बृहदारण्यकोपनिषत्
अथ सप्तमोऽध्यायः
प्रथमं ब्राह्मणम्
[प्रणवप्रशंसा]
ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १ ॥
प्र. –प्रणवोपासनां विधित्सन् प्रणवं परोक्षरूपेण स्तौति । पूर्णमदः….. पूर्णमेवावशिष्यते । अदः – परोक्षरूपः परलोकः इदम् – अयं च लोकः पूर्णं – वेदेन पूर्णमित्यर्थः । शब्दप्रभवत्वात् सर्वस्य लोकस्य स भूरिति व्याहरत् स भूमिमसृजत (तै.बा.२-२-४) इति लोकानां व्याहृतिप्रभवत्वाम्नानात् । कारणेन च कार्यस्य व्याप्तत्वात् । पूर्णात् पूर्णमुदञ्च्यते । पूर्णात् – पूर्यमाणाल्लोकात् पूर्णं – पूरणकर्तृ उदञ्च्यते उद्गतं भवति । अञ्चु गतिपूजनयोः (धा.पा.१८८) कर्मणि प्रत्ययः । उद्गतं भवति – श्रेष्ठं भवतीत्यर्थः । ततश्च पूर्यमाणलोकापेक्षया पूरणकर्तृव्याहृतिरूपः शब्दः उत्कृष्ट इत्यर्थः । पूर्णस्य पूर्णमादाय – पूर्णस्य व्याहृतिव्याप्तस्य लोकस्य पूर्णं – पूरणकर्तृव्याहृतिरूपं वस्तु आदाय – उपसहृंत्य पूर्णमेवावशिष्यते । तस्यापि यत् पूर्णं – पूरयितृ ओङ्कारात्मकं वस्तु, तदेव परिशिष्यत इत्यर्थः । ओङ्कारेण सर्वा वाक् संतृष्णा (छ.उ.२-२३-३) इति श्रुतेः ओङ्कारस्य सर्वव्यापकत्वेव पूर्णत्वात् तदेव कारणं व्याहृत्यादिषु शब्देषु कार्येषु विनष्टेषु परिशिष्यत इत्यर्थः । ओङ्काराद्व्याहृतिर्भवति व्याहृत्या गायत्री भवति इति सर्वशब्दनिदानत्वात् तदेव परिशिष्यत इत्यर्थः । इदं च रुच्युत्पादनाय प्रणवस्तुतिमात्रम् । अन्यथा निमित्तकारणस्य व्याहृत्यादेः कार्यव्यापकत्वासम्भवात् : उपादानभूतस्य भूतपञ्चकस्यैव व्यापकत्वसम्भवात् असामञ्जस्यं स्यादिति द्रष्टव्यम् ।। १ ।।
ओं३ खं ब्रह्म । खं पुराणम् । वायुरं खमिति ह स्याह कौरव्यायणीपुत्रः । वेदोऽयं ब्राह्मणाः विदुर्वेदैनेन यद्वेदितव्यम् ।। २ ।।
॥ इति सप्तमाध्याये प्रथमं ब्राह्मणम् ।।
प्र. – ओं खं ब्रह्म । ओकार एव खम् – अपरिच्छिन्नं ब्रह्म इत्यर्थः । ततश्च ओङ्कारे अपरिच्छिन्नब्रह्मोपासनं कर्तव्यमित्यर्थः । खं ब्रह्मेति ब्रह्मविशेषणीभूततयोक्तस्य खशब्दस्य स्वाभिमतमर्थमाह खं पुराणम् – खमित्यनेन न वायुमान् आकाश उच्यते; अपि तु यत् पुराणं देशकालापरिच्छिन्नं परं ब्रह्म, तदेव खसादृश्यात् खमित्युच्यते । खम् – अपरिच्छिन्नमित्यर्थः । वायुरं– खमिति ह स्माह कौरव्यायणीपुत्रः । कौरव्यायणीपुत्रस्तु कश्चन ऋषिः वायुरमेव वायुमदम्बरमेव खं – खशब्देनोच्यते । ततश्चाकाशशरीरकं ब्रह्म प्रणवे अध्यस्योपास्यमित्याह इत्यर्थः । प्रणवे ब्रह्मोपास्यम् इत्यत्र न विवादः । तत्राध्यस्यमानञ्च ब्रह्म अपरिच्छिन्नत्वेन गुणेनोपास्यत्वम्, उत भूताकाश शरीरकत्वेनैवोपास्यमित्यत्रेव विवाद इति भावः । वेदोऽयं ब्राह्मणा विदुः वेदैनेन यद्वेदितव्यम् । यस्मादसौ वेदिता एनेन –एतेन ओङ्कारेण यद्यद्वेदितव्यं – ज्ञातव्यम्। तत्तत्सर्वं वेद – जानाति, तस्मादयमेव प्रणवो वेदः, वेदयितृत्वरूपयौगिकार्थस्य पुष्कलत्वात् । इतरेषां तु वेदत्वममुख्यम् इति ब्राह्मणा मन्यन्ते इत्यर्थः ।। १ ।।
।। इति सप्तमाध्याये प्रथमब्राह्मण प्रकाशिका ।।
समभाध्याये द्वितीयं ब्राह्मणम्
[दमदानदयाशिक्षणम्]
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुर्देवा मनुष्या असुराः । उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदक्षरमुवाच द इति; व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः, दाम्यतेति न आत्थेति । ओमिति होवाच, व्यज्ञासिष्टेति ।। १ ।।
प्र.- त्रयाः प्राजापत्या…… ब्रह्मचर्यमूषु: । त्रयाः त्रिप्रकाराः – द्वित्रिभ्यां तयस्यायज्वा (पा. सू.५-२-४३) इति त्रे: परस्य तपस्या (तयपोऽ) यनादेशः । प्राजापत्या: प्रजापतिपुत्राः पितरि प्रजापतौ ब्रह्मचर्यम् ऊषुः – उषितवन्तः । के ते इत्यत्राह – देवा मनुष्या आसुराः । उषित्वा ब्रह्मचर्यं देवा ऊचुः ब्रवीतु नो भवानिति । ब्रवीतु । उपदेष्टव्यमिति शेषः । तेभ्यो हैतदक्षरम् उवाच द इति । व्यज्ञासिष्टा३ इति । तेभ्यो द इत्येतत् अक्षरमुक्त्वा प्रजापतिः किं यूयं व्यज्ञासिष्टा मदभिप्रायं ज्ञातवन्तः किमिति पप्रच्छ इत्यर्थः । व्यज्ञासिष्मेति होचुः । वयं ज्ञातवन्त इति देवाः प्रत्यूचुरित्यर्थः । कथमित्यत्र आहुः – दाम्यतेति न आत्थेति । नः अस्मान् प्रति दाम्यत दान्ता भवत इति खलु आत्थ -वदसि इत्यूचरित्यर्थः । दमेः स्यनि शमादित्वाद्दीर्घः । ओमिति होवाच, व्यज्ञासिष्टेति । ओं सत्यम्, व्यज्ञासिष्टेति प्रजापतिरुवाच इत्यर्थः । ननु कथं द इत्युच्चारणमात्रेण, दाम्यतेति न आत्था इति देवाः प्रत्यपद्यन्त । उच्यते – देवानामैश्चर्य-शालितया भोगप्रावण्येन मदान्धत्वात् स्वदोषं जानतां (देवानां) द शब्दोच्चारणमात्रेण तत्प्रतिपत्तिः सम्भवतीति द्रष्टव्यम् ।। १ ।।
अथ हैनं मनुष्याः ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेति । ओमिति होवाच, व्यज्ञासिष्टेति ।। २ ।।
प्र. – अथ हैनं मनुष्याः…… व्यज्ञासिष्टेति । दत्तेति न आत्थेति । दत्त –दानं कुरुत इत्यर्थः । शिष्टं पूर्ववत् ।। २ ।।
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति, व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः दयध्वमिति न आत्थेति । ओमिति होवाच, व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुः द द द इति, दाम्यत दत्त दयध्वमिति । तदेतत् त्रयँ शिक्षेद् दमं दानं दयामिति ।। ३ ।।
।। इति सप्तमाध्याये द्वितीयं ब्राह्मणम् ।।
प्र. –अथ हैनमसुराः…… व्यज्ञासिष्टेति । दयध्वमिति न आत्थेति । दयध्वं – प्राणिषु दयां कुरुत इत्यर्थः । तदेतदेवैषा…… दयध्वमिति । दाम्यत दान्ता भवत, दत्त – दानं कुरुत; दयध्वं – दयां कुरुतेति दमदानदयालक्षणं तदेतत् त्रितयं स्तनयित्नुः – मेघः द द द इति दकारत्रयोच्चारणेनानुवदति । सैषा दैवी वाक् ; न तु स्तनयित्नुशब्दमात्रम् । तदेतत् त्रयं शिक्षेद्दमं दानं दयामिति । तस्मादद्यापि दमदानदयालक्षणं धर्मत्रयं शिक्षेत् – उपादद्यात् (उपाददीत?) प्रजापतेरनुशासनमस्माभिः कर्तव्यमित्येवं मतिं कुर्यादित्यर्थः । तथा च स्मृतिः त्रिविधं नरकस्यैतत् द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभः तस्मादेतत् त्रयं त्यजेत् ।। इति । (भ.गी.१६-२१) अस्य विधेः शेषः प्राचीनोऽर्थवादः ।। ३ ।।
।। इति सप्तमाध्याये द्वितीयब्राह्मणप्रकाशिका ।।
सारमाध्याये तृतीयं ब्राह्मणम्
[हृदयविषयकमुपासनम्]
एष प्रजापतिर्यद्धृदयमेतद् ब्रह्मैतत् सर्वम् । तदेतत् त्र्यक्षरं हृदयमिति । हृ इत्येकमक्षरम्: अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद । द इत्येकमक्षरम्। ददत्यस्मै स्वाश्चान्ये च य एवं वेद । यमित्येकमक्षरम् एति स्वर्गं लोकम्, य एवं वेद ।।१।।
।। इति सासमाध्याये तृतीयं ब्राह्मणम् ।।
प्र. – एवं सर्वोपासनाङ्गभूतं दमदानदयालक्षणमर्थत्रयम् उपदिश्य ब्रह्मोपासनाङ्गभूतं हृदयोपासनमाह – एष प्रजापतिर्यद्धृदयमेतत् ब्रह्मेतत् सर्वम् । पूर्वं दमाद्यनुशास्तृत्वेन प्रस्तुतो योऽयं प्रजापतिः सोऽपि हृदयमेव । तदेतत् ब्रह्म – बृहत् । एतत् सर्वम् । पञ्चमाध्याये शाकल्यब्राह्मणोक्तरीत्या हदयस्य सर्वत्वं द्रष्टव्यम् । एवं हृदयस्य प्रजापतित्व-बृहत्त्वसर्वत्वरूपविशेषणविशिष्टतया हृदयोपासनं विधाय उपास्यं हृदयं हदयशब्दनिर्वचनेन स्तौति तदेतत् त्र्यक्षरं हृदयमिति । तत्र प्रत्येकमक्षरार्थान्, तद्वेदनफलानि चाह हृ इत्येकमक्षरम्…… य एवं वेद । हृ इति हृञो’ रूपम् । यस्माद्धृदयाय स्वाश्च इन्द्रियाणि च अन्ये च विषयाश्च शब्दादयः स्वं स्वं कार्यम् अभिहरन्ति…… स्वकार्यं सर्वं तदधीनं कुर्वन्ति । तत्तज्ज्ञानस्य सर्वस्यापि अन्त:करणादीनत्वादिति भावः । अतो हृदयनाम्नो हृ इत्येतदक्षरमिति यो वेद, अस्मै – विदुषे स्वाश्च – ज्ञातयः अन्ये च – सम्बन्धिनो बलिमुपहरन्ति; तत्क्रतुन्यायात् इति भावः । द इति…… वेद । यस्माद्धृदयाय स्वा: -इन्द्रियाणि अन्ये च विषया: स्वं स्वं वीर्यं ददति, अत: दकारोऽस्मिन्नाम्नि निबद्ध इति यो वेद, तस्यापि स्वीयाः (स्वकीयाः), अन्ये च स्यं स्वं वीर्यं प्रयच्छन्तीत्यर्थः । यमिति……वेद । इणः गत्यर्थस्य यमित्येतदूपमस्मिन्नानि निबद्ध मिति यो वेद, स स्वर्गं लोकमेति ।। एवं नामाक्षरनिर्वचनज्ञानादपि ईशं विशिष्टं फलं लभ्यते, किमुत तदुपासनया इति हृदयस्य स्तुतिः कृता भवति ।।१।।
॥ इति साप्तमाध्याये तृतीयब्राह्मणप्रकाशिका ।।
सामाध्याये चतुर्थं ब्राह्मणम्
[हृदयब्रह्मोपासनम्]
तद्वै तदेतदेव तदास सत्यमेव । स यो हैतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति, जयति इमान् लोकान्, जित इन्बसावसत् । य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति । सत्यँ ह्येव ब्रह्म ।। १ ।।
प्र. – हृदयस्य प्रजापतित्वेनोपासनामुक्त्वा सत्यत्वेन उपासनामाह – तद्वै तदेतदेव तदास सत्यमेव । वैशब्दोऽवधारणे । तद्वै तदेव तत् – तादृशं हृदयम् एतदेव तदास –एतत् – वक्ष्यमाणं तदास इत्यर्थः । किं तदास इत्यत्राह – सत्यमेव इति । द्वे वाव ब्रह्मणोरूपे (इत्यत्र सत्त्यच्छब्दितं मूर्तञ्चामूर्तञ्च च सत्यम् । अव्याकृतपञ्चभूतात्मकम् (विराड् रूपम्) अभवत् इत्यर्थः । तदुपासनस्य फलमाह – स यो……. इन्वसावसत् । यः कश्चिदेतत् हृदयं महत्; अत एव यक्षं – पूज्यं प्रथमजं प्रथमजातं सर्वस्मात् कार्यजातात् प्रथमजं सत्यम् – अव्याकृतपञ्चभूतात्मकम् ब्रह्म – बृहदिति यः कश्चिदेतद्धृदयम् वेद – उपास्ते स इमाँल्लोकान् जयति । जितः – वशीकृतः इन्नु–इत्थम् असौ– .शत्रुरुपासकस्य यथा ब्रह्मणा जितः, असत् (असत्प्रायो) भवेदित्यर्थः । तस्यैतत् फलमिति पुनर्निगमयति य एवमेतत्….ब्रह्म । यः एवं महद्यक्षं प्रथमजं सत्यं हृदयमुपास्ते’, तच्छत्रोरसत्वं युक्तमेव । हि यतः एतदुपासनं सत्यं ब्रह्म, अतोऽयं सत्योपासक इत्यतः तदुपासकस्य सत्त्वम्, तद्विरोधिनश्चासत्वं युक्तमेवेति भावः ।। १ ।।
आप एवेदमग्र आसुः । ता आपः सत्यमसृजन्त । सत्यं ब्रह्मः ब्रह्म प्रजापतिम्। प्रजापतिर्देवान् । ते देवाः सत्यमेवोपासते । तदेतत् त्र्यक्षरँ सत्यमिति; स इत्येकमक्षरम्, तीत्येकमक्षरम्, यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यम् : मध्यतोऽनृतम् । तदेतदनृतँ उभयतस्सत्येन परिगृहीतँ सत्यभूयमेव भवति । नैनं विद्धाँसमनृतँ हिनस्ति ।। २ ।।
।। इति सप्तमाध्याये चतुर्थं ब्राह्मणम् ।।
प्र. – सत्यस्य ब्रह्मणः स्तुत्यर्थं महद्यक्षं प्रथमजम् इत्युक्तम्, तत् कथं प्रथमजत्वमित्यत्राह आप एवेदमग्र आसुः । इदं – व्याकृतं जगत् अग्रे – अण्डसृष्टेः प्राक् आप एवासुः – अव्याकृतपञ्चभूतात्मना अवर्तत इत्यर्थः । ता आपः सत्यमसृजन्त । ता आपः – अव्याकृतपञ्चभूतानि सत्यं – पञ्चीकृतपञ्चभूतात्मकं कार्यमण्डम् असृजन्तेत्यर्थः । सत्यं ब्रह्म – तच्च सत्यं ब्रह्म – चतुर्मुखम् असृजत इत्यर्थः । ब्रह्मेति – नपुंसकत्वं छान्दसम् । ब्रह्म प्रजापतिम् । ब्रह्मा प्रजापति दक्षादिप्रजापतिम् असृजत इत्यर्थः ।
जातावेकवचनम् । प्रजापतिर्देवान् । असृजतेति शेषः । ते देवा:……. यमित्येकमक्षरम् । स्पष्टम् । तीत्येकमक्षरम् इत्यत्रति इति इकारानुबन्धो निर्देशार्थः । प्रथमोत्तमे अक्षरे सत्यं मद्ध्यतोऽनृतम् । प्रथमोत्तमे अक्षरे – सकारयकारौ सत्यम् । मृत्युरूपाभावात् । मध्यतः – तकारस्त्वनृतम् । अनृतं हि मृत्युः, मृत्य्वनृतयोः तकारसामान्यात् । तदेतदनृतं सत्यभूयमेव भवति । तदेतदनृतं मृत्युरूपम् उभयतः सत्येन सकारयकारलक्षणेन परिगृहीतं संदष्टं सत्यभूयमेव – सत्यबाहुल्यमेव भवति । नैनं विद्वांसमनृतं हिनस्ति । एवं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्य अकिञ्चित्वञ्च यो विद्वान, तमेवं विद्वांसम् अनृतं प्रमादोत्थं कदाचिदपि न हिनस्ति इत्यर्थः ।। २ ।।
।। इति सप्तमाध्याये चतुर्थब्राह्मण प्रकाशिका ।।
सप्तमाध्याये पञ्चमं ब्राह्मणम्
[सत्याख्यब्रह्मणः उपासनम्]
तद्यत् सत्यमसौ स आदित्यो य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः । तावेतावन्योन्यस्मिन् प्रतिष्ठितौ । रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः; प्राणैरय–ममुष्मिन् । स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति; नैनमेते रश्मयः प्रत्यायन्ति ।। १ ।।
प्र. – एवं सत्यत्वेन हृदयोपासनमुक्त्वा आक्ष्यादित्यान्तर्वतिनो ब्रह्मणो निर्विकारत्व-रूपसत्यत्वेन व्याहृतिशरीरकत्वेन च उपासनं दर्शयति – तद्यत्सत्यमसौ…दक्षिणेऽक्षन् पुरुषः । तद्यत् – प्रसिद्धं सत्यम्, असौ स आदित्यः । स क इत्यत्राह य एष एतस्मिन् मण्डले पुरुष इति । य एषोऽन्तरादित्ये हिरण्मय: पुरुषो दृश्यते (छां.उ.१-६-६) य एषोऽन्तरक्षिणि पुरुषो दृश्यते (छां.उ.४-१५-१) इति श्रुतिप्रसिद्ध इत्यर्थः । अक्षन् –अक्ष्णीत्यर्थः । तावेतावन्योन्यस्मिन् …… अमुष्मिन् । अधिदैवतमध्यात्मञ्चाव-स्थितावादित्यचाक्षुषपुरुषौ अन्योन्यस्मिन् प्रतिष्ठितौ परस्परोपकारकौ भवतः । रश्मिद्वारा आदित्यपुरुषः चाक्षुषपुरुषस्योपकारकः; आदित्यरश्मिसम्बन्धाभावे चाक्षुषपुरुषस्य परमात्मनः स्वकार्यासामर्थ्यात् । चाक्षुषश्च पुरुष: प्राणद्वारा आदित्यपुरुषस्योपकारकः। प्राणनाभावे आदित्यपुरुषस्य परमात्मनः प्रकाशकत्वाभावात् । स यदोत्क्रमिष्यन् भवति, शुद्धमेवैतन्मण्डलं पश्यति । नैनमेते रश्मयः प्रत्यायन्ति । एवं विद्वान् उत्क्रान्तिवेलायां द्वारभूतमादित्यमण्डलं शुद्धं रश्मिप्रतिघातरहितं द्रष्टुं शक्नोति । सूर्यस्य रश्मय: एनं प्रति–प्रतिकूलं नायन्ति – अस्योपासकस्य चक्षुःप्रतिघाताय न प्रभवन्तीत्यर्थः । चक्षुरादित्य-मण्डलस्थयोः पुरुषयोः परस्परोपकार्योपकारकभावज्ञानवैभवादिति भावः ।। १ ।।
य एष एतस्मिन् मण्डले पुरुषः, तस्य भूरिति शिरः । एकँ शिरः; एकमेतत् अक्षरम् । भुव इति बाहू । द्वो बाहू; वे एते अक्षरे । सुवरिति प्रतिष्ठा । वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति; हन्ति पाप्मानं जहाति च, य एवं वेद ।। २ ।।
प्र. – य एष….भूरिति शिरः । आदित्यमण्डले वर्तमानस्य सत्यपुरुषस्य भूरिति व्याहृतिः शिर इत्यर्थः । तच्छिरस्कत्वेन ध्यानं कर्तव्यमिति भावः । तत्रोपपत्तिमाह –एकँ शिरः, एकमेतदक्षरम् । एकत्वसङ्ख्यासाम्यादिति भावः । तथा भुव इति व्याहृतिः बाहू ध्यातव्या । तत्रोपपत्तिमाह द्वौ बाहू द्वे एते अक्षरे । द्वित्वसङ्ख्यासाम्यादिति भावः । सुवरिति प्रतिष्ठा । प्रतिष्ठा पादौ इत्यर्थः । तत्रोपपत्तिमाह द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति । तस्य – आदित्यमण्डलान्तर्वर्तिनः पुरुषस्य अहः इत्युपनिषत् रहस्यनाम इत्यर्थः । उक्तञ्च व्यासार्यै: – सम्बन्धादेवम् अन्यत्रापि (ब्र.सू.३-३-२०) इत्यत्र उपनिषदौ रहस्यनामनी इत्यर्थ इति । अहः इत्यस्य हन्तेर्जहातेश्च रूपसंभवम् अभिप्रेत्य तदनुसारेण फलमाह – हन्ति पाप्मानं जहाति च, च एवं वेद । य एवं वेद – उपास्ते; स पाम्मानं हन्ति जहाति च इत्यर्थः ।। २ ।।
प्योऽयं दक्षिणेऽक्षन् पुरुषः तस्य भूरिति शिरः । एकँ शिरः, एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू, द्वे एते अक्षरे । सुवरिति प्रतिष्ठा । द्वे प्रतिष्ठे, द्वे एते अक्षरे । सुवरिति प्रतिष्ठा । द्वे प्रतिष्ठे; द्वे एते अक्षरे । तस्योपनिषदहमिति; हन्ति पाप्मानं जहाति च, य एवं वेद ।। ३ ।।
प्र– एवमुत्तरत्रापि द्रष्टव्यम् योऽयं दक्षिणेऽक्षन् पुरुष इत्यादौ । तस्योप–निषदहमित्यपि पूर्ववद्रूपम् । तदनुसारि फलञ्च हन्ति पाप्मानं जहाति च य एवं वेद इति । इदञ्च चिन्तितं गुणोपसंहारपादे – य एष एतस्मिन् मण्डले पुरुषे यश्चायं दक्षिणेऽक्षन् (बृ.उ.७-५-३) इत्यादिना अक्ष्यादित्यवर्तितया व्याहृतिशरीरकतया च उपास्यत्वेनोपदिष्टस्य ब्रह्मणः तस्योपनिषदहरित्यधिदैवतम्, तस्योपनिषदहमित्यध्यात्मम् इति ये अहरिति अहरिति च रहस्यनामनी उपदिष्टे, ते किं स्थानविशेषनियते – अतश्चाहरिति नाम आदित्य-मण्डलस्थानविशिष्टस्यैव अहमिति च नाम अक्षिस्थपुरुषस्यैवेति नियमोऽस्ति – उत नेति चिन्तायां पूर्वपक्षे उच्यते; सम्बन्धादेवमन्यत्रापि (ब्र.सू.३-३-२०)। यथा मनोमयत्वादि-विशिष्टस्यैकत्वादुपास्यैक्येन विद्यैक्यात् शाण्डिल्यविद्यायां गुणोपसंहारः, एवम् अक्ष्यादित्य-सम्बन्धिनो ब्रह्मणः सत्यस्य व्याहृतिशरीरकस्यैकत्वेन विद्यैक्यात् तत्सम्बन्धिनोर्नाम्नोरपि अनियमेन स्थानद्वयेऽप्युपसंहार इति ।
एवं प्राप्ते उच्यते – न वा विशेषात् (ब.सू. ३-३-२१)। य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः, तावेतावन्योन्यस्मिन् प्रतिष्ठितौ (बृ.उ.७-५-२) इति द्वित्वसङ्ख्याया प्रधानोपास्यभेदप्रतीतेः आदित्याक्षिस्थानभेदेन रूपभेदाच्च विद्याभेदात् न नाम्नोरनियमेन स्थानद्वयेऽप्युपसंहारः ।
दर्शयति च (ब्र.सू.३-३-२२) । तस्यैतस्य तदेव रूपम्, यदमुष्य रूपम् (छां.उ.१-७-५) इत्यादिश्छान्दोग्यश्रुतिरेव स्थानभेदे परस्परगुणाप्राप्तिं दर्शयति हि चाक्षुषे पुरुषे आदित्यपुरुषरूपाद्यतिदेशेन । यदि हि स्थानभेदेऽपि परस्परंगुणप्राप्तिः; तर्ह्यति-देशानर्थक्यामेव स्यात् । अत: आदित्यस्थानविशिष्टस्यैव अहरिति नाम; अक्षिस्थस्यैव अहमिति नाम इति व्यवस्थेति स्थितम् । प्रकृतमनुसरामः ।। ३ ।।
।। इति सप्तमाध्याये पञ्चमब्राह्मण प्रकाशिका ।।
षष्ठं ब्राह्मणम्
[शाण्डिल्यविद्या]
मनोमयोऽयं पुरुषो भाः सत्यः तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा । स एष सर्वस्येशान: सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ।। १ ।।
।। इति सप्तमाध्याये षष्ठं ब्राह्मणम् ।।
प्र. – शाण्डिल्यविद्यामाह – मनोमयोऽयं पुरुषो भाः सत्यः । मनोमयः–विशुद्धमनोग्राह्यः । भा: – भारूपः। समानप्रकरणे छान्दोग्ये, मनोमयः प्राणशरीरो भारूप: (छो.उ.३-१४-२) इति श्रवणात् । सत्यः – निर्विकारः । देहादिध्वंसेऽपि निर्विकार इति यावत् । तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा । अन्तर्हृदये – हृदयान्तर्गतः तदवच्छेदनिबन्धनस्वल्पपरिमाणः इत्यर्थः । स एष…… किञ्च । सर्वस्येशान: – नियन्ता । सर्वस्याधिपतिः – शेषी । सर्वमिदं प्रशास्ति यदिदं किञ्च । प्रशासनेन धारक इत्यर्थः । अत्र नियन्तृत्व-धारकत्वशेषित्वानि त्रीण्यप्युक्तानि । अत्र वशित्वादेः बृहदारण्यक-माध्यन्दिनशाखागतस्य छान्दोग्यशाण्डिल्यविद्यागतसत्यसङ्कल्पत्वविततिरूपत्वात् वेद्यरूपभेदाभावात् विद्यैक्यमिति द्रष्टव्यम् । गुणोपसंहारपादे – एकस्यामेव वाजसनेयशाखायाम् अग्निरहस्ये स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम् (अग्नि.र.१०-६) इति श्रुतशाण्डिल्यविद्यात: मनोमयोऽयं पुरुषो भास्सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च इति श्रुता शाण्डिल्य विद्या भिद्यते, सत्यसङ्कल्पत्ववशित्वरूपगुणभेदादिति पूर्वपक्षे प्राप्ते उच्यते – समान एवञ्चाभेदात् (ब.सू.३-३-१९) । उभयत्रापि मनोमयत्वादिके समाने सति वशित्वादेः सत्यसङ्कल्पत्वविततिरूपत्वेन वशित्व सत्यसङ्कल्पत्वयोः अभेदात् रूपभेदाभावात् विद्यैक्यमिति स्थितम् ।। १ ।।
।। इति सप्तमाध्याये षष्ठब्राह्मण प्रकाशिका ।।
सप्तमं ब्राह्मणम्
[विद्युद्ब्रह्मदृष्टिः]
विद्युद् ब्रह्मेत्याहुः । विदानाद्विद्युत् । विद्यत्येनं पाप्मनो य एवं वेद विद्युद् ब्रह्मेति । विद्युद्ध्येव ब्रह्म ।। १ ।।
प्र. – विद्युद्ब्रह्मेत्याहुः । विद्युति ब्रह्मदृष्टि: कर्तव्या इति केचिदाहुः । विद्युति ब्रह्माध्यासहेतुभूतं सादृश्यमाह विदानाद्विद्युत् । मेघान्तःस्थितान्धकारखण्डनात् विद्युत् ब्रह्म च अज्ञानलक्षणतमःखण्डकम् इति विद्युत्त्वमस्तीति भावः । विद्यत्येनं पाप्मनो…..ब्रह्म । यः, विद्युद्ब्रह्म इत्येवं वेद; एनं पाप्मनो विद्यति । एनं प्रति प्रतिकूलभूता ये पाप्मानः, तान् सर्वान् विद्यति – विशेषेण द्यति – खण्डयति । दो अवखण्डने (धो.पा.११४८) इति हि धातुः । तत्रोपपत्तिमाह विद्युद्ध्येव ब्रह्म । ब्रह्मणो विद्युद्वत् खण्डकत्वात् इत्यर्थः ।। १ ।।
।। इति सप्तमाध्याय सप्तमब्राह्मण प्रकाशिका ।।
अष्टमं ब्राह्मणम्
[वाग्धेनूपासनम्]
वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः, स्वाहाकारो, वषट्कारे, हन्तकार: स्वधाकारः । तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारञ्च वषट्कारञ्च हन्तकारं मनुष्याः; स्वधाकारं पितरः । तस्याः प्राण प्रषभो मनो वत्सः ।। १ ।।
।। इति सप्तमाध्याये अष्टमब्राह्मणम् ।।
प्र. – उपासनान्तरमाह – वाचं धेनुमुपासीत । त्रयीलक्षणं वाचं धेनुरित्युपसीत इत्यर्थः । तस्याश्चत्वारः…… स्वधाकारः स्पष्टम् । तस्यै द्वौ स्तनो देवा उपजीवन्ति । तस्यै – तस्याः । वाग्धेन्वा इत्यर्थः । स्वाहाकारञ्च वषट्कारञ्च । स्वाहाकारेण वा वषट्कारेण वा देवेभ्यो हविः प्रदानादिति भावः । हन्तकारं मनुष्याः। हन्त इति हि मनुष्ययज्ञे मनुष्येभ्यो अन्नं प्रयच्छन्तीति भावः । स्वधाकारं पितरः । स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्तीति भावः । तस्याः प्राण ऋषभः । प्राणेन हि वाक् प्रसूयते । मनो वत्सः । मनसा हि प्रस्नाव्यते । मनसा हि आलोचिते विषये वाक् प्रवर्तते । तस्मात् मनो वत्सस्थानीयमिति भावः ।। १ ।।
।। इति सप्तमाध्याये अष्टमब्राह्मण प्रकाशिका ।।
नवमं ब्राह्मणम्
[अग्निवैश्वानरब्राह्मण उपासनम्]
अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे, येनेदमन्नं पच्यते, यदिदमद्यते । तस्यैष घोषो भवति, यमेतत् कर्णावपिधाय शृणोति । स यदोत्क्रमिष्यन् भवति, नैनं घोषँ शृणोति ।। १ ।।
।। इति सप्तमाध्याये नवमब्राह्मणम् ।।
प्र. – प्रसङ्गादुत्क्रान्तिं वक्तुं तदुपक्रममाह – अयमग्निः वैश्वानरो योऽयमन्त; पुरुषे । कोऽसौ इत्यत्राह – येनेदमन्नं पच्यते, यदिदमद्यते । यदिदमद्यते, तदिदं भुज्यमानं येनाग्निना पच्यते स वैश्वानराग्निरित्यर्थः । तस्यैष घोषो भवति……शृणोति । तस्य – वैश्वानराग्नेः जाठरस्यैष घोषो भवति, यं घोषं एतत् इदानीं कर्णावपिधाय – कर्णावङ्गुलिभ्यां विधाय शृणोति । तादृशवैश्वानराग्नौ ब्रह्मदृष्टिः कार्या इत्यर्थसिद्धोऽर्थः । स…… शृणोति । तदानीं जाठराग्नेरभावात् इति भावः ।। १ ।।
।। इति सप्तमाध्याये नवमब्राह्मण प्रकाशिका ।।
दशमं ब्राह्मणम्
[ब्रह्मविदः गतिः]
यदा वै पुरुषोऽस्माल्लोकात्प्रैति, स वायुमागच्छति । तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् । तेन स ऊर्ध्वं आक्रमते । स आदित्यमागच्छति । तस्मै स तत्र विजिहीते यथाऽऽडम्बरस्य खम् । तेन स ऊर्ध्व आक्रमते । स चन्द्र–मसमागच्छति । तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् । तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमम् । तस्मिन् वसति शाश्वती: समाः ।। १ ।।
।। इति सप्तमाध्याये दशमं ब्राह्मणम् ।।
प्र. – उत्क्रान्तिप्रसङ्गात् ब्रह्मविदः गतिमाह – यदा वै….. शाश्वती: समाः । यदा ब्रह्मवित् पुरुषः अस्मालोकात् प्रैति, तदा अर्चिर्दिनपूर्वपक्षषडुदङ् मासाब्दद्वारा’ वायुमागच्छति । तस्मै – आगताय ब्रह्मविदे सः – वायुः विजिहीते – आत्मावयवान् विगमयति । छिद्रीकरोत्यात्मानम् इत्यर्थः । किं परिमाणं छिद्रमित्यत्राह – यथा रथचक्रस्य खम् । रथचक्रमध्यवर्ति रन्ध्रं यत्परिमाणम् , तत्परिमाणं छिद्रं करोति । तेन च छिद्रेण ऊवं गत्वा सः – ब्रह्मवित् आदित्य लोकमागच्छतीत्यर्थः । न च देवलोकमादित्यलोकम् इति श्रुत्या विरोध इति वाच्यम् – योऽयं पवते, एष देवानां गृहाः इति श्रुतेः वायोरेव तत्र देवलोकशब्दवाच्यत्वात् । सूत्रितञ्च वायुमब्दाद–विशेषणविशेषाभ्याम् (ब्र.सू.४-३-२) इति । वायुम् अब्दात् संवत्सरादूर्ध्वमधिगच्छेत् । अविशेषविशेषणाभ्याम् – सामान्यविशेषाभ्यां देवलोकशब्दो हि सामान्यशब्दः । वायुशब्दो विशेषः । अतो वायुरेव देवलोक इति स्थितम् । तस्मै स…… खम् । आदित्यो ब्रह्मलोकं जिगमिषोर्मार्गनिरोधं कृत्वा स्थितोऽपि तस्मै – एवं विदे उपासकाय प्राप्ताय आडम्बराख्यवाद्यविशेषस्य खं – छिद्रमिव छिद्रं करोति । तेन ऊर्ध्वमाक्रम्य चन्द्रमसम् आगच्छति । तस्मै स…… खम् । सोपि चन्द्रमाः तस्मै – ब्रह्मविदे दुन्दुभिरन्ध्रसदृशं रन्ध्रं करोति । तत्प्रमाणेन मार्गेण स ऊर्ध्वमाक्रम्य विद्युद्वरुणेन्द्रधातृलोकान् अतिक्रम्य अशोकं – शोकशून्यम् अहिमं – हिमाद्याधिदैविकदुःखशून्यं परब्रह्मलोकं’ गत्वा शाश्वतीः समाः -अनन्तात् संवत्सरात् तत्रैव वसति । न पुनरावर्तत इत्यर्थः ।। १ ।।
।। इति सप्तमाध्याये दशमब्राह्मण प्रकाशिका ।।
एकादशं ब्राह्मणम्
[व्याधिसन्तापादौ तपोदृष्टिः]
एतद्वै परमं तपो ‘यद्व्याहित स्तप्यते । परमं हैव लोकं जयति य एवं वेद । एतद्वै परमं तपो ये प्रेतमरण्य हरन्ति । परमँ हेव लोकं जयति य एवं वेद । एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति । परमं हैव लोकं जयति य एवं वेद ॥१॥
।। इति सप्तमाध्याये एकादशं ब्राह्मणम् ।।
प्र. – एतद्वे…… वेद । व्याहितः – व्याधितः । ज्वरादिपरिगृहीतस्सन् यत् तप्यते; तदेव परमं तप इत्येवं चिन्तयेत् । दुःखसामान्यात् । तस्यैवं चिन्तयतो विदुषः [अनिन्दितोऽविहितश्च] कर्मक्षयहेतुः तदेव तपो भवति । स एवं तेन विज्ञानेन तपसा दग्धकिल्बिषः परमं हैव लोकं जयति, य एवं वेद । एतद्वै परमं…… वेद । यं प्रेतं ग्रामादरण्यम् ऋत्विजो हरन्ति तस्मिन् कर्मणि ग्रामादरण्यगमनत्वसामान्यात् परमं तपो भविष्यतीति तत्र परमतपस्त्वबुद्धिं जीवद्दशायां यः करोति, स परमं लोकं. जयति । एतद्वै परमं…… एवं वेद । अग्निप्रवेशसामान्यात् भविष्यति प्रेतभूतस्य स्वस्याग्नौ अभ्याधाने परमतपस्त्वबुद्धिं कुर्वतः परलोकप्राप्तिरित्यर्थः ।। १ ।।
॥ इति सप्तमाध्याये एकादशब्राह्मण प्रकाशिका ।।
द्वादशं ब्राह्मणम्
[अन्नं ब्रह्म इत्युपासनम्]
अन्नं ब्रह्मेत्येक आहुः । तन्न तथा; पूयति वा अन्नमृते प्राणात् । प्राणो ब्रह्मेत्येक आहुः । तन्न तथा; शुष्यति वै प्राण ऋतेऽन्नात् । एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः । तद्ध स्माह प्रातृदः पितरम्। किँस्विदेवैवं विदुषे साधु कुर्याम्, किमेवास्मा असाधु कुर्यामिति । स ह स्माह पाणिना मा प्रातृद! कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति । तस्मा उ हैतदुवाच, वीति । अन्नं वै वि । अन्ने हीमानि सर्वाणि भूतानि विष्टानि । रमिति । प्राणो वै रम् । प्राणे हीमानि सर्वाणि भूतानि रमन्ते । सर्वाणि ह वा अस्मिन् भूतानि विशन्ति; सर्वाणि भूतानि रमन्ते, य एवं वेद ।। १ ।।
प्र.- अन्नं ब्रह्म…… प्राणात् । केचिदन्नं ब्रह्म इत्याहुः आचार्याः । तन्न तथा युज्यते । प्राणादृते तदन्नं पूयति – पूतिभावमापद्यते । तस्मान्नान्नं ब्रह्मेति । प्राणो…… ऋतेऽन्नात् । केचित्प्राणो ब्रह्मत्याहुः । तदपि न युक्तम् । अन्नाभावे प्राणस्य शोषणदर्शनात् इत्यर्थः । एते ह त्वेव…… गच्छतः । तस्मादन्नप्राणरूपे एते देवते एकधाभूयं-एकधाभाव भूत्वा – गत्वा परमतां – परमत्वं गच्छतः । तद्ध स्मा ह प्रातृदः पितरम् –तदेवमध्यवस्य ह स्म प्रातृदो नाम पुत्रः पितरमाह किमिति इत्यत्राह – किं स्विदेवैवं…...कुर्याम् इति । अन्नप्राणौ एकीभूतौ ब्रह्मेति विदुषे अस्मै मह्यं’ किं वा साधु कर्म कुर्याम्; किं वा असाधु कर्म कुर्याम् । कृतकृत्यस्य मे साध्वसाधुकर्मभ्यां किं भविष्यतीति भावः । अस्मा इति स्वात्मानमेव निर्दिशति देहादिविवेकज्ञापनाय । अथवा अस्मा इति कस्यचित् तच्छिष्यस्य तद्विदुषो वा निर्देशः । स ह स्माह…… गच्छतीति । तमेवं वादिनं पुत्रं हस्तेन निवारयन् स ह पिता आह स्म । किमिति? हे प्रातृद! मैवं वोचः – कस्त्वेनयोः अन्नप्राणयोः एकधाभूयं भूत्वा – गत्वा स्थितयोः परमतां – विद्वान् परमतां गच्छति । न कश्चिदपि विद्वान् अनेन दर्शनेन परमतां गच्छति । तस्मात् मैवं वक्तुमर्हसि, कृतकृत्योऽसाविति । इति पित्रोक्तः पुत्रः यद्येवं, ब्रवीतु भगवान्, कथं परमतां गच्छतीति पितरं पप्रच्छ । तस्मा उ हैतदुवाच । तस्मै – एवं पृष्टवते पुत्राय पिता एतत् वक्ष्यमाणमुवाच इत्यर्थः । तदेवाह – वीत्यन्नं वै वि इत्यादि । अन्ने हि यस्मादिमानि सर्वाणि भूतानि विष्टानि आश्रितानि । अतोऽन्नं वीत्युच्यते इत्यर्थः । अतो ‘वि’ इत्यन्नमुपास्यमित्यर्थः । ‘रमिति‘ । प्राण उपास्य इति शेषः । तदेव उपपादयति । प्राणो वै – – –रमन्ते इति । यस्मादिमानि सर्वाणि भूतानि प्राणे रमन्ते अतः प्राण एव रमित्यर्थः । विरमिति गुणविशिष्टान्नप्राणोपासनस्य फलमाह – सर्वाणि ह वा अस्मिन् भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेदेति‘ । स्पष्टोऽर्थः ।। १ ।।
।। इति सप्तमाध्याये द्वादशब्राह्मण प्रकाशिका ।।
त्रयोदशं ब्राह्मणम्
[प्राणे उक्थादिदृष्टय:]
उक्थम् । प्राणो वा उक्थम्। प्राणो हीदँ सर्वम् उत्थापयति । उद्धारमा दुक्थ विद्धीरस्तिष्ठति, उक्थस्य सायुज्यँ सलोकतां जयति। य एवं वेद ।। १ ।।
प्र.- प्राणस्यैव ऋग्यजुस्सामत्वेन उपासनमाह – उक्थम् । इति प्राणमुपासीत इति शेषः । उक्थशब्दः शस्त्रविशेषवचनोऽपि यजुस्सामप्रायपाठात् ऋङ्मात्रपरः । शस्त्रपरत्वेऽपि न दोषः । तत्रोपपत्तिमाह – प्राणो वा उक्थम् । प्राणस्योक्थत्वमुपपादयति प्राणो हीदं सर्वमुत्थापयति । न ह्यप्राणः कश्चिदुत्तिष्ठतीति भावः । उद्धास्मादुक्थ विद्धीरस्तिष्ठति । अस्मात् – एवंविदः उक्थवित् उक्तप्राणवित् धीरः पुत्रः उत्तिष्ठतीति व्यवहितेन संबन्धः । एवं दृष्टफलमुक्त्वा अदृष्टं फलमाह उक्थस्य सायुज्यं…… वेद । उक्थप्राणेन सायुज्यं सलोकतां प्राप्नोतीति भावः ।। १ ।।
यजुः । प्राणो वै यजुः । प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषस्सायुज्यँ सलोकतां जयति, य एवं वेद ।। २ ।।
प्र. – यजुः– इति प्राणमुपासीत इति शेष इत्यादि पूर्ववत् । प्राणे सति हीमानि सर्वाणि भूतानि युज्यन्ते – सन्नह्यन्त उद्युञ्जते । अतः प्राणो यजुः । युज्यन्ते हास्मै……..वेद । अस्माकमसौ श्रेष्ठो भवतु इत्येवंविदः श्रैष्ठयाय युज्यन्ते सन्नह्यन्ति उद्युञ्जते सर्वाणि भूतानि इत्यर्थः । शिष्टं स्पष्टम् ।। २ ।।
साम । प्राणो वै साम । प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते, साम्नः सायुज्यँ सलोकतां जयति, य एवं वेद ।।३।।
प्र.- साम । प्राणो वै साम…… । पूर्ववत् । सम्यञ्चि – सङ्गतानि भवन्ति इत्यर्थः । अस्मै श्रैष्ठ्याय सम्यञ्चि कल्पन्ते नः श्रेष्ठो भवत्विति । प्राणविदः श्रैष्ठ्याय सङ्गतानि सन्ति कल्पन्ते इत्यर्थः । शिष्टं स्पष्टम् ।। ३ ।।
क्षत्रम् । प्राणो वै क्षत्रम् । प्राणो हि वै क्षत्रम् । त्रायते हैनं प्राण: क्षणितोः । प्र क्षत्रमत्र माप्नोति, क्षत्रस्य सायुज्यँ सलोकतां जयति, य एवं वेद ।। ४ ।।
प्र.- क्षत्रम् । इति प्राणमुपासीत इति शेषः । तत्रोपपत्तिः प्राणो वै क्षत्रम् । अत्र विवदमानं प्रत्याह – प्राणो हि वै क्षत्रम् । प्राणस्य क्षत्रत्वप्रसिद्धेरिति भावः । तदुपपादयति त्रायते हैनं प्राणः क्षणितो: । क्षणु हिंसायाम् (धा.पा.१४६६) इत्यस्मात्, सर्वधातुभ्यः इन् (उणादि.५५७) इति इन् । क्षणि: हिंसा । तस्मात् पञ्चम्यर्थे तोसुन् प्रत्ययः । हिंसातः त्रायते ह्येनं प्राण इत्यर्थः । शस्त्रादिहिंसायामपि प्राणसद्भावे पुनर्मांसेन पूर्णं भवति इत्यर्थः । विद्यायाः फलमाह – प्रक्षत्रमत्रमाप्नोति…… य एवं वेद । न त्रायते अन्येन केनचित् इति अत्रं-प्राणः । तमत्रं क्षत्रं क्षत्रत्वगुणविशिष्टं प्राप्नोतीत्यर्थः । क्षत्रस्य सायुज्यं सलोकतां जयति । क्षत्रप्राणस्य सायुज्यसालोक्ये गच्छति इत्यर्थः ।। ४ ।।
।। इति सप्तमाध्याये त्रयोदशब्राह्मण प्रकाशिका ।।
चतुर्दशं – गायत्रब्रह्मोपासनाब्राह्मणम्
[सावित्रीगायत्र्युपाधिकब्रह्मोपासनम्]
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि । अष्टाक्षरँ हवा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावदेषु त्रिषु लोकेषु तावद्ध जयति, योऽस्या एतदेवं पदं वेद ।।१।।
प्र. – एवं मनोहृदयाद्यनेकविशिष्टस्य उपासनमुक्त्वा गायत्र्युपाधिविशिष्टस्य उपासन-माह – भूमिरन्तरिक्षं द्योरित्यष्टावक्षराणि । अत्र द्यौरित्यक्षरद्वयं कृत्वा यकारेण सहाष्टत्वं द्रष्टव्यम् । अष्टाक्षरं ह वा एकं गायत्र्यै पदम् । गायत्र्या एकं पदमष्टाक्षरम् । एकैकः पादोऽष्टाक्षर इत्यर्थः । एतदु हैवास्या एतत् । एतत् – लोकत्रयात्मकम् अस्याः -गायत्र्याः एतत् पदम् – एकं पदमित्यर्थः । लोकत्रये गायत्र्येकपदत्वज्ञानस्य फलमाह स यावदेषु – वेद । एवमेतत् पदं यो वेद; स त्रिषु लोकेषु, यावत् जेतव्यम् तावज्जयति इत्यर्थः एवमुत्तत्रापि ।। १ ।।
ऋचो यजूँषि सामानीत्यष्टावक्षराणि । अष्टाक्षरँ ह वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावतीयं त्रयी विद्या तावद्ध जयति, योऽस्या एतदेवँ पदं वेद ।।२।।
प्र.- ऋचो यज्ञेषि…… । एतदु हैवास्या एतत् । एतत् वेदत्रयात्मकम् अस्याः गायत्र्याः एतत् – एकं पदमित्यर्थः । स यावतीयं…… वेद । इयं त्रयी विद्या यावती – यावत्फलप्रकाशिका, तत् फलं सर्वं जयतीत्यर्थः । गायत्र्याः वेदत्रयात्मकं पदं जानन् त्रयीप्रतिपाद्यं सर्वं फलमाप्नोतीति यावत् ।। २ ।।
प्राणोऽपानो व्यान इत्यष्टावक्षराणि । अष्टाक्षरँ हवा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावदिदं प्राणि तावद्ध जयति; योऽस्या एतदेवं पदं वेद । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजाः, य एष तपति । यद्वै चतुर्थं तत् तुरीयम् । दर्शतं पदमिति । ददृश इव ह्येषः । परोरजा इति । सर्वमु ह्येवैष रज उपर्युपरि तपति । एवँ हैव श्रिया यशसा तपति, योऽस्या एतदेवं पदं वेद ।।३।।
प्र. – प्राणोऽपानो व्यान इत्यष्टौ । अत्र वि ‘या’ व्यान इति यकारेण सहाष्टाक्षरत्वम् । स यावदिदं – वेद । प्राणात्मकगायत्रीतृतीयपादोपासकः प्राणिजातं सर्वं जयतीत्यर्थः ।। अथास्या एतदेव…… तपति । अस्याः– गायत्र्याः एतदेव तुरीयं पदम् । अत्र, तुरीयदर्शतशब्दौ स्वयमेव व्याचष्टे – यद्वै चतुर्थम् तत् तुरीवम् । दर्शतं पदमिति; ददृश इव ह्येषः । लोके चतुर्थमिति प्रसिद्धमेव तुरीयम् । एषः मण्डलान्तर्गतः पुरुषो दृश्यत इव हि भासते । अतः दर्शतं पदमित्यर्थः । परोरजा इत्येतद्याचष्टे परो रजा इति, सर्वमु ह्येवैष रज उपर्युपरि तपति । सर्व रजः सर्वमपि राजसं ‘लोकम् उपर्युपरि अत्यन्तमूर्ध्वं स्थित्वा एषः – मण्डलपुरुषः तपति इत्यर्थः । एवं हैव…… वेद । यो अस्याः गायत्र्याः एतदेवं पदं तुरीयं वेद, स श्रिया यशसा च एवमेव – तुरीयपदभूतमण्डलपुरुष इव दीप्यत इत्यर्थः ।। ३ ।।
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता । तद्वैतत्सत्ये प्रतिष्ठितम् चक्षुर्वै सत्यम् चक्षुर्हि वै सत्यम् । तस्माद्यदिदानीं द्वौ विवदमानावेयाता–महम् अदर्शमहमश्रौषमिति, य एवं ब्रूयादहमदर्शमिति तस्मा एवं श्रद्दध्याम । तद्वै तत्सत्यं बले प्रतिष्ठितम् । प्राणो वै बलम् । तत्प्राणे प्रतिष्ठितम् तस्मादाहुर्बलँ सत्यादोजीय इति । एवमेषा गायत्र्यध्यात्मं प्रतिष्ठिता । सा हैषा गयाँस्तत्रे । प्राणा वै गया:। तत्प्राणाँस्तत्रे। तद्यद्गयाँस्तत्रे, तस्माद्गायत्री नाम । स यामेवामूँ सावित्रीमन्वाह: एषैव सा । स यस्मा अन्याह । तस्य प्राणाँस्त्रायते ।। ४ ।।
प्र. – सैषा…… प्रतिष्ठिता । एषा गायत्री तुरीये दर्शते पदे परोरजसि मण्डलपुरुषे प्रतिष्ठिता इत्यर्थः । तद्वै…… सत्यम् । आदित्यश्चक्षुपि सत्ये प्रतिष्ठित इत्यर्थः चक्षुषः सत्यत्वे विवदमानं प्रत्याह । चक्षुर्हि वै तत्यम् । तत्रोपपत्तिमाह – तस्माद्यदिदानीम् । अश्रौषमिति । अहमदशीमत्येकः, अहमश्रोषमित्येकः, एवं द्वौ विवदमानौ एयाताम् । आगच्छेताञ्चेदित्यर्थः । य एव…… श्रद्दध्याम । चक्षुषा अहं दृष्टवानिति वचनादेव श्रद्धां कुर्वीमहि; न तु तद्विरुद्धार्थात् अश्रौषमिति वचनात् श्रद्धा जायत इत्यर्थः । तद्वै…..बलम् । स्पष्टार्थम् । तत् प्राणे प्रतिष्ठितम् । तत् – सत्यं बलशब्दवाच्ये प्राणे प्रतिष्ठितम् इत्यर्थः । बलं सत्यादोजीयः । ओजीयः – ओजस्तर-मित्यर्थः । लोके यस्मिन् यत् आश्रितं भवति; तस्मादाश्रितात् आश्रयस्य बलवत्त्वमिति भावः । एवमेषा…… प्रतिष्ठिता । एवम् – उक्तप्रकारेण अध्यात्मं प्राणे गायत्री प्रतिष्ठिता इत्यर्थः ।
गायत्रीनिर्वचनमाह – सा हैया गयांस्तत्रे । तत्रे – त्रैङ् पालने (धा.पा.९६५) अस्माल्लिटि रूपम् । पालयति स्म इत्यर्थः । गायशब्दं व्याचष्टे –प्राणा वै गया: तत्प्राणांस्तत्रे । तत्प्राणान् – तान् प्राणान् इत्यर्थः । तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम । स्पष्टम् । स यामेवामूं सावित्रीमन्वाह, एषैव सा । सः आचार्यः, पच्छोद्धर्चशस्सर्वाम् इति प्रकारेण यां सावित्रीमन्वाह; सा सावित्री एषैव – प्राणान् नरकपतनादिभ्यः त्रायत इत्यर्थः । स यस्मा…… त्रायते । सः– आचार्यों यस्मै–शिष्याय अन्याह; तस्य प्राणान् नरकपतनादिभ्यः त्रायते । [अतो गायत्र्येव सावित्री] इत्यर्थः ।। ४ ।।
ताँ हैतामेके सावित्रीमनुष्टुभमन्वाहुः, वागनुष्टुप् एतद्वाचमनुब्रूम इति । न तथा कुर्यात् । गायत्रीमेव सावित्रीमनुब्रूयात् । यदिह वा अप्येवंविद्वह्विव प्रतिगृह्णाति; न हैव तद्गायत्र्या एकञ्चन पदं प्रति ।। ५ ।।
प्र.- तां हैतामेके…… अनुब्रूम इति । केचन तामेतां सावित्री – ‘मनुष्टुप्छन्द-स्कमिवाहुः । तत्र हेतुः वागनुष्टुप्…… इति । एतां वचनमनुब्रूम इति सावित्र्यनुवचने प्रवर्तमानाः प्रवर्तन्ते, वाक् च अनुष्टुप् छन्दः प्रधानेति अनुष्टुप्छन्दस्कै(से)व सावित्री उपदेष्टव्या । अतः तुरीयेणाष्टाक्षरेण पादेन युक्ता सावित्री उपदेष्टव्या । अतश्च द्वात्रिंशदक्षरतया अनुष्टुप्छन्दस्का सावित्री उपपद्यते इत्यर्थः । तत् दूषयति – न तथा कुर्यात् । तथा न कुर्यात्, किन्तु गायत्रीमेव सावित्रीमनुब्रूयात् । गायत्रीछन्दस्कामष्टाक्षरैः त्रिभिः पादैः युक्तां गायत्रीमेव सावित्रीमनुब्रूयात् इत्यर्थः । यदि ह वा अप्येवंवित्……पदं प्रति । एवं प्रजानन् देहयात्रायै बहुप्रतिग्रहं करोति यदि, तत् प्रतिग्रहजातं गायत्र्या एकैकस्य पदस्य न पर्याप्तम् , तेन न स्पर्द्धते । एवं पादविदः प्रतिग्रहदोषाः शमं यान्ति इत्यर्थः ।। ५ ।।
स य इमाँस्त्रीन् लोकान् पूर्णान् प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं पदमाप्नुयात् । अथ यावतीयं त्रयी विद्या यस्तावत् प्रतिगृह्णीयात्; सोऽस्या एतद् द्वितीयं पदमाप्नु–यात् । अथ यावदिदं प्राणि यस्तावत् प्रतिगृह्णीयात्; सोऽस्या एतत् तृतीयं पदमाप्नुयात् । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजाः, य एष तपति । नैव केन च नाप्यम्; कुत उ एतावत् प्रतिगृह्णीयात् ।। ६ ।।
प्र. – स य इमां स्त्रीन् लोकान् . पदमाप्नुयात् । य इमान् त्रीन् लोकान् धनपूर्णान् प्रतिगृह्णाति, स गायत्री प्रथमपादज्ञानफलमाप्तवान् । प्रथमपादज्ञानस्य लोकत्रयभोक्तृत्वं फलमित्यर्थः । यद्वा लोकत्रयप्रतिग्रहप्रायश्चित्तं प्रथमपादाध्ययनमित्यर्थः । एवमुत्तरत्रापि योज्यम् । अथ यावतीयं – – – द्वितीयं पदमाप्नुयात् । त्रयीप्रकाश्य सकलफलानुभवो द्वितीयपादज्ञानस्य फलमित्यर्थः । त्रयीप्रकाश्यसकलफलप्रतिग्रहप्रायश्चित्तं द्वितीयपादज्ञानमिति वाऽर्थः । अथ यावदिदं…… तृतीयं पदमाप्नुयात् । सर्वप्राणिनः प्रतिशेषित्वं तृतीयपादज्ञानस्य फलमित्यर्थः । पूर्ववद्वा योज्यम् ।। ६ ।।
अथास्या एतदेव…… प्रतिगृह्णीयात् । दर्शतस्य तुरीयपादस्य यत् फलम्, तत् केन चन – केनापि नाप्यं – न प्राप्तुं योग्यम् । कुत इत्यत्राह – कुत उ एतावत् प्रतिगृह्णीयात् । एतदनुरूपं फलं कुतः स्यादित्यर्थः । तस्मात् तस्य आनन्त्यमेव फलम्, नान्यदित्यर्थः ।। ६ ।।
[गायत्र्युषस्थानम्]
तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि; न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोजसे ।
असावदो मा प्रापत् इति, यं द्विष्यात्, असावस्मै कामो मा समृद्धि इति वा, –न हैवास्मै स काम ऋध्यते, यस्मा एवमुपतिष्ठते – अहमदः प्रापम् इति वा ।। ७ ।।
प्र. – तस्या उपस्थानम् । तस्याः–गायत्र्याः उपस्थानं– उपस्थानमन्त्र उच्यते इत्यर्थः । मन्त्रमेवाह गायत्रि असि एकपदी…… न हि पद्यते । हे गायत्री ! त्वं भूर्भुवस्सुवर्लक्षणेन एकेन पादेन एकपद्यसि । त्रयीलक्षणेन द्वितीयेन पादेन द्विपदी । प्राणादिना तृतीयेन पादेन त्रिपदी । तुरीयेण पदेन परोरजसा चतुष्पद्यसि । अपदसीत्ये-तदुपपादयति न हि पद्यसे । पद्यसे – गम्यसे – ज्ञायसे इत्यर्थः । अपरिच्छिन्न-महिमत्वात् परिच्छिन्नतया ज्ञातुं न शक्यस इत्यर्थः । तुरीयं पादं नमस्यति नमस्ते तुरीयाय दर्शताय पदाय । स्पष्टम् । असावदो मा…… प्रापमिति वा । उक्तगायत्रीवित् यं द्विष्यात्; असौ शत्रुः अदः इदं वाञ्छितं मा प्रापत् मैव प्राप्नोतु इति वा; असौ – कामः अस्मै – शत्रवे मा समर्द्धि – समृद्धं (समृद्धी – समृद्धिः) माभूत् – व्रीह्यादित्वादिनिः – इति वा, यस्मै–शत्रवे यं शत्रुमुद्दिश्येति यावत् – एवम् – उक्तमन्त्राभ्यां गायत्रीम् उपतिष्ठते; तस्मै स कामो न ऋध्यते – न वृद्धिमाप्नोति । अहमदः श्रेयः प्रापं – प्राप्तवानस्मीति वा मन्त्रेण य उपतिष्ठते गायत्रीम् , तस्य तत् प्राप्नोतीत्यर्थः । एवञ्च एषां त्रयाणां मन्त्राणां विकल्पेन प्रयोग इति द्रष्टव्यम् ।। ७ ।।
[जनकेन अग्निरूपमुखोपदेशः]
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच, यन्नु हो तद्गायत्रीविदबूथाः, अथ कथँ हस्तीभूतो वहसीति । मुखँ ह्यस्याः सम्राण्ण विदाञ्चकारेति होवाच । तस्या अग्निरेव मुखम् । यदिह वा अपि बह्व वाग्ना वभ्यादधाति, सर्वमेव तत् सन्दहति । एवँ हैवैवंवित् यद्यपि बह्विव पापं कुरुते, सर्वमेव तत् संसाय शुद्धः पूतोऽजरोऽमृतः सम्भवति ।। ८ ।।
प्र.- एतद्ध वै…… उवाच । एतत् – गायत्रीविज्ञानं प्रस्तुत्य वैदेहो जनकः नाम्ना बुडिलम् अश्वतराश्वस्य अपत्यम् आश्वतराश्चिम् उवाच इत्यर्थः । उक्तिमेवाह – यन्नु हो…… इति । हो – अहो तत्, यद् गायत्रीविदस्मि इत्यब्रूथाः उक्तवानसि । तस्य वचसोऽननुरूपमिदम् इत्यर्थः । तत् किमित्यत्राह – अथ कथं हस्तीभूतो वहसीति । हस्तीव प्रतिग्रहादिजन्यं पापं वहसि । अथाप्यहं गायत्रीविदिति ब्रूषे ।नैतदनुरूपमित्यर्थ:। स आह मुखं ह्यस्याः सम्राण्ण विदाञ्चकारेति होवाच । हे सम्राट् ! अहं गायत्रीं जाने; अपि तु तस्याः मुखं न ज्ञातवानस्मि । अतः पापं वहामि इत्युक्तवान् । इतर आह तस्या अग्निरेव मुखम् । यदिह…… सम्भवति । तस्याः गायत्र्याः अग्निर्मुखम् । यदि बह्वपि इन्धनमग्नौ अभ्यादधाति – प्रक्षिपति, तत् सर्वमग्निः दहति – एवमेवंविद् बह्वपि पापं कुरुते चेत्, तत्कृतं पापं सर्वं संसाय…... षो अन्तकर्मणि (धा.पा.११४७) दग्ध्वा इत्यर्थ: । पूत:-ब्रह्मविद्याप्रतिबन्धकपापरहितः शुद्धः – सम्पन्नब्रह्मविद्यः अजरोऽमृतः सम्भवति । जरामरणशून्यो भवतीत्यर्थः ।। ८ ।।
।। इति सप्तमाध्याये चतुर्दशब्राह्मण प्रकाशिका ।।
सामाध्याये पञ्चदश ब्राह्मणम्
[मुमुक्षुकर्तृकप्रार्थनामन्त्राः]
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।। पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह, रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ।। बायुरनिलममृतमथेदं भस्यान्तँ शरीरम् । ओं३ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतं स्मर ।। अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ।। १ ।।
॥ इति सप्तमाध्याये पञ्चदश ब्राह्मणम् ।।
।।समाप्तश्च सप्तमोऽध्यायः ।।
प्र.-अर्चिराद्यातिवाहिकानुप्रविष्टादित्यप्रार्थनामन्त्रः । हिरण्मयेन…… मुखम् । सत्यस्य–ब्रह्मणः मुखं – द्वारम् – ब्रह्मगमनमार्ग इति यावत् हिरण्मयेन पात्रेण–तेजिष्ठेन तेजो मण्डलेन अपिहितम् – आवृतम्, तत् – द्वारं त्वं पूषन्! अपावृणु -अनावृतं कुरु । किमर्थमित्यत्राह – सत्यधर्माय दृष्टये । सत्यं–ब्रह्म धर्म:-आस्रय: साधनं यस्य तस्मै ब्रह्मैकनिष्ठाय ब्रह्मदर्शनार्थिने मह्यं दृष्टये – ब्रह्मदर्शनाय इत्यर्थः । पूषन्नेकर्षे यम सूर्य प्राजापत्य । हे पूषन् ! एकश्चासौ ऋषिश्च एकर्षिः । ऋषिर्द्रष्टा । सवितुः जगदेकचक्षुष्वादिति भावः । यम – यमयितः । सूर्य – सुष्टु ईरयति रश्मीन् इति सूर्यः । प्राजापत्य – प्रजापतेः पुत्र ! व्यूह रश्मीन् समूह तेजः । तावकान् रश्मीन् व्यूह– अपगमय । तेजः समूह – संक्षिप । किमर्थम् इत्यत्राह – यत्ते रूपं कल्याणतमं तत्ते पश्यामि । तेजसां संक्षेपाभावे तव रूपं दुर्दर्शमिति भावः ।
योऽसावसौ पुरुषस्सोहमस्मि । आत्मा यादृग्रूपः; तादृग्रूपोऽहमस्मि; तादृग्रूपतया ‘वेद्मि । आत्मतत्त्वविदस्मि इत्यर्थः ।वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । अर्चिरादिना गतस्य मे प्राणवायुः वायो लीयताम् । मृतञ्चेदं शरीरं भस्मान्तञ्च भवतु । ततश्च देहेन्द्रियादिषु आत्माभिमानी नाहमस्मि । तद्विलक्षणात्मज्ञानवान् इत्यर्थः ।
ओं क्रतो स्मर कृतं स्मर । ओमिति प्रणवप्रतिपाद्यत्वात् आदित्यस्य संबोधनम् । क्रतोः–अधीगर्थदयेशां कर्मणि (पा.सू.२-३-५२) इति कर्मणि षष्ठी – क्रतुम् उपास्तिमनुष्ठितां स्मर । तदङ्गतया कृत – कर्मापि स्मर । अहं देहविलक्षणात्मज्ञानी कर्माङ्गकब्रह्मविद्यानिष्ठश्च । अतः त्वत्स्वरूपं प्रदर्शय; मुक्तिमार्गश्च प्रयच्छ इत्यर्थः ।
अर्चिरादिप्रथमपर्वाग्निप्रार्थनामन्त्रः । अग्ने नय…… विद्वान् । हे अग्ने! सुपथा–शोभनैनार्चिरादिमार्गेण राये – ऐश्वर्याय स्वाराज्याय – मोक्षायेति यावत् – अस्मान् नय–प्रापय । हे देव – द्योतमान ! विश्वानि वयुनानि – सर्वाणि ज्ञानानि विद्वान् भवसि ।
अतो मदीयमपि आत्मज्ञानं त्वं जानासि इत्यर्थः । युयोध्यस्मज्जुहुराणमेनः । युयोधि –अपनय । अस्मत् – अस्मत्तः । जुहुराणं – कुटिलम् । हुर्च्छा कौटिल्ये (धा.पा.२११) इत्यस्मात् कानचि रूपम् । एन: – पापं युयोधि इत्यन्वयः । भूयिष्ठां – भूयसी नम उक्तिं ते करवाम इत्यर्थः ।। १ ।।
।। इति सप्तमाध्याये पञ्चदश ब्राह्मण प्रकाशिका ।।
।।समाप्तश्च सप्तमोऽध्यायः ।।