीयते ब्रह्म, (मुं.उ.१-१-९) यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते (मुं.उ.१-१-१०) इति ज्ञानमयेन तपसा नामरूपलक्षणान्नजनकस्य परमात्मन: ‘हि प्रसिद्धं खलु, अतः किमत्र व्याख्यातव्यमस्तीति भावः ।
एकमस्य साधारणमिति इति प्रतीकधारणम् । तद्व्याचष्टे इदमेव….यदिदमद्यते इति । यदिदं – व्रीहियवादिरूपम् अहाते, तदिदमेव, अस्य – भोक्तृवर्गस्य ‘देवपित्रादेः साधारणमन्नम् इत्यर्थः । साधारणत्वफलमाह – स य एतदुपास्ते इत्यादिना । एतत् -ईदृशं साधारणमन्नं देवपित्रादिभ्यः अदत्वा स य उपास्ते – यः भुङ्क्ते सः पाप्मनः न व्यावर्तते – ‘न विमुच्यते इत्यर्थः । तत्र हेतुमाह – मिश्रं ह्येतत् । हि – यस्माद्धेतोः एतत् व्रीहियवादिरूपमन्नं मिश्रं – मिश्रितम्, देवपित्राद्यन्यदीयद्रव्येण सङ्कीर्णम् साधारणमिति यावत् । अत: देवपित्रादिभ्यः अदत्वा भुञ्जानस्य पापमनिवार्यमिति भावः ।
गीतञ्च भगवता –
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ।। (भ.गी.३-१२)
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात् ।। (भ.गी.३-१३) ।। इति ।
तथा च श्रुतिः केवलाघो भवति केवलादी इति केवलादी देवपित्रोदिभ्य: अदत्वा भुञ्जानः इत्यर्थः । तस्मात् देवपित्रादिभ्यः निवेदितं मनुष्येण भोक्तव्यमित्यर्थः । एवञ्च प्रसिद्धमन्नं मनुष्येषु विनियुज्यत इति फलितार्थ: ।
हे देवानभाजयत् इति व्याख्येयम् । तव्द्याचष्टे – हुतञ्च प्रहुतञ्च । तस्माद्देवेभ्यो जुह्वति प्र च जुह्वति । द्वे देवानभाजयत् इति मन्त्रखण्डेन द्वे अन्ने सृट्टा पिता सर्वका देवान् असाधारण्येन अभाजयत् – अप्रीणयत् इत्यर्थकेन ये अन्ने उक्ते ते हुतञ्च प्रहुतञ्च इति व्याचक्षते इत्यर्थः । हुतं – औपासनं प्रहुतम् – अग्निहोत्रादि । यस्मात् हुतप्रहुते देवेभ्यः परमात्मना दत्ते । तस्मात् देवेभ्य: देवानुद्दिश्यैव जुह्वति च प्रजुह्वति च। हुतप्रहुते वैदिकाः कुर्वन्ति इत्यर्थः । एतस्यैव मन्त्रांशस्य व्याख्यान्तरमाह – अथो आहुर्दर्शपूर्णमासौ इति । तस्मान्नेष्टियाजुकः स्यात् । अथो इति पक्षान्तरोपन्यासे। केचन दर्शपूर्णमासावेव, ‘हुतप्रहुताख्यतया पूर्वपक्षे व्याख्याते’, देवान्ने इत्याहुः । यस्मात् दर्शपूर्णमासयोः देवान्नत्वम्, तस्मात् इष्टियाजुकः तदतिरिक्तकाम्येष्टियजनशीले न स्यात् इत्यर्थः । यद्वा – तस्मात् – दर्शपूर्णमासयोरेव हुतप्रहुततया देवान्नत्वात् तत्र कियत्यप्यपचारे देवाः कुप्येयुः इति नेष्टियाजुकः स्यात् – दर्शपूर्णमासयोः आर्त्विज्यं न कुर्यात् इत्यर्थः ।
क्रमप्राप्तं त्रीण्यात्मनोऽकुरुत इति मन्त्रं वक्तव्यबाहुल्यात् अन्ते’ व्याचिकीर्षु: तदतिक्रम्य तदुत्तरमन्त्रं व्याकर्तुं पशुभ्य एकं प्रायच्छत् इति प्रतीकं धृत्वा तव्द्याचष्टे-तत् पयः । पयो ह्येवाग्रे इत्यादिना । तत्पयः । तत् – पशुभ्य: ‘दत्ततया मन्त्रोक्तमन्नं पयः -क्षीररूपम् इत्यर्थः । अत एव हि मनुष्याः पशवश्च अग्रे – प्रथमतः पय एव उपजीवनन्ति इत्यर्थः । अत्र मनुष्याश्च उपजीवन्ति इत्युक्त्वा पशुभ्यः एकं प्रायच्छत्’ इत्यत्र पशुशब्दो द्विपाश्चतुष्पात्साधारणो द्रष्टव्यः । तस्मात् – पयसः द्विपाच्चतुष्पादन्नत्वादेव जातं कुमारं जातकर्मसंस्कारे घृतं वैव – पयोविकारं घृतमेव अग्ने प्रथमतः प्रलिलेहयन्ति ‘आस्वादयन्ति इत्यर्थः । लिहेर्धातोः णिचि द्विर्वचनं छान्दसम् । स्तनं वा नु घापयन्ति । जातकर्माद्यकरणे स्तनं वा धापयन्ति – पाययन्ति इत्यर्थः । नुशब्दः खल्वर्थे । अथ वत्सं जातमाहुरतृणाद इति । अथशब्दो वाक्योपक्रमे । पयसः पश्वन्नत्वादेव जातमात्रं वत्सं अतृणाद इति । पयोमात्राहार इत्याहुः इत्यर्थः । तथा च यवव्रीहितृणाद्यदनायोग्यकालेऽपि पयस एव पशुभिः आह्नियमाणत्वात् पयः पश्वन्नमिति युक्तमिति भावः । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति व्याख्येयग्रहणम् । तव्द्याचष्टे पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । यत् प्राणिति-चेष्टते मनुष्यपश्चादिकम्। यच्च न चेष्टते वृक्षादिकम्। ‘तदिदं सर्वं’ पयसि प्रतिष्ठितं पयोऽधीनजीवनं हि प्रसिद्धमित्यर्थः । स्थावरप्रतिष्ठाहेतुभूतजलस्यापि पयश्शब्देन ग्रहणात् स्थावराणामपि पयोन्नकत्वं सम्भवतीति भावः । तद्यदिदमाहुस्संवत्सरं पयसा जुह्वदिति । ‘संवत्सरं कालं पयसा जुह्वत् – पयोहोम कुर्वन् अपमृत्युं जयतीति यदाहुः, तत्पुनस्तथा न विद्यात् । तर्हि कथं ज्ञातव्यम् इत्यत्राह – यदहरेव जुहोति तदहः पुनर्मृत्युमपजयति । यस्मिन्नहनि पयसा जुहोति, तदहर्मात्रसाध्यपय आहुत्यैव तस्मिन्नेवाहनि’ अपमृत्युं जयति इत्यर्थः । (अपमृत्युशब्दयोः व्यवधानं छान्दसम्) । एतज्ज्ञनस्य फलमाह –‘एवं विद्वान् सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति इति । अन्नाद्यं इत्याद्यशब्देन पय आज्यादिकमुच्यते । एवं विद्वान् – एकाहमातन्नसाध्यपयोहोमस्य अपमृत्युजयफलकत्वज्ञानवान् यद्यत् अन्नाद्यं स्वयमत्ति, तत् सर्वं देवेभ्य एव ददाति इत्यर्थः । देवेभ्यः तद्दानेन यत्फलं लभते तल्लभत इति भावः ।।
तस्मात्तानि नक्षीयन्ते अद्यमानानि सर्वदा इति व्याख्येयग्रहणम् । अत्र तस्मात् इति शब्दार्थं व्याचष्टे – पुरुषो वा अक्षिति: स हीदमन्नं पुनः पुनर्जनयते इति । वैशब्दो-ऽवधारणे । ‘अक्षिति:। – “अक्षत’ इत्यर्थः । यस्मादक्षत: – अक्षयः “पुरुषः परमात्मा’ । प्रत्यहमन्नानि पुनः पुनः प्राणिकर्मानुसारेण जनयति, तस्माद्धेतोः अहरहरद्यमानान्यपि अन्नानि नक्षीयन्तं इति मन्त्रार्थः इत्यर्थः ।
यो वै तामक्षितिं वेद इति प्रतीकग्रहणम् । तव्द्याचष्टे – पुरुषो वा अक्षितिः इत्यादिना । अत्र अक्षितिशब्दार्थः पुरुषो वै – पुरुष एव । परमात्मैव इत्यर्थः । तस्यैव पुरुषशब्दमुख्यार्थत्वात् । धिया – सङ्कल्पेन इत्यर्थः । उत्पाद्यान्न व्यक्त्यभिप्रायात्’ धिया धिया इति वीप्सा । स हि – पुरुषशब्दितः परमात्मैव इदमन्नं धिया धिया–“सङ्कल्प्य सङ्कल्प्य प्रत्यहं – पुनःपुनः कर्मभिः जनयते – प्राणिनां कर्मभिस्सहितस्सन् जनयते । प्राणिकर्मानुगुणं जनयति इत्यर्थः । अत्र कर्मभिः इत्युक्तिः ईश्वरस्य वैषम्य-नैर्घृण्यपरिहाराय । वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र.सू.२-१-३४) इति न्यायादिति भाव: एतत् – अन्नं यद्ध- यदि हि स परः पिता इत्युक्त: । पुनःपुनः प्रत्यहं न कुर्यात्, अन्नं क्षीयेत ह । ‘अतः प्रत्यहम् अन्नकरणात् न क्षीयते इति भावः । एतादृशमक्षितिं” परं ब्रह्म यो वेद इति मन्त्रार्थं इत्यर्थः ।
सोऽत्रमत्ति प्रतीकेन इत्यंशं व्याचष्टे – मुखं प्रतीकं मुखेन इत्येतत् । अत्र मुखमिति व्याख्यानम् , प्रतीकमिति व्याख्येयम् । मुखेन इत्येतत् – प्रतीकेन इत्यनेन मन्त्रवचनेन मुखेन इत्युक्तं भवति इत्यर्थः । अनुष्यमात्रेऽपि अत्तीति प्रयोगसम्भवात् मुख्यभोजनप्रतीत्यर्थं मुखेन अन्नमत्ति इत्युक्तम् । ततश्च अन्नादनस्य मुखमात्रसाध्यत्वात् मुखेन इत्यस्य वैयर्थ्यं न चोदनीयम् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रतीकधारणम् । तत् तात्पर्यकथनेन व्याचष्टे – प्रशंसा इति । ऊर्जं– अन्नम्। निरतिशयभोग्यं परमात्मानम् इत्यर्थः । प्रशंसा – प्रशंसारूपफलश्रुतिरिति यावत् । अत्र प्रशंसा – इत्येतत् ब्राह्मणवाक्यं सोऽन्नमत्ति इत्यादि मन्त्रखण्डत्यस्यापि तात्पर्यकथनरूपम् । अत्र प्रतीकेन इति पदस्य ब्याख्येयत्वात् सोऽन्नमत्तीति खण्डः पृथग्गृहीतः । तत्र सप्तान्नस्रष्टृत्वादि-पूर्वोक्तगुणविशिष्टब्रह्मोपासकस्य सोऽन्नमत्तीति प्रथमखण्डेन ऐहिकातन्नभोक्तृत्वम्: स देवान् इति द्वितीयखण्डेन सर्वदेवतासायुज्यरूपमामुष्मिकं फलम् : स ऊर्जमिति तृतीयखण्डेन, अहमन्नमन्नमदन्तमद्मि इत्यादिषु परब्रह्मवाचकतया प्रतिपन्नस्य अन्नशब्दस्य पर्यायभूत ऊर्जशब्दः परब्रह्मवाचक इति तदुपजीवनरूपब्रह्मानुभवः मोक्षाख्यं फलमुच्यत इति विवेको द्रष्टव्यः ।। २ ॥
[आत्मार्थकॢप्तमनोवाक्प्राणात्मकान्नत्रयविवेचनम्]
त्रीण्यात्मनेऽकुरुतेति । मनो वाचं प्राणम् । तान्यात्मनेऽकुरुत । अन्यत्रमना अभूवम्, नादर्शम् ; अन्यत्रमना अभूवम् ; नाश्रौषमिति । मनसा ह्येव पश्यति, मनसा शृणोति । कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भिरित्येतत् सर्वं मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । य:कश्च शब्दो वागेव सा । एषा ह्यन्तमायत्ताः एषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत् सर्वं प्राण एव । एतन्मयो वा अयमात्मा; वाङ्मयो मनोमयः प्राणमयः ।। ३ ।।
प्र. – त्रीण्यात्मनेऽकुरुतेति व्याख्येयग्रहणम् । तव्द्याचष्टे – मनो वाचं प्राणं तान्यात्मनेऽकुरुत इति । पूर्वोक्तः पिता सर्वेश्वरः मनोवाक्प्राणरूपाणि त्रीण्यन्नानि आत्मने – सर्वस्मै जीववर्गाय अकुरुत– कृतवान् इत्यर्थः । उक्तं च व्यासार्यै: ज्योतिरधिकरणे सप्तान्नब्राह्मणव्याख्यानदशायाम् परमात्मनः सङ्कल्पात् जीवानाम् उपजीव्यत्वेन अन्नशब्दवाच्यानां सप्तानाम् उत्पत्तिमुक्त्वा, तत्र प्रसिद्धान्नम् , दर्शपूर्णमासौ, पयश्च इत्यन्नचतुष्टयस्य मानुषदेवतिर्यक्षु विनियोगमुक्त्वा त्रीण्यात्मनेऽकुरुत इत्यवशिष्टान्नत्रयस्य सर्वविधप्रवृत्तिहेतुत्वात् सामान्येन ‘सर्वभोक्तृवर्गशेषम् अकरोत् इत्युक्त्वेति उक्तम् । मनोवाक्प्राणानां ‘सर्वजीव साधारणोपकारकत्वं क्रमेणाह – अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति इति अत्र लोकः प्रत्येतीति शेषः ।
अन्यत्र मनो यस्य सः अन्यत्रमनाः । मनसः व्यासङ्गदशायाम् इन्द्रियसम्बन्धेऽप्यर्थे विषयानुभवाभावः अनन्तरास्मरणलिङ्गेन अनुभूयत’ इति भावः । ततः किमित्यत्राह –मनसा ह्येष पश्यति मनसा शृणोति इति । मनसः यस्मात् व्यासङ्गदशायां दर्शनश्रवणा-भावः, तस्मात् दर्शनश्रवणे मनःकरणके इति भावः । अत्यल्पमिदम् उच्यते दर्शनश्रवणे मनःकरणके इति, कामादिकमपि मनःकरणकमित्याह – कामस्सङ्कल्पो विचिकित्सा इत्यादिना । कामः – विषयाभिलाषः, सङ्कल्पः – व्यवसायः, विचिकित्सा – सन्देहः, श्रद्धा – कर्मसु आस्तिक्यबुद्धिः, अश्रद्धा – तद्विपरीत बुद्धिः, धृतिः – प्रीतिः, अधृतिः -अप्रीतिः, हीः – लज्जा: धीः – प्रमाणजन्यज्ञान मात्रम्, भी: – आगामिदुःखशाङ्का एतत्सर्वं मनः – ‘मनःकरणकमेवेति फलितार्थः’ । कार्यकरणोपचारात् कामादीनां मन एव प्रधानं साधनमित्युक्तम् । मनसः ज्ञानकरणत्वे हेत्वन्तरमाह – तस्मादपि पृष्ठतः उपस्पृष्टी मनसा विजानाति इति । तस्मात् – मनसः ज्ञानकरणत्वेन सर्वजीवोपकरणत्वादेव पृष्ठतः – रूपग्रहणयोग्य चक्षुरगोचरेऽपि प्रदेशे वृश्चिकादिना उपस्पृष्टः मनसा विजानाति . वृश्चिकादीन् अनुमिनोति । अन्यथा तत्र वृश्चिकादिज्ञानं न स्यात् । तस्मादपि हेतो: मन एव ज्ञानकरणमिति भावः ।।
एवं मनसः आत्मभोगार्थत्वमुक्त्वा वाचस्तदाह – यः कश्च शब्दो वागेव सा इति । परेषां स्वाभिमतार्थज्ञापनाय प्रयुज्यमानः यः कश्च – सर्वोऽपि शब्दः बागेव– .वागिन्द्रियाधीनोच्चारणकर्म इत्यर्थः । ततश्च शब्दाभिवदनमेव जीवानां वागिन्द्रिय-साध्योपकार’ इति भावः । अत्र सा इति स्रोलिङ्गनिर्देशो विधेयाभिधायि वाक्छब्दाभि-प्रायेण । कार्यकरणोपचारनिर्देशश्च पूर्ववदेव द्रष्टव्यः । अत एव पूर्ववाक्ये कामादीनां मन:परिणामरूपत्व वादश्च परास्तः । तथासति वैरूप्यप्रसङ्गात् इत्यलमनेन । एषा ह्यन्तमायत्तेति । एषा – वाक् सर्वस्यान्तं ‘सर्वपदार्थानाम् इयत्ताम्’ आयत्ता – प्राप्ता । *सर्वेषामियत्तां प्रकाशयितुं शक्नोति इत्यर्थः । एषा हि न इति । एषा हि वाक् स्वयं नान्तमायत्ता – ‘अन्यैरपरिच्छिन्ना’ इत्यर्थः । वाक् स्वयमन्यापरिच्छेद्या सती इतरषां तु परिच्छेदिका इत्यर्थः ।
क्रमप्राप्तं प्राणस्य आत्मोपकारकत्वप्रकारमाह – प्राणोऽपानोव्यान उदान: समानोऽन इत्येतत् सर्वं प्राण एव इति । प्राण एव प्राणनापानन व्यानन उदनन समननाख्य व्यापारः प्राणापानव्यानोदानसमाननामकस्सन् तद्वृत्तिद्वारा ‘उपकारकः’, अन इति ‘सामान्य-नामकश्चेति यावत् । सूत्रितञ्च – पञ्चवृत्तिर्मनोवव्द्यापदिश्यते (ब्र.सू.२-४-११) इति ।
इत्थं हि तदधिकरणम् – मुख्यः प्राणः किं वायुमात्रम् , उत तदीयस्पन्दनक्रिया, उत वायुरेव कञ्चिदवस्थाविशेषम् आपन्न इति विशये, यः प्राणः स वायुः इति श्रुतेः वायुमात्र प्राणः । अथवा उच्चासनिश्वासात्मकवायुक्रियायां प्राणशब्दप्रसिद्धेः क्रिया वा स्यात् इति पूर्वपक्षे प्राप्ते न वायुक्रिये पृथगुपदेशात् (ब्र.सू.२-४-८) । एतस्मात् जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुज्योतिरापः इति वाय्वपेक्षया पृथगेव द्रव्योत्पत्ति-प्रकरणे व्यपदेशात् न वायुमात्रं तत्क्रिया वा प्राणः । ‘तर्हि किमग्निवद्भूतान्तरम्? नेत्याह चक्षुरादिवत्तु तत्सहशिष्टयादिभ्यः (ब्र.सू.२-४-९) चक्षुरादिवत् अयं जीवोपकरणविशेषः ।
न तत्त्वान्तरम् । प्राणसंवादादिषु चक्षुरादिभिस्सह प्राणस्य शासनं श्रूयमाणं हि तत्साम्यमव-गमयति । तथा मुख्यः प्राण इत्यादि व्यपदेशोऽपि प्राणशब्दितचक्षुरादिसाजात्यमेवावगयति इत्यर्थः । ननु प्राणस्यापि जीवोपकरणत्वे तद्वदुपकारकक्रिया वक्तव्या । तदभावात् नोपकरणत्वमित्यत्राह – अकरणत्वाच्च दोषस्तथा हि दर्शयति (ब्र.सू.२-४-१०) । करणं क्रिया । उपकारकक्रियाराहित्यात् यो दोषः स न संभवति । शरीरधारण लक्षणोपकारकक्रियां हि श्रुतिरेव दर्शयति । अहमेवैतत् पञ्चधाऽऽत्मानं विभज्यैतद्वाणमवष्टभ्य विधारयामि (प्र.उ.२-३) इति, प्राणेन रक्षन्नपरं कुलायम् (बृ.उ.२-३-१२) इति च । नन्वेवं नामभेदाच्च कार्यभेदाच्च प्राणापानादयः तत्त्वान्तरं स्युः । नेत्युच्यते, पञ्चवृत्तिः मनोवद्यपदिश्यते । यथा कामस्संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा इत्यादिवचनात् मन एव कार्यभेदात् यथा’ कामादिशब्दै: व्यपदिश्यते । कामात्यः न मनसः तत्त्वान्तरम् । एवं प्राणोऽपानोव्यान उदानस्समान इत्येतत्सर्वं प्राण एवेति वचने प्राणस्य एकस्यैव कार्यभेदात् प्राणापानव्यानोदानादित्ववचनात् न तत्त्वान्तरं प्राणापानादयः इति सिद्धान्तितम् । अत्र न च धर्मभूतज्ञानावस्थाविशेषाः कामादयः मनस्तत्त्वान्तरमेवेति कथं कामादीनां तत्त्वान्तरत्वनिषेध इति वाच्यम् । कामादिरूपज्ञानपरिणाम हेतुत्वावस्थस्य मनस एव कामादि शब्दैः अभिधानात्’ । न तत्त्वान्तरम्, कामस्सङ्कल्प इत्यादिवाक्ये कामादि-शब्दितमिति व्यासार्यैरुक्तत्वात् । प्रकृतमनुसरामः । एतन्मयो वा अयमात्मा इति । वैशब्दः प्रसिद्धी । अयमात्मा जीवः । एतन्मय इत्यस्य अर्थमाह – वाङ्मयो मनोमयः प्राणमय इति । प्राचुर्ये मयट् । मनोवाक्प्राणप्रचुरः । तत्कृतोपकारप्रचुर’ इति यावत् ।। ३ ।।
[वाङ्मनःप्राणानां स्तुतिः]
त्रयो लोका एत एव । बागेवायं लोको मनोऽन्तरिक्षलोक: प्राणोऽसौ लोकः ।। ४ ।।
प्र-वाङ्मनःप्राणान् सर्वात्मकत्वेन स्तौति – त्रयो लोका एत एव इत्यादिना । त्रयो लोका इत्यस्य एतच्छब्दस्य च अर्थं स्वयमेव विभज्याह – वागेवार्यं लोकः इत्यादिना । अयं लोकः – पृथिवीलोक इत्यर्थः । अन्तरिक्षलोकः – भुवर्लोक इत्यर्थः । असौ लोकः – तदूर्ध्वलोकः इत्यर्थः ।। ४ ।।
त्रयो वेदा एत एव । वागेवर्ग्वेदो मनो यजुर्वेदः प्राण: सामवेदः ॥५॥
देवाः पितरो मनुष्या एत एव । वागेव देवा मनः पितरः प्राणो मनुष्या: ।।६।।
प्र-त्रयो वेदा एत एव इत्यादि । स्पष्टार्थम् ।। ५-६ ।।
पिता माता प्रजैत एव । मन एव पिता, वाङ्माता प्राणः प्रजा ।।७।।
प्र-पिता माता प्रजैत एव इत्यादि । प्रजाः पुत्र इत्यर्थः ।। ७ ।।
[वाङ्मनःप्राणानां विज्ञातादिरूपत्वम् ]
विज्ञातं विजिज्ञास्यमविज्ञातमेत एव । यत्किञ्च विज्ञातं वाचस्तद्रूपम् । वाग्धि विज्ञाता । वागेवैनं तद्भूत्वाऽवति ।। ८ ।।
प्र. – विज्ञातं विजिज्ञास्यमविज्ञातमेतम् एवेति प्रतिज्ञातं वाङ्मनःप्राणानां विज्ञातादिरूपत्वं क्रमेण उपपादयति खण्डत्रयेण । तत्र प्रथमं वाचः विज्ञातरूपत्वम् उपपादयति – यत्किञ्च ‘विज्ञातं‘ वाचस्तद्रूपम् इति । यत् वाग्व्यवहारात् विज्ञातं भवति, तत्सर्वं वाचो रूपमित्यर्थः । तदेव प्रसिद्ध्या दर्शयति – वाग्धि विज्ञाता इति विज्ञाताः वाचा विज्ञायमानास्सर्वेऽपि वागेव हि । तदधीनप्रकाशत्वात् सैव इत्यर्थः ततश्च किमित्यत्राह – वागेवैनं तद्भूत्वाऽवति इति । तत् – वाचा विज्ञायमानं पदार्थजातं एनं – विज्ञातारं यत् अवति – रक्षति । उपकरोति यदिति यावत् । ‘तद्विज्ञायमानं वागेव भूत्वा’ अवति । वाचा विज्ञायमानेन पदार्थेन य ‘उपकारो भवति’; स सर्वोऽपि वागधीन एव । तस्माद्वाच आत्मोपकारकत्वं सिद्धमिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ८ ॥
यत्किञ्च विजिज्ञास्यं, मनसस्तद्रूपं मनो हि विजिज्ञास्यम् । मन एव एनं तत्भूत्वाऽवति ॥९॥
प्र. – यत्किञ्च विजिज्ञास्यं, मनसस्तद्रूपम् इति । विजिज्ञास्यं – विचिन्तनीय-मित्यर्थः । यत् चिन्तितं देवादिकमुपकरोति । तद्भूत्वा मन एव उपकरोति । चिन्तितै: देवादिभिः आत्मने क्रियमाण उपकारः तच्चिन्तनकरणभूतमनःप्रयुक्त एवेति भावः ॥९॥
यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो हि अविज्ञातः । प्राण एनं तद्भूत्वाऽवति ।। १० ॥
प्र– यत्किञ्चाविज्ञातं इति । प्राणो हि अविज्ञातः हि – यस्मात् ‘प्राण इन्द्रियागोचरः तस्मात् सः अविज्ञातः । अतः प्राणस्य अविज्ञातत्वात् अविज्ञातमात्मोप-कारकं सर्वं वस्तु प्राण एवेति भावः । प्राण एनं तद्भूत्वाऽवति इति । पूर्वसुकृतवशात् अचिन्तितं यदुपकरोति, तद्भूत्वा प्राण एव उपकरोतीत्यर्थः । प्राणवति हि जीवे अद्ययादिवश अचिन्तितं वस्तु उपकरोति । अतः तदुपकारः प्राणप्रयुक्त इति भावः ।। १० ।।
[वागधिष्ठातृप्रदर्शनम्]
तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः । तद्यावत्येव वाक् तावती, पृथिवी तावानयमग्निः ।।११।।
प्र. – एवं प्रशस्य त्रयाणामाधारा’नधिष्ठातृृंश्च दर्शयति – तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः इति । तस्यै – तस्याः, विभक्तिव्यत्ययश्छान्दसः । तस्य वागिन्द्रियस्य पृथिवी शरीरम् – आयतनम् । ‘कण्ठादिस्थानाष्टकगोळस्थं पार्थिवांशमाश्रित्य वागिन्द्रियं तिष्ठति इत्यर्थः । ज्योतीरूपं – ज्योतिर्मयमधिष्ठातृदेवतास्वरूपम् अयमग्निः इत्यर्थः । तद्यावत्येव वाक् तावती पृथिवी तावानयमग्निः इति । तत् – एवं पृथिव्यग्नयोः ‘वागिन्द्रियं प्रति’ आधारत्वात् अधिष्ठातृत्वाच्च यावती वाक्–यत्र यत्र वागिन्द्रियं वर्तते, तावती पृथिवी – तत्र तत्र तदधिष्ठानतया पृथिव्यप्यस्ति । तावानयमग्निः तदधिष्ठातृतया अग्निरप्यस्ति इत्यर्थः ।। ११ ।।
[मनोऽधिष्ठातृप्रदर्शनम्]
अथैतस्य मनसः द्यौः शरीरं ज्योतीरूपमसावादित्यः । तद्यावदेव मनस्तावती–द्यौस्तावानसौ आदित्यः । तौ मिथुनँ समैताम् । ततः प्राणोऽजायत । स इन्द्रः । स एषोऽसपत्नः । द्वितीयो वै सपत्नः । नास्य सपत्नो भवति, य एवं वेद ।। १२ ।।
प्र – अथैतस्य मनसो द्यैश्शरीरम् इति । इह घुशब्दः आकाशपरः, न तु लोकविशेषपरः, अनुपपत्तेः । न हि स्वर्गलोक एव मनसोऽधिष्ठानम्। अन्येषाममनस्कत्व-प्रसङ्गात् । धुशब्दो हि लोकविशेष इव नभो मात्रे च वर्तते । सुरलोको द्योदिवौ वे स्त्रियाम् (अ.को.१-१-६) इतिवत्; द्यो दिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम् (अ.को.१-२-१) इति च ‘त्रिकाण्डोक्तेः । तत्रापि सामर्थ्यात् हृदयाकाशे पर्यवस्यति । हृदयच्छिद्ररूपाकाश आयतनमित्यर्थः । ज्योतीरूपमसावादित्यः तद्यावदेवमनस्तावती द्यौस्तावानसावादित्य इत्यस्य पूर्ववदर्थः । अत्र मनस आदित्याधिष्ठानकत्वमपि श्रुतिप्रामाण्यात् अभ्युपगन्तव्यमिति द्रष्टव्यम् । तौ मिथुनं समैताम् । तौ – अग्न्यादित्यौ मिथुनं समैतां – मिथुनोभावम् अगच्छताम् । ततः प्राणो अजायतेति । अस्यायमभिप्रायः – आदित्याधिष्ठेयमनःपूर्विका अग्न्यधधिष्ठेय वाक् प्रवृत्तिः । तदुभयपूर्विका पञ्चवृत्तिप्राणाधीना शरीरप्रवृत्तिरिति । स इन्द्रस्स एषोऽसपत्नः इति । सः प्राण: ‘इन्द्रः – परमेश्वर्यशाली इत्यर्थः ।
इन्द्रियान्तरापेक्षया प्राणस्य ईश्वरत्वादिति भावः । स एषः -प्राण: असपत्न इत्यर्थ:। प्राणस्य असपत्नत्वं चक्षुरादिषु स्वसदृशप्रतिस्पर्धिरहितत्वम् । सपत्नशब्दार्थकथनेन श्रुति तदेव विवृणोति – द्वितीयो वै सपत्नः इति । एवं मनोवाक्प्रवृत्तिपूर्वकशरीरप्रवृत्तिहेतोः प्राणस्य इन्द्रत्वासपत्नगुणवेदिनः फलमाह – नास्य सपत्नो भवति, य एवं वेद इति । स्पष्टोऽर्थः ।। १२ ।।
[प्राणाधिष्ठातृप्रदर्शनम्]
अथैतस्य प्राणस्यापश्शरीरं ज्योतीरूपमसौ चन्द्रः । तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः । त एते सर्व एव समास्सर्वेऽनन्ताः । स यो हैतानन्तवतं उपास्ते, अन्तवन्तँ स लोकं जयति अथ यो हैताननन्तानुपास्ते अनन्तँ स लोकं जयति ।। १३ ।।
प्र– अथैतस्य प्राणस्यापश्शरीरं इति । प्राणा वा आपः (तै.आर.६.२२) इति हि श्रुतिः । पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम् इत्यायुर्वेदविदः । अतः प्राणस्य आप एव आयतनम् । आधार इत्यर्थः । चन्द्रो ज्योतीरूपमधिष्ठाता प्राणस्य । अतो यत्र प्राणः, तत्र तदधिष्ठानमापः । अधिष्ठाता चन्द्रश्चास्तीत्यर्थः । त एते सर्व एव समास्सर्वेऽनन्ता इति । त एते – वाङ्मनःप्राणाः सर्व एव समाः । हस्तिमशकादीनां ‘सर्वेषां शरीरेषु समाः । यथा दीपप्रभा घटगृहप्रासादादिविषमपरिमाणाधारै: असम-परिमाणौ’ तत्तदाधारवशेन सङ्कोचविकासौ याति । तथा प्राणा अपि मशकमातङ्गादि-देहवशेन तत्तद्देहपरिमाणानुगुणसङ्कोचविकासौ यान्ति इत्यतः । प्राणाः सर्वशरीरेषु तत्तच्छरीरपरिमाणत्वेन समा इत्यर्थः । सर्वेऽनन्ताः । ‘आनन्त्यं च वाङ्मनःप्राणानाम्’ आकल्पस्थायित्वात् मनःप्राणवाग्व्यष्टिभेदाच्चेति द्रष्टव्यम् । तस्मात् फलार्थिना आनन्त्येनैव एते मनोवाक्प्राणा उपासनीयाः । अन्तवत्वेन उपासने तु तत्फलप्राप्तिरित्याह – स यो हैतानन्तवत उपास्ते इत्यादि । लोकं-कलम् । अन्तवन्तं लोकं जयति– उद्दिष्ट फलपूर्तिनः स्यात् इत्यार्थः । अनन्तं लोकं जयति – उद्दिष्टं फलं पूर्णं प्राप्नोति इत्यर्थ: अत्रानन्तशब्दः चिरकालस्थायित्वाभिप्रायः । प्राणपादे हि सर्व एव समाः सर्वे अनन्ताः इत्यानन्यश्रवणान् प्राणशब्दितानाम् इन्द्रियाणाम् विभुत्वमिति पूर्वपक्षे प्राप्ते – अणवश्य (ब्र.सू.२-४-३) इति सूत्रेण सिद्धान्तितम्। तत्र तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इत्यादिषु उत्क्रान्त्यादिश्रवणात् ‘परिच्छिन्नत्वे सिद्धे उत्क्रान्त्यादौ पार्श्वस्थैरनुपलभ्यमानत्वात् अणवश्य प्राणा भवन्ति । अनन्तानुपास्ते इत्यानन्त्यश्रुतिस्तु दर्शनश्रवणाद्यानन्तकार्यविशिष्टतया तदुपासनाविधिपरेति स्थितम्। प्रकृतमनुसरामः ॥ १३ ॥
[पुरुषस्य षोडशकलचन्द्र साम्यम्]
स एष संवत्सर: प्रजापतिः षोडशकल: तस्य रात्रय एव पञ्चदशकला, ध्रुवैवास्य षोडशी कला । स रात्रिभिरेव आ च पूर्यतेऽप च क्षीयते । सोऽमावास्याँ रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेतां रात्रि प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यै तस्या एव देवताया अपचित्यै ॥ १४ ॥
प्र.-स एष संवत्सरः प्रजापतिः इत्यादि । अत्र स एष इति सौम्यो वै देवतया पुरुषः इति श्रवणात् प्राणाधिदेवताभूतः पूर्वोक्तश्चन्द्रः परामृश्यते । अत एव च स प्रजापतिः इत्युच्यते । चन्द्रमाष्षड्ढो षता स ऋतून् कल्पयति इति प्रकारेण सर्वर्तुप्रवर्तकतया स एव च संवत्सरसंज्ञः । स तु षोडशकलः । तस्य – चन्द्रस्य तत्र पञ्चदशकलाः, रात्रय एव – रात्रि शब्दिताः तिथय एव । कथं पुनः कलानां तिथित्व-मित्यत्राह – स रात्रिमभिरेव च पूर्यतेऽप च क्षीयते इति । रात्र्यधीनोपचयापचयवत्वात् कलानां, कला रात्रय एव इत्युक्तिरौपचारिकी सङ्गच्छत इत्यर्थः । षोडशकलत्वेन उक्तस्य चन्द्रस्य पञ्चदशकलासु रात्र्यधीनोपचयापचयासु कथितासु षोडशीकला कि रूपा इत्यत्राह – ध्रुवैवास्य षोडशीकला इति । षोडश्याः कलायाः नाशाभावात् ध्रुवत्वमिति द्रष्टव्यम् सोऽमावास्यां रात्रिम् इत्यादि । सः – चन्द्रमाः अमवास्यां रात्रिं – अमावास्यायां रात्रौ एतया – ध्रुवत्वेन पूर्वोक्तया षोडश्या कलया सर्वमिदं प्राणभृत् – प्राणिजातमनुप्रविश्य तत: अपरेद्युः प्रातर्जायते इत्यर्थः । तस्मादेतां रात्रिं प्राणभृत इत्यादि । तस्मात् एतां रात्रिं – अमावास्यायां रात्रौ कृकलासस्यापि प्राणिनः प्राणं न विच्छिन्द्यात् – न हिंस्यात् । यस्य प्राणिनः हिंसा न निषिद्धा स्वल्पदोषा तादृशस्य ‘प्राणिनोऽपि’ कृकलासस्य प्राणं न हिंस्यात् । कस्य हेतोः? एतस्या एव – चन्द्ररूपाया देवतायाः सर्वप्राणिजातप्रविष्टायाः अपचित्यै – पूजायै पूजासिद्ध्यर्थमित्यर्थः । इतरथा तदपचारस्स्यादिति भावः ।। १४ ॥
[षोडशकलचन्द्रविद्याफलम्]
यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित् पुरुषः । तस्य वित्तमेव पञ्चदशकला:, आत्मैवास्य षोडशी कला । स वित्तेनैव आ च पूर्यतेऽप च क्षीयते । तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं जीयते आत्मना चेज्जीवति, प्रधिनाऽगादित्येवाहुः ।। १५ ।।
प्र. – षोडशकलचन्द्रविद्याफलमाह – यो वै संवत्सरः प्रजापतिः इति । अत्रापि संवत्सरप्रजापतिशब्दौ पूर्ववत् चन्द्रपरौ । योऽयमेवंवित् पुरुषः – पूर्वोक्तं संवत्सरत्व प्रजापतित्वादिगुणविशिष्ट चन्द्रवेत्ता सः अयमेव चन्द्र एव भवति इत्यर्थः ।कथं चन्द्रो भवति इत्यत्राह – षोडश कल इति । यथा चन्द्रः षोडशकलः, एवं तद्वेत्ता पुरुषोऽपि षोडशकलो भवतीत्यर्थः । पुरुषस्य षोडशकलत्वमेव उपपादयति – तस्य वित्तमेव पञ्चदशकला: आत्मैवास्य षोडशी कला, स वित्तेनैव आ च पूर्यतेऽप च क्षीयते इति । उपचयापचयाशालिगवादिवित्तं पञ्चदशकलास्थानीयम् उपचयापचय-शालित्वादेव आत्मा – शरीरं तु ध्रुवकलास्थानीयं वित्तवत् उपचयापचययोः पदे पदे अभावात् । अत: षोडशकलत्वं पुरुषस्य सम्भवतीत्यर्थः । आ च पूर्यते, अप च क्षीयते इत्यत्र व्यवधानं ‘छान्दसम् । आत्मशब्दितस्य शरीरस्योक्तं ध्रुवकलात्वमेवोपपादयति तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् इति । आत्मा– शरीरं नभ्यं -नााभिमर्हतीति नभ्यम्।
‘नाभे:नभं च (ग.सू.९५) इति नभादेशः । षोडशकलाविशिष्टचन्द्रवत् वित्तविशिष्टः पुरुषश्चक्रतुल्यः। तत्र शरीरं नाभिस्थानीयमिति यावत् । वित्तं तु प्रधिः परिवारभूतमरनेमि स्थानीयमिति द्रष्टव्यम् इत्यर्थः । तदेव उपपादयति – तस्माद्यद्यपि सर्वज्यानिं जीयते‘ आत्मना चेज्जीवति प्रधिनागादित्येवाहुः इति । ‘सर्वज्यानि . प्रति इति शेषः । ज्या वयो हानौ (धा.पा.१५००) ज्यानिः नाशः सर्वस्वनाशो यथा भवति तथेति यावत् । जीयते – श्यनि गृहिज्ये (पा.सू.६-१-१६) इति सम्प्रसारणम् । नश्यति इत्यर्थः । यस्मात् शरीरवित्ते नाभिप्रधिस्थानीये, तस्मादेव हेतोः पुरुषो यद्यपि सर्वज्मानिं जीमते पुरुषस्य सर्वस्वं नाशो यद्यपि भवति । तथापि आत्मना – शरीरेण चेज्जीवति तदा प्रधिना‘ – प्रधिस्थानीयेन परिवारभूतेन वित्तेन अगात् – गतवान् । विनष्ट इत्येवाहुः शास्रज्ञाः न तु शरीरेण नष्ट इत्याहुः । अतः शरीरस्य ध्रुवकलात्वम् इत्यर्थः । अयमभिप्रायः । कान्तारे सर्वस्वापहरणेऽपि शरीरमात्रं जीवति चेत् सर्वं ‘चित्तमाप्स्यते षोडशकलपुरुष वेदो वित्तस्य चन्द्रकलावत् अपक्षयविनाशस्वभावत्वात् विद्यामहिम्ना स्वयमेव पूर्णं भविष्यतीति विद्वांस आहुरिति । अत एव व्यासार्यै: । तदर्थकथनदशायां तद्वेदनफलं चोक्तम् इत्युक्तम् । अतः अयं सन्दर्भः पूर्वोक्तषोडशकल चन्द्रविद्याफलप्रतिपादनपरो द्रष्टव्यः ॥ १५ ॥
[आत्मन: वित्तविशेषसम्पाद्याः लोकाः]
अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । कर्मणा पितृलोको विद्यया पितृलोकः । देवलोको वै लोकानां श्रेष्ठः । तस्माद्विद्यां प्रशंसन्ति ।। १६ ।।
प्र. – मनोवाक्प्राणानां प्रकारान्तरेण आत्मोपकारकत्वं दर्शयितुं पीठिकामारचयति .अथ त्रयो वाव लोका: मनुष्यलोकः पितृलोकः देवलोक इति । अथ इत्युपकार. प्रकारान्तरोपन्नासे वावशब्दोऽवधारणे । स्पष्टोऽर्थः । सोऽयं मनुष्यलोक इति । उक्तेषु त्रिषु लोकेषु अयं मनुष्यलोकः ‘पुत्रेणैव जय्य: – प्राय: । न कर्मादिना इत्यर्थः । नान्येन कर्मणा इत्यत्र अन्येन इत्यस्य कर्मणा इति विवरणम् । कर्मणा इति विद्याया अप्यूपलक्षणं द्रष्टव्यम् । कर्मणा पितृलोको विद्यया देवलोक इति । केवलकर्मणा अन्तरिक्षलोक: प्राप्यो भवति । काम्यविद्याविशेषेण देवलोक प्राप्तिर्भवति इत्यर्थः । देवलोको वै लोकानां श्रेष्ठः तस्माद्विद्यां प्रशंसन्ति इति । अत्र देवलोकशब्दस्य भगवल्लोकपरत्वम्, विद्याशब्दस्य ब्रह्मविद्यापरत्वमपि स्वारसिकं’ द्रष्टव्यम् । यतो विद्याया एवं ‘श्रेष्ठभूतदेवलोक साधनत्वम् । अत: विद्यां, विद्वांसः प्रशंसन्ति – स्तुवन्ति इत्यर्थः ।। १६ ।।
[सम्प्रत्तिकर्म]
अथातः सम्प्रत्तिर्यदा प्रैष्यन् मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति। स पुत्रः प्रत्याह – अहं ब्रह्माहं यज्ञोऽहं लोक इति । यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास्तेषाँ सर्वेषां यज्ञ इत्येकता । ये वै के च लोकास्तेषाँ सर्वेषाँ लोक इत्येकता । एतावद्वा इदँ सर्वम् । एतन्मा सर्वं सन्नयमितोऽभुनजदिति । तस्मात् पुत्रमनुशिष्टं लोक्यमाहुः तस्मादेनमनुशासति । स यदैवंविदस्माल्लोकात् प्रैति, अथैभिरेव प्राणै: सह पुत्रमाविशति । स यद्यनेन किञ्चिदक्ष्णयाऽकृतं भवति; तस्मादेनँ सर्वस्मात् पुत्रो मुञ्चति । तस्मात् पुत्रो नाम । स पुत्रेणैवास्मिन् लोके प्रतितिष्ठति ।। अथैनमेते दैवाः प्राणा अमृता आविशन्ति ।। १७ ।।
प्र. – मनुष्यलोकस्य पुत्रेण ‘जय्यत्वप्रकारमाह’ – अथात; सम्पत्तिः इत्यादिना । सम्पत्तिः‘ – सम्प्रदानम् । सम्प्रत्तिरिति वक्ष्यमाणस्य कर्मणः नामधेयम् । ‘पुत्रे हि’ स्वात्मव्यापारसम्प्रदानं करोति अनेन प्रकारेण पिता । तेन सम्प्रत्तिसंज्ञकमिदं कर्म । तत् कस्मिन् काले कर्तव्यमित्यत्राह – स यदा प्रैष्यन् मन्यते । स पिता यदा – यस्मिन्काले प्रैष्यन् मन्यते – अरिष्टदर्शनेन मरिष्यामि इति मन्यते । अथ तदा पुत्रमाह – पुत्रमाहूय आह इत्यर्थः । किमिति? त्वं ब्रह्म त्वं यज्ञः त्वं लोक इति । सः पुत्रः प्रत्याह पितुरुक्तामुक्तिं प्रत्युत्तरयति । किमिति? अहं ब्रह्माऽहं यज्ञोऽहं लोक इति । अस्यार्थं श्रुतिरेव व्याचष्टे । तत्रत्वं ब्रह्मेति पितुः प्रथमवाक्यस्यार्थमाह – यद्वै किञ्च अनूक्तं तस्य सर्वस्य ब्रह्मेत्येकता इति । यत्किञ्चानूक्तं – अधीतमनधीतञ्च । तस्य सर्वस्यैव ब्रह्म इत्येतस्मिन् पदे एकता – एकत्वम् इत्यर्थः । योऽध्ययनव्यापारो मे कर्तव्य आसीत् एतावन्तं काल वेदविषयः । सः ब्रह्मशब्दार्थभूतः, इत ऊर्ध्वं त्वं – त्वमेव । त्वत्कर्तृकोऽस्तु इत्यर्थः । ते सर्वे त्वं यज्ञ इति पितुर्वाक्यं व्याचष्टे – ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकतेति । ये यज्ञाः ‘मया अनुष्ठिता’ अननुष्ठिताश्च । ते सर्वे त्वं यज्ञ इत्यत्र यज्ञ-शब्दस्यार्थः । ततश्च यो यज्ञादिव्यापारो मया अननुष्ठित एतावन्तं कालं, मे कर्तव्यः, स यज्ञशब्दार्थस्सर्वोऽपि त्वमेव – त्वदधीनोऽस्तु इति यावत् । अथ त्वं लोक इति तृतीयपितृवाक्यस्यार्थमाह – ये वै के च लोकास्तेषां सर्वेषां लोक इत्यैकतेति । ये के च लोकाः – जिता अजिताश्च लोकशब्दार्थः । ततश्च ये लोका मया एतावन्तं कालमजिता: जेतव्याश्च, लोकशब्दार्थभूताः ते सर्वे त्वमेव । त्वया साध्या इति त्वं लोक इत्यस्यार्थः इति भावः । अतः अहं ब्रह्म इत्यादि पुत्रवाक्यानामपि एवमेव पित्रुक्तवाक्यत्रयार्थाभ्युपगमोऽर्थ इति च भावः । अथैवं पुत्रं प्रतिवक्तुः पितुस्तात्पर्यम् आह श्रुतिः एतावद्वा इदं सर्वमेतन्मा सर्वं सन्नयमितोऽभुनजत् इति । लोके गृहिणां कर्तव्यं सर्वमिदं – वेदयज्ञलोकात्मकम् एतावद्वौ – एतावदेव । एतत्सर्वं वेदयज्ञलोकात्मकम् अयं– पुत्रस्स्वयमेव भूत्वा स्वासम्पादितवेदयज्ञलोकच्छिद्रपूरको भूत्वेति यावत् । इमं भारं स्वात्मनि निधाय इतः – अस्माल्लोकात् मा–मां अभुनजत् -पालयिष्यति इत्यभिप्रायवान् पिता पुत्रायान्तकाले एवं ब्रवीति इति शेषः । ‘लृडर्थे लङ् इति: मन्त्रव्याख्यासमाप्तौ । तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः इति । तस्मात् – एवं त्वं ब्रह्मेत्यादि मन्त्रेण उक्तत्वात् एवं पित्रा अनुशिष्टं पुत्रं लोक्यं – लोकसाधनमाहुः । तस्मात्–तथा तस्य पुत्रस्य लोक्यत्वसिद्धिहेतोः, लोक्यत्वसिद्ध्यर्थमिति यावत् । एनं – पुत्रम् अनुशासति पितर इति शेषः । एवमनुशासनस्य फलमाह – स यर्दैवित् अस्माल्लोकात् प्रैति इत्यादि । एवंवित् – एवं पुत्रानुशासनं कृतवान् सः – पिता यदा अस्मात् लोकात् प्रैति -परलोकं गछति । अथ तदा एभिरेव – स्वीयैः प्राणै: वाङ्मन: प्रभृतिभिः पुत्रमाविशति पुत्रो भूत्वा यज्ञादिकमयमेव करोति । ‘एवम् अनुशिष्टेन पुत्रेण कृर्तं– सर्व पुण्यं कर्म परलोकगतस्य पितुः स्वानुष्ठितसुकृतवत् उपकारकं भवति इत्यर्थः । किञ्च स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात् पुत्रो मुञ्चति इति । सः-एवमनुशिष्ट: पुत्रः, यदि – कदाचित् अनेन – पित्रा किञ्चित्कर्तव्यम् अक्ष्णया – कोणच्छिद्रतः अन्तरा अकृतं – न कृतं भवति । तस्मात् – कर्तव्यरूपात् पित्रा अकृतात् लोकप्राप्तिप्रतिबन्धरूपात् ‘सर्वस्मात् पुत्रः मुञ्चति – मोचयति । पित्रा यद्यन्नकृतं तत्तत्सर्वं स्वयमनुतिष्ठन् पितुर्न्यूनतां पूरयित्वा तेन पूरणेन त्रायते इति भावः । तस्मात्पुत्रो नामेति । एवमनुशिष्टः पुत्रोऽपि पूर्वोक्तरीत्या पूरणेन पितुस्राणात् पुत्रो नाम भवति इत्यर्थः। ततश्च एवमनुशासनग्रहणं तथानुष्ठानं च पुत्रस्य, न केवलं पितुरेव उपकारकं, किन्तु पुत्रस्यापि । अन्यथा हि तस्य पुत्रत्वसिद्धिरेव न स्यादिति भावः । उपपादितं पुत्रेण मनुष्यलोकजयप्रकारं निगमयति स पुत्रेणैव अस्मिल्लोके प्रतितिष्ठति इति । सः–पिता एवंविधेन’ पुत्रेण मृतोऽपि सन्, अमृतः अस्मिन्नेव लोके ‘प्रतितिष्ठति । एवमसौ पिता पुत्रेण मनुष्यलोकं जयति इति भावः ।
एवं पूर्वप्रतिज्ञातार्थेषु पुत्रेण पितुः मनुष्यलोकजयप्रकारमुक्त्वा अवशिष्टम्, कर्मणा पितृलोको विद्यया देवलोकः इत्युक्तमर्थमुपपादयितुं प्रस्तौति । अथैनमेते देवाः प्राणा अमृता आविशन्ति इति । अथ एनं – एवं पुत्रे निक्षिप्त भारं परलोकगतं ‘पुण्यविद्या-कर्माणं’ पुरुषम् अमृताः – अमोघाः, तत्र हेतुः दैवा: – मानुषेन्द्रियविलक्षणाः प्राणशब्दवाच्या मन आदय: आविशन्ति इत्यर्थः ।। १७ ।।
[सम्प्रत्तिकर्मणः फलम्]
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै देवी वाक्, यया यद्यदेव वदति तत्तद्भवति ।। १८ ।।
प्र – तदेव प्रपञ्चयति – पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । पृथिव्यै चेति चतुर्थी पञ्चम्यर्था । ‘अग्ने’रित्यन्तरदर्शनात् । पृथिव्याश्च अग्नेश्च दैवी वाक् एनं -परलोकगतं पुरुषमाविशति इत्यर्थः । एतस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निरिति प्रागुक्तेः वाचः पृथिव्यायतनकत्वात् अग्नयधिष्ठितत्वाच्च । ताभ्यां हेतुभ्यां दैवी वाग् आविशति इति भावः । दैव्या वाचः लक्षणमाह – सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति इति । यया वाचा यद्यद्वदत्यनुकूलं प्रतिकूलं वा तत्तद्भवत्येव चेन्नियमेन सा दैवी वाक् – शापानुग्रहादिसमर्था वाक् दैवीत्यर्थः ।। १८ ।।
दिवश्चैनमादित्यच्च दैवं मन आविशति तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ।। १९ ।।
प्र.- दिवश्चैनमादित्याच्च दैवं मन आविशति इति । अर्थतस्य मनसो द्यौश्शरीरं ज्योतीरूपमसावादित्य इति पूर्वमुक्तत्वात् मनसः अधिष्ठानभूताया दिवः . आकाशात्, अधिष्ठातुः आदित्याच्च हेतोः एनं – परलोकिनं पुण्यकर्माणं दैवं मन आविशति इत्यर्थः । देवमनसोः लक्षणमाह – तद्वै दैवं मनो येनाऽऽनन्येव भवत्यथो न शोचति इति । येन मनसा पुरुषः सदा सुखीभवति, न च शोकं प्राप्नोति; तद्दैवं मनः अमोघसङ्कल्पम् आनन्दैककारणं मनो दैवं मन इत्यर्थः ।। १९ ।।
अभ्द्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै देवः प्राणो यः सञ्चरश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति । स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूतानि अवन्त्येवं हैवंविदं सर्वाणि भूतानि अवन्ति । यदु किञ्जेमाः प्रजाः शोचन्त्यमैवासां तद्भवति । पुण्यमेव अमुं गच्छति । न ह वै देवान् पापं गच्छति ।। २० ।।
प्र.- अभ्द्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति इति । अथैतस्य प्राणस्यापश्शरीरं ज्योतीरूपमसौ चन्द्र इति पूर्वम् उक्तत्वात्, अधिष्ठानभूताभ्योऽभ्द्य: अधिष्ठातुः चन्द्राच्च हेतोः एनं – परलोकिनं दैवः प्राण आविशति इत्यर्थः । तस्य लक्षणमाह – स वै देवः प्राणो यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति इति । अत्र असञ्चरन् इति दृष्टान्तार्थम् । यथा – असञ्चरन् न व्यथते – न श्रान्तो भवति । तथा सञ्चरन्नपि यो न व्यथते, अथो – अपि च न रिष्यति – रिङ्क्षये न नश्यति, स वै – स एव दैवः प्राण इत्यर्थः । अप्रतिहतगमनादिव्यापारहेतुः हिंसानर्हः प्राणो दैवः प्राण इति भावः । ‘पृथिव्यग्निव्द्यादित्याप्चन्द्ररूपदेवताप्रसादादेवास्य मनोवाक्प्राणाः एवं विधा भवन्ति इत्यर्थः ।
एवं जीवोपकरणानां तेषां मनोवाक्प्राणानां परलोके आत्मोपकारकत्व-शक्तयतिशयमुक्त्वा’ एवंविदः फलमाह – स एवंवित्सर्वेषां भूतानामात्मा भवति, यथैषा देवतैवम् इति । यथा एषा पूर्वोक्ता वागिन्द्रियादिदेवता सर्वेषां भूतानामात्मा भवति । अत्र वाङ्मनःप्राणदेवतानां सर्वभूतात्मवत्वं नाम सर्वभूतान्तर्वर्तिज्ञानतत्प्रेरणसामर्थ्यम् । एवं सः अयमपि भवति, य एवं वित् । प्राणादीनां परलोके आत्मोपकारकत्वशक्त्यतिशयं जानन् सर्वभूतात्मा भवति इत्यर्थः । अत्र एषा देवता इति जातावेकवचनम्, पृथिव्यग्नयादित्यानां बहुत्वात् इति द्रष्टव्यम् । स यथैतां देवतां सर्वाणि भूतानि अवन्ति इति । स यथा – स दृष्टान्तो यथा, एवमेव इदमित्यर्थः । तदेव विवृणोति – एताम् इत्यादिना । एताम् – वागादिदेवतां यथा सर्वेपि जन्तवः अवन्ति – अव रक्षणगति कान्त्यादिषु (धा.पा.६००) पूजयन्ति इत्यर्थः । एवं विदं – पूर्वोक्तवागाद्युपकारविशेषविदमप्येवमेव सर्वाणि भूतानि पूजयन्ति इत्यर्थः । ननु एवं विदः सर्वभूतप्रेरकत्वे तानि तानि भूतानि तत्तत्पापकर्मसु प्रेरयत: तस्य तत्पापं प्रसज्येत इत्याशङ्क्याह – यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति इति । यदु – यस्माद्वागादिदेवतोपासकप्रेरणप्रयुक्तादेव पापाद्धेतोः इमाः प्रजाः किञ्च – किञ्चन शोचन्ति तत् – प्रजाशोकनिमित्तं पापं आसां प्रजानामेव भवति ।
अमा-सह, सद्य इत्यर्थः । अमा सह समीपे च (अ.को.३-३-२५०) इति नैघण्टुकाः । नत्वेवंविदः प्रेरयितुरपि तत्पापं भवति इत्यर्थः । तत्र हेतुमाह – पुण्यमेवामुं गच्छति इति । यस्मात् अमुं – उपासकं पूर्वोक्तगुणविशिष्टवागाद्युपासनप्रयुक्तं पुण्यमेव गच्छति–प्राप्तम् , तेन च पुण्येनायं पूर्वोक्तवागादिदेवतासायुज्यं प्राप्तः, अतः तद्देवतावदेव अस्यापि न पापसम्बन्धगन्ध इत्यर्थः । दार्ष्टान्तिके उक्तार्थसिद्ध्यर्थं दृष्टान्तं शिक्षयति न ह वै देवान् पापं गच्छति इति । तत्तत्पापकर्मसु प्रवर्तकानामपि इन्द्रियाधिष्ठातृदेवतानां’ यथा तत्पापं न प्राप्नोति – तादृशो महिमा हि तेषाम् । अतः तद्वदेव तद्विदोऽपि तत्सायुज्यं प्राप्तस्य न सर्वभूतप्रेरणकृतपापप्रसक्तिरिति भावः ।। २० ।।
[मुख्यप्राणस्य श्रेष्ठत्वप्नदर्शनम्]
अथातो व्रतमीमाँसा – प्रजापतिर्ह कर्माणि ससृजे । तानि सृष्टान्यन्यो–न्येनास्पर्धन्त । वदिष्याम्येवाहमिति वाग्दध्ने । द्रक्ष्याम्यहमिति चक्षुः । श्रोष्याम्यहमिति श्रोत्रम् । एवमन्यानि कर्माणि यथाकर्म । तानि मृत्युश्श्रमो भूत्वोपयेमे । तान्यानोत् । तान्याप्त्वा मृत्युरवारुन्धत् । तस्माच्छ्राम्यत्येव वाक्, श्राम्यति चक्षुः, श्राम्यति श्रोत्रम् । अथेममेव नाप्नोत्, योऽयं मध्यमः प्राणः । तानि ज्ञातुं दध्निरे अयं वै नः श्रेष्ठो यः सञ्चरँश्चासञ्चरँश्च न व्यथते, अथो न रिष्यति । हन्तास्यैव सर्वे रूपमसामेति । त एतस्यैव सर्वे रूपमभवन् । तस्मादेत एतेनाख्यायन्ते प्राणा इति । तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति, य एवँ वेद; य उ हैवंविदा स्पर्धते, अनुशुष्य हैवान्ततो म्रियते इत्यध्यात्मम् ।। २१ ।।
प्र. -‘एवमत्र’ वाङ्मनःप्राणानां साधारण्येन उपास्यत्वमुक्तम् । तत्र प्राणस्य श्रैष्ट्यनिर्धारणाय आरभते – अथातो व्रतमीमांसा इति । अथ – अनन्तरम् अत: – एतावत्पर्यन्तं सामान्येन वाङ्मनःप्राणानाँ त्रयाणामप्युपासनस्य उक्तत्वात् व्रतस्य-उपासनात्मकव्रतस्य मीमांसा – विचारः । प्रवर्तत इति शेषः । एतेषां प्रयाणां मध्ये किं विषयकमुपासनं मुख्यतया कर्तव्यमिति विचार्यत इति यावत् । प्रजापतिर्ह कर्माणि ससृजे इति । हः – प्रसिद्धौ । प्रजापतिः – चतुर्मुखः, प्रजापतिशब्दमुख्यार्थः सर्वेश्वरो वा चतुर्मुखद्वारा कर्माणि – कर्मज्ञानेन्द्रियाणि व्यष्टिरूपाणि ससृजे – सृष्टवान् इत्यर्थ: तानि सृष्टान्यन्योन्येनास्पर्धन्त । एवं सृष्टानि तानि – इन्द्रियाणि परस्परं स्वस्व व्यापाराधिक्याभिमानेन स्पर्धां कृतवन्ति इत्यर्थः । कथं? वदिष्याम्येवाहमिति वाग् दध्रे इति । ‘धृङ् अवस्थाने (धा.पा.४१३) इति हि धातुः । अहमेव वदिष्यामि, नान्य: कश्चिन्मत्तः वक्तुं समर्थ इति वाक् दध्रे – अभिमन्यमाना स्थितवती इत्यर्थः । द्रक्ष्याम्यहमितिचक्षुः इत्यादि । स्पष्टोऽर्थः । एवमन्यानि कर्माणि यथाकर्म इति । एवं अहमेव स्प्रक्ष्यामि, अहमेव गृह्णामि इत्यादि प्रकारेण अन्यान्यपि कर्माणि . इन्द्रियाणि यथाकर्म – यथा स्वविषयमभिमन्यमानानि’ अवस्थितवन्ति इत्यर्थः ।तानि मृत्युः श्रमो भूत्वोपयेमे इति । तानि – एवं दुरभिमानेनाविरतं स्वस्वव्यापारेषु वर्तमानानि वाक् चक्षुरादीनि मृत्युः – व्यापारनिरोधको देवताविशेषः श्रमोभूत्वा । ग्लानिरूपस्सन् उपयेमे – समीपं प्राप्त इत्यर्थः । तान्याप्नोत् – श्रमरूपो मृत्युः तानि – इन्द्रियाणि आप्नोत् – प्राप्तवान् । तान्याप्त्वा मृत्युरवारुन्धत् । तानि – इन्द्रियाणि आप्त्वा प्राप्य अवारुन्धत् – अवरोधं कृतवान् । कार्यासमर्थानि अकरोत् इत्यर्थः । अत्र उपयेमे आप्नोत्, अवारुन्धत् इति क्रमोक्तिः, श्रमस्य क्रमाभिवृद्ध्या कार्या सामर्थ्यप्रयोजकता-भिप्रायेणेति द्रष्टव्यम् । अत्र प्रत्यक्षं प्रमाणयति – तस्मात् श्राम्यत्येव इत्यादिना । श्राम्यति श्रमं प्राप्नोति इत्यर्थः । निरन्तरव्यापारे वागादीनां श्रमप्राप्तिः अद्यापि दृश्यमानापूर्वमप्येवमेव समभवत् इत्यर्थे ज्ञापिका इत्यर्थः ।
वागाधुक्तिः सर्वेन्द्रियोपलक्षणार्था । अथ विवक्षितं मुख्यप्राणस्य श्रेष्ठ्यं वक्तुं तस्य इन्द्रियेभ्यः वैलक्षण्यमाह – अथेममेव नाप्नोद्योऽयं मध्यमः प्राण इति । योऽयं प्रसिद्धः मध्यमः – देहमध्ये ‘वर्तमानः प्राणः, तमेव’, निरन्तरमुच्छ्वासादिव्यापारे वर्तमानमपि वागादीनिव श्रमो नाप्नोत् इत्यर्थः । अद्यापि हि प्राणस्य उच्छ्वासादौ श्रमाभावो दृश्यते अत एवेति भावः । तानि ज्ञातुं दध्रिरे । तानि – ‘श्रान्तानि वागादीनीन्द्रियाणि’, अस्माकं निरन्तरं व्यापारं कुर्वतां मध्ये यं श्रमरूपो मृत्युः न प्राप्तः, स श्रेष्ठो भविष्यति । अतः अस्मासु श्रमरहितः कः श्रेष्ठः इति ज्ञातुं दध्रिरे – निश्चयेन ‘प्रवृत्तानि’ इत्यर्थः । धृङ् अवस्थाने (धा.पा. ६००) इति हि धातुः । अयं वै नः श्रेष्ठो य इत्यादि । एवं ज्ञातुं प्रवृत्तानि इन्द्रियाणि अस्माकं निरन्तरव्यापारेऽप्यश्रमं मुख्यप्राणं दृष्ट्वा इति चिश्चितवन्तः । किमिति ?
अयं वै– अयमेव मुख्य:प्राण: न: – अस्माकं प्राणानां मध्ये श्रेष्ठः । यतोऽयं सञ्चरन्नपि असञ्चरन्निव न व्यथते – न श्रमं प्राप्नोति । अत्र असञ्चरन्निति दृष्टान्तार्थम् । अथो शब्दः अप्यर्थः । न रिष्यति न हिंस्यतेऽपि । ‘रुष रिष हिंसायाम् (धा.पा. ६९३, ६९४) इति हि धातुः । हन्त इत्यनुरूपप्रधानलाभजे हर्षे । तस्मादयमेव अस्माकं श्रेष्ठ इति हेतोरस्यैव मुख्यप्राणस्य सर्वे वयं वागादयो रूपमसाम – तदैधीनप्रवृत्तयो भवेम इति – इत्येवं निश्चित्य ते सर्वे वागादयः एतस्यैव – मुख्यप्राणस्य रूपमभवन् तदधीनवृत्तयोऽभवन् इत्यर्थः ।।
अत एव त इन्द्रियाणि (ब्र.सू.२-४-१५) इत्यधिकरणे सर्वेन्द्रियाणां मुख्यप्राणाधीनवृत्तित्वेन वृत्तिवैलक्षण्यात् न मुख्यप्राणस्य इन्द्रियान्तर्भाव इत्युक्तम् । तथा हि तत्र किं सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्ता एवेति विशये जीवोपकरणत्वाविशेषात्, प्राणशब्दवाच्यत्वाविशेषाच्च मुख्यप्राणाश्च इन्द्रियाणि इति पूर्वपक्षे प्राप्ते – त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् (ब्र.सू.२-४-१५), भेदश्रुतेर्वैलक्षण्याच्च (ब्र.सू.२-४-१६) इति सूत्रद्वयेन सिद्धान्तितम् । अयमर्थः – त एव वागादय इन्द्रियाणि न तु श्रेष्ठप्राणः । ततः श्रेष्ठ प्राणादन्यत्रैव – इतरेष्वेव, इन्द्रियाणि दशैकञ्च (भ.गी.१३-५) इति इन्द्रियत्वव्यपदेशात् । किञ्च भेदश्रुतेः – एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च (मुं.उ.२-१-३) इति प्राणापेक्षया इन्द्रियाणां भेदव्यपदेशात् न श्रेष्ठः प्राण इन्द्रियम् । न च तत्रैव मनस्सर्वेन्द्रियाणि च, इति मनसोऽपि भेदव्यपदेशात् इन्द्रियत्वाभावः शक्यशङ्कः । मनष्षष्ठानीन्द्रियाणि (भ.गी.१५-७) इन्द्रियाणि दशैकं च (भ.गी.१३-५) इत्यादिनां मनसः इन्द्रियान्तर्भावग्राहकप्रमाणानां परोक्तरीत्या गामग्निं ब्राह्मणञ्चैव त्रीणि तेजांसि न स्पृशेत्’ इत्यत्र अतेजोभ्यां गोब्राह्मणाभ्यां तेजस्सङ्ख्यापूरणवत्; वेदानध्यापयामास महाभारतपञ्चमान् (महा.भा.आदि.५७-७४) इत्यादौ अवेदेन भारतेन वेदसङ्ख्या पूरणवच्च अनिन्द्रियेण मनसा इन्द्रियसङ्ख्यापूरकतया अन्यथासिद्धत्वेऽपि इन्द्रियाणां मनश्चास्मि (भ.गी.१०-२२) इत्यनन्यथासिद्धप्रमाणसद्भावेन मनस इन्द्रियत्वध्रौव्यात्; मुख्यप्राणे इन्द्रियत्वग्राहक प्रमाणाभावाञ्च अत: प्राणो मनस्सर्वेन्द्रियाणि (मुं.उ. २-१-३) इति श्रुतौ प्राणे न .गोबलीवर्दन्यायावतारः। । मनसि तु तदवतारोऽस्त्येवेति द्रष्टव्यम् । वैलक्षण्याच्च ।
एतस्यैव सर्वे रूपमभवन् इति ‘चक्षुरादीना तदधीनप्रवृत्तित्वलक्षणकार्य’वैलक्षण्यदर्शनाञ्च इन्द्रियेभ्यो भिन्न एव प्राण इति । प्रकृतमनुसरामः । तस्मादेते एतेनाख्यायन्ते प्राणा इति इति । यस्मात्कारणात् वागाद्याः प्राणस्यैव रूपमभवन् , तस्मात् एते – वागादयः एतेन – प्राणनाम्नैव प्राणा इत्येव उच्यन्ते । अतो मनोवागाद्यपेक्षया प्राणस्यैव श्रैष्ठ्यमिति स एव मुख्यतया उपास्य इति भावः। एवमध्यात्मोपास्यविषयमीमासां परिसमाप्योपासकस्य फलमाह – तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद इति । यः एवं – पूर्वोक्तप्रकारेण ‘मुख्यप्राणं वेद, स यस्मिन् कुले भवति – जायते तत् कुलं तन्नाम्नैव ह – प्रसिद्धमाचक्षते’; यथा रघुकुलं यदुकुलमिति । कुलश्रेष्ठो भवतीति यावत् । य उ हैवं विदा स्पर्धते, अनुशुष्य हैवान्ततो म्रियते इति । उ शब्दोऽधारणे । ह शब्दः प्रसिद्धौ । य: पुमान् एवंविदा ‘उक्तगुणविशिष्टप्राणविदा साकं स्पर्धते, सः अनुशुष्यैव – शुष्को भूत्वा अन्ततः .बहुकालेन म्रियते, चिरकालं रोगादिशुष्कशरीरो म्रियते – न सहसा इत्यर्थः । ह – प्रसिद्ध प्राणोपासनमाहात्म्यमित्यर्थः । इत्यध्यात्मम् – ‘प्राणोपासनप्रकार उक्त इति शेषः ।। २१ ।।
[देवताविषयक उपासनाप्रकारः, वायोः श्रेष्ठत्वकथनम्]
अथाधिदैवतम् – ज्वलिष्याम्येवाहमित्यग्निर्दघ्रे, तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमाः । एवमन्या देवता यथादैवतम् । स यथैषां प्राणानां मध्यम प्राणः, एवमेतासां देवतानां वायुः । म्लोचन्ति ह्यन्या देवताः, न वायुः । सैषानस्तमिता देवता यद्वायुः ।। २२ ।।
प्र. – अथाधिदैवतम् । उपासनाप्रकार उच्यते इति शेषः । ज्वलिष्याम्येवाह–मित्यग्निर्दध्रे । अहमेव ज्वलिष्यामि; मत्समः कोऽपिज्वलनव्यापारे नास्तीति अग्निः –दध्रे – धृतवान् ; चिश्चित्य निरन्तरज्वलनपरो बभूव इत्यर्थः । तस्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमाः इति । स्पष्टोऽर्थः । एवमन्या देवता यथादैवतम् इति । एवमेव अन्याः – श्रोत्राद्यभिमानिन्यः दिगादिदेवताः यथादैवतम् – तत्तद्देवतावृत्तिमनतिक्रम्य अभि’मेनिरे’; तथा निरन्तरं स्वस्वव्यापारपराश्चाश्चाभूवन् इत्यर्थः । स यथैषां– यथा अध्यात्मम् इतरेषां ‘वागादि प्राणानां’ मध्ये हृदयमध्यवर्ती सः – पूर्वोक्तमुख्यप्राणः श्रेष्ठः एवमधिदैवतम् इतरासाम् अग्निसूर्यादिदेवतानां मध्ये वायुः ‘श्रेष्ठः इत्यर्थः । तत्र हेतुमाह – म्लोचन्ति ह्यन्या देवताः न वायुरिति । इतरा अग्निसूर्याद्याः देवताः म्लोचन्ति अस्तं गच्छन्ति; न वायुः । तस्य अहोरात्रमेकरूपत्वादिति भावः । सैषानस्तमित इति ।
यद्वायुः – यदितिलिङ्गव्यत्ययः छान्दसः । यो वायुरित्युच्यते, सैषानस्तमिता देवता । तस्मादधिदैवतं वायुरेव श्रेष्ठत्वेन निर्धारित: पूर्ववदग्निसूर्यादिभिः देवतैः । अत: प्राधान्येन स एव उपास्य इति भावः ।। २२ ।।
[प्राणनापाननविधानम्]
अथैष श्लोको भवति–
यतश्चोदेति सूर्योस्तं यत्र च गच्छतीति ।
प्राणाद्वा एव उदेति प्राणेऽस्तमेति ।
तं देवाश्चक्रिरे धर्म स एवाद्य स उ श्व इति ।
यद्वा एतेऽमुर्ह्यघ्रियन्त तदेवाप्यद्य कुर्वन्ति ।
तस्मात् एकमेव व्रतमाचरेत् – प्राण्यावाच्चैवापान्याच्य, नेन्मा पाप्मा मृत्युराप्नुवदिति । यद्यु चरेत् समापिपयिषेत् ।
तेनो एतस्यै देवतायै सायुज्यँ सलोकतां जयति ।। २३ ।।
।। इति तृतीयोध्याये पञ्चम ब्राह्मणम् ।।
प्र. – उक्तार्थे साक्षितया मन्त्रं पठितुमाह – अथैष श्लोको भवति इति । प्रकृतविषये अयं श्लोकः ‘संवादको भवतीत्यर्थः । यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति इत्यमुं पठितं श्लोकार्धं स्वयमेव व्याचष्टे श्रुतिः, प्राणाद्वा एष उदेति प्राणेऽसमेति इति । अत्र प्राणशब्दार्थो वायुः । वायुप्रेरणाधीनत्वात् आदित्यादिगतेः अग्न्यादित्यादेरुदयास्तमयौ वाय्वाधीनौ इत्यतो वायोरेव भवतः इति भावः । श्लोकस्य उत्तरार्धमाह – ‘तं देवाश्चक्रिरे धर्म स उ श्व इति इति । तं – प्राणमेव देवाः – अध्यात्मं वागादयः, अधिदैवतम् अग्न्यादित्यादयश्च धर्मं चक्रिरे – प्राणोपासनमेवः श्रेयस्साधनमिति निश्चितवन्तः । अतः स एव धर्मः अद्याप्यनुष्ठेयः, श्वोऽप्यनुष्ठेयः इति । अमुमेवमन्त्रोत्तरार्धस्य अर्थं स्वयं संक्षिप्याह श्रुतिः – यद्वा एतेऽमुर्ह्यघ्रियन्त तदेवाप्यद्य कुर्वन्ति इति । वै शब्दोऽवधारणे यत् – यस्मात्कारणात् एते वागाद्याः देवाः अमुर्हि – अमुष्मिन् काले मुख्यप्राणम् अघ्रियन्त – उपास्यत्वेन अवधृतवन्तः, तस्मादद्यापि तदेव कुर्वन्ति – मुख्यप्राणोपासनमेव अनुतिष्ठन्ति इत्यर्थः ।
एवं श्रुतिः मीमांसां परिसमाप्य तत्र निश्चितमर्थमाह – तस्मादेकमेवव्रतं चरेत् इति।तस्मात्-उक्तहेतुभि: एकं व्रतं -मुख्यप्राणोपासनमेव चरेत् -आचरेत् अनुतिष्ठेत् इत्यर्थः । एवं मुख्यप्राणोपासनप्रकारं विधाय, अथ तत्प्रकारकमाह . प्राण्याच्चैवापान्याच्च, नेन्मा पाप्मा मृत्युराप्नुवदिति इति । उक्तप्राणोपासनारम्य-समये प्राण्यादपान्याच्चैव – प्राणनापानने – रेचकपूरके उपासनाङ्गतया कुर्यात् ।
किमर्थम्? मां – माम् इच्छब्दोऽवधारणे पाप्मा पापरूपः श्रमरूपो मृत्युः नाप्नुवत् -शत्रन्तोयं शब्दः, मा नावाप्नुयात् इति बुद्ध्या इत्यर्थः । अन्यथा प्राणनापाननाकरणे श्रमेण व्यापारावरोधः स्यादिति भावः । किञ्च यद्यु चरेत् समापिपयिषेत् । यदीदं प्रथममुपक्रमेत् तर्हि समापिपयिषेत् समापनं कर्तुमिच्छेत् – समापनं कुर्यादेव मध्ये विच्छेदं न कुर्यात् इत्यर्थः । एवं साङ्गमुपासनमुक्त्वाऽथ तत्फलमाह – तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति इति । उ शब्दोऽवधारणे । एतस्यै देवतायै इति विभक्तिव्यत्ययश्छान्दसः । एतस्या देवताया इत्यर्थः । तेन – अनुष्ठितेन ‘प्राणोपासनेन एतस्याः प्राणदेवताया ‘एव सायुज्यं समानगुणयोगं सालोक्यञ्च प्राप्नोति इत्यर्थः ।। २३ ।।
।। इति तृतीयाध्याय पञ्चमब्राह्मण प्रकाशिका ।।
तृतीयाध्याये षष्ठं ब्राह्मणम्
[आत्मनः नामरूपकर्मत्रयात्मत्वम्]
त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नाम् वागित्येतदेषामुक्थम् ।अतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषाँ साम ; एतद्धि सर्वैर्नामभिस्समम् । एतदेषां ब्रह्म । एतद्धि सर्वाणि नामानि बिभर्ति ।। १ ।।
प्र– त्रयं वा इदं नामरूपं कर्म इति । चेतनाचेतनात्मके जगति इदं -.परिदृश्यमानम् अचेतनात्मकं जगत् त्रयमेव । किं तत्? नामरूपं कर्मेति । अत्र कर्म . जीवीयपुण्यपापात्मकम् अचेतनस्य नामरूपात्मकपरिणामे कारणम् । तत्कार्य देवमनुष्यादिनामरूपात्मकं जगत् – एतत्त्रितयरूपमेव इत्यर्थः । तेषां – नामरूपकर्मणां मध्ये एषां नाम्नां देवो मनुष्या घटः पट इत्यादीनां वागिति शब्दनिर्दिष्टमेतत् – ‘वागिन्द्रियात्मकं वस्तु उक्थं – ‘उत्पादनमित्यर्थः । तदेव प्रदर्शयति – अतो हि सर्वाणि नामान्युत्तिष्ठन्ति इति । वागिन्द्रियाधीनत्वात् सर्वेषां नाम्नाम् अभिलापस्य अत: – वागिन्द्रियादेव सर्वाणि नामानि अनुतिष्ठन्ति – जायन्ते इति हि – प्रसिद्धमित्यर्थः । कथमेकेन वागिन्द्रियेण अनन्तानाम् अभिलाप इत्यत्राह – एतदेषां साम इति । वागित्येतत् एषां – सर्वेषां नाम्नां साम इत्यर्थः । तत्र सामपदार्थं विवृण्वन् एतदुपपादयति – एतद्धि सर्वेर्नामभिस्समम् इति । कार्यानुरूपत्वात् कारणस्य सर्वैर्नामभिः समं – सर्वनामानुरूपमेव वागिन्द्रियम् इत्यर्थः । समत्वमेव सामत्वमिति भावः । एतदेषां ब्रह्म इति । वागित्येतदेषां नाम्नां ब्रह्म इत्यर्थः । ‘ब्रह्मशब्दार्थविवरणेन एतदुपपादयति’ – एतद्धि सर्वाणि नामानि ‘बिभर्ति इति । भर्तृत्वमेव बृहत्वरूपं ब्रह्मत्वम् । अतः एतत् – वागिन्द्रियं सर्वाणि नामानि बिभर्तीति भर्तृत्वात् वागिन्द्रियस्य नामानि प्रति ब्रह्मत्वमिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् ।। १ ।।
अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति । एतदेषाँ सामः एतद्धि सर्वैरूपै: समम् । एतदेषां ब्रह्म। एतद्धि सर्वाणि रूपाणि बिभर्ति ॥२॥
प्र– अथ ‘रूपाणां चक्षुरित्येतदेषामुक्थम् इति । पूर्ववदर्थः । अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति इति । रूपज्ञानस्य चक्षुः उत्थितत्वात् रूपस्य चक्षुरुत्थितत्व. व्यवहार औपचारिकः । एतदेषां सामैतद्धि सर्वरूपैस्समम् इति । सर्वरूपज्ञान-जनकत्वाञ्चक्षुषः कारणस्य कार्यसमत्वोक्तिः । एतदेषां ब्रह्मतद्धि सर्वाणि रूपाणि बिभर्ति इति । चक्षुषो ‘रूपज्ञानभर्तृत्वाद्रूपभरणं’ तज्ज्ञानद्वारा द्रष्टव्यम् ।। २ ।।
अथ कर्मणाम् – आत्मेत्येतदेषामुक्थम्। अतो हि सर्वाणि कर्माण्यु-त्तिष्ठन्ति । एतदेषाँ साम; एतद्धि सर्वेः कर्मभिस्समम् । एतदेषां ब्रह्म; एतनि सर्वाणि कर्माणि बिभर्ति । तदेत् त्रयँ सदेकमयमात्मा । आत्मो एकस्सन्नेतत्रयम् । तदेतदमृतँ सत्येन च्छन्नम् । प्राणो वा अमृतम्, नामरूपे सत्यम् । ताभ्यामयं ‘प्राणश्छन्न: ।। ३ ।।
प्र– अथ कर्मणाम् इत्यादि । अत्र कर्मशब्दः पुण्यपापात्मककर्मपर इति पूर्वमुक्तम् । आत्मशब्दो जीवपरः । आत्मन एव पुण्यपापानि जायन्ते । स च सर्वपुण्यपापाकर्तृत्वानुरूपः, सर्वपुण्यपापानां भर्ता चेत्यर्थः । ‘पदानामर्थः स्पष्टः । तदेतत्त्रयं सदेकमयमात्मा इति । एवं नामरूपकर्मात्मकस्य अचेतनस्य चेतनभूतात् प्रत्यगात्मनः जीवात् अत्यन्तवैलक्षण्येऽपि नामरूपकर्मलक्षणं तदेतत्त्रियम् एकं सदयमात्मा नामरूपकर्माण्यात्मना अगृहीतविवेकानि पामराणामेकमिव भवन्ति इत्यर्थः । तदेतत् द्रढयति – आत्मो एकस्सन्नेतत्त्रयम् इति । विवेकिनां त्रयमेतत् अविवेकिनामेक आत्मैव इत्यर्थः । उ शब्दोऽवधारणे । अविवेकिभिः आत्मा पृथक् कुतो न ज्ञायत इत्यत्राह तदेतदमृतं सत्येन च्छन्नम् । तदेतद्वाक्यम् अमृतसत्यशब्दविवरणपूर्वकं श्रुति: ‘स्वयमेव व्याचष्टे’ – प्राणो वा अमृतं नामरूपे सत्यम् ताभ्यामयं प्राणश्छन्नः इति । अत्र प्राणशब्दो ‘बद्धजीवपरः प्राणो वा आशाया भूयान् (छां.उ.७-१५-१) इत्यादौ प्राणशब्दस्य ‘बद्धजीवे प्रयोगात् । सत्यं – ‘पुण्यपापकर्मफलम्’ इत्यर्थः । ऋतं पिबन्तौ (क.उ. ३-१) इत्यादी सत्यापरपर्यायस्य ऋतशब्दस्य कर्मफले प्रयोगदर्शनात् । कर्मफलं हि अवश्यंभावितया सत्यं भवितुमर्हति । तथा च पूर्ववाक्ये अमृतमित्युक्तः प्राण: – जीवात्मा । सत्यशब्दोक्ते च नामरूपे, ताभ्यां – नामरूपाभ्यामयं प्राणशब्दितः प्रत्यगात्मा छन्नः । अत: पामरैः न ज्ञायते विविच्येति पूर्ववाक्यार्थः; ततश्च कर्मफल भूताभ्यां नामरूपाभ्यां ‘सपिण्डितोयं स्वयम् अमृतः– अपहतपाप्मत्वादिमानेव आत्मा व्याधकुलसंवर्धित राजकुमारवत् “ताभ्यां प्रच्छन्नो भवति, नामरूपाभ्याम् अगृहीतविवेको ‘भवतीति पूर्ववाक्यफलितार्थ इत्यर्थः ।
केचित्तु – प्राणशब्दविवृतोऽयममृतशब्दः निरुपाधिकामृतप्राणशब्दवाच्य परमात्मपरः । तथा च स एव नामरूपात्मक जगतोऽन्तर्यामी सन् जीवकर्मफलतया स्वसृष्टाभ्यां ताभ्यां स्वयमेव विशिष्टो भवति इति वाक्यार्थः । ततश्च तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत (बृ.उ.१-४-७) इत्यादौ प्रपञ्चितस्य परमात्मन एव सर्वनामरूपभाक्त्वत्व-मित्यस्यार्थस्य निगमनपरोऽयं ताभ्यामयं प्राणश्छन्न इत्यन्तसन्दर्भ इत्यपि वदन्ति ।। ३ ।।
।। इति तृतीयाध्याये षष्ठब्राह्मण प्रकाशिका ।।
।। इति तृतीयोऽध्यायः ॥