[highlight_content]

ईशावास्योपनिषत्-श्रीवत्सनारायणमुनीन्द्र

श्रीः

श्रीमते रामानुजाय नमः

ईशावास्योपनिषत्

शान्तिपाठः

ओम् पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||

ओ शान्तिः शान्तिः शान्तिः ||

शुक्लयजुर्वेदीयानां एष शान्तिपाठमन्त्रः | परब्रह्मणः समग्रस्वरूपस्यभावप्रतिपादक इति यथासिद्धान्त विपुलविशदं विवरणं अर्हति। तथा हि-पूरी-आप्यायने इत्यस्मात् चौरादिकत्वेनस्वार्थणिजन्तात् धातोः क्तप्रत्यये सति “या दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्ताः” इति (7-2-27) पाणिनिसूत्रेण पूर्णशब्दोऽयं निपात्यते | इडागमाभाव:  निपातस्य फलम् | णिलोप:, रात् परत्वात् प्रत्ययतकारस्य नत्वं, तस्य णत्वं चेति पूर्णशब्दसिद्धै प्रक्रिया | क्तप्रत्ययश्च इह कर्तरि कर्मणि येति उभयथापि भाव्यम् | तत्र कर्तरि • ब्रहम स्वरूपेण पूरयतिव्याप्नोति इत्यर्थः| कर्मणि तु – ब्रहम कल्याणगुणैः संभृतमित्यर्थः | असंकुचितवृत्तिनानेन पूर्णशब्देन सर्वत्र सर्वदा सर्वथा च पूर्णत्वं ब्रह्मणः प्रतिपाद्यते ||

(1) तत् यथा – सर्वत्रेति सर्वदेशव्याप्तिविवक्षा । सर्वत्र पूर्णता नाम-सर्वव्याप्तस्य तत्देशावच्छेदेनापि परिसमाप्यवृत्तित्वपर्यवसानम् | तद्वा कथम्? न हि एकत्र पूर्णतया स्थितस्य अन्यत्र वृत्तिसम्भव: | इति शंका निरस्यते सिद्धान्तिभि:  विशिष्टाद्वैतिभि व्यक्तिषु परिसमाप्तामपि व्यापिनी तार्किकाणां जातिं निदर्शयदभिरिति भाव्यम् ||

(2) सर्वदा – इति कालानवच्छेदेन व्याप्तिविवक्षा |

(3) सर्वथा • इति व्याप्तिप्रकारविवक्षा च | तत्र स्वरूपतः गुणतश्चेति व्याप्तिप्रकारद्वैविध्यम् | तेन दीपादुत्पन्नप्रदीपन्यायेन परस्वरूपवत् उत्तरेषां व्यूह-विभव-अन्तर्यामि-अर्चावताराणामपि गुणैः पूर्णतासिद्धि:| एतदभिप्रायेणैव मन्त्रपदानि व्याख्येयानि ||- तथा हि – “पूर्णमदः पूर्णमिदं” इति “पूर्णमिदं पूर्णमदः” इति च पाठभेदो दृश्यते | तत्र विप्रकृष्टवाचिना अदः शब्देन नित्यविभूतिवर्तिपरस्वरूपग्रहणम् | सन्निहितवाचिना इदं | शब्देन च हृदयगुहावर्ति-अन्तर्यामिरूपं विवक्षितम् | पूर्णशब्दः गुणपौष्कल्यवचनः | तथाच • परवाासुदेवमूर्तिरिव अन्तर्यामिस्वरूपं च वाङ्गुण्यपुष्कलमिति प्रथमवाक्यार्थः। अथ, पूर्णात् – पूर्वोक्तपरवासदेवसकाशात् आविर्भूतं पूर्णं • व्यूहस्वरूपं उदच्यते – बहुप्रकारं भवति । संकर्षण-प्रद्युम्नानिरुद्धरूपेण द्वि-द्वि-गुणाविष्करणशालि सत् त्रिप्रकारं भवतीति भावः। तत्र व्यूहत्रये प्रतिव्यक्ति गुणद्वयमात्राविष्करणेऽपि स्वतो गुणषट्कपूर्णमेवेति न न्यूनता भावया । इदं चोकतं पांचरात्रानुसारतः श्रीवत्सचिन्हगुरुभिः वरदराजस्तवे • गुणैष्षड्भिस्त्येतै: प्रथमतरमूर्तिस्तव बभौ । ततः तिस्र: तेषां त्रियुग। युगलैर्हि त्रिभिः अभुः” इत्यादिना ||

पूर्णस्य पूर्णं – इह षष्ठयन्तपूर्णशब्दः सर्वावतारकन्दभूतं क्षीराब्धिशायि व्यूहरूपं वदति । तत्सम्बन्धि पूर्णं रामकृष्णादिविभवावतारजातम् । तत् (द्वितीयान्तम् ) आदाय -स्वहेतुत्वेन स्वीकृत्य • पूर्णं एव अवशिष्यते – अर्चावतारूपमेव चरमतया वर्तते सर्वसमाश्रयणोपयोगि नित्यसन्निहितं कल्याणगुणपूर्णं च । इति मन्त्रस्य । पदार्थविवरणम् । एतेन परब्रह्मणः सर्वव्याप्तिः सर्वत्र गुणपौष्कल्यं च प्रतिपादितं भवति । अध्ययनारम्भे एवंविधपरिपूर्णब्रह्मस्वरुपध्यानं शान्तिमन्त्रेणानेन विधित्सितमिति बोध्यम् । श्रीवचनभूमणस्य अरुम्पदाख्ये  द्रविडभाषामयटिप्पणे समंजसमिदं विवरणं दृश्यम् ||

यद्यपि श्रीरंगरामानुजमुनीन्द्रै: बृहदारण्यके (7-1) अयंमन्त्र प्रकरणात्प्रणवस्तुतिपरतयाव्याख्यात:। तदेवम् “पूर्णमदः पूर्णमिदं”  इत्यनेन परोक्षप्रत्यक्षसर्वलोकानां वेदशब्दप्रभवत्यात्  तद्व्याप्तत्वं प्रोच्य, (कारणेन । कार्यस्य व्याप्तत्वात् • कारणीभूतवेदशब्दव्याप्तता लोकानां – इति । एवं पूर्णात्  ( व्याप्तात्  लोकात्  । पूर्णं पूरणकर्तृ व्याहृतिरूपभूर्भुवरादिशब्दजातम् उदंच्यते – उत्कृष्टं भवतीति च व्याख्याय, पूर्णस्य पूर्णं – व्याप्तलोकस्य पूरकं व्याहृतिरुपशब्दजातम् आदाय – उपसंहूत्य, पूर्णं – तस्यापि व्यापकं औंकांर रूपं वस्तु अवशिष्यते – कार्यसर्वशब्दजाते नष्टेऽपि परिशिष्यते” इति, विवरणं कृतम् । अथ तैरेव अन्ते । इदं च रुच्युत्पादनाय प्रणवस्तुतिमात्रम्।अन्ययानिमित्तकारणस्यव्याहृत्यादे:  कार्यव्यापकत्वासंभवात्। उपादानभूतस्य भूतपंचकस्यैव  व्यापकत्वसभवात् असामंजस्य स्यात्” इति समापितम् । तथापि एवं स्वेनैव रुच्युत्पादनाय प्रणवस्तुतिपरत्वोक्तया अवास्तवमेवेदप्रणवस्तुतिपरत्वमिति व्यंजनात्,  युक्तं प्रणवप्रतिपाद्यस्य ब्रह्मणएव परत्वादिपंचकपरतया व्याख्यानमिति प्रतीमः । वस्तुतः इदं श्रीरंगरामानुजीयं विवरणं वाक्यान्वयाधिकरणगत श्रुतप्रकाशिकावचनविरुद्धमपि। तत्र हि व्यासार्यै: यादवप्रकाशपक्षनिराससन्दर्भ परमात्मपरतयैव मन्त्रोऽयं विवृत:। तत्रेयं तदीयसूक्तिः •”, परमात्मन: पूर्णत्वं च अणुमात्रैऽपि वस्तुनि स्थितस्य निरवधिकषाड्गुण्य विशिष्टतया  प्रतिपत्तियोग्यत्यम्” इति ।।

इति शान्तिपाठविवरणम्

ईशावास्यप्रकाशिका

(श्रीवत्सनारायणमुनीन्द्रविरचिता)

मंगलम्।

विश्व व्याप्यं धार्यं येन, विचित्राश्च शक्तयो यस्य |

श्रीरंगेशं तमृणिं तनुवाक्चित्तैरुपास्महे पुरुषम् ||1||

ईशावास्यसारः

सर्वेशानस्सर्वभूतान्तरात्मा दोषानर्हस्सर्वविद्यैकवेद्यः |

कर्माराध्यःसाध्यभक्त्येकलभ्यः श्रीमान्व्यक्तो वाजिनां संहितान्ते || 2||

प्रतिज्ञा

यस्याचार्यै: कृतं भाष्यम् गम्भीरं विदुषां मुदे |

बालामोदाय तदभावः यथाभाष्यं प्रकाश्यते || 3||

ईशावास्यानुवाकोय वाजिनां संहितान्तगः |

शिष्याय गुरुणा यस्मिन् ब्रह्मविद्योपदिश्यते || 4 ||

कर्मणां  संहितोक्तानां  विनियोगपृथक्त्वतः |

विद्यांगतास्ति तद्वयक्त्यै निबन्धोस्य तदन्ततः || 5 ||

ईशावास्यमिदं सर्वं यत्किंञ्च जगत्यां जगत्‌ ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्‌ ॥ 1 ॥

“ईशावास्यमिदं सर्वम्” इत्येषोनुवाकः, अष्टादशमन्त्रात्मकः | एते च मन्त्राः पुरुषसूक्तोदित- परमपुरुष- तत्स्वरूप- तपासन- प्रपदन- तत्प्राप्तिरूप-तत्वोपायपुरुषाथानां संग्रहेण सम्यक्प्रतिपादकत्वात् कर्मसु कल्पसूत्रकृता कात्यायनेन विनियुक्तत्वाच्चं उपनिषत्सारभूताः। भगवद्गीतादिभिश्च एतेषां मन्त्राणां उपबृह्मणं तत्र तत्र परस्तात् प्रदर्शयिष्यते ||

एतदुपनिषदः संहितान्तपाठोपपत्तिः

नन्वेवं बृह्मकाण्डे बृहदारण्यक एवैषां पाठः स्यात् | न संहितायाम्, प्रयोजनाभावात् इति चेन्न, एतेषु सारभूतानां :पंचमन्त्राणां बृहदारण्यकेऽपि पाठदर्शनात् | “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” (बृ.उ. 6-4-22) विद्यां चाविद्यां च यस्तद्वेदोभयं सह | अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते || (ई.उ.11) इति अविद्याख्यस्य कर्मविशेषस्य ब्रह्मविद्यायां विनियुक्तत्वेन संहितायामुदाहृतं कर्मजातं विद्याया अप्यंगम् इति विशदीकरणार्थम् एषां संहितान्तपाठोपपत्तेश्च | अतः कर्मसु “विनियुक्तत्वात् “पूर्वोक्ततत्त्वोपायप्रयोजनप्रतिपादनपरत्वाच्च उपनिषद एवैते मन्त्राः इति सिद्धम्||

अवतारिका

तत्र तावदाचार्यः प्रथमं रजस्तमः प्रचुरदेहेन्द्रियादिविशिष्टत्वात्  ईश्वरोहऽमहं  भोगी (भ.गी.) इत्यादिश्रीभगवदगीतोक्तप्रक्रियया “स्वतन्त्रोहं, देवतान्तरपरतन्त्रोऽहम्” इति च भ्राम्यतः तत्त्वबुभुत्सया च उपसन्नस्य शिष्यस्य  स्वतन्त्रात्म भ्रमादिनिवृत्यर्थं चिदचिदात्मकस्य कृत्स्नस्य प्रपंचस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वं उपदिशति – ईशावास्यमिति ||

ईश्वरपारतन्त्रय निरूपणम्

इदम् – अचिन्त्यविविधविचित्ररचनतया ब्रहमादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रतया च प्रत्यक्षादिप्रमाणसिद्धमित्यर्थः । सर्वम् – ईश्वरव्यतिरिक्तं भोग्यभोक्तृरूपम् सर्वम् । “ईशा” इति तृतीयैकवचनान्तम्, सर्वनियन्त्रा इत्यर्थः ; संकोचे मानाभावात् । महापुरुषेणेति यावत्, “योऽसावसौ पुरुषः” इति अनुवदिष्यमाणत्वात् । स एव हि सर्वस्येष्टे । तथा च श्रुत्यन्तरं “पतिं विश्वस्यात्मेश्वरम्” इति । तेन वास्यम् – निवासनीयम् व्याप्यमिति भावः, अनन्याधारत्वात् परस्य ब्रह्मणः । यद्वा सर्वाधारे स्यस्मिन्नेव स्वेन वसनीयं, प्रतिष्ठापनीयमित्यर्थः । स्मर्यते हि

“सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः |

ततस्स वासुदेवेति विद्वद्भि: परिपठ्यते” इति || (वि.पु.1.2)

जगत्यां – उर्व्याम्, इदं लोकान्तराणामप्युपलक्षणम् । जगत् – अन्यथात्वं गच्छत् । तत्र अचिदंशस्य भोग्यत्वाय स्वरूपविकाररूपमन्यथात्यं, चिदंशस्य भोक्तृत्वाय ज्ञानसंकोचविकासादिलक्षणस्वभावविकारेण अन्यथात्यमिति भेदोऽनुसन्धेयः । ईशेनाव्याप्तं किंचिदपि नास्तीति दर्शयितुं यत्किंचेति जगत् विशेष्यते। जगत्यादिषु लोकेषु यत्किंच भोक्तृभोग्यरूपं जगद्वर्तते , तदिदं सर्व ईशा वासुदेवेन, वास्यं-व्याप्यं धार्यं चेत्यर्थः||

“इन्द्रियाणि मनो बुद्धिस्सत्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञमेव च” || (वि.स.फलश्रुतिः) इत्याद्युपबृह्मणसहस्रमिहानुसन्धेयम्। ‘पृथगात्मानं प्रेरितारं च मत्या (श्वे.उ.1.6) “ज्ञाज्ञौ द्वायजायीशनीशौ” (श्वे.उ.1.9) ईशानीशायित्यर्थः । “नित्यो नित्यानां चेतनश्चेतानामेको बहूनां यो विदधाति कामान्” (क.उ.5-13) इत्यादिषु प्रसिद्धः जीवेश्वरयोः ईशेशितव्यादि-लक्षणयोः अत्यन्तभेदोऽप्यत्र सिद्धः। ननु “रूढिर्योगमपहरति” इति न्यायादीशोऽत्र रुद्स्स्यात् | मैवं, “एको हवै नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावापृथिवी न नक्षत्राणि नाग्निर्न सूर्यो न चन्द्रमाः स एकाकी न रमेत” (महो.1.1) इत्यादिषु “अनपहत-पाप्माहमस्मि नामानि मे धेहि” (शतपथ.) इत्यादिषु च भगवत्कार्यत्वेन कर्मवश्यत्वेन च सम्प्रतिपन्ने रुद्रे, सर्वव्याचपित्वसर्वाधारत्वादेः अन्वयासम्भवेन विरुद्धार्थविषयतयैव इह रूढेः भग्नत्यात् । एवं च जगत्कारणवादिवाक्यगताकाशप्राणादिशब्दन्यायेन “अजस्सर्वेश्वरस्सिद्ध:” (वि.स.11) इत्यनवच्छिन्नैश्वर्यतयाप्रसिदधेसर्वेश्वरेयौगिकएवायम् “ईट्” शब्दः प्रत्येतव्य इति सिद्धम् |

वैराग्यवृत्ते: उपदेश:

एवं मुमुक्षोः ईश्वरपारतत्र्यबोधमुत्पाद्य वैराग्यभूषितां वृत्तिमुपदिशति । तेन त्यक्तेन भुंजीथाः इति – तेन जगता भोग्यताभ्रमविषयेणेति भावः । त्यक्तेन अल्पास्थिरत्य-दुःखमूलत्व-दुःखमिश्रत्व-दु:खोदर्कत्य-देहात्माभिमानमूलत्व-स्वाभाविक ब्रह्मानुभवविरुद्धत्वरूपा ये विषयदोषास्सप्त, तन्निरूपणपूर्वकं परित्यक्तेन उपलक्षितस्सन्भुंजीथाः-भगवदुपासनोपयुक्तदेहस्य धारणमात्रौपयिकमन्नपानादिक याग-दान-होमार्चनाद्युपयोगिपरिजनपरिच्छदादिकं च भोग्यवर्गं भुंजीथा इत्यर्थः ।

यद्वा दोषसप्तकनिरूपणात् त्यक्तेन भोग्याभासेनोपलक्षितस्सन्  भुंजीथा सर्वावासत्वेन प्रकरणे प्राप्तं उक्तदोषप्रतिभटं निरतिशयभोग्यं वक्ष्यमाणोपाय मुखेन भुंजीथाः “इति योज्यम्” |

अत्र च ‘भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.1.12) “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति (श्वे.उ.4.6) “समाने वृक्षे पुरुषो निमग्नः अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति “वीतशोकः” (श्वे.उ.4.7) । महिमानम् इति – प्राप्नोतीत्यर्थः । छान्दसा गुणाभाव: । तदेति प्रतिनिर्देशोऽध्याहार्यः । यदाऽन्यमीशनम्  अस्य महिमानं च पश्यति, तदा वीतशोको भवति इत्यन्ययो वा।।

मागृधः कस्यस्विद्धनं – कस्यस्वित् कस्यापि बन्धोरबन्धोर्या धनं मा गृधः । माऽभिकांक्षीः । “गृधु अभिकांक्षायाम् (पा.धा. पा.1247) इति धातुः |

आह च यमः किंकरं प्रति ।

“हरति परधनं निहन्ति जन्तून्वदति तथाऽनृतनिष्ठुराणि यश्च ।

न सहति परसम्पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः।।

परमसुहृदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे ।

शठमतिरुपयाति योऽर्थतृष्णां पुरुषपशुर्न स वासुदेवभक्तः’ (वि.पु.3.7.2-3) इति ।

भगवद्गीतासु च “न कांक्षे विजयं कृष्ण” (भ.गी.1.32) इत्यादि । इदंच धनाशाप्रहाणं परमात्मव्यतिरिक्तकृत्स्नविषयवैराग्योपलक्षणम् । स्मरन्ति हि -परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि (ना. प. उ. 3-18) इति|

कुर्वन्नेवेह कर्माणि   जिजीविषेच्छतँ समाः ।

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥2 ॥

अवतारिका

एवं विरक्तस्य विदुषः फलसंगकर्तृत्वादित्यागयुक्तो ब्रह्मविद्यांगभूतः कर्म योगो यावज्जीवम् अनुष्ठेय इत्याह – कुर्वन्नेवेति |

शतं  समाः – शतसंवत्सरान्, प्रायिकवादोऽयम् । कर्माणि – नित्यनैमित्तिकानि कुर्वन्नेव, इह लोके, जिजीविषेत् – जीवितुमिच्छेत् । ब्रह्मविदोऽपि यावद्विद्यापूर्ति जीवितुमिच्छा भवतीति प्राप्तत्वात् शतसंख्याकान् वत्सरान् जीवन्नित्यनूद्य कर्माणि कुर्वीतैवेति विधिस्संकामयितव्यः ।+यावज्ज्ञानयोगाधिकारं कर्मयोगः कर्तव्य इति भावः ।

कर्मयोगशब्दार्थः

कर्मयोगो नाम ‘दैवमेवापरे यज्ञम् (भ.गी.4-25) इत्यादिना विकल्पविहितेषु कर्मयोगावान्तरभेदेष्येकं यथारुचि अंगितया स्वीकृत्य अन्यानि नित्यनैमित्तिकानि तदंगतयोपसंहृत्य असंगकर्मानुष्ठानविशेषः । न कदाचिदपि विद्यांगकर्म परित्यजेत् इति एवकाराभिप्रायः। व्रुत्वयि – ईश्वरपरतन्त्रात्मस्वरूपतया तदाज्ञापरिपालनरूपकर्मानुष्ठाने अधिकारपूर्तिमतीति भावः । एवम् – एवमेव अनुष्ठेयानि कर्माणि इत्यर्थः ॥

उक्तमर्थं व्यतिरेकेण स्थिरीकरोति – नान्यथेतोऽस्ति इति । इतः – अनुष्ठानात्, अन्यथा – प्रकारान्तरम्, अ(न)नुष्ठानं नास्ति इत्यर्थः ।

ननु ब्रह्मविदोऽपि कर्मानुष्ठानावश्यंभावे बन्धस्स्यात् इत्यत्राह – न कर्म लिप्यते नरे – इति । विद्याविरुद्धेषु कर्मफलेषु, न रमत इति – नरः । प्रस्तुते ब्रह्मविदि नरे विद्यांगतया क्रियमाणः कर्मयोगः, न लिप्यते – न स्वर्गादिहेतुर्भवति, अपि तु ज्ञानयोगद्वारा वा, साक्षाद्वा, प्रथमं परिशुद्धजीवात्मविषयकयोगमुत्पाद्य, पश्चात् | भक्तियोगांगभूतं प्रत्यगात्मसाक्षात्कारमेव उत्पादयति इति भावः ।।

कुर्वन्नेवेति विधेः अविद्वन्मात्रविषयकत्वनिरासः

यत्तु – “कुर्वन्नेवेह कर्माणि” इत्यर्थं  विधिः अविद्वद्विषय एव – न ब्रह्मविद्विषय इति, तस्य विधिनिषेधशास्त्रवश्यत्वाभावात् ब्रह्मज्ञानाग्निना कर्माधिकारः प्रणष्ट इति शांकरं व्याख्यानम् – तत्प्रकरणविरुद्धम्,

“विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते”| ( ई. उ. 11) इत्युपरितनविध्यन्तरविरुद्धं च इति, न वेदविदो बहुमन्यन्ते ||

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।

ता्ँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ 3 ॥

एवं मन्त्रद्वयेन तत्त्वत्रयस्यरूपं विद्यांगकर्मानुष्ठानस्यरूपं च यथावत् उपदिष्टम् । इदानीं ये केचन आसुरप्रकृतयः यथोपदेशं तत्त्वत्रयम् अविदित्वा अन्यथा जानन्ति, कामक्रोधलोभाद्यन्विताः सन्तः शास्त्रविधिम् उत्सृज्य यज्ञादिकर्म कुर्वन्ति, निषिद्धानि च आचरन्ति, ते सर्वे स्यात्मघातिनः । तेषां निरयपातः अवश्यम्भावीत्युपदिशति आचार्यः – असुर्याः इति ।

असुराणां स्यभूता असुर्याः, असुरस्यभावभूता वा, आसुरप्रकृतीनामेव अनुभाव्याः, अन्येषां दैवप्रकृतीनाम् अनुभवितुम् अशक्याः इत्यर्थः । अतिभीषणा इति यावत् । नाम इति प्रसिद्धौ । अतिभीषणाः नरकसंज्ञिताः ते लोकाः सन्तीति सर्वशास्त्रप्रसिद्धम् इति भावः । पुनस्तान् विशिनष्टि अन्धेन तमसाऽऽवृता इति अन्धेन – अतिगाढेन, तमसा – अन्धकारेण आवृताः – व्याप्ताः तान्- अतिभीषणान्  आलोकप्रसंगरहितांश्च लोकान् इति भावः । ये के च – देवजातीयाः मनुष्यजातीय वा, तत्रापि ब्राह्मणा या क्षत्रियादयो वा, आत्महनः – “असन्नेव स भवति असद्ब्रह्मेति वेद चेत्” (तै.आ.30) इत्याम्नाताम् असत्कल्पतां स्वात्मानं नयन्तः ब्रह्मज्ञानहीनाः काम्यकर्मादिनिष्ठाः इत्यर्थः। तथा च बृहदारण्यके –

“अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ।।

तांस्ते  प्रेत्याभिगच्छन्ति अविद्वांसोऽबुधो जनाः”|| इति ।।(बृ.उ.6-4-11)

देहपातमुखेन पातकवर्गस्य च उपलक्षणमिदम् । पातकिनश्च ये जनाः – जनिमन्तः – संसरन्त इत्यर्थः । स्यात्मघातिनस्ते सर्वे प्रेत्य तदातनदेहादुत्क्रम्य अभिगच्छन्ति अभितो गच्छन्ति, सर्वान् पृथिव्यन्तरिक्षस्वर्गरौरवादिसंज्ञितानपि नारकलोकान्निरन्तरं गच्छन्ति इत्यर्थः।।

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।

तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ 4 ॥

भगवतो विचित्रशक्तियोगः

एवं तृतीयेन मन्त्रेण विद्यायां शीघ्रप्रवृत्तिसिद्ध्यर्थम् अविदुषामनर्थ उक्तः अथ आचार्यः सर्वावासत्वेन प्रस्तुतस्य परस्य ब्रह्मणः अनन्तविचित्रशक्तियोगं विरुद्धयदभिलापेन व्यंजयन् उपदिशति – अनेजदेकम् इति।

अनेजत् – “एज़ृ कम्पने” (पा.धा.234) अकम्पमानम्, एकम् – प्रधानतमं, शास्त्र, विदुषां स्वानधीनस्वसमानाधिकद्वितीयरहितमिति वा, “न तत्समश्चाभ्यधिकरश्च दृश्यते” (श्वे.उ.6-8) इति श्रुतेः । परमसाम्यमापन्ना अपि मुक्ताः ब्रह्माधीना एवेति भाव: । मनसो जवीयः – वेगवतो मनसोऽपि जवीयः वैगवत्तरम्, प्रकृत्त्यतिकान्तमपि । देशं क्षणमात्रात् मनस्संकल्पेन गच्छति चेत् ततः पूर्वमेव तत्र गच्छतीति भावः ।। निष्कम्पं येगवत्तरं चेति विरोधप्रतीतिः, परिहारस्त.- विभुत्वात् वस्तुतोऽनेजत्, तत । एव मनसोऽप्यगोचरदेशे सर्वदैव वृत्तेः मनसो जवीय इत्युपचर्यत इति ।

किंच – देवाः – ब्रह्मरुद्रादयोऽपि, पूर्वमर्षत् – प्रागेव सर्वान् देवान्प्राप्नुयदित्यर्थः । एनत् – प्रस्तुतं सर्वावास्यं परं ब्रह्म, नाप्नुवन् – एतावन्तं कालं न लेभिरे इति भावः ।। पूर्वमेव प्राप्तं न लेभिरे इति विरोधभानं, विभुतया प्राप्तमपि कर्मसंकुचितज्ञानाः चैत्रज्ञा:। आचार्योपदेशाद्विना स्यबुदया नाप्नुवन् इति परिहारः । यथोक्तं छान्दोग्ये – तद्यथा।

हिरण्यनिधिं निहितमक्षेत्रज्ञाः उपर्युपरि संचरन्तो न विन्देयुः एवमेवेमाः सर्वाः प्रजाः अहरहर्गच्छन्त्यः एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः’ (छां.उ.8-3-2) | इति । अपि च – तद्धावतोऽन्यानत्येति तिष्ठत् – “यः पृथिव्यां तिष्ठन्” (बृ.उ.5-7-7) “य आत्मनि तिष्ठन्” (बृ.उ.मा.पा.3-7-30) “यस्सर्वेषु भूतेषु तिष्ठन्” (बृ.उ.5-7-19) इत्यादिक्रमेण सर्वत्र तिष्ठदेव, तत् – ब्रह्म, धावतोऽन्यान् “गरुडादीनपि” अत्येति । तिष्ठतः पुरुषस्य धावदतिक्रमणं न घटते इति । विरोधप्रतिभानम्, जविनो यावद्यावद्भावन्ति तावतस्तावतः परस्तादपि वर्तते इति । तात्पर्यात् अविरोधः । यथोच्यते –

“वर्षायुतशतैर्वापि पक्षिराडिव सम्पतन् ।

नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः||” (अहिर्बु.से.2-43) इति ।

अन्यदपि किंचिदाश्चर्यमित्याह – तस्मिन्नपो मातरिश्वा दधाति – तस्मिन् । वासुदेवे अवस्थितो मातरिश्वा। अपइत्युपलक्षणम्। पाथःपयोधरग्रहनक्षत्रतारकादिकं । बिभर्तीत्यर्थः । धारणानुगुणकाठिन्यरहितोऽपि वायुः पाथःप्रभृतिकं  बिभर्तीत्यद्भुतम् । सर्वाधारभूतेन सर्वेश्वरेण विधृतो वायुः तच्छक्त्या एवं बिभर्तीत्यभिप्रायः । “एष सेतुर्विधरण एषां लोकानामसंभेदाय” (बृ.उ.6-4-22) “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” (बृ.उ.5-8-8) |

‘द्यौस्सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः ।

वासुदेवस्य वीर्येण विधृतानि महात्मनः’ ।। (म.भा.अनु.156)

इत्यादिषु प्रसिद्वमेतत् ।।

तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ 5 ॥

अथ इदानीमाचार्यः स्वोपदिष्टं विचित्रशक्तिमत्वमेव आदरार्थं मुखान्तरेण पुनरनुशास्ति – तदेजति इति ।

तत्त्वनिर्धारणाय पुनः पुनः उपदेशः

भूयोभूयः प्रवचनं श्रवणं च कर्तव्यमिति च पुनरनुशासनस्याभिप्रायः । तथा च शास्त्रम् —

“परीक्ष्य लोकान् कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।

तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठम् ।।

तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय ।

येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ।। (मु.उ.1-2-13)

इति । तत्त्वतः – अज्ञानसंशयविपर्ययनिरासो यथा भवति तथा, प्रोवाच – प्रकर्षेण ब्रूयात् – पुनः पुनः उपदिशेत् इत्यर्थः । अत एव “तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया” (भ.गी.4-34) इत्यादि भगवतोपदिष्टस्याप्यर्थस्य वैशद्याय तत्त्वदर्शिसकाशात् प्रणिपातादिपुरस्सरं पुनः पुनः श्रवणं विहितम् । उपदिष्टा च पुनरनुगीतेति आहुराचार्याः ।

तदेजति तत् – सर्वव्याप्तं परंब्रह्म । एजतीव – कम्पत इव, जवीय एवेति यावत् । तदु – तदेव नैजति – वस्तुतस्तु न कम्पते । तद्दूरे च तदेव अन्तिके च वर्तते । असुरदैवप्रकृतिकपुरुषभेदापेक्षया विभोरेव दूरान्तिकवर्तित्वव्यपदेशः आह च । भगवान् शौनकः

“पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् ।

तेषां तत्परमं ब्रह्म दूराद्दूतरे स्थितम् ।।

तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः ।

विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके’ ।। (वि.ध.99-13,14) इति ।

इदमप्येकं वैचित्र्यमित्याह – तत् – सर्वव्याप्तं परं ब्रह्म अस्य सर्वस्य विविधविचित्ररूपतया प्रमाणप्रसिद्धस्य सर्वस्य वस्तुनोऽन्तर्भवति, तदेव पुनस्तदानीमेव सर्वस्य बहिरपि भवतीत्यर्थः । अन्येषां तु गृहान्तर्वर्तिपुरुषाणां तदानीमेव न बहिष्ठत्वं सम्भवति; बहिर्वसतां च न अन्तर्वर्तित्वमितीह वैचित्र्यमिति भावः ।

अन्तर्बहिश्च परमात्मनो वयाप्तिप्रकारः

यद्यप्यणुषु नान्तर्वर्तिता सम्भवति, तथाप्यप्रतिघातादविभक्तदेशतया वर्तित्वमात्रेण अणुषु अन्तर्वर्तित्वोक्तिः । एवं बहिर्याप्तिरपि अविभुद्रव्यापेक्षयैव, न तु विभुद्रव्यापेक्षयापीति दृष्टव्यम् । तदिदं वैचित्र्यं तैत्तिरीयकेऽप्युक्तम् ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ (तै.ना.94) इति ।।

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ 6 ॥

एवं सर्वस्य ब्रह्मात्मकत्यमुक्तम् । अथ “सर्वं जगत् ब्रह्मात्मकम्” । ‘सन्दधानस्य प्रयोजनम् आह – यस्तु सर्वाणि इति ।

यः – तत्त्वज्ञानी, अधिकारिणो माहात्म्यज्ञापनाय “तु” शब्दः । सर्वाणि भूतानि ब्रहमादिस्थावरान्तानि, आत्मन्येव – परमात्मन्येव, अनुस्यूतं पश्यति – निदिध्यासति इत्यर्थः। पृथिव्यादिभिः ध्रियमाणमपि तन्मुखेन परमात्मन्येव स्थितम् इत्येव काराभिप्रायः । किंच, सर्वभूतेषु चात्मानम् – परमात्मानं यः पश्यति ; इदं व्याप्ति मात्रपरम् ; परमपुरुषस्य अनन्याधारयात् इति भावः । यच्छब्दस्य स इनि प्रतिनिर्देशोऽध्याहार्यः । सः – उक्ततत्त्वज्ञानी, ततः – तेषु ; सप्तम्यर्थे तसिः । ब्रह्मात्मकतया दृष्टेषु सर्वेषु भूतेषु इत्यर्थः । न विजुगुप्सते – कुतश्चिदपि न बीभत्सते “स्वात्मविभूतिन्यायात्’ क्वचिदपि निन्दां न करोतीति भावः ।।

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।

तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ॥ 7 ॥

अपृथक्सिद्भविशेषणतयानुसन्धानफलम्

एवं वैयधिकरण्येनोक्तं सर्वस्य ब्रह्मात्मकत्वं सामानाधिकरण्येनापि द्रडयन् तथानुध्यानस्य सद्यश्शोकमोहनिवर्तकत्यम् आह — यस्मिन् सर्वाणि इति ।

यस्मिन् – प्रणिधानसमये, विजानतः – ‘ईशावास्यम्’ (ई.उ.1) इत्यारभ्य ततो न विजुगुप्सते’ (ई.उ.6) इत्येवमन्तेन उपदिष्टं स्वतन्त्रपरतन्त्रवस्तुभेदं यथोपदेशं विविच्य जानतः इत्यर्थः । नन्वेवं अत्यन्तभेदाभ्युपगमे ‘सर्वभूतान्यात्मैवाभूत्’ इति सामानाधिकरण्यं भज्येत इत्याशंक्य तन्निर्वाहाय ‘यस्य पृथिवी शरीरं— (बृ.उ.5-7-7)  यस्यात्मा शरीरं (बृ.उ.मा.पा.3-7-30) इत्यादि घटकश्रुतिसिद्ध सम्बन्धविशेषमाह — एकत्वमनुपश्यत इति । आकृतिव्यक्त्योरिव गुणगुणिनोरिव च अत्यन्तभिन्नयोरेव जगद्ब्रह्मणोः एकत्वं विभागानर्हसम्बन्धविशेषं पश्यतः विशदतममनुध्यायत इत्यर्थः । ‘रामसुग्रीवयोरैक्यं देव्येवं समजायत (रा.सु.35-52) इत्यादिष्विव इहापि एकशब्दस्य सम्बन्धविशेष एवार्थो विवक्षितुं युक्त इति भावः । एवं च सत्याह — सर्वाणि भूतान्यात्मैवाभूत् इति । परमात्मैव सर्वभूतशरीरकः प्रतीतोऽभूत् इत्यर्थः । तत्र तदा प्रणिधानसमये, को मोहः – स्वतन्त्रात्मभ्रमादिलक्षणो मोहो न सम्भवति । कश्शोक: – परमात्मविभूतितयावगते सर्वस्मिन्निर्ममत्यसिद्धया पुत्रमरणराज्यहरणादेरपि न कश्चिच्छोकस्स्यात् इत्यर्थः।

यथाह — ‘अनन्त बत में वित्तं यस्य मे नास्ति किंचन। । | मिथिलाया प्रदीप्तायो न मे किंचित्प्रदह्यते।। (म.भा.शां.17-223) इति ।

सामानाधिकरण्यनिर्वाहवैविध्यम्

अत्र केचित् “सर्वाणि भूतान्यात्मैवाभूत्” इति बाधार्थ सामानाधिकरण्यम्, तथा च आत्मैव सर्वाणि भूतानि, आत्मव्यतिरिक्तानि सर्वाणि न सन्तीत्यर्थः, यथा चोरः स्थाणुः’ इति ; ‘स्थाणुरेयायं, न चोरः’ इति हि तस्यार्थः; तथा इहापीत्याहुः ।।

अन्ये तु ‘नरपतिरेव सर्वे लोकाः “इतिवत् औपचारिकमिदं सामानाधिकरण्यम् नरपत्त्यधीनास्सर्वे जनाः” इति हि तत्र निर्वाहः, तद्वदिहापि परमात्माधीनानि सर्वाणि भूतानि इति भावं वर्णयन्ति । |

अपरे तु ‘घटशरावादयः सर्वे मृत्पिण्ड एव’ इतिवत् जगद्ब्रहमणोः एकदव्यत् परिकल्प्यैव इदं सामानाधिकरण्यं निर्वाह्यम् इत्याचक्षते ।

सिद्धान्तस्तु – ‘देवोऽहम्, मनुष्योऽहम्’ इत्यादिवत् शरीरात्मभावसम्बन्धेनैव जगद्ब्रह्मसामानाधिकरण्यनिर्वाहे सम्भवति सति बाधोपचारस्वरूपैक्यपक्ष वैदिकैर्बहिष्कार्याः इति ।।

स पर्यगाच्छुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्धम् ।

कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ 8 ॥

पुनरप्येनम् ईशेशितव्यतत्त्ववेदिनं चेदितव्येश्वरस्वरूपशोधनेन च विशिंषन् । ध्यानयोगादिकमपि उपदिशति – स पर्यगात् इति ।

सः – सर्वभूतान्तरात्मभूतब्रह्मदर्शी, पर्यगात् – पर्यगच्छत् , प्राप्नुयादित्यर्थ: ब्रह्मविदाप्नोति परम्’ (तै.आन.1-2) इति न्यायात् । यद्वा, समाधिलब्धेन अनुभवेन ‘उपलब्धवान् इति सिद्धानुवादः। ‘अत्र ब्रह्म समश्नुते (क.उ.6-14) इतिवत् । शुकुम् – अवदातम्, स्वप्रकाशरूपमित्यर्थः। अकायम् – सर्वशरीरकमपि कर्मकृतहेयशरीररहितमित्यर्थः । “ न तस्य प्राकृता मूर्तिर्मासमेदोऽस्थिसम्भवा” (वरा.पु.75-41) इति हेयशरीरस्यैवान्यत्र प्रतिषेधदर्शनात्, न तु दिव्यमंगलविग्रहरहितमित्यर्थः । “यत्ते रूपं कल्याणतरमं तत्ते पश्यामि” (ई.उ.16) य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” (छा.उ.1-6-6) ‘आदित्यवर्णं तमसः । परस्तात्” (श्वे.उ.3-8) इत्यादिना उपनिषत्प्रसिद्धस्य अप्राकृतदिव्यविग्रहस्य इह निषेधायोगात् इति भावः । अव्रणम् – कर्मायत्तशरीराभावादेय अक्षतम्  अस्नाविरम् – स्नायु: सिरा यस्मिन् विद्यते तत् स्नाविरम्, स्नाविरम्  न भवति । इति अस्नाविरम्, शुद्धम् – अनाघाताज्ञानादिदोषगन्धम् अशनायादिषडूर्मिरहितं । च, अपापविद्धम् – अज्ञानादेः कार्यभूतैः कारणभूतैश्च पुण्यपापरूपकर्मभि:। अनालीढमित्यर्थः । न शोको न सुकृतं न दुष्कृतम्’ इत्यारभ्य “सर्वे पाप्मानाऽतो । निवर्तन्ते’ (छ.उ.8-4-1) इति पापशब्देन उपसंहारदर्शनात् स्वर्गादिहेतुभूत पुण्यविशेषस्यापि इह पापशब्देन संग्रहणम् इति भावः । एवम् अशेषणहेयप्रत्यनीक परमात्मानं स विद्वान्पर्यगादिति पूर्वेण सम्बन्धः ।|

एवं रूपः परमात्मा प्राप्यः प्रापकं उपास्यश्च यस्य ते ब्रह्मविदं विशिनष्टि कविः – व्यासादिवत्परमपुरुषतत्स्यरूपतद्विभूतितत्कल्याणगुणादिप्रकाशकप्रन्ध  रूपाणी निर्माता इत्यर्थः । अथवा कविः – कान्तदर्शी, योगाभ्यास विधुरमनसा दुर्दशे परिशुद्धजीवात्मस्वरूपे अतिविशदाविच्छिन्नधारास्मृतिरूपज्ञानयोगनिष्ठ इत्यर्थः । कर्मयोगस्तु “कुर्यन्नेवेह कर्माणि” (ई.उ.2) इति श्लोकेन पुरस्तादेयोक्तः । अथ ज्ञानयोगसाध्यं प्रत्यगात्मसाक्षात्कारहेतुभूतं जीवात्मयोगमाह – मनीषी इति । मनस ईशित्री बुद्धिर्मनीषा, तद्वान् मनीषी, सौन्दर्यसौशील्यादिभगवद्गुणांनां स्मृत्यभ्यासेन अन्यविषयवैराग्येण च निगृहीतान्तःकरण इत्यर्थः । तथा च गीयते –

‘असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।

अभ्यासेन च कौन्तेय वैराग्येण च गृह्यते ।। (भ.गी.6-35)

इति । निरतिशयसुखरूपस्वात्मसाक्षात्काराय स्वात्मनि मन: प्रणिधानक्रियारूपयोगाभ्यासपरः इति भावः । परिभू: – कामक्रोधादीन् दुर्जयान् अरातीन् परिभवतीति परिभू: । अनेन विरोधिनिवृत्तिरूपयोगांगसेयनमुक्तम् । योगाभ्यासफलमाह – स्वयम्भू: – अन्यनिरपेक्षसत्ताकः, नित्यनिरतिशयसुखरूपतया स्यात्मदर्शीति यावत् । याथातथ्यतोऽर्थान्यदधात् – यथावद्विविच्य अर्थान् – प्रणवार्थान् “तस्य याचक: प्रणयः” (पा.यो.सू.1-27) “तज्जपस्तदर्थभावनम्” (पा.यो.सू.28) इति सूत्रोक्तान, व्यदधात् – हृदयेन धृतवान् इत्यर्थः । अर्थान् – मोक्षतदुपायतद्विरोधिप्रभृतीन्सर्वान्पदार्थान्, शाश्वतीभ्यस्समाभ्यः – यावद्ब्रह्मप्राप्तीत्यर्थः । याथातथ्यतःयथावत्, व्यदधात् – विविच्य हृदयेन धृतवान्, सर्वप्रत्यूहशमनार्थमिति भावः ।।

अथवा – ‘शुकुम्’ इत्यादि द्वितीयान्तपदजातं परिशुद्धजीवपरम् । तमपि स परमात्मा पर्यगात् परितो व्याप्य स्थित इति प्रथमान्तपदजातं परमात्मपरं योजनीयम् । तथा हि कविः -स्यतस्सर्यदर्शी श्रीपाचंरात्रादिप्रणेता वा, मनीषी – मनःप्रभृतीनां जीवकरणानां नियन्ता, परितो भवतीति परिभूः – सर्वव्यापी, स्वयमेव भवति उद्भवतीति स्वयम्भूः – “बहुधा विजायते” (पु.सू.) इत्यादि प्रसिद्भावतारशालीत्यर्थः । अत्र ‘कविः’ इत्यादिना कल्याणगुणविधानात् छान्दोग्ये “एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः” (छा.उ.8-1-5) इति कल्याणगुणविधानाच्च, “निर्गुणम्” (आत्मोपनिषत् ) “निरंजनम्” (श्वे.उ.6-19) इत्यादि सामान्यनिषेधस्य हेयगुणनिषेधपरत्वं सुगमम् । याथातथ्यत इत्यादि । अर्थान् – कार्यपदार्थान्  शाश्वतीभ्यस्समाभ्यः – यावद्विलयमवस्थातुम् याथातथ्यतः – यथावत् व्यदधातृविविच्य उत्पादितवान्, न पुनरैन्द्रजालिकवत् केवलं प्रकाशितवान् इति  भाव:।

अन्धं तमः प्रविशन्ति ये़ऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्याया्ँरताः ॥ 9 ॥

एवं विचित्रशक्तिकपरमात्मविषयां कर्मयोगाद्यंचंगिकां विद्यामुपदिश्य अनन्तरं त्रिभिश्श्लोकै: केवलकर्मावलम्बिनः केवळविद्यायलम्बिनश्च पुरुषान्विनिन्दन वर्णाश्रमधर्मानुगृहीतया विद्ययैव निश्श्रेयसावाप्तिमाह – अन्धं तमः प्रविशन्ति इत्यादिना ।

बृहदारण्यके चायं मन्त्रः पठितः । ये – भोगैश्वर्यप्रसक्ताः, अविद्याम् – विद्यान्यां । कियां केवलकर्म इत्यर्थः । विद्याविधुरं कर्मेति यावत् । “अविद्या कर्मसंज्ञान्या तृतीया । शक्तिरिष्यते” (वि.पु.6-7-61) इति स्मृतेः । उपांसते – एकान्तमनसोऽनुतिष्ठन्ति; ते अन्धं तमः – अतिगाढं तमः अज्ञानमित्यर्थः । त्रिवर्गाभिषड्गान्नान्तरीयं नारकं तमो वा। अधीयते च आथर्वणिकाः –

‘प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।

एतच्छेयो येभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि यन्ति।। (मु.उ 1-2-7) इति ।

य उ विद्यायां रताः – उकार उत्तरपदेनान्वेतव्यः । ये – स्याधिकारोचित कर्मपरित्यागेन विद्यायामेव रताः – ते ततः – कर्ममात्रनिष्ठप्राप्य अन्धः तमसात्  भूय इव तमः – अधिकम् अज्ञानं विशन्ति । ‘इव’ शब्द तमसः इयत्ताया दुर्ग्रहत्वं  द्योतयति ।

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ 10 ॥

किं तर्हिमोक्षसाधनमित्यत्राह – अन्यदेवाहुः इति । विद्यया इति पंचम्यर्थे तृतीय यथाश्रुतत्वे अन्यशब्दानन्वयात्, ‘अन्यदेवाहुस्सम्भवात् (ई.उ.13) इति वक्ष्यमाणानुसाराच्च । तथा विद्यायाः – कर्मरहितविद्यातः, अन्यत् – मोक्षसाधनम्  इत्याहुः । उपनिषद इति शेषः । अविद्यया – इति पूर्ववत् पंचम्यर्थे तृतीया । अविद्यातः ब्रह्मज्ञानविधुरकर्मणश्च अन्यदेव मोक्षसाधनम् इत्याहुः । उपनिषद इति भावः।।

पूर्वपूर्वसम्प्रदायसिद्धोऽर्थोऽयमस्माकम् इत्याह – इति शुश्रुम इति । येपूर्वाचार्याः नः – प्रणिपातादिभिः सम्यगुपसन्नानाम् अस्माकम्, तत् – मोक्षसाधनम्, विचचक्षिरे – विविच्य उपादिशन्, तेषां धीराणाम् – धीमताम् । पंचम्यर्थे षष्ठी। तेभ्यो धीरेभ्य इति योजनीयम्, नटस्य श्रृणोति’ इतिवत् । नटाच्छृणोति इत्यर्थः । इति शुश्रुम एवं प्रकारम् अश्रौष्म।

ननु – परोक्ष एवार्थे लिड्विधानात् ‘शुश्रुम’ इति लिडुत्तमपुरुषो न घटत इति चेत् – मैवम् ; ब्रह्मविद्याया दुरवगाहत्वेन निश्शेषग्रहणम् अस्माभिः न कृतम् इत्यभिप्रायं कृत्वा लिडुत्तमस्योपपत्तेः इत्याहुः ।।

विद्यां चाविद्यां च यस्तद्वेदोभयँ सह ।

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ 11 ॥

“अन्यत्” इति सामान्येनोक्तं मोक्षसाधनं विवृणोति विद्यांचाविद्यां च इति ।

“कुर्वन्नेवेह कर्माणि” इति श्लोके कर्मयोगस्य प्रत्यगात्मदर्शनद्वारा परभक्त्युत्पादकत्वम् उक्तम्, इह तु उत्पन्नभक्तियोगेन विदुषा पूर्वोक्तकर्मयोगवेषं परित्यज्य अहरहरनुष्टीयमानानां नित्यनैमित्तिककर्मणां कल्मषनिबर्हणद्वारा भक्तियोगोपचायकत्वम् उच्यते, सहशब्दस्वारस्यात् । अतो न पुनरुक्तता।

य:- यथायस्थितविद्योपदेशवान् । विद्याम् – ब्रह्मोपासनरूपाम् । अविद्याम् तदंग भूतकर्मात्मिकां च एतदुभयम् । सहवेद – अंगांगिभावेन सह अनुष्ठेयं वेद इत्यर्थः। अत्र अविद्याशब्दः क्षत्रियविषयकाब्राह्मणशब्दवत् तदन्यवृत्त्या विद्यांगकर्मविषय इति भावः । अविद्यया – ‘विद्यांगरूपतया चोदितेन कर्मणा, मृत्युम्  – विद्योत्पत्तिप्रतिबन्धकभूतं पुण्यपापरूपं प्राक्तनं कर्म । तीर्त्वानिरवशिषमुल्लंध्य विद्यया – परमात्मोपासनरूपया। अमृतमश्नुते – मोक्षं प्राप्नोति इत्यर्थः । तीर्त्वा इत्यत्र उपायविरोधितरणम् उच्यते । ‘अमृतमश्नुते’ इति तु उपेयब्रमप्राप्तिविरोधिभूतेभ्यः सर्वपापेभ्यो मोक्ष इति भेदः ।।

उपवृम्हणयियरणम्

एवं च सति –

इयाज सोऽपि सुबहून्यज्ञान ज्ञानव्यपाश्रयः ।

ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ।। (वि.पु.6-6-12)

ज्ञानव्यपाश्रयः – शास्त्रश्रवणजन्यब्रह्मज्ञानवान् । ‘सः – जनकोऽपि ब्रह्मविद्याम् – निदिध्यासनरूपाम् । अधिष्ठाय — फलत्येन आश्रित्येत्यर्थः : भक्तियोगोत्पत्तिं कामयमान इति यावत् । मृत्युं – भक्त्युत्पत्तिविरोधि प्राचीनं कर्मजातम, अविद्यया – अनभिसंहितफलेन यिद्यांगकर्मणा, तर्तुं – व्यपोहितम्, सुबहून् यज्ञान् – ज्योतिष्टोमादिकान् इयाज – अकरोत इत्यर्थः । “पाकं पपाच” इतिवत्  । यथा – “कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः” (म.भा.शां.276) परमभगवदाराधनरूपाणि इति अनभिसंहितस्वर्गादिफलानि कर्माणि कषायस्य उभयविधपापस्य तज्जन्यरागद्वेषादेर्वा पक्तिः विनाशकारणानि । ज्ञानं तु परमागतिः परमगतिसाधनमित्यर्थः । उभयत्रापि कारणे कार्योपचार: ।

“कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते” । (म.भा.शां.276) ।

“तपो विद्या च विप्रस्य निश्रेयसकरावुभौ।

तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते” ।। (म.स्मृ.12-104)

इत्यादीन्युपबृम्हणशतानि सुसंगतानि भवेयुः।

अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते ।

ततो भूय इव ते तमो य उ संभूत्याँ रताः ॥ 12 ॥

एवं समाधिनिष्पत्तेः । अनभिसंहितफलनित्यनैमित्तिककर्मसाध्यत्वमुपदिश्य अनन्तरं त्रिभिश्श्लोकै: निषिद्धनिवृत्तिरूपयोगांगसाध्यत्वमाह । तत्र प्रथमं पूर्ववदेकैकमात्रनिष्ठान्विनिन्दति – अन्धं तमः प्रविशन्ति इति ।

सम्भूतिविनाशयोरेकैकस्योपासनस्य त्याज्यता

“एतमितः प्रेत्याभिसम्भवितास्मि” (छां.उ.3-14-4) “ब्रह्मलोकम् अभिसम्भवामि” (छां.उ.8-13-1) इत्यादिषु प्राप्तिरूपा अनुभूतिः सम्भूतिशब्देन उक्ता । इह तु समाधिरूपा सा सम्भूतिशब्देन उच्यते । असम्भूतिशब्दस्तु समाधिरूपां सम्भूत्यन्यां समाध्यंगभूतां निषिद्धनिवृत्तिमाह । “सम्भूतिं च विनाशं च” इत्युत्तरत्र विनाशशब्देनासम्भूतैरनुयादात् । तथा च ये – विद्याधिकारिणः असम्भूतिमेव मानदम्भहिंसास्तेयादीनां योगविरुद्वानां निवृत्तिमेवोपासते – निवृत्तिमात्रनिष्ठा: इत्यर्थः; “ते ‘अन्धं तमः प्रविशन्ति” इति पूर्ववदर्थः । ये पुनस्समाधिरूपसम्भूत्यामेय रताः, ते ततो भूय इव – बहुतरमिय तमः प्रविशन्तीत्यर्थः |।

अन्यदेवाहुः संभवादन्यदाहुरसंभवात् ।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ 13 ॥

किं तर्हि मोक्षसाधनमित्यत्राह – अन्यदेवाहुः इति । सम्भयात् – सम्भूते:, असम्भवात्, असम्भूवेरित्यर्थः । केवलात्सम्भवादसम्भवाच्च अन्यदेव मोक्षसाधनम् इत्युपनिषद आहुः । लिडुत्तमः पूर्ववत् । स्पष्टमयशिष्टम्।।

संभूतिं च विनाशं च यस्तद्वेदोभयँ सह ।

विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ॥14 ॥

मानदम्भादिनिवृत्यंगकब्रह्मानुभूतेः मुक्तिसाधकत्यम्

“अन्यत्” इत्युक्तं विवृणोति — सम्भूतिं च इति । सम्भूतिं च – समाधिरूप ब्रह्मानुभूतिं च, विनाशं च – मानदम्भहिंसास्तेयबहिर्मुखेन्द्रियवृत्तिविशेषरूपाः ये। योगविरोधिनः, तेषां विनाशं वर्जनं चेत्येतदुभयं यो विद्वान् अंगांगिभावेन सह वेद, विनाशेन – निषेव्यमाणेनेति शेषः । विरोधिनिवृत्तिरूपयोगगिसेवनेन इत्यर्थः ।। मृत्युम् – समाधिविरोधिपापम् । तीत्वा – अपाकृत्य, निष्पन्नया सम्भूत्या अमृतम् अश्नुते – प्राप्तिरूपां सम्भूतिमेव अश्नुत इति भावः ।।

पूर्वोक्तानुसन्धाने श्रुतिप्रामाण्यम्

अयमेव दम्भादिविनाशो बृहदारण्यके ‘तस्मादब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृ.उ.5-5-1) इति बाल्यशब्देन विद्यांगतया विहितः । अत्र सम्भूतिविनाशशब्दाभ्यां सृष्टिप्रलयविवक्षया कार्यहिरण्यगर्भस्य अव्याकृतप्रधानस्य च उपासनं विधीयत इति शांकरव्याख्यानमनुपपन्नम्, तथा सति मृत्युतरणामृतत्वप्राप्तिरूपफलवचनानौचित्यात् इति ।।

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥15 ॥

एवमाचार्यः सांगिभक्तियोगमुपदिश्य अथ तन्निष्ठस्य अनुसन्धेयं मन्त्रद्वयम्  उपदिशति । तत्र प्रथमेन मन्त्रेण पूषशब्दविवक्षितं भगवन्तं प्रति प्रस्ततां समाधिप्रतिबन्धकनिवृत्तिं प्रार्थयते हिरण्मयेन इति ।

हे पूषन् – आदित्यान्तर्यामिन् “य आदित्ये तिष्ठन्” (बृ.उ.5-7-13) इत्यारभ्य “य आदित्यमन्तरो यमयति” (बृ.उ.5-7-13) इति श्रुतेः ; शास्त्रदृष्ट्या तूपदेशो वामदेववत् (ब्र.सू. 1-1-31) इति न्यायाच्च।।

यद्वा, पूषन् ! आश्रितपोषणस्वभाव ! इत्यर्थः । “साक्षादप्यविरोधं जैमिनि:” (ब्र.सू.1-2-29) इति सूत्रितत्वात् । सत्यस्य – सत्यशब्देन अत्र प्रकृत्यादिवत्। स्वरूपविकाररहितो जीवात्मोच्यते । “सत्यं चानृतं च सत्यमभवत्” ( तै.आन, 6-3) इत्यादिषुजीवेऽपि सत्यशब्दप्रयोगात् । तस्य मुखम्-मुखवत् अनेकेन्द्रियावष्टम्भतया मुखसदृशं मन इत्यर्थः । हिरण्मयेन – हिरण्मयसदृशेन, कर्माधीनभोग्यवर्गेणेति यावत् । पात्रेण – परमात्मविषयकवृत्तिप्रतिरोधकेन अपिहितम् – छादितम्, हृदिनिहते परमात्मविषये निरुद्धवृत्तिकं जातमित्यर्थः । तत् – जीवस्य मुखस्थानीयं मनः त्वम् ।। हृषीकाणामीशः त्वम् अपावृणु – निरस्ततिरोधानं कुरु इत्यर्थः । तत्कस्य हेतोः ? तत्राह – सत्यधर्माय – सत्यस्य जीवस्य धर्मभूतायै दृष्टये । दृष्टिः – दर्शनम्, त्यद्दर्शनायेति भावः ।।

पूषन्नेकर्षे यम सूर्य   प्राजापत्य व्यूह रश्मीन् समूह   तेजो

यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरूषः सोऽहमस्मि ॥ 16 ॥

पुनरपि तया दृष्ट्या दृष्टव्यं विशिषन् दर्शनं तत्साधनं चाभ्यर्थयते – पूषन् इति|

पूषन् – आश्रितपोषक । एकश्चासावृषिश्च एकर्षिः – अद्वितीयोऽतीन्द्रियार्थदृष्टा। “नान्योऽतोऽस्ति दृष्टा” (बृ.उ.5-7-23) इति श्रुतेः । यम-यमयति सर्वान् इति यमः, सर्वान्तर्यामिन् । “य:” पृथिवीमन्तरो यमयति – – – – – – य आत्मानमन्तरो यमयति’ (शत,ब्रा.14-5-7, 30) इत्यादिश्रुतेः। सूर्य – स्यभक्तबुद्धीनां सुष्ठु प्रेरक । प्राजापत्य – प्रजापतिः चतुर्मुखः, तस्य सुताः प्राजापत्याः, तेषामन्तर्यामिन् । यद्वा – प्रजापतिरेव प्राजापत्यः, वैश्वानर इतिवत्, विश्वानर एव हि वैश्वानरः ; तथा च प्रजानां पतिरिति व्युत्पत्त्या प्रजापतिः विष्णुः ‘प्रजापतिश्चरति गर्भे अन्तः’ (तै.ना.1-1) इति श्रुतेः । च्यूह रश्मीन् – भवदीयदिव्यरूपदर्शनानुपयुक्तान्  स्वोग्ररश्मीन, व्यूह – व्यपोह विगमयेत्यर्थः । यत्तु दर्शनौपयिकं प्रभात्मकं सौम्यं तेजः – तत् समूह – समूहीकुरु । तत्किमर्थमित्याशंक्य अर्जुनादिवदृष्टुमिच्छामि ते रूपमित्याह – यत् इति । “आदित्यवणं तमसः परस्तात्” (पु.सू) इत्यादिषु प्रसिद्धमित्यर्थः । ते – “आनन्दो ब्रह्म” (तै.भू.2-1) इति निरतिशयभोग्यस्य तव अतिकल्याणतमं सौन्दर्यादिगुणातिशयेन प्रियतमं सर्वेभ्यः कल्याणगुणेभ्योऽतिशयितं कल्याणं च शुभाश्रयभूतमित्यर्थः । ते – यद्दिव्यं रूपं तत् पश्यामि – पश्येयमिति लिडर्थो ग्राह्य: ।। लकारव्यत्ययश्छन्दसः । दृष्टुमिच्छामि इति भावः ।।

भगवद्विग्रहस्य दिव्यत्वम्

“अकायमव्रणम्” (ई.उ.8) “अशरीरं शरीरेषु” (क.उ.2-22) “अपाणिपादो जवनो ग्रहीता” (श्वे.उ.3-19) इत्यादि सामान्यवचनानि, “अजायमानः” (पु.) “अजोऽपि सन्नतव्ययात्मा” (भ.गी.4-6) न चास्य प्राकृता मूर्तिः” (वरा.पु.75-42) इत्यादि विशेषवचनसिद्धहेयशरीरप्रतिषेधपराणि ।

ननु “यत्ते रूपं कल्याणतमं”, “य एषोऽन्तरादित्ये हिरण्मयः पुरुषः” (छां.उ.1-6-6) “ईशावास्यमिदं सर्वम्” (ई.उ.1) “पतिं विश्वस्यात्मेश्वरम्” (तै.ना. ) “सर्वकर्मा सर्वगन्धः” (छां.उ.3-14-2) स्वाभाविकी ज्ञानबलकृिया च (श्वे.उ.6-8) “तस्य ह या एतस्य ब्रह्मणो नाम सत्यमिति” (छा.उ.8-3-4) “तस्योदिति नाम” (छां.उ.1-6-7) इत्यादिभिः शास्त्रैर्गुणविग्रहादयो ब्रह्मणोऽपि विधीयन्ते ; “निगुर्णम्” (आत्मोपनिषत् ) “निरंजनम्” (श्वे,उ.6-19) “अविकाराय” (वि.पु.1-2-1) “अकायमव्रणम्” (ई.उ.8) “नेह नानास्ति किंचन” (क.उ.4-11) “निष्कलं निष्क्रियम्” (श्वे.उ.6-19) “अगोत्रमवर्णम्” (मु.उ.1-1-6) अगोत्रमिति – अनामकमित्यर्थः । एवमादिभिश्शास्त्रै: गुणादयः प्रतिषिध्यन्ते । तथा च विधिप्रतिषेधयोः विरोधादन्यतरबाधोऽग्वश्यभायी. तत्र निषेधस्य प्रसक्तिपूर्वकतया पश्चात्प्रवृत्त प्रतिषेधशास्त्रमपच्छेदाधिकरणन्यायेन प्रबलम् । अतः प्रतिषेधबलेन गुणादिविधयः सर्वे बाधिताः । ततश्च अविद्याख्यदोषपरिकल्पिता गुणविग्रहादयो मिथ्याभूता इति ।

तदिदमनादरणीयम् पशुच्छागनयेन, उत्सर्गापवादनयेन च विधिनिषेधयो: भिन्नविषयत्वोपपादनेन तयोर्विरोधगन्धाभावात् । विधीनां प्रतिषेधबाध्यत्वानुपपत्तेः । तदुक्तं यदाचार्यैस्तत्त्वसारे –

यद्ब्रह्मणो गुणविकारशरीरभेदकर्मादिगोचरविधिप्रतिषेधवाचः ।

अन्योन्यभिन्नविषया न विरोधगन्धमर्हन्ति तन्नविधयः प्रतिषेधबाध्याः’ ।। (त.सा.69) इति ।।

अथ अन्तर्यामिणम् अहंग्रहेणानुसन्धत्ते – योऽसावसौ पुरुषस्सोहमस्मि इति । असावसाविति वीप्सा आदरार्था । यद्वा – अदश्शब्दौ विभज्य यत्तच्छब्दाभ्याम् । अन्येतव्यौ । कथमिति चेत् – इत्थं – योऽसौ पुरुषः, अहं सोऽसावस्मीति ।

पुरुषशब्दस्य परमात्मार्थकत्वस्थापनम्

यद्यपि पुरुषशब्दः “प्रकृतिं पुरुषं चैव विध्यनादी उभावपि” (भ.गी. 13-19) ‘योगो योगविदों नेता प्रधानपुरुषेश्वरः’ (वि.स.3) इत्यादिषु जीववाचितया प्रसिद्धः; तथापि “तेनेदं पूर्णं पुरुषेण सर्वम्” (श्वे.उ.39, मु.उ.1-1-7) “पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम्” (तै.आर.1-23) “महान् प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः” (श्वे.उ.3-12) इत्यादिश्रुत्या पूर्णत्वपूर्वसत्त्यादिगुणकसर्ववेदपठितपुरुषसूक्तादिप्रसिद्धो महापुरुष एव इह पुरुषशब्देन विवक्षितः ।

जीवब्ह्मणोरसामानाधिकरण्यम्

ननु “योऽसौ पुरुषस्सोऽसावहमस्मि” (म.स्मृ.1-7) इति कथं सामानाधिकरण्यम्  अहंपदार्थस्य जीवात्मनः परमपुरुषादभिन्नत्वात् इति चेत् न – अहंशब्देनापि अस्मदर्थान्तर्यामिण एवाभिधानेन अहं स इति निर्देशस्य सुसंगतत्वात् । ननु च  अहंशब्दस्य प्रत्यगर्थान्तर्यामिपरत्वे सोऽस्मीत्युत्तमपुरुषो न घटते, नहि मदन्तर्यामि परमपुरुषोऽस्मीति अन्ययो युज्यते -इति चेत् उच्यते । मदन्तर्यामीत्यादिशब्दान्तरेणो पस्थापिते प्रत्यगर्थान्तर्यामिणि उत्तमपुरुणान्ययासम्भवेऽपि अहमित्यस्मत्पदोप  स्थापिते तस्मिन्नुत्तमपुरुषान्वयो युज्यत एव । तथा हि पाणिनिसूत्रम् “अस्मद्युत्तमः” (पा.सू.1-4-107) इति । प्रत्यगर्थबोधकास्मच्छब्दोपपदे उत्तमपुरुषो भवतीत्यर्थः । न पुनरस्म-च्छब्दस्यप्रत्यगर्थद्वारापरमात्मपर्यन्ततायामुत्तमनिवृत्तिरिति,”अधिकंतुप्रविष्टं न तु तद्धानिकरम्” इति न्यायात् ।।

एवं “तत्त्वमसि” (छां.उ.6-8-7) इत्यादिष्वपि असीति मध्यमपुरुषो निर्वाह्य: ।। त्वंपदेनाभिमुखचेतनद्वारेव तदन्तर्यामिणोऽभिधानाभ्युपगमात् । तत्रापि “युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः” (पा.सू.1-4-105) इत्येतावदेव हि स्मर्यते । न तु युष्मच्छब्दस्य स्याभिमुखचेतनद्वारा तदन्तर्यामिपर्यन्तत्वे मध्यमनिवृत्तिरपि ।।

अद्वैतिनां मते मध्यमोत्तमपुरुषानुपपत्तिः

ये तु “तत्त्वमसि” (छां.उ.6-8-7) “सोऽहमस्मि” (छां.उ.4-11-1) इत्यादावहंत्वमादिशब्दे युष्मदस्मदर्थपरित्यागेन निर्विशेषचिन्मात्रस्वरूपैक्यमेव वाक्यवेद्यमाहुः, तानेव “तत्त्वमसि” (छां.उ.6-8-7) इत्यादिवाक्येषु असिरिव “सोऽहमस्मि” इति । वाक्यस्थास्मिरपि खण्डयति। श्रोतर्यनुसन्धातरिचयुष्मदस्मदी हितैः परित्यक्ते । नहि। तेषामसिना कश्चित्प्रतिबोधनीयोऽस्ति, न च कश्चिदस्मिना विशिष्यानुसन्धेयः।

ननु प्रकृते युष्मदस्मदर्थयोः अविवक्षायामपि तयोः व्युत्पन्नयुष्मदस्मच्छब्दो पपदमात्रोपजीवनेन अस्मत्पक्षेऽपि क्वचिन्मध्यमोत्तमयोरूपपत्तिरिति चेन्न, ततोऽप्य। परित्यक्तप्रवृत्तिनिमित्तकस्य अस्माकं निर्वहणस्यैवानुसर्तुमुचितत्वात् ।

पक्षान्तरे मध्यमोत्तमपुरुषोपपत्तिः

अपरेत्वाहः “योऽसावसौ पुरुषस्सोऽहमस्मि” इत्यत्र पुरुषशब्देन परमपुरुषो न विपक्षणीयः, तथा सति अस्मीत्युत्तमस्य पुरुषः’ इत्याख्यायाः “सोऽहम्” इति च सामानाधिकरण्यस्य क्लेशेन निर्वाह्यत्वात् । ततो वरमत्र पुरुषशब्दस्य परिशुद्धजीवात्मपरत्वम् आश्रयितुम् । एवं च सति यः पुरुष: मुक्तदशाभाव्याकारः परिशद्धजीवात्मा सोहमस्मीत्यन्वयात् उत्तमस्य ‘पुरुणः’ इत्याख्यायाः सामानाधिकरण्यस्य च अतिस्वरसो निर्वाह इति ।

नायं पक्षस्साधुः – तथा भवत्वेवमिह निर्वहणं, तथापि “तत्त्वमसि” (छां.उ.6-8-7) इत्यत्रतत्पदस्यत्वं वा अहमस्मि भगवोदेवते “अहं वै त्वमसि” (वरा.उ.2-34) इत्यादिषु त्वंपदस्य च परदेवतावाचकत्येन त्वदुक्तनिर्वाहस्य तत्राभावात् अकामेनापि तत्र अस्मदुक्तनिर्वाहस्य समाश्रयणे तत्समानन्यायतया अत्रापि तस्यैव अनुसर्तुम् । उचितत्वात् इति ।

मध्यमोत्तमपुरुषव्यवस्थासमर्थनम्

स्यादेतत् । “त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि” (वरा.उ. 2-34) इत्यत्र कथं पुरुषव्यवस्था ? त्वमहं पदयोरुभयोरपि श्रवणात् ।

उद्देश्यविषयकमेव युष्मदादिपदम् उपपदत्वेन पाणिनिसूत्राभिमतम्, तथा च उद्देश्यसमर्पकोपपदवशादेव अत्र मध्यमोत्तमयोर्व्यवस्था सिद्धयतीति चेत् – अस्त्वेवमिह समाधानं ; तथापि “तत्त्वमसि” (छां.उ.6-8-7) इत्यत्र पुरुषव्यवस्था न घटते, तत्र त्वंपदयोगवत् तत्पदयोगस्यापि सत्त्वात् । तथा च असीतिवत् अस्तीति प्रथमपुरुषस्यापि प्रसंगः, न ह्यत्रापि त्वंपदम् उद्देश्यसमर्पकं, येन त्वंपदमेव पुरुणनिमित्त न तत्पदमपीति व्यवस्था स्यात् ।

तथा च तत्त्वमसिनिरूपणावसरे भाष्यं “नात्र किंचिदुद्दिश्य किमपि विधीयते” (श्री.भा. 1-1-1) इति । तस्मात् तत्त्वमसि (छां.उ.6-8-7) इतिवत् तत्त्वमस्तीति प्रयोगोऽपि दुर्निवार इति ।

अत्रोच्यते – ‘तत्त्वमसि (छां.उ 6-8-7) इत्यत्रापि त्वंपदार्थ उद्देश्य एव । ततश्च उद्देश्यविषयकयुष्मत्पदवशात् तत्र मध्यम एवेति न प्रथमपुरुषप्रसंगः ।

नन्येवं भाष्यविरोध इति चेन्न – भाष्यस्य विधेयांशमात्रनिषेधपरतया उद्देश्यांशनिषेधकत्वाभावात् । तथा हि न ह्येवं भाष्याभिप्रायः, नात्र किंचिदुद्दिश्यते,न च किंचिद्विधीयते इत्यपि ।।

तर्ह्येवं भाष्याभिप्राये त्वंपदेन किंचिदुद्दिश्यत एव, किन्तूद्दिष्टेन किंचिद्विधीयत इति कथमिदमवगम्यत इति चेन्न, प्राप्तस्यैव उपसंहारकत्वोपपादकभाष्येणैव विधेयांश एय निषिध्यते इत्यभिप्रायस्य व्यक्तत्वात् ।।

उपचारपक्षनिराकरणम्

अन्योऽप्याह – ‘त्वं राजासि’ ‘अहं राजास्मि’ इत्यादिवत् तादधीन्याद्युपचारविवक्षया ‘तत्त्वमसि’ ‘सोऽहमस्मि (छा.उ.4-11-1) इत्यादिषु मध्यमोत्तमसामानाधिकरण्यानां सामंजस्यमिति, तदप्युपेक्षणीयमेव । लोकवेदयोश्चेतनपर्यन्तदेवमनुष्यादिव्यवहारबलेन जातिगुणशब्दवत् मुख्यवृत्त्यैव निर्वाहसम्भवे उपचारकल्पनस्य अन्याय्यत्वात् इत्यलं विस्तरेण ।।

वायुरनिलममृतमथेदं   भस्मान्त्ँशरीरम् ।

ओं क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥ 17 ॥

एवं परावरतत्त्वविवेकपरमनिश्श्रेयससाधनभूतसांगभक्तियोगं तन्निष्ठस्य अनुसन्धेयमन्त्रद्वय च उपदिश्य इदानीं भक्तियोगे ज्ञानशक्त्यादिशून्यतया शरणागतिमवलम्बमानानां तदनुष्ठानमन्त्रौ उपदिशति ।।

शरणागतिपरतया मन्त्रविवरणम्

यद्यप्यागमे आचार्यैः इमौ शरणागतिमन्त्राविति रहस्यत्वात् कण्ठरवेण नाऽभिहितौ ; तथापि प्राज्ञानाम् अर्थसामथ्र्यात् यथा तत्परत्वावगमः सुशकः ; तथा तयोः श्लोकयोः अर्थवर्णनं कृतम् । अभाषि च इत्थमन्ते –

“व्यक्ताव्यक्ते वाजिनां संहितान्ते व्याख्यामित्थं वाजिवक्त्रप्रसादात् ।

वैश्वामित्रो विश्वमित्रं व्यतानीद्विद्वच्छात्रप्रीतये वेंकटेशः।। ( ई.उ.वे.भा.18) इति । अत्र “

“विच्छात्रप्रीतये” इत्यनेन स्वप्रबन्धस्य निगूढाभिप्रायत्वं व्यंजितम् ।

एवमाचार्याभिप्रायविषयत्वात् शरणागतिपरतया मन्त्रद्वयं व्याख्यास्यते । तत्र “वायुरनिलम्” इति प्रथमश्लोकः पूर्वखण्डसमानार्थकः । “अग्ने नय” (ई.उ.18) इत्यादिश्च अपरश्लोक उत्तरखण्डसमानार्थकः । तथा च –

“प्राप्यस्य ब्रहमणो रूप प्राप्तुश्च प्रत्यगात्मनः ।।

प्राप्त्युपायं फल प्राप्तेस्तथा प्राप्तिविरोधि च” ।। (हा.सं.)

इत्येवमाद्याः पूर्वोत्तरखण्ड्योर्विशोधिता ये पदार्थाः, ये च वाक्यार्थभेदाः, ते सर्वेऽपि इह पूर्वोत्तरयोः श्लोकयोः अनुसन्धेयाः ।

ब्रह्मणि आत्मसमर्पणम्

“’सर्वोपायविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।

एतज्ज्ञानं च योगश्च शेषोऽन्यो ग्रन्थविस्तर:” ।। (द.स्मृ.)

इत्यादिशास्त्रैः प्रोक्षणादिभिः समिदादिकमिवपरिशुद्धस्वरूपयाथात्म्यज्ञानेनसंस्कृत्यैव आत्महविस्समर्पणीयमित्युक्तत्वात् इहापि शरीरेन्द्रियादिभ्यो विविक्तं स्वात्मानं प्रथमं यिशोध्य ब्रह्मणि समर्त्य स्वाधिकारानुगुणमर्थयते-वायुः इति। “भोक्ता भोग्यं प्रेरितारं च मत्वा” (श्वे.उ.1-12) इत्यादिश्रुत्यन्तरप्रसिद्धः चिदचिदीश्वरतत्वक्रमः इहापि दृष्टव्यः । वायुः – विद्याकर्मानुगुणभगवत्संकल्पवशेन तत्र तत्र गन्तृत्वाद्वायुः अनेन जीवस्य अणुपरिमाणत्वं परमात्माधीनत्वं च सिद्धयति । “या गति-गन्धनयोः” (पा.धा.1050) इति धातुः । निलयनरहितत्वात्क्वचिदपि व्यवस्थितत्वाभावाच्चअनिलम् । अमृतम् – प्रियमाणेपि देहसन्ताने स्वयममृतं स्वरूपतो धर्मतश्च अविनाशीत्यर्थः। “अविनाशी या अरेऽयमात्मा अनुच्छित्तिधर्मा”  ( बृ.उ.6-5-14) “न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते” (बृ.उ.6-3-30) न विद्यते उच्छित्तिः विनाशो यस्य सः अनुच्छित्तिः नित्य इत्यर्थः । अनुच्छित्तिः ‘धर्मो यस्यासावनुच्छित्तिधर्मेति पुनर्बहुव्रीहिः । नित्यज्ञानवान् इति भावः । आहुश्च यामुनाचार्याः –

“तदेवं चित्स्वभावस्य पुंसः स्वाभाविकी चितिः ।

तत्तत्पदार्थसंसर्गात्तत्तद्वित्तित्वमश्नुते” ।। (आ.सि.23)

इति। इदममृतत्वम् अपहतपाप्मत्वादीनामप्युपलक्षणम्, परिशुद्धजीवविषये प्रजापतिवाक्ये, “य आत्मापहतपाप्माविजरो विमृत्युर्विशोको विजिघत्सोऽपिपास कामस्सत्यसंकल्पः’ (छां.उ.8-7-1) इति पाठात् । “अनिलममृतम्’ इति पदद्वयमपि पुल्लिंगत्वेन विपरिणेयम्, वायुरिति पुल्लिंगत्वेनोपकृमात् । ।

अत्र “वायुश्चान्तरिक्षं च एतदमृतम्” (बृ.उ.4-3-3) इत्यादिकं परामृश्य वाय्वादिशब्दानां भूतद्वितीयविषयकत्वं नाशंकनीयम्; पूर्वापराभ्याम् असंगते, नापि विशिष्टवृत्त्या वायुगतपरमात्मविषयत्वम् आशंकिनीयम् ; नश्वरस्य देहस्य अनन्तरवचनेन तद्यावृत्तप्रत्यगात्मपरत्वस्यैव न्याय्यत्वात्। “क्षरं प्रधानममृताक्षरं हरः क्षरात्मानाविशते देव एकः” (श्वे.उ.1-10) । स्यभोग्यतया प्रधानं हरतीति हरः जीव इत्यर्थः । “क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः” (श्वे.उ.5-1) इति “श्वेताश्वतरीये भोग्यभोक्तृनियन्तृृणां विवेचने अमृतशब्देन प्रत्यगात्मनोऽभिसन्धानदर्शनाच्च अत्रापि अमृतशब्दो जीवात्मपर इत्येव युक्तम् ।।

एवं प्रत्यगात्मस्वरूपस्य “न जायते म्रियते वा विपश्चित्” (क.उ.2-18) इत्यादिप्रसिद्धम् अमृतत्वमभिधाय क्षेत्रस्य शरीरस्य मृतत्वम् अवश्यम्भावीत्याह – अथेदं भस्मान्तं शरीरम् इति । प्रकृतादर्थादर्थान्तरविवक्षयात्राथशब्दः, जीयात्मोत्कुमणानन्तर्यार्थको वा; यद्वा कात्स्न्यपरः । स्मर्यते च –

“ब्रह्मादिषु प्रलीनेषु नष्टे स्थावरजंगमे ।

एकस्तिष्ठति विश्वात्मा स तु नारायणोऽव्ययः”।। ( म.भा.सभा.)

इति । भस्मशब्दो दाहाख्यसंस्कारपरः । स खननादेरपि उपलक्षकः । अथवा “कलेबरं विट्किमिभस्मसंज्ञितम्” इत्यन्यत्र प्रसिद्भक्रिम्यन्तत्वादेरूपलक्षको भस्मान्तशब्दः। त्यागे कृते कुव्यादभक्षितं शरीरं विट्संज्ञितं भवति  खनने किमिसंज्ञितम्, दाहे भस्मसंज्ञितमिति भावः ।

शरीरस्य भस्मान्तोपदेशे प्रयोजनम्

ननु केषुचिच्छरीरेण, प्रत्यक्ष एव विनाशो दृष्टः : अविनष्टेष्वपि अन्येषु । अनुमानात् विनाशित्वं सुनिश्चितम् । अन्यथा शत्रन्प्रति शस्त्रादिकं न प्रयुज्येत ।। स्वयमपि शत्रुप्रयुक्तशस्त्रशरादिकं न निवारयेत । एवं सम्प्रतिपन्नस्य भस्मान्ततार्द: इहुपदेशे किं प्रयोजनम् इति चेत् – उच्यते, आत्मशरीरयोः अमृतत्व मृतत्वरूपविरुद्धधर्मप्रदर्शनेन भेदसमर्थनं तावत् एकं प्रयोजनम्; अपथ्य पथ्यपरिहाररसायनसेयादिभिः किं नित्यत्वं सम्भवेदिति सन्देहापाकरणं द्वितीयम् । स्वजदेहेऽपि वैराग्यजननं तृतीयम् ; विनाशहेतो सति अवश्यं नश्यतीतिवत्। भगवदुपासनादिभिरन्तविनाशस्यापि सम्भावनाद्योतनं चतुर्थम्, शीघ्रं मोक्षोपाये प्रवर्तितव्यम् इति त्वरासंजननं पंचमम् । एवम् उक्तान्यनुक्तानि च प्रयोजनान्तराणि गीताद्वितीयाध्यायतात्पर्यचन्द्रिकायां दृष्टव्यानि ।।

परमात्मवाचक प्रणव:

एवं “भोक्ता भोग्यं प्रेरितारं च मत्वा” (श्वे.उ.1-12) इति क्रमेण चिदचिद्विवेकमुक्त्वा प्रेरितारं प्राकृतं महापुरुषं प्रणवेन उपादत्ते – ओम् इति । यथा आमनन्त्याथर्वणाः “यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत” (प्र.उ.5-5) इति । उक्तं च योगानुशासने “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः सर्वेषामपि गुरुः काले नानवच्छेदात्” (पा.यो.सू.1-24) “तस्य वाचकः प्रणव:” ( पा.यो.सू.1-27) इति । आह च सर्वज्ञः “ओमित्येव सदा विप्राः । पठध्वं ध्यात केशवम्” (हरिवं.वि.133-10) इति ।स्वयंचागायत् “ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्” (भ.गी.8-13) इति । एवं सर्वत्र दृष्टव्यम् ।।

अथवा शरीरमात्मानं च विविच्य विविक्तमात्मानम् अकारवाच्ये परमपुरुषे समर्पयति – ओम् इति । प्रणवस्य आत्मसमर्पणपरत्वम् “ओमित्यात्मानं युंजीत” (तै.ना.78)

“प्रणवो धनुश्शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते।

अप्रमत्तेन वेद्धव्यं  शरबत्तन्मयो भवेत्” ।। ( मु.उ.2-2-4)

इत्यादिषु प्रसिद्धम् ।।

भगवदनुग्रहप्रार्थना

अथ क्रतुरूपिणं भगवन्तं ज्ञानयज्ञगोचरम् अभिमुखीकुर्वस्तदनुग्रहं याचते-कुतो  स्मर। क्रतो – ज्योतिष्टोमादिक्रियात्मक, यथाह “अहं क्रतुरहं यज्ञः” (भ.गी.9-18 इति । यज्ञः पंचमहायज्ञा इत्यर्थः । अथवा क्रतो – भक्तिस्वरूप, “यथाकुतुरस्मिल्लोके पुरुषोभवति तथेतः प्रेत्यभवति” (छां.उ.3-14-1) “स क्रतुं कुर्वीत” (छा.उ.3-14-1) “एवकुतुहम्” (अग्नि.र,10-6-1) इत्यादिषु क्रतुशब्दस्य भक्तियोगेऽपि प्रयोगदर्शनात् भक्तियोगगोचरे भगवति तच्छब्द उपचारात् इत्याचार्याः । रक्षकस्य भक्तियोगस्थाने निवेशने कतो। इति सम्बोधनेन विवक्षितमिति भावः । स्मर – सानुग्रहया बद्धय विषयीकुरु, “स्नेहपूर्णेन मनसा यत् नः स्मरसि केशव” (वरा.च.श्लो) इतिवत् । उक्तं च भगवता ‘स्थिते मनसि’ इत्यारभ्य –

“ततस्तं प्रियमाणं तु काष्ठपाषाणसन्निभम् ।

अहं स्मरामि मद्भक्तं नयामि परम गतिम्” ।। (वरा.च.श्लो) इति ।

अत्र ‘स्मरामि’ ‘नयामि’ इति पदद्वयस्य “क्रतो स्मर” “अग्ने नय” इति ।। प्रार्थनाद्वयापेक्षया प्रतिवचनत्वावगमद्वारा वराहचरमश्लोकद्वयं “वायुरनिलममृतम्” इत्यादिमन्त्रद्वयोपबृहमणमिति भावः । कृतं स्मर – मत्कृतं यत्किंचिदानुकूल्यमनुसन्धाय कृतज्ञस्त्वं मां रक्षेति वा, एतावदन्तं त्वत्कृतमानुकूल्यं प्रतिसन्धाय त्वमेव शेषपूरणं कुरु इति वा भावः । स्मरन्ति हि “जायमानं हि पुरुषम्” (म.भा.शा.358) इत्यादि । त्यरातिशयात् “क्रतो स्मर कृतं स्मर” इत्यावृत्तिः ।।

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ 18 ॥

पुनरपि अग्निशब्दवाच्यं भगवन्तं प्रति इष्टप्राप्तिम् अनिष्टनिवृत्तिं च प्रार्थयते – अग्ने नय इति ।

बृहदारण्यके च सप्तमाध्याये “यदा यै पुरुषोऽस्माल्लोकात्प्रेति स वायुम्”(बृ.उ.7-10-1)  इत्यादिना अर्चिरादिकं पन्थानम् उपदिश्य पश्चात् अध्यायावसाने हिरण्मयेन पात्रेण” (बृ.उ.7-15-1) इत्याद्या एते चत्वारो मन्त्राः क्रमेण पठिताः ।

परमात्मनि अनिष्ठनिवृत्तिपूर्वकेष्टप्राप्तिप्रार्थना

अग्ने -अग्निशरीरक, “यस्याग्निश्शरीरम्” (बृ.उ.5-7-9) इति अन्तर्यामिब्राहमणम्।  यद्वा “साक्षादप्यविरोधं जैमिनिः” (ब्र.सू.1-2-29) इति न्यायेन, अग्र नयतीति अग्निः ; अग्रनयनादिगुणयुक्त नय – प्रवर्तयेत्यर्थः। सुपथा – शोभनमार्गेण  प्रतिषेधस्पर्शरहितेन याजनाध्यापनाद्युपायेन इति यावत् । राये – विद्यार्थशरीरसंरक्षणत्यदर्चनानुगुणाय धनायेत्यर्थ:।

अथवा

“अतस्करकरग्राह्यमराजकयशंवदम्।।

अदायादविभागार्ह धनमार्जय सुस्थिरम् “ (या.स्मृ.2-40) ‘

“अनन्त बत में वित्तम्” (म.भा.शां.17-223) इत्यादिशूक्तम् अलौकिकधनम् इह विवक्षितम् । विद्याप्रकरणानुगुण्यात् । एक एव मन्त्र: प्रकरणादिभिः विशेषितः । तत्तदनुगुणमर्थं बोधयतीति, सम्यङ्न्यायविद इत्याचार्याः । यद्वा अग्ने नय प्रापय इत्यर्थः। सुपथा – अर्चिरादिपथेन, बृहदारण्यकपाठेऽर्चिरादिपथस्य बुद्धिस्थत्वात् ।

“अर्चिरहस्मितपक्षानुदगयनाब्दौ च मारुतार्केन्दून् ।

अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः” (त.सा.102)

इत्यभियुक्तसंगृहीतेन मार्गेण इति भावः । अर्चिरादिमार्गविवक्षापि आचार्याभिप्रेतैव।।

ब्रह्मणो धनत्वसमर्थनम्

राये – इत्यत्र ब्रह्मणः प्राप्यत्वोपवर्णनात् ब्रह्मैव हि सुस्थिरम् अनन्तम् अलौकिकं च धनम् । अत एव तत्र तत्र एवमुच्यते “धनं मदीयं तव पादपंकजम्” (स्तो.र.30) “यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतः” (दे.स्त.1) “यदंजनाभं निरपायमस्ति मे धनंजयस्यन्दनभूषणं धनम्” (दे.प.4)

“न मे पित्रार्जितं दृव्यं न मया किंचिदार्जितम् ।

अस्ति में हस्तिशैलाग्रे वस्तु पैतामहं धनम्”।। (दे.प.6) इति ।

अत्र चैवं शांकरं  व्याख्यानम् – “सुपथा शोभनमार्गेण, सुपथेति विशेषणं दक्षिणमार्गनिवृत्यर्थं ; विषण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन ; अतो याचे त्वां पुनःपुनर्गमनागमनवर्जितेन शोभनेन पथा नयेति” इति ।।

राये – हिरण्यनिधिसरूपाय पुरुषाय ; त्वत्प्राप्तये इति भावः । अस्मानअनन्यप्रयोजनाननन्यगतीश्चेत्यर्थः । न केवलं माम्, अपित्वनुबन्धिजनानपीति बहुवचनस्याभिप्रायः । देव अस्मदपेक्षितप्रदानानुगुणविचित्रजगत्सृष्टिस्थितिसंहारान्तः वेदांश्चप्रवेशनियमनस्वाश्रितविमोचनादिरूपविलक्षणक्रीडायुक्त।

यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।

तं ह देवमात्मबुद्धिप्रसादं मुमुक्षुर्वै शरणमहं प्रपद्ये ।। (श्वे.उ.6-18)

इति मन्त्रेपि देवशब्दस्वैवमेवाभिप्रायः । वयुनशब्दो ज्ञानवाची, “माया वयुनं ज्ञानम्” (निघण्टु 3-9) इति नैघण्टुकोक्तेः । अत्र तु लक्षणया ज्ञातव्योपायपरः । विश्वानि वयुनानि सर्वानपि तत्तदधिकारानुगुणचतुर्विधपुरुषार्थोपायान्ययाद्विद्वान् त्वमविदुषोऽस्मान्नेतुमर्हसीति भावः। “यो वै वेदांश्च प्रहिणोति तस्मै” (श्वे.उ.9-18) इति मन्त्रपदानामप्येतदेय हृदयम् ।|

“मुमुक्षुर्वै शरणमहं प्रपद्ये” (श्ये.उ.9-18) इति मन्त्रगतमुमुक्षुपदं विवृण्वन्नाह – युयोध्यस्मज्जुहुराणमेः इति । “ हृ कौटिल्ये” (पा.धा.211) । जुहुराणम् – कुटिलं बन्धनात्मकमित्यर्थः । यद्वा – अचिन्त्यप्रकारकौटिल्यतया बाधमानम् इति भावः ।। अनेन विशेषणेन अतितीव्रः शोकवेगो द्योत्यते । एनः – अकृत्यकरणकृत्याकरणादिरूपं त्यदुपासनोत्पत्तिप्रतिबन्धकम् इत्यर्थः। त्वत्प्राप्तिप्रतिवन्धकम् इति वा । एनःइत्येकवचन जात्यभिप्रायकम् । वस्तुतस्तु “कियदिदं” निवर्त्यमेनः ? निवर्तकानुरूप हि न भवति ;नहि सर्वशक्तेस्तव इदमनुरूप लक्ष्यम् ; नापि नमउक्ते: ; भूयसी हि सा इति एकवचनस्याभिप्रायः। अस्मत् – अस्मत्तः, युयोधि – पृथक्कुरु, विनाशयेति भावः ।।

यद्वा – पृथक्कुरु, एतावदेव याचे त्वां, जुहुराणम् एनः अस्मत्तः प्रथमं वियोजय इति, तत्पश्चात् यथामनोरथं विनाशयसि चेद्विनाशय, पुरुषान्तरे संक्रामय, नास्ति तत्रास्माकं निर्बन्ध इति भावः ।।

इष्टसाधनतया शरणागतिविधानम्

भूयिष्ठाम् – अनन्यगतित्वादिगुणैरावृत्तितश्च भूयसी, नमउक्ति, ते अयाप्तसमस्तकामतया निरुपाधिकसर्वस्वामितया च नमउक्त्यन्यनिरपेक्षाय ते, विधेम – विदध्महे, व्यत्ययो बहुलमनुशिष्टः । नम उक्तेरनुवृत्तिं वा नाथं प्रति नाथते । “नम इत्येय वादिनः” (म.भा.शां.337-40) इति हि मुक्तानामपि लक्षणं मोक्षधर्मे श्रुतम् । मानस-कायिकयोर्नमसोरभावेऽपि नमश्शब्दमात्रेण त्वं प्रसन्नो भवितुमर्हसीत्युक्तिशब्दाभिप्रायः।

हे अग्ने देय विश्वानि वयुनानि विद्वान् त्वं जुहुराणमेनोऽस्मत्तो युयोधि, सुपथाऽस्मान् राये नय, वयं ते भूयिष्ठां नमउक्तिं विधेम इत्यन्वयः ।  नित्यांजलिपुटा हृष्टा नमउक्तिं विधेम इत्यर्थः । नम इत्येवयादिनो भयामेति भावः।।

अष्टादशमन्त्रप्रतिपाद्यसारांश:

एयमस्मिन्ननुवाके आदितो मन्त्राष्टकस्य चेतनाचेतनरूपमपरतत्त्यद्वयं कर्मयोगज्ञानयोगरूप व्यवहितोपायद्वयं च प्रधानप्रतिपाद्यम् ; उपरितनाष्टकस्य तु परतत्यपरमपुरुषविषयकं भक्तियोगरूपं साक्षात्साधनम् ; अवशिष्टमन्त्रद्यस्य सर्यफलसाधनं प्रपदनं प्रधानप्रतिपाद्यम् ।

गीतायाः षट्कत्रयानुरोधेन मन्त्राणां विभागः

एवं च श्रीभगवद्गीताध्यायेषु प्रथमषट्कं प्रथमाष्टकस्योपबृम्हणम्, द्वितीयषट्कं द्वितीयाष्टकस्य, तृतीयषट्कमवशिष्टमन्त्रद्विकिस्योपबृम्हणम् । तृतीयषृकं हि प्रथममध्यमषट्काभ्याम् उक्ततत्वोपायपुरुषार्थविशदीकरणपूर्वकं शरणागतिविधिप्रधानम् । तत्र चरमश्लोकस्य पूर्वार्धं “वायुरनिलममृतम्” (ई.उ.17) इति मन्त्रोक्तानुष्ठानविधायकम् । उत्तरार्धन्तु “युयोध्यस्मज्जुहुराणमेन:” (ई.उ.18) इति । प्रार्थयमानानां  प्रार्थनापूरणसंकल्पपूर्वकं शोकप्रतिक्षेपकमिति चरमश्लोकोऽप्यस्य मन्त्रदविकस्योपबृम्हणमेवेति सिद्धम् ।

एवं परतत्वतद्विभूतियोगतदुपासनतत्प्रपदनतत्फलविशेषान् संगृह्य संहितेयं समपूर्यत।

वेदान्तगुरुपादाब्जध्याननिर्मलचेतसा ।

वाजिवेदान्तसारार्थः श्रीवत्सांकेन दर्शितः।।

यदिह रहस्य विवृतं यद्वा न्यूनं वचोधिकं यच्च ।

कृपया तदिदं सर्वं देवः क्षमते तथा महान्तोऽपि ।।

|| श्रीरस्तु ||

*****

पूर्णमदः पूर्णमिदं पूर्णात्‌ पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। 

ओ शान्तिः शान्तिः शान्तिः

*******************

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.