तैत्तिरीयोपनिषत् आनन्दवल्ली

तैत्तिरीयोपनिषत्

आनन्दवल्ली

[गुरुशिष्यसंकल्पः]

हरिः ओम्

सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ।। १ ।।

सह नाववतु इत्यादि । अधीतो मन्त्रः नौ – गुरुशिष्यौ सह रक्षतु। अन्यतरस्यापि दोषो मा भूत् इत्यर्थः । पुनरपि तदेव प्रार्थयते – सह नौ भुनक्तु इति। भुनक्तु – पालयतु । भुज पालनाभ्यवहारयोः (धा.पा.१४५५) इति हि धातुः । अवनार्थत्वात् भुजोऽनवने (धा.पा.१४१८) इत्यात्मनेपदाभावः । सह वीर्यं करवावहै इति । अधीतैः मन्त्रैः तत्तत्फलनिष्पादनलक्षणं वीर्यं सह करवाव इत्यर्थः । नौ – आवयोः, अधीतम्, तेजस्वि अस्तु – वीर्यवत्तरमस्तु । मा विद्विषावहै इति । परस्परानुरक्तौ स्याव इत्यर्थः । अन्यतरद्वेषे अधीतमन्त्रस्य वीर्यहानिर्भवतीति भावः । शान्तिः शान्तिः शान्तिः दोषान्तराणामस्त्विति शेषः।।

प्रथमोऽनुवाकः

[आनन्दमयविद्या]

ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता – सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् ।। १ ।।

सोऽश्नुते सर्वान् कामान्थ्सह । ब्रह्मणा विपश्चितेति ।। तस्माद्वा एतस्मादात्मन आकाश: सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भय: पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात् पुरुषः ।। २ ।।

स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिण: पक्षः अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ।। ३ ।।

।। इति प्रथमोऽनुवाकः ।।

परमतत्त्वहितपुरुषार्थप्रतिपादिका आनन्दवल्ली प्रस्तूयते – ब्रह्मविदाप्नोति परम् इति । निरतिशयबृहत्त्वाश्रयवस्तूपासकः सर्वेभ्य ‘उत्कृष्टं प्राप्नोति इत्यर्थः । आवृत्तिरसकृदुपदेशात् (ब्र.सू.४-१-१) इत्यधिकरणोक्तन्यायेन वेदनोपासनादिशब्दानाम् एकार्थत्वात् ब्रह्मवित् इत्यत्र विच्छब्दोऽपि उपासनपरः । तत्क्रतुन्यायेन प्राप्यस्यैव उपास्यत्वात् । ब्रह्मविदाप्नोति परम् इति परस्य ब्रह्मणः प्राप्यत्वकथनात् तस्यैव उपास्यत्वम् इति द्रष्टव्यम् । अत्र – ब्रह्म, तद्वेदनं, प्राप्तिः, प्राप्यं चेति चतुष्टयमुक्तम् । किं तत् ब्रह्म ? कीदृशं तद्वेदनम् ? कीदृशी प्राप्तिः? कीदृशं च प्राप्यम् ? इत्याकाङ्क्षायां मन्त्रमुखेन विवरीतुं मन्त्रम् अवतारयति – तदेषाऽभ्युक्ता इति । तत् – ब्रह्म अभिमुखीकृत्य(प्रतिपाद्यतया परिगृह्य) एषा – ऋक् अध्येतृभिः उक्ता । ब्राह्मणोक्तस्यार्थस्य वैशद्यम्  अनेन मन्त्रेण क्रियत इत्यर्थः । एवमेव हि मान्त्रवर्णिकसूत्रे भाषितम् । सत्यम् इति । अत्र जन्मादि सूत्रे, यतो वा इमानि (तै.भृ.उ.१-२) इत्यादि कारणवाक्येन ‘प्रतिपन्न जगज्जन्मादिकारणस्य ब्रह्मण: सकलेतरव्यावृत्तं स्वरूपम् अभिधीयते सत्यं ज्ञानमनन्तं ब्रह्म इति । तत्र सत्यपदं निरुपाधिकसत्तायोगि ब्रह्माऽऽह । तेन विकारास्पदं अचेतनं तत्संसृष्टश्चेतनश्च व्यावृत्तः । नामान्तर भजनार्हावस्थान्तरयोगेन तयोः निरुपाधिकसत्तायोगरहितत्वात् । ज्ञानपदं नित्यासंकुचितज्ञानैकाकारमाह । तेन कदाचित् संकुचितज्ञानत्वेन मुक्ता: व्यावृत्ताः । अनन्तपदं देशकालवस्तुपरिच्छेदरहितं स्वरूपमाह । सगुणत्वात् स्वरूपस्य स्वरूपेण गुणैश्चाऽऽनन्त्यम् । तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणाः सातिशयस्वरूपस्वगुणाः नित्या: व्यावृत्ताः । विशेषणानां व्यावर्तकत्वात् इति भाषितम् ।

ननु अत्र ज्ञानपदस्य विषयावगाहिज्ञानत्वं प्रवृत्तिनिमित्तं चेत्, स्वरूपस्य अतादृक्त्वात् ज्ञानम् इत्यस्य ज्ञानगुणकत्वमित्यर्थः पर्यवस्येत् । न तु स्वरूपस्य ज्ञानत्वम् । स्वप्रकाशतारूपं ज्ञानत्वं प्रवृत्तिनिमित्तं चेत् स्वरूपस्य “ज्ञानत्वमात्रं सिद्धयेत् । न तु ज्ञानगुणकत्वम् । न चेष्टापत्तिः । तद्गुणसारत्वात्तु तद्व्यपदेश: प्राज्ञवत् (ब्र.सू.२-३-२९) इति सूत्रे यथा सत्यं ज्ञानम् इति ब्रह्मणो ज्ञानगुणसारत्वात् ज्ञानमिति व्यपदेशः इति भाष्यं विरुद्ध्येत इति चेत्, उच्यते – ‘स्वप्रकाशत्वमेव हि प्रवृत्तिनिमित्तम् । तत्र ज्ञानत्वाश्रयत्वम् असंकोचात् स्वरूपतो गुणतश्च सिद्ध्यति; ब्रह्मशब्दात् प्रतीयमानं बृहत्त्वं यथा स्वरूपतो गुणतश्च सिद्ध्यति तद्वदिति व्यासार्यै: उक्तम् । वस्तुतस्तु सत्यं ज्ञानम् इत्यस्य अन्तोदात्तत्वात् अर्श आद्यजन्तत्वेन ज्ञानगुणकत्वमेवार्थः । प्रज्ञानघन एवाऽऽनन्दमयः (रामो.ता.२-३), नित्यं विज्ञानम् (रामो.ता.२-३) इति श्रुत्यन्तरात् ब्रह्मणो ज्ञानस्वरूपत्वमपि अस्तीति द्रष्टव्यम् ।

[श्रुतिस्थानन्तशब्दार्थः]

इहेदम्, नान्यत्र इति परिच्छेत्तुमशक्यत्वं देशापरिच्छेदः । इदमिदानीम्, नान्यदा इति परिच्छेदायोग्यत्वं कालापरिच्छेदः । इदं इदं न इति परिच्छेदानर्हत्वलक्षणं सर्ववस्तु  ‘सामानाधिकरण्यार्हत्वरूपं वस्त्वपरिच्छेदः । यद्वा – वस्तुस्वभावतः परिच्छेदो वस्तुपरिच्छेदः । यथा तुल्यकालत्वेऽपि तुल्यपरिमाणत्वेऽपि दशवर्णसुवर्णापेक्षया – कलधौतादेः अपकर्षः; तद्राहित्यं वस्त्वपरिच्छेदः । समाभ्यधिकराहित्यनिदानभूतो गुणैः निरतिशयप्रकर्षो वस्त्वपरिच्छेदः इत्युक्तं भवति इति व्यासार्यै: व्याख्यातम् । नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते (वि.पु.२-५-२४) इति स्मरणात् गुणानन्त्यम् अनन्तशब्दार्थः । अत्र रूढिवशात् देवताविशेषनिर्णयः । न च अनन्तपदस्य नारायणवाचिन: पुल्लिङ्गत्वं स्यादिति वाच्यम् । इष्टापत्तेः तस्य द्वितीयान्तत्वेन पुल्लिङ्गत्वस्य इष्टत्वात् । द्वितीयान्तत्वाभावे च, यो वेद निहितं गुहायाम् इत्यत्र तच्छब्दाद्ध्याहारप्रसङ्गात् । अनध्याहारेण उपपत्तौ अध्याहारस्याऽन्याय्यत्वात्  । यदि च अनन्तपदयौगिकार्थस्य त्रिविधपरिच्छेदराहित्यस्य नारायणात् अन्यत्र अप्रसक्तया श्रीपत्यादिशब्देष्विव न रूढिः कल्पनीय इत्युच्येत तदाऽपि न नः क्षतिः ।

अत्र सत्यं ज्ञानमनन्तं ब्रह्म इत्यनेन ब्रह्मशब्दार्थो विवृतः । हृदयगुहानिहितत्व प्रकारकज्ञान प्रतिपादकेन यो वेद निहितं गुहायाम् इत्यनेन विच्छब्दार्थ उक्तः । परमे व्योमन् सोऽश्रुते इत्यंशे च आप्नोति शब्दार्थ उक्तः । परमे व्योमन् अप्राकृताकाशशब्दिते परमपदे इत्यर्थः । सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्यनेन प्राप्यम् उक्तम् । काम्यन्त इति कामाः कल्याणगुणाः । मुक्तस्य सर्वविषयविरक्तस्य तद्व्यतिरिक्तकाम्यान्तरासम्भवात् । अथ य इहात्मानमनुविद्य व्रजन्ति, एतांश्च सत्यान् कामान् (छां.उ.८.१-६) इत्यादौ कामशब्दस्य कल्याणगुणेष्वेव प्रयोगात् । विविधं पश्यति चित् यस्येति बहुव्रीहिः । निरुपाधिकानन्याधीनासंकुचित – सर्वविषयक ज्ञानवत्त्वं हि विपश्चित्त्वम् । अयं च गुणो नित्यमुक्तादिव्यावर्तकः ।

ब्रह्मापेक्षयाऽपि तद्गुणानां फलदशायां प्राधान्यं प्रतिपादयितुं ब्रह्मणा सह इति निर्देशः । सहयुक्तेऽप्रधाने (पा.सू.२-३-१९) इति हि पाणिनिस्मृतिः । न च भोग्यतायां गुणापेक्षया ब्रह्मणोऽप्राधान्यं दोषायेति शंक्यम्, श्रियं त्वत्तोऽप्युञ्चैर्वयमिह भणाम: शृणुतराम् (श्री.गुण.९) इतिवत् परमात्मापेक्षयापि तत्कल्याणगुणानां भोग्यतातिशयप्रतिपादनस्य परमात्मातिशयपर्यवसायित्वेन एतादृशाप्राधान्यस्य गुणत्वेन दोषत्वाभावात् । अत एव हि, पुत्रेण सह ओदनं भुङ्क्ते इतिवत् भोक्तृसाहित्यपरत्वे ब्रह्मणो अप्राधान्यप्रसङ्गात् तत्परित्यज्य, पयसा सह ओदनं भुङ्क्ते इतिवत् भोग्यसाहित्यपरत्वमेव, नात्र च पक्षे ब्रह्मणोऽप्राधान्यं दोषायेति भोग्यसाहित्यपक्षः एव भगवता भाष्यकृता समाश्रितः ।।

ननु तेषामृक् यत्रार्थवशेन पादव्यवस्था (पू.मी.२-१-३२) इति, जैमिनिना अर्थवशाधीनपादव्यवस्थावत्त्वस्य ऋग्लक्षणतयोक्तात् सह इत्यस्य पादान्तरस्थस्य ब्रह्मणा इति पादान्तरस्थेन अन्वयो न सम्भवति । ततश्च ब्रह्मणा इति न सहयोगे तृतीया । अपि तु इत्थंभूतलक्षणे तृतीया । सह इत्यस्य च युगपदित्यर्थः । सर्वान् कामान् युगपदनुभवति ब्रह्मणा ब्रह्मभूत इति यावत् । अत एव स्कान्दे –

सोऽश्नुते सकलान् कामान् अक्रमेण सुरर्षभाः ।

विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः ।।

इत्युपबृंहितमिति चेत् – न । तेषामृक् यत्रार्थवशेन इत्यस्य उपलक्षणमात्रत्वात् । उपलक्षणत्वम् अभ्युपगम्यैव तद्व्याख्यातृभिरपि, अर्थवशेन वा वृत्तवशेन वा पादव्यवस्था इति व्याख्यातत्वात् । अभियुक्तानां मन्त्रप्रसिद्धिम् विषयत्व मन्त्रत्वमितिवत् अभियुक्तानां ऋक्पदप्रसिद्धिविषयत्वमेव ऋक्त्वम् । ततश्च पादान्तरस्थेनापि पादान्तरस्थपदान्वयो युक्तः । ब्रह्मणा इत्यस्य इत्थंभूतलक्षणत्वाश्रयणे ब्रह्मभूतः इत्यर्थोऽपि न सम्भवति । श्वेतच्छत्रेण राजा इत्यादौ तथा अभेदादर्शनात् । त्वदुक्तस्कान्दवचनस्य पूर्वै: सम्प्रतिपनै: अनुदाहृतत्वाञ्च भाष्यकृदुक्त एवार्थः । इति शब्दो मन्त्रसमाप्तिद्योतनार्थः ।

सत्यं ज्ञानमनन्तम् इत्युक्तं वस्त्वपरिच्छेदलक्षणम्  आनन्त्यं सर्वोपादानत्वसर्वान्तरत्वमुखेन प्रपञ्चयति-तस्माद्वा इत्यादिना । तस्मात् इत्यनेन ब्रह्मविदाप्नोतिपरम् इति व्यवहित ब्राह्मणोक्तं परामृश्यते । एतस्मादिति सत्यं ज्ञानम् इत्यव्यवहितमन्त्रोक्तं परामृश्यते । ततश्च मन्त्रब्राह्मणोक्तात् एतस्मादात्मन: आकाशः उत्पन्नः इत्यर्थः । अत्र तत्तेज ऐक्षत (छां.उ.६-२-४), ता आप ऐक्षन्त (छां.उ.६-२-४) इति तेजः प्रभृतिषु ईक्षणादिश्रवणात् आकाशवायुतेज आदिशब्दाः तत्तच्छरीरकपरमात्पराः इति, तेजोऽतस्तथा ह्याह (ब्र.सू.२-३-१०) इत्यधिकरणे स्थितम् । पुरुष: शरीरमित्यर्थः । शिष्टं स्पष्टम् । स वा इति । स वै एष पुरुषः – अयं देहः अन्नरसस्य परिणामः । अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुः तत् पुरीषं भवति; यो मध्यम: तन्मांसम् (छां. उ. ६-५-१) इत्याद्युक्तरीत्या जाठराग्निपच्यमानान्तरसांशनिर्वर्त्य-मांसादिमयत्वाच्छरीरस्य इति भावः । तस्य इति । तस्य – देहरूपस्य पुरुषस्य, इदम् – प्रत्यक्षतो दृश्यमानमेव शिरः । पाणिद्वयं पक्षौ । अधस्तात् ग्रीवायाः, नाभेः ऊर्ध्वं परिदृश्यमानः अयं मध्यमो देहभाग: अङ्गानाम् आत्मा । मध्यं ह्येषामङ्गानामात्मा (ऐ.उ.३-५-४) इति श्रुतेः धारकत्वेन प्रधानभूतः इत्यर्थः । इदम् – नाभे: अधस्तात् परिदृश्यमानं चरणद्वयं पुच्छवत् आधारत्वात् पुच्छम् इत्यर्थः । अत्र पुरुषशब्दितमनुष्यपाण्यादेः ‘पक्षत्वादिरूपणं प्रतिपत्तिसौकर्यार्थम् इति द्रष्टव्यम् । तदपि इति । तत् – तस्मिन्नेवार्थे ब्राह्मणोक्ते अयं मन्त्ररूप: श्लोकोऽपि भवति इत्यर्थः ।।

द्वितीयोऽनुवाकः

[अन्नमयकोशमहिमा]

अन्नाद्वै प्रजा: प्रजायन्ते । या: काश्च पृथिवीँश्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः । अन्नँ हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नु वन्ति । योऽन्नं ब्रह्मोपासते । अन्नँ हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते ।। १ ।।

अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।। २ ।।

तस्य प्राण एव शिरः । व्यानो दक्षिण: पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ।। ३ ।।

।। इति द्वितीयोऽनुवाकः ।।

अन्नाद्वा इति । पृथिव्यां वर्तमानाः सर्वाःप्रजा अन्नादेव उत्पद्यन्ते । उत्पन्नाश्च अन्नेनैव जीवन्ति । ‘अन्तकाले च तत्रैव लयं यान्ति इत्यर्थः । अन्नं हि इति । सर्वभूतोपकारकत्वात् अन्नमेव ज्येष्ठम् । अत एव अशनायादिव्याधिनिवर्तकत्वात् तदेव सर्वौषधम् उच्यते इत्यर्थः । ओषधीभ्योऽन्नम् इति ओषधिपरिणामत्वं निमित्तीकृत्य अन्ने प्रयुक्तम् ओषधिशब्दं भेषजत्वनिमित्तकतया श्रुति: व्यपदिशति इति द्रष्टव्यम् ।

सर्वं वा इति । अन्ने ब्रह्मदृष्टिं कुर्वन्त: यावदपेक्षितम् अन्नं प्राप्नुवन्ति इत्यर्थः । ब्रह्मदृष्टिहेतुभूतं ब्रह्मसाम्यमाह – अन्नं हि इति । ब्रह्मणोऽपि सकलरोगनिवर्तकतया सर्वभेषजत्वस्य सत्त्वात् इति भावः । अन्नात् इति । जननवृद्धिहेतुत्वम् अन्नब्रह्मणोः सममित्यर्थः । अन्नस्य निर्वचनमाह – अद्यतेऽत्ति च इति । जीवनदशायां स्वयमद्यते । नाशदशायाम् अलभ्यमानतया वा विपरीतपरिणामहेतुतया वा, अन्नं मृत्यु तमु जीवातुमाहुः (तै.ब्रा.२-८-८) इति श्रुत्युक्तरीत्या अत्तृत्वलक्षणं संहर्तृत्वं द्रष्टव्यम् । एवम् आकाशादेः अन्नरसमय-स्थूलशरीरपर्यन्तस्य ‘मन्त्रब्राह्मणोक्त ब्रह्मोपादानकत्वम्, आत्मन आकाश: इति आत्मशब्दश्रवणात् तदन्तर्यामिकत्वञ्च उक्तं भवति ।

एवम् आकाशादेः अन्नमयशब्दित-स्थूलशरीरपर्यन्तस्य ब्रह्मैव आत्मा, उपादानञ्च इत्युक्त्वा, स आत्मा कः? इत्यपेक्षायाम्, आनन्दमय एव स आत्मा इति दर्शयितुं स्थूलारुन्धतीन्यायेन स्थूलदेहान्तर्वतिनं प्राणमयम् आत्मत्वेन दर्शयति । सूक्ष्मारुन्धतीं दर्शयितुं प्रवृत्तः पुरुषः प्रथमत एव सूक्ष्माया अरुन्धत्याः प्रदर्शनासंभवं पर्यालोच्य तत्समीपवर्तिनीं स्थूलतारकाम्, इयमेवारुन्धती इति प्रदर्शयति । तस्यां स्थूलतारकायां श्रोतुः अरुन्धतीत्वबुद्धौ दृढायां तत्समीपवर्तिनीं वस्तुतोऽरुन्धतीं सूक्ष्माम्, इयमेवारुन्धती इति प्रदर्शयति । सोऽयं स्थूलारुन्धतीन्याय इत्यर्थः । तस्माद्वा इति । देहान्तर्वतीं देहादन्यः यः प्राणमयः, स एव, आत्मन आकाश: सम्भूतः इति आकाशादिसर्वोपादानत्वेन तदन्तर्यामित्वेन च निर्दिष्टः आत्मा इत्यर्थः । भगवता भाष्यकृता – अन्वयादिति चेत् स्यादवधारणात् (ब्र.सू.३-३-१७) इति सूत्रे, अन्नमयान्तरे प्राणमये प्रथमं परमात्मबुद्धिः अवतीर्णा, तदनन्तरञ्च प्राणमयादन्तरे मनोमये, ततो विज्ञानमये, तत आनन्दमये इति भाषितम् । अत्र पञ्चवृत्तेः प्राणस्य ‘प्राणनवृत्ति’प्रचुरत्वात् प्राणमयत्वम् । तेन इति । तेन प्राणमयेन आत्मना अयम् अन्नरसमय आत्मा पूर्ण इत्यर्थः । व्याप्त इति यावत् । सर्वस्यापि देहस्य प्राणव्याप्यत्वादिति भावः । स वा इति । प्राणमयोऽपि पुरुषाकृतिरेव इत्यर्थः । हस्तपादादिमत्त्वेन पुरुषविधत्वभ्रान्तिं व्युदस्यति – तस्य इति तस्य – अन्नमयस्य पुरुषविधत्वमनुकृत्य प्राणमयोऽपि ‘पुरुषविध’ इत्यर्थः । ततश्च तद्वदेव शिरः पक्षपुच्छादिमत्तया ‘पञ्चविध इत्यर्थः । आकाश आत्मा इति । यथाऽऽकाशस्थितो नित्यं वायु: सर्वत्रगो महान् (भ.गी.९-६) इति स्मृत्युक्तरीत्या वायुविकारभूत प्राणापानादि-धारकत्वात् आकाशस्य आत्मत्वम् । पृथिवी इति । पृथिव्याम् आकाशस्य प्रतिष्ठितत्वात् तस्याः पुच्छत्वम् ।।

तृतीयोऽनुवाकः

 [प्राणमयकोशमीमांसा]

प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यत इति ।

तस्यैष एव शारीर आत्मा । य: पूर्वस्य । तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग् दक्षिण: पक्षः । सामोत्तर पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ।।

।। इति तृतीयोऽनुवाकः ।।

प्राणम् इति । देव-मनुष्य-पशवः प्राणम् अनुप्राणन्ति – प्राणाधीनजीवना इत्यर्थः । प्राणो हि इति । यस्मात्सर्वेषां भूतानां यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः (कौ.उ.३-१५) इति प्राणस्य उच्छ्वसन-निश्वसनादिलक्षण सर्वभूतायुर्हेतुत्वम् , अत एव प्राण एव सर्वेषामायुः इत्युच्यते इत्यर्थः । सर्वमेव इति । एवं लक्षणे प्राणे ‘ब्रह्मबुद्धिं कुर्वन्तः सर्वमायुः प्राप्नुवन्ति इत्यर्थः ।

एवं प्राणमये आकाशादि अन्नमयान्तस्य अन्तरात्मत्वबुद्धिं अवतार्य तां बुद्धिं निवर्तयति तस्यैष इति । पूर्वस्य अन्नमयस्य यः आत्मा एष एव तस्य प्राणमयस्यापि आत्मा इत्यर्थः । शारीरः शरीरप्रतिसम्बन्धी आत्मा इत्यर्थः । अनेन आत्म शब्दस्य स्वरूपार्थत्वभ्रान्तिः व्युदस्ता भवति । ततश्च अन्नमय-प्राणमयौ एकात्मकौ । न तु अन्नमयस्य प्राणमय: आत्मा इत्यर्थः । तर्हि अन्नमयप्राणमययोः कः आत्मा इति आकाङ्क्षायाम् आह तस्माद्वा इति । अत्र मनोमय इत्यत्र प्राचुर्यार्थे मयट् । मनोबुद्ध्यहंकारचित्ताख्यान्तः करणवृत्तिषु मनोवृत्तेः प्रचुरत्वात् । तेनैष इत्यादि । पूर्ववदर्थः । तस्य इति । तस्य – अन्तःकरणस्य यजुर्वेदविषयज्ञानजनकमनोव्यापारः शिरः इत्यर्थः ; मुख्यार्थस्य यजुर्वेदस्य मनस्सम्बन्धाभावेन मनश्शिरस्त्वरूपेण असम्भवादिति द्रष्टव्यम् । एवम् उत्तरत्रापि । आदेश आत्मा इति । इदं करु, इदं मा कार्षीः इति विधि-निषेधरूपं रहस्यानुशासनं आदेशशब्देन उच्यते । अथर्व इति । अथर्वाङ्गिरोभिः दृष्टा मन्त्राः प्रतिष्ठाहेतुभूतं पुच्छम् इत्यर्थः । अत्रापि अथर्वङ्गिरश्शब्दः तज्जन्यज्ञानहेतुभूतमनोव्यापारपरः।।

चतुर्थोऽनुवाकः

[विज्ञानमयकोशमीमांसा]

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति । तस्यैष एव शारीर आत्मा । य: पूर्वस्य । तस्माद्वा एतस्मात् पुरुषविध एव ।। १ ।।

तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिण: पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ।। २ ।।

।। इति चतुर्थोऽनुवाकः ।।

यतो वाचो इति । यस्मात् ब्रह्मानन्दात् वाङ्मनसी इयत्तालक्षणं पारम्  | अप्राप्य निवर्तेते’, तादृशं ब्रह्मानन्दम्, दृश्यते त्वग्र्यया बुद्ध्या (क.उ.३-१-१२). मनसा तु विशुद्धेन (व्या.स्मृ.) इत्युक्तरीत्या शुद्धेन मनसा ज्ञात्वा कदापि न बिभेति इत्यर्थः । अत्र ब्रह्मानन्दस्य विशुद्ध मनोगोचरत्वप्रतिपादकत्वात् अस्य श्लोकस्य मनोविषयत्वम् अस्ति इति द्रष्टव्यम् ।

तस्यैष इति । प्राणमयस्य य आत्मा सः एव मनोमयस्यापि आत्मा इत्यर्थः । एवञ्च अन्नमय-प्राणमय-मनोमयानाम् एक आत्मा इत्युक्तं भवति । सः कः ? इत्यपेक्षायाम्

आह इह तस्माद्वा इति । अत्र विज्ञानमयो जीवः । न बुद्धिमात्रम् । मयट्प्रत्ययेन व्यतिरेकप्रतीतेः । तस्य श्रद्धैव इत्यादि । अत्र श्रद्धा-ऋत-सत्य शब्दा: ज्ञानविशेषपराः । ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत (महा.ना.उ.७८) इति विहितज्ञानविशेषो योगशब्देन उच्यते । महः इति योगविरोधिनिरसनसामर्थ्यलक्षणं महः पुच्छम् इत्यर्थः । एतेषां श्रद्धादीनाम् आत्मगुणत्वेन प्रसिद्धत्वात् तत्तदवच्छिन्नम् आत्मस्वरूपं ‘शिरःपक्षपुच्छादिमत्तया प्रतिपाद्यत इति द्रष्टव्यम् । अत: स्वस्मात् अनतिरिक्तैः स्वावयवैः शिरः-पक्ष-पुच्छादिरूपणपरत्वात् प्रकरणस्य इति भाष्यस्य न विरोधः ।।

पञ्चमोऽनुवाकः

[विज्ञानमयकोशविचारः]

विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति । तस्यैष एव शारीर आत्मा यः पूर्वस्य ।। १ ।।

तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्मा आनन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिण: पक्षः । प्रमोद उत्तर: पक्ष: आनन्द आत्मा ।। २ ।। ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ।।

।। इति पञ्चमोऽनुवाकः ।।

विज्ञानम् इति । अत्र विज्ञानमयशब्दनिर्दिष्टो जीव: विज्ञानशब्देन उच्यते । आत्मस्वरूपस्य स्वप्रकाशतया ज्ञानैकनिरूपणीयत्वेन च विज्ञानशब्देन अभिधानसम्भवात् । कृत्यल्युटो बहुलम् (पा.सू.३-३-११३) इति वा जानाति इत्यर्थे ल्युट् आश्रीयते । नन्द्यादित्वं वा आश्रित्य, नन्दिग्रहि…… (प.सू.३-१-१३४) इत्यादिना कर्तरि ल्यु: आश्रीयते । केवल विज्ञानमात्रपरामर्शः यज्ञं तनुते कर्माणि तनुतेऽपि च इति प्रतिपादित वैदिकलौकिककर्मकर्तृत्वे असंभवात् । अन्तर्यामिब्राह्मणे, य आत्मनि तिष्ठन् (बृ.उ.५-७-२२) इति माध्यन्दिनपाठगत आत्मशब्दस्थाने, यो विज्ञाने तिष्ठन् (बृ.उ.५-७-२६) इति काण्वपाठे दर्शनात् विज्ञानशब्दो जीवात्मपरः । विज्ञानम् इति । सर्वे देवाः विज्ञानं जीवस्वरूपमेव प्रधानशब्दाभिलप्यात् अचेतनात्, “ब्रह्मणोऽपि ज्येष्ठं प्रजापतिविद्योक्तरीत्या उपासते इत्यर्थः । विज्ञानं ब्रह्म इति । यस्तु जीवरूपं ब्रह्म वेद, ‘तस्माञ्च जीवात् अन्तिमप्रत्ययपर्यन्तं न प्रमाद्यति चेत्, शरीरे पाप्मनो हित्वा – देहे वर्तमाने एव विनष्टाश्लिष्टपूर्वोत्तराघः सर्वान् कामान् समश्नुते ।

इष्टवस्तुदर्शनजन्यं सुखं प्रियम् । तल्लाभजन्यं सुखं मोदः । लब्धस्योपयोगजन्यं सुखं प्रमोदः । सुखातिशयः आनन्दः । न च मध्यकायत्वेन रूपितस्य आनन्दस्य पुच्छत्वेन ‘रूपितस्य ब्रह्मणश्च भेदाभावेन तस्यैव आत्मत्वेन पुच्छत्वेन च रूपणं कथमिति वाच्यम् । एकस्यैव ब्रह्मणो ब्रह्मत्ववेषेण पुच्छत्वम्, आनन्दत्ववेषेण आत्मशब्दित मध्यकायत्वम् इति उपपत्तेः । न च आनन्दरूपब्रह्मस्वरूपस्य कथम् आनन्दप्रचुरत्व-लक्षणम् आनन्दमयत्वम्, आनन्दस्य च आनन्दप्रचुरत्वाभावात् इति वाच्यम् । आनन्दस्वरूपस्यैव ब्रह्मण: प्रियमोद-प्रमोद-शब्दवाच्य-शिरः पक्षादिरूपितधर्मभूत आनन्दप्रचुरत्वेन आनन्दमयत्वस्यापि उपपत्तेः । अत्र च पूर्वेषु अन्नमयादिषु चतुर्यु पर्यायेषु अनिरूपितस्य ब्रह्मणोऽवयवत्वस्य अस्मिन् आनन्दमये पर्यायेषु अनिरूपणम्, ब्रह्मविदाप्नोति परम् इति उपक्रान्तस्य ब्रह्मोपदेशस्य आनन्दमयपर्याये समापनमिति ज्ञापनार्थम् इति द्रष्टव्यम् । अतः अत्र आनन्दमय: एव प्रक्रान्तं ब्रह्म ।

षष्ठोऽनुवाकः

[ब्रह्मप्रतिपादनम्]

 असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य कश्चन गच्छति (3) । आहो विद्वानमुं लोकं प्रेत्य ।। १ ।। कश्चित्समश्नुता (3) उ ।।

सोऽकामयत । बहुस्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदँ सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनुप्रविश्य ।। २ ।।

सञ्च त्यञ्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं च अनिलयनं च विज्ञानञ्च अविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ।। ३ ।।

।। इति षष्ठोऽनुवाकः ।।

असन्नेव इति । पूर्वेषु चतुर्षु पर्यायेषु उदाहतानां श्लोकानाम् , पुच्छवद्विषयत्वदर्शनात् अयमपि श्लोकः पुच्छवत् आनन्दमयविषकः एव ; न तु ब्रह्म पुच्छम् इति निर्दिष्टतदेकदेशविषयः । ततश्च ब्रह्मशब्देन आनन्दमय एव उच्यते । आनन्दमयसदसत्त्वज्ञानात् मोक्षसंसारौ भवतः इत्यर्थः ।

आनन्दमयस्य’ ब्रह्मण: आकाशादि-विज्ञानमयान्तपदार्थान्तर्यामितया निर्दिष्टस्यापि आत्मान्तरम् अस्ति किम् ? इति शंकां व्युदस्यति – तस्यैष एव इति । पूर्वस्य – विज्ञानमयान्तपदार्थस्य आत्मभूतः एषः आनन्दमय: आत्मा तस्य – आनन्दमयस्य आत्मा इत्यर्थः । ततश्च अनन्यात्मत्वम् उक्तं भवति । न च पूर्वेषु पर्यायेषु तस्यैष एव शारीर आत्मा इत्यस्य अनन्यात्मकत्वप्रतिपादकत्वादर्शनात् अस्मिन् पर्याये तदाश्रयणे अर्थवैरूप्यं स्यात् इति शंक्यम्। पूर्वेषु पर्यायेषु अनुक्तस्य ब्रह्मावयवत्वस्य इह निरूपणात्, तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा इति निर्देशाभावाञ्च एतत्पर्यायगतस्य, तस्यैष एव शारीर आत्मा इत्यस्य अनन्यात्मत्वमेव अर्थः ।

आनन्दमयब्रह्मप्रतिपादनानन्तरं, ब्रह्मविदाप्नोति परम् इत्युपक्रमाभिहित प्राप्तिविशदीकरणार्थं प्रश्नान् उपक्षिपति – अथात इत्यादिना । पूर्वप्रतिपादनस्य बुभुत्साहेतुत्वम् अतश्शब्देन उच्यते । उता इति निपातस्य छान्दसो दीर्घः । अथासपत्ना इतिवत् । अविद्वान् इति पदे सति आधुदात्तत्वं स्यात् । तत्पुरुषे तुल्यार्थ (पा.सू.६-२-२) इति स्मरणात् । अन्तोदात्तञ्च इदं पदम् । उता विद्वान् इति छेदः । ‘अविप्रकृष्ट “हृदयादिस्थानस्थं अनवच्छिन्नं च ब्रह्म उपासीनो विद्वान् ‘किमितः प्रेत्य, अमुं लोकम् परमे व्योमन् इत्युक्तं लोकं गच्छति ? इत्येकः प्रश्नः । उत गत्यनपेक्षं इहैव ब्रह्म आप्नोति ? इत्यर्थसिद्धः प्रश्नः । आहो विद्वान् समश्नुत इति भोक्तृत्वं विवक्षितम् । अयमर्थः – कश्चित् अहंग्रहेण उपासीनोऽपि विद्वान् अमुं लोकं गत्वा किं समश्नुते? भोग्यभूतं ब्रह्माऽनुभवति ? इत्येकः प्रश्नः । उत ब्रह्मस्वरूपेण एकी भवति ? इत्यर्थसिद्धः प्रश्नः । एवं शास्रवविध्यमूला: गतिविशेषस्वरूपभेदसदसद्भावविषयाः प्रश्नाः । बहुवचनविवक्षिताः । एतत्सर्वं व्यासार्यै: उपासात्रैविद्ध्यात् (ब्र.सू.१-१-३२) इति सूत्रे स्पष्टमुक्तम् ।

एतान् प्रश्रान् प्रतिवक्तुं जगत्कारणत्वौपयिकगुणविशिष्टस्यैव ब्रह्मणः प्राप्यत्वादिज्ञापनाय आह – सोऽकामयत इति । सः आनन्दमयः आत्मा, देवमनुष्यादिरूपेण बह स्याम्; तदर्थमाकाशादिरूपेण प्रजायेय इति व्यष्टिसमष्टिरूपचेतनाचेतनविषयसंकल्पम् अकरोत् इत्यर्थः । सः – परमात्मा स्रष्टव्यालोचनरूपं तपः कृतवान् इत्यर्थः । तप आलोचने (श्रौतधातुः) इति हि धातुः । तत्सृष्ट्वा इत्यादि । ननु सर्वदा सर्वव्याप्तस्य ब्रह्मणः कोऽसौ सृष्टिकालानुप्रवेशः? इति चेत् उच्यते – ‘गोजठरगतवत्से गोत्वजातिवत्  सर्वव्याप्तस्य ब्रह्मण: प्रत्येकं सर्ववस्तुषु पुष्कलप्रतीत्यर्ह स्थितिविशेषे एव अनुप्रवेशः । अनेन, सत्यं ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायाम् इति मन्त्रोक्तम् अनन्तस्य ब्रह्मणो हृदयगुहानिहितत्वम् उपपादितम् भवति । तदनुप्रविश्य सञ्च त्यञ्चाभवत्। सच्छब्देन निर्विकारतया सततैकरूप: चेतन: उच्यते । त्यच्छब्देन पूर्वावस्थात्यागरूपविकारास्पदम्  अचेतनम् उच्यते । ब्रह्मैव चेतनाचेतननामरूपभाक् भवति इत्यर्थः । ननु ब्रह्मणः एव सर्वोपादानतया सर्वभावे विकारास्पदत्वं स्यात् इत्याशंक्य आह – निरुक्तञ्च इत्यादि । जातिगुणक्रियावत्तया ‘जातिगुणाद्यभिधायि शब्दवाच्यम् अचेतनं निरुक्तम् । जातिगुणादिशून्यं चेतनजातम् अनिरुक्तम् । एता: भूतमात्रा: प्रज्ञामात्रास्वर्पिता: (कौ.उ.२-६१), इत्युक्तरीत्या अचेतनवर्गाधारभूतं चेतनजातं ‘निलयनम् । आश्रितम् अचेतनजातं तु ‘अनिलयनम् । विज्ञानञ्चाविज्ञानञ्च अजडस्वरूपं जडस्वरूपञ्च । सत्यं चानृतं च इति । निर्विकारतया सत्यत्वं चेतनस्य ; इतरस्य तु अतथात्वम् । ततश्च निरुक्तत्वानिरुक्तत्व-निलयनत्वानिलयनत्वविज्ञानत्व-अविज्ञानत्वयुक्त-सत्यानृतशब्दित-चेतनाचेतननामरूपभाक् भवेदपि ब्रह्म सत्यमेव अभवत् – अजहन्निर्विकारत्वलक्षणस्वस्वभावमेव अभवत् इत्यर्थः । यदिदम् इति । यस्मात् चेतनाचेतनात्मकवर्गानुप्रविष्टतया सत्यशब्दितस्य ब्रह्मण आत्मत्वम्, अत एव सर्वमपि चेतनाचेतनात्मकं जगत् शास्त्रदृष्टिमन्तः पुरुषाः, पराशरादयः, हरेर्न किञ्चित् व्यतिरिक्तमस्ति (वि.पु.२-७-४३), ज्योतीर्षि विष्णुः भुवनानि विष्णुः (वि.पु.२-१२-३८) इत्याचक्षते इत्यर्थः ।।

सप्तमोऽनुवाकः

[अभयप्रतिष्ठा]

असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानँ स्वयमकुरुत । तस्मात् तत् सुकृतमुच्यत इति । यद्वै तत् सुकृतम् । रसो वै सः । रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवाऽऽनन्दयाति ।। १ ।।

यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति ।। तत्त्वेव भयं विदुषोऽमन्वानस्य । तदप्येष श्लोको भवति ।। २ ।।

तस्माद्वा इत्यादि । इदम् – स्थूलचेतनाचेतनशरीरकं ब्रह्म अनभिव्यक्तनामरूपं ब्रह्मसृष्टेः प्राक् आसीत् । तस्मात् इदं जगत् अभिव्यक्तनामरूपम् अभवत् इत्यर्थः । ननु असत्  – शब्दितस्य ब्रह्मण: उपादानत्वे कर्त्रन्तरम् अपेक्षितम्, निमित्तोपादानयोः भेदावश्यंभावात् इति आशंक्य आह – तदात्मानम् इति । आत्मानमेव उपादानत्वेन स्वीकृत्य स्वयमेव अकुरुत । तस्मात् इति । यस्मात् स्वयमेव स्वस्य कार्यम् । अत एव ब्रह्म ‘सुष्टु’ कृतं कार्यं यस्य तत् सुकृतम् । कार्यस्य सौष्ठवञ्च अनतिक्लेशरूपत्वम् । स्वभिन्नस्य कार्यस्य निर्माणे हि क्लेशप्रसक्तिः । ततश्च अक्लिष्टकार्यं ब्रह्म इति नि:श्वसितमेतन्महतो भूतस्य इत्यादि श्रुतयो वदन्ति इत्यर्थः ।

भवतु तत्सुकृतम् । तस्य उपास्यत्वप्राप्यत्वयोः किम् आयातम् इत्यत्राह – यद्वा इति । सुकृतमिति निर्दिष्टं ब्रह्म रस: आनन्दः । तल्लाभात् अस्य आनन्दित्वम् । ततश्च तस्याऽऽनन्दत्वात् प्राप्यत्व-उपास्यत्वे युक्ते इति भावः । तदेव उपपादयति – को ह्येवान्यात् इति । यदि अयम् अपरिच्छिन्नानन्दरसः परमात्मा न स्यात्, सांसारिकम् आपवर्गिकं वा सुखं कः प्राप्नुयात् ? अत एष एव आनन्दयति । अतः तस्य सर्वविधानन्दहेतुत्वात् तस्य प्राप्यत्वम् अस्तीति भावः । यदा हि इत्यादि । अदृश्ये – चक्षुरादिग्रहणानर्हे । आत्म्यम् व्याप्यम्, शरीरमित्यर्थः । अनात्म्ये – अशरीरे इत्यर्थः । अत एव अनिरुक्ते – जातिगुणादिवाचिदेवादिपदावाच्ये । अनिलयने – आधारशून्ये । अभयम्  – अभयाय । नाव्ययीभावात् (पा.सू.२-४-८३) इति चतुर्थ्याः अम्भावः । अर्थाभावे यदव्ययम्  इति अव्ययीभावसमासः । अभयसाधनभूतां प्रतिष्ठाम् – निरन्तरस्मृतिलक्षणां निष्ठां यो विन्दते – लभते, स: अभयं प्राप्नोति । अत्र व्यासार्यै:, अदृश्य इति अचिद्व्यावृत्तिः। अनात्म्ये इति बद्धव्यावृत्तिः । स हि परमात्मना व्याप्यः । यद्वा आत्म्यं व्याप्यम्, कर्मकृतशरीरम् । तद्रहितः अनात्म्यः । अनिरुक्तः इति मुक्तव्यावृत्तिः । स हि बद्धावस्थायां देवादिशब्दैः उक्तः । अनिलयने इति नित्यमुक्तव्यावृत्तिः । तेषां हि भगवान् आधार: इत्युक्तम् । एवं विहितायाः प्रतिष्ठायाः विच्छेदें अनर्थं दर्शयति – यदा हि इति । एषः – उपासकः । एतस्मिन् – परमात्मनि , ध्यानस्य अन्तरम् – विच्छेद, अरम् – अल्पमपि यः कुरुते तस्य भयम् उद्भवति इत्यर्थः । पूर्ववाक्ये प्रतिष्ठाशब्देन निरन्तरध्यानवाचिना ध्यानगतनैरन्तर्यस्य विहितत्वात् अत्र अन्तरशब्देनापि तस्यैव ध्यानगतनैरन्तर्यस्य विरोधिनो ध्यानविच्छेदस्य ग्रहणम् उचितम् ; न तु परोक्तरीत्या । ब्रह्मणि अन्तरं भेदं यः कुरुते जानाति। इत्यर्थः उचितः इति द्रष्टव्यम् । वस्तुतस्तु ब्रह्मैक्यवादिनाम् अस्माकं ब्रह्मणि नानात्वनिषेधो न प्रतिकूलः । अस्माभिः नानाब्रह्मवादस्य अनभ्युपगमात् । तथापि प्रकरणानुगुण्यात् उक्तः एवार्थः उचितः इति द्रष्टव्यम् । किं भयम् ? तत्राह – तत्त्वेव इति । विदुषः – ब्रह्मोपासननिष्ठस्य तदतिरिक्तविषयस्पृहया निरन्तरं मननम् अकुर्वतः, तदेव अमननं भयम् । न हि तदपेक्षया अन्यत् भयमस्ति । उक्तञ्च महर्षिभिः –

यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ।

सा हानि:, तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया ।। (ग.पु.पू.२२२-२२)

वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः ।

न शौरिचिन्ताविमुखजनसंवासवैशसम् ।। (कात्यायनवचनम् ) इति ।

अष्टमोऽनुवाकः

[आनन्दमीमांसा]

भीषाऽस्माद् वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः इति ।। सैषाऽऽनन्दस्य मीमाँसा भवति । युवा स्यात्  साधु युवाध्यायिकः । आशिष्ठो द्रढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः ।। १ ।।

ते ये शतं मानुषा आनन्दाः । स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितृणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितृणां चिरलोकलोकानामानन्दाः ।। २ ।।

स एक आजानजानां देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं आजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानाम् आनन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः ।।३।।

स एको इन्द्रस्यानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः ।। ४ ।।

श्रोत्रियस्य चाकामहतस्य । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवंवित् । अस्माल्लोकात् प्रेत्य । एतमन्नमयमात्मानम् उपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रामति ।। ५ ।। एतमानन्दमयमात्मानमुपसङ्क्रामति । तदप्येष श्लोको भवति ।।

।। इति अष्टमोऽनुवाकः ।।

भीषाऽस्मात् इति । अग्नीन्द्रसूर्यप्रमुखाः सर्वेऽपि देवप्रवराः परमात्मशासनातिवृत्तौ किं भविष्यतीति भीत्या स्वस्वकर्मसु जागरूका भवन्ति । अतश्च ब्रह्मव्यतिरिक्तं कृत्स्नमपि पदं दुःखोदर्कत्वात् अनर्थरूपमेव । अतश्च तादृशपदकामनया मननविच्छेदस्य अत्यन्तभयावहत्वात् ‘ततोपि न भयं किञ्चिदस्ति इत्यर्थः ।।

एवं ब्रह्मवेदनस्य जगत्कारणत्वतदौपयिकसार्वज्यादिगुणविशिष्टविषयकत्वम् अविच्छिन्नत्वं च विधाय प्राप्यस्याऽऽनन्दमयस्य ब्रह्मणः आनन्दमयशब्दप्रवृत्तिनिमित्तम् आनन्दप्राचुर्यं दर्शयति – सैषा इति । वक्ष्यमाणानन्दविषयकविचारो भवतीत्यर्थः । युवा इत्यादि । अत्र व्यासार्यै:, साधु युवाध्यायक: साधु यथाविधि, सम्यक् संप्रदायसिद्धतया, स्वरवर्णादिभ्रंशरहितं वा । युवशब्देन प्रत्यग्रत्वं विवक्षितम् । अविस्मरणात् नित्यं नवं यथा भवति, तथाऽध्ययनवान् इत्यर्थः । यद्वा – स्वसमयवस्कानां सर्वेषामध्यायिक: अध्यापकः । तदधिकज्ञानः’ इत्यर्थः । आशिष्ठः – आशुतरक्रिय: । यद्वा अशनक्षमः, अरोगः इत्यर्थः । यद्वा – आशीर्वादविषयभूतः । सर्वानुरञ्जकः इत्यर्थः । सर्वान् देवान् नमस्यन्ति इतिवन बलिष्ठः – मनोबलवान् । द्रढिष्ठः इति शारीरबलस्य उक्तत्वात् । यद्वा – द्रविष्ठः – दृढतर: न तु अव्यवस्थितस्वभावः इत्यर्थः । बलिष्ठः शारीरमानस सर्वविधबलवान्  वित्तस्य पूर्णा – वित्तेन पूर्णा । पूरणगुणसुहितार्थ…… (पा.सू.२-२-११) इति षष्टया अनुज्ञानात् । एवं गुणसमुदायं ‘विभूति पौष्कल्यं च उक्त्वा, स एको मानुष आनन्द इति श्रुत्या स्वरसतः तस्यैव आनन्दत्वम् उक्तम् । न च ज्ञानभिन्नस्य गुणविभूत्यादे. कथम् आनन्दत्वम् इति शंक्यम् । अनुकूलत्वं हि आनन्दत्वम् । तञ्च स्वतः एव। इष्टत्वम् । तञ्च गुणविभूत्योः अपि सम्भवति । तद्विषयज्ञानस्यापि अनुकूलत्वं विषयानुकूलत्वप्रयुक्तमेव इति अन्वयव्यतिरेकसिद्धम् । अत: श्रुतिस्वारस्यात् गुणविभूत्यादेः। आनन्दत्वम् । श्रोत्रिय: – ब्रह्मनिष्ठः । अकामहत: – समस्तसांसारिकभोगानुपहतः । अत: मुक्तः उच्यते इत्युक्तम् । एवञ्च युवत्व-दृढगात्रत्व-सौन्दर्य-ज्ञानबलैश्वर्यादयः सम्भूय यत्र भवन्ति स एको मानुष आनन्दः । अकामहतश्रोत्रियस्य मुक्तस्यापि सः आनन्दोऽस्ति । मुक्तस्य सर्वानन्दानुभव शलित्वात् तत्र मानुषानन्दस्य अन्तर्गतत्वात् इति भावः । ते ये शतम् इति । ये मनुष्या एव सन्तः कर्मविशेषेण विद्याविशेषेण वा अन्तर्धानादिशक्तत्युपेततया गन्धर्वत्वं प्राप्ताः, ते मनुष्यगन्धर्वाः । अन्तरिक्षलोकवासिन: देवगन्धर्वाः । चिरकालस्थायी लोकः चिरलोकः । चिरलोको लोको येषांते चिरलोकलोकाः पितरः । आजान: – देवलोकः तत्र जाताः आजानजाः । स्मार्तकर्मविशेषतो देवस्थानेषु जाता इत्यर्थः । अग्निहोत्रादिकर्मणा अग्नीन्द्रादिसायुज्यं प्राप्ताः कर्मदेवाः । देवास्तु वसुरुद्रादयः त्रयस्त्रिंशत् हविर्भुजः । इन्द्रबृहस्पती प्रसिद्धौ । प्रजापति: चतुर्मुखः; न तु दक्षादयः, एकवचनश्रवणात् । ते ये शतं प्रजापते: इति । अत्र ब्रह्मशब्दः, ब्रह्मविदाप्नोति परम् इति प्रकृतब्रह्मपरः । न च ब्रह्मानन्दस्य ते ये शतम् इति परिच्छिन्नत्वं कथम् ? इति शंक्यम् – क्षणार्धेन बहूनि योजनानि गच्छति रवौ, इषुवद्गच्छति सविता इति इषुसाम्यप्रतिपादकवचनस्य गतिमान्यनिवृत्तिपरत्ववत् । ते ये शतम् इति वाक्यस्यापि चतुर्मुखानन्दान्यूनानधिकत्व परत्वाभावात् ।

एवंभूत-आनन्दमय: यो वेद निहितं गुहायाम् इति हृदयगुहानिहितत्वेन उपास्यमानः । कीदृशविग्रहविशेष विशिष्टः को वा देवताविशेष:? इत्याकाङ्क्षायाम् आह . स यश्चायम् इति । य एषोऽन्तरादित्ये हिरण्मयः पुरषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश: आप्रणखात् सर्व एव सुवर्णः, तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । तस्योदिति नाम (छां.उ.१-६-६) इति आदित्य मण्डलान्तर्वी कमनीयविग्रहयुक्तो य: पुण्डरीकाक्षः, स एव हदयगुहावर्ती विज्ञानमयादन्तरः । ततश्च पुण्डरीकाक्षत्वादिविग्रहोपेतो नारायण एव इत्यर्थः । ततश्च तादृशविग्रहविशिष्टत्वेन हृदयगुहावर्तिनो भगवतो ध्यानं कर्तव्यमिति फलितार्थः । ।

अत्र सञ्च त्यञ्चभवत् इति चिदचिच्छरीरकत्वेन अनुसन्धानम् उक्तम् । सत्यं ज्ञानम् इति स्वरूपेण अनुसन्धानम् उक्तम् । तच्च स्वरूपेण अनुसन्धानम् आदित्यमण्डलान्तर्वति पुण्डरीकाक्षत्व विशिष्टतया च उक्तं भवति । जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यात् (ब्र.सू.१-१-३२) इति सूत्रे भगवता भाष्यकृता तदिदं त्रिविधं ब्रह्मानुसन्धान प्रकरणान्तरेषु अपि आश्रितम् । सत्यं ज्ञानमनन्तं ब्रह्म इत्यादिषु स्वरूपेण अनुसन्धानम् । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सञ्च त्यञ्चाभवत् इति भोक्तृशरीरकतया भोग्यभोगोपकरणशरीरकतया च अनुसन्धानम् इत्युक्तम् ।

एवमस्य प्राप्यत्वोपयुक्तम् उक्त्वा, उताहो विद्वानमुं लोकम् इत्यादिना उपक्षिप्तानां प्रश्नानामुत्तरमाह – स य एवम् इति । अत्र स य एवंवित् अस्मात् लोकात् प्रेत्य इत्यनेन सर्वेषां ब्रह्मविदामर्चिरादिमार्गः उक्तो भवति । आनन्दमयमात्मानमुपसङ्क्रामति इति मुक्तिदशायां जीवब्रह्मणोः उपास्योपासकयोः भोग्यभोक्तृभावप्रतिपादनात् मुक्तौ ब्रह्मणा ऐक्यपक्षो निरस्तो भवति । एतमन्नमयं इत्यादिषु पञ्चस्वपि पर्यायेषु एतच्छब्दः परमात्मपरः । अन्नमय-प्राणमय-मनोमय विज्ञानमयशब्दाः तच्छरीरकपरमात्मपराः । अत्र व्यासार्यै:, सर्वोऽपि विद्वान् अस्माल्लोकात् प्रेत्य अन्नमयादिसमष्टिव्यष्टि भूतिकं निरतिशयानन्दं परमात्मानं भोग्यभूतं भोक्ता सन् अनुभवति इति प्रश्नोत्तरम् उक्तं भवति इत्युक्तम् ।

अभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति इत्युक्तार्थे साक्षित्वेन श्लोकं पठति तदपि इति ।।

नवमोऽनुवाकः

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्  न बिभेति कुतश्चनेति । एतेँ ह वाव न तपति किमहँ साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानं स्पृणुते । उभे ह्येवैष एते आत्मानँ स्पृणुते । य एवं वेद । इत्युपनिषत् ।।

।। इति नवमोऽनुवाकः ।।

।। इति आनन्दवल्ली समाप्ता ।।

यतो वाचः इति । वाङ्मनसी आनन्दस्य इयत्तालक्षणं पारं गन्तुं प्रवृत्ते। तदप्राप्यैव निवृत्ते भवतः । तादृशाऽऽनन्दगुणकब्रह्मोपासनेन सर्वक्लेशभयात्यन्तिकनिवृत्तिः भवति इत्यर्थः । तदेव उपपादयति । एतम् इति । स्वर्गादिहेतुभूतं सुकृतं न अकार्षम् । नरकादिहेतुभूतं दुष्कृतम् अकार्षम् इति ईदृशी चिन्ता एतं ब्रह्मविदं न बाधते । स्वर्गादिलोकेषु इच्छायाः अभावात् । ब्रह्मज्ञानाग्निदग्धपापतया नरकादिभयस्यापि अभावात् । एतादृशं ब्रह्मविद्याप्रयुक्तमाहात्म्यमपि ध्येयम् इत्याह – स यः इति । एते – एताभ्यां पुण्यपापाभ्याम्  आत्मानं स्पृणुते – रक्षति इत्यर्थः । पुण्यपापफलानुभवो नास्तीति उक्तं भवति । उभे इति । पुनर्वचनं पुण्यपाप-विधूनन सातत्यतात्पर्यद्योतनाय, अनुवाकसमाप्तिद्योतनाय च । इत्युपनिषत् इति । इत्थं परमरहस्यरूपोपदेशयोग्यायैव वक्तव्यम् इति भावः ।

[आनन्दमयाधिकरणविचारः]

इदञ्च प्रकरणं समन्वयाध्याये प्रथमपादे चिन्तितम् । तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तरात्मा आनन्दमय: इति श्रुत: आनन्दमय: जीवः एव । नित्यं वृद्धशरादिभ्यः (पा.सू.४-३-१४४) इति वृद्धादानन्दात् विकारार्थे मयट् प्रत्ययस्य विधानेन अविकारे परमात्मनि मयट्प्रत्ययार्थासम्भवात्, शारीरः इति शरीरसम्बन्धश्रवणात् , अन्नमयप्राणमय-मनोमय-विज्ञानमयानन्दमयाः मे शुद्ध्यन्ताम् इति आनन्दमयस्य शोध्यत्वश्रवणात् ।। नित्यशुद्धस्य परमात्मनः शोध्यत्वासम्भवात्, आनन्दमयः जीवः एव इति प्राप्ते उच्यते – आनन्दमयोऽभ्यासात् (ब्र.सू.१-१-१३) । आनन्दमयः परमात्मा । कुतः ? अभ्यासात्, निरतिशयदशाशिरस्कतया, ते ये शतम्, ते ये शतम् इत्यभ्यस्यमानस्य अपरिच्छिन्नानन्दस्य परिमितसुखलवभाजि जीवे असम्भवात् । विकारशब्दान्नेति चेन्न प्राचुर्यात् (ब्र.सू.१-१-१४) । विकारवाचिमयट्प्रत्ययश्रवणात् आनन्दमय: जीवः एव इति चेत्, नात्र विकारवाची, मयट् प्रत्ययः , मयड्वैतयोर्भाषायामभयाच्छादनयोः (पा.सू.४-३-१४३), इति पूर्वसूत्रात्, नित्यं वृद्धशरादिभ्यः (पा.सू.४-३-१४४) इत्यत्र भाषायाम्  इत्यनवृत्तेः विकारावयवयोः मयट्प्रत्ययस्य भाषाविषयत्वेन छन्दसि विकारार्थे मयटोऽसम्भवात्  । यस्य पर्णमयी (तै.सं.३-५-७) इत्यादौ तु, व्यद्यचश्छन्दसि (पा.सू.४-३-१५०) इति विधानबलात्  उपपद्यते । प्रकृते तु आनन्दपदस्य व्यद्यच्वाभावेन न मयट्प्रत्ययस्य सम्भवः । अतः आनन्दमय: इत्यत्र मयट्प्रत्ययः, तत्प्रकृतवचने मयट् (पा.सू.५-४-२२) इति सूत्रविहितः प्राचुर्यार्थ मयट्प्रत्ययः एव । अतश्च आनन्दप्रचुरत्वं च परमात्मनः सम्भवति इति परमात्मा एव आनन्दमयः ।

ननु, ब्राह्मणप्रचुरो ग्रामः इत्युक्ते तस्मिन् ग्रामे अब्राह्मणानामपि अल्पानां सत्त्वं प्रतीयते । एवम् इहापि ब्रह्मण: आनन्दप्राचुर्ये कथिते अनानन्दस्यापि लेशतः सत्त्वं प्रतीयते इति दुःखलेशशून्ये परमात्मनि आनन्दप्राचुर्योक्तिरपि न सङ्गच्छते इति चेत् – मैवम् । प्रचुरप्रकाश: सविता इत्यत्र सवितुः प्रकाशप्राचुर्ये कथितेऽपि तद्विरोधितमोऽल्पत्वस्य तत्र अप्रतीतेः । न हि सवितरि तमोलेशस्यापि सम्भावना अस्ति । अतः तत्र यथा सवितरि प्रकाशप्राचुर्य व्यधिकरणचन्द्रादिगतप्रकाशाल्पत्वापेक्षम्, न तु समानाधिकरणादित्यगततमोऽल्पत्वापेक्षम्, एवं ब्रह्मणि आनन्दप्राचुर्यमपि व्यधिकरणजीवगतानन्दाल्पत्वापेक्षम् एव । न तु समानाधिकरणब्रह्मगतस्वविजातीयदु:खाल्पत्वापेक्षम् ।। अतः ब्रह्मणि आनन्दप्राचुर्ये नानुपपत्तिः ।

तद्धे तुव्यपदेशाञ्च (ब्र.सू.१-१-५) । एष ह्येवानन्दयाति इति आनन्दमयस्य जीवानन्दयितृत्वं व्यपदिश्यते । अतः आनन्दयितव्यात्  जीवानन्दयिता अन्यः एव । मान्त्रवर्णिकमेव च गीयते (ब्र.स.१-१-१६) । सत्यं ज्ञानमनन्तं ब्रह्म इति मन्त्रवर्णोदितं ब्रह्मैव, तस्माद्वा एतस्मादात्मनः आकाश: सम्भूतः इत्यादिना आकाशादिकरणत्वेन आनन्दमयत्वेन च गीयते । न च सत्यज्ञानत्वादिकं सविकारस्य संकुचितज्ञानस्य। जीवस्य सम्भवति ।

ननु परिशुद्धस्वरूपस्य मन्त्रवर्णोदितसत्यज्ञानत्वादिकं सम्भवति इति चेत् तत्राह – नेतरोऽनुपपत्ते: (ब्र.सू.१-१-१७) । इतर: मुक्तोऽपि जीव: नाद्य प्रतिपाद्यः । अनुपपत्तेः । निरुपाधिकविपश्चित्त्व-सकलजगत्कारणत्व-भयाभयहेतुत्वादीनां प्रकरणप्रतिपादितानां धर्माणां परमात्मव्यतिरिक्त अनुपपत्तेः । भेदव्यपदेशाञ्च (ब्र.सू.१-१-१८) । तस्माद्वा एतस्मात्  विज्ञानमयात् अन्योऽन्तर आत्माऽऽनन्दमयः इति विज्ञानमय शब्दितबद्धमुक्तात्मकसकलजीवभेदव्यपदेशाञ्च न मुक्तात्मा इह प्रतिपाद्यः । कामाञ्च नानुमानापेक्षा (ब्र.स.१-१-१९) । सोऽकामयत बहुस्यां प्रजायेय इति कामनामात्रात् एव आनुमानिकप्रधाननिरपेक्षजगत्स्रष्टृत्वप्रतीते: न जीव: आनन्दमय: । अस्मिन्नस्य च तद्योगं शास्ति (ब्र.सू.१-१-२०) । अस्मिन् आनन्दमये लब्धे सति अस्य जीवस्य आनन्दयोगं रसँ ह्योवायं लब्ध्वा आनन्दी भवति इति शास्र शास्ति । अत: जीवानन्दहेतुभूतलाभकर्मभूतस्य ब्रह्मणः न जीवाभेदः उपपद्यते ।

[पुच्छब्रह्मवादविमर्शः]

ननु न आनन्दमयस्य ब्रह्मत्वम् उपपद्यते । ब्रह्म पच्छं प्रतिष्ठा इति तदाधारभूततया तत्पुच्छत्वेन निर्दिष्टस्य एव ब्रह्मत्वेन अभिधानात् । आनन्दमयस्य एवं प्रधानप्रतिपाद्यत्वे, असन्नेव स भवति इति तत्पर्यायोक्तश्लोकः अपि आनन्दमयविषयः एव स्यात् । न च । तस्मिन श्लोके आनन्दमयस्य निर्देश: दृष्टः । तत्र ब्रह्मशब्दस्यैव श्रवणात् । अतः । पुच्छमेव ब्रह्म न आनन्दमयः इति चेत्र। आनन्दमयस्यैव ब्रह्मण: कयाचन भेदविवक्षया अवयवावयविभावेन निर्देशोपपत्तेः । इतरथा, आनन्द आत्मा इति मध्यमावयवत्वेन निर्दिष्टस्य आनन्दस्यापि पुच्छत्वेन निर्दिष्ट ब्रह्मणः अपि भेदः प्रसज्येत । मध्यमावयवपुच्छयोः । भेदावश्यंभावात् । न च इष्टापत्तिः । ब्रह्मणः अनानन्दरूपत्वप्रसङ्गात । यदि च कयाचन भेदविवक्षया एकस्यैव ब्रह्मणः पुच्छत्वमध्यमाङ्गत्वनिरूपणम्, तर्हि । अवयवावयविभावभेदकल्पनमपि अभेदेऽपि सङ्गच्छते इति न आनन्दमयब्रह्मणोः । भेदप्रसक्तिः । न च आनन्दमयस्य ब्रह्मत्वे, आनन्दमया में शुद्ध्यन्ताम् इति शोध्यत्वम् । अनुपपन्नम् इति वाच्यम् । शोध्यत्वस्य प्रसाद्यत्वरूपतया भक्तिप्रपत्तिलक्षणोपायवशेन शान्तकोपत्वलक्षणप्रसादविशिष्टत्वरूपेण साध्यत्वसम्भवेन शोध्यत्वस्यापि सम्भवात् । आनन्दमयस्य अब्रह्मत्वे च, आनन्दमयोऽभ्यासात् (ब्र.सू.१-१-१३) इत्यादि सूत्रगणस्य असम्बद्धप्रलापत्वं स्यात् इति आस्तां तावत् ।।

[आनन्दाद्यधिकरणविचारः]

तथा गुणोपसंहारपादे यथा विद्यान्तरे श्रुतानां संयद्वामत्वादीनां गुणानां न विद्यान्तरे उपसंहारः, तथा सत्यत्वज्ञानत्वादीनामपि विद्याविशेषप्रकरणश्रुतानां न विद्यान्तरे। उपसंहारः, प्रापकाभावात् इति पूर्वपक्षे प्राप्ते उच्यते – आनन्दादयः प्रधानस्य (ब्र.सू.३-३-११) । प्रधानस्य गुणिनः ब्रह्मणः सर्वेषु उपासनेषु अभेदात् गुण्यपृथग्भूतानां आनन्दादीनां गुणानामपि सर्वेषु उपासनेषु उपसंहारः । ननु एवं प्रियशिरस्त्वादीनामपि सर्वेषु उपासनेषु उपसंहारः प्राप्नोति । तत्राह – प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे (ब्र.सू.३-३-१२) । प्रियशिरस्त्वादीनां ब्रह्मणः बुद्ध्युपारोहाय कल्पितत्त्वेन ब्रह्मगुणत्वाभावात् न उपासनान्तरे तस्य प्राप्तिः । यदि हि ब्रह्मणः शिरःपक्षपुच्छाद्यवयवभेद: स्यात्, तर्हि ब्रह्मणः मध्यप्रदेशे उपचयः, शिरःप्रदेशे अपचयः, इत्यादिकं पक्षिवत् प्रसज्यते । न च अनन्तस्य ब्रह्मणः तत् उपपद्यते । ननु प्रियशिरस्त्वादीनाम् अब्रह्मगुणतया सर्वविद्योपसंहाराप्राप्तौ अपि संयद्वामत्वादीनां ब्रह्मगुणानाम् सर्वविद्यासु उपसंहारः प्राप्नोति । ब्रह्मगुणानाम् आनन्त्येन उपसंहारः अशक्यश्च । तत्राह – इतरे त्वर्थसामान्यात् (ब्र.सू.३-३-१३) इतरे तु आनन्दादयः अर्थसामान्यात् प्रयोजनसामान्यात् ब्रह्मस्वरूपावगतिलक्षणप्रयोजनैक्यात्  सर्वासु परविद्यासु उपसंहर्तव्याः । ततश्च स्वरूपनिरूपकाः। धर्माः सत्यत्व-ज्ञानत्व-आनन्दत्वादयः सर्वासु परविद्यासु उपसंहर्तव्याः निरूपितस्वरूपधर्माः सत्यकामत्वादयः न सर्वासु परविद्यासु उपसंहर्तव्याः । ननु प्रियशिरस्त्वादीनां वस्तुतः ब्रह्मधर्मत्वाभावे तदुपदेश: किमर्थम् ? इत्यत्राह – आध्यानाय प्रयोजनाभावात् (ब्र.सू.३-३-१४) आध्यानाय बुद्ध्यारोहणाय प्रियशिरस्त्वादिः उपदिश्यते । प्रयोजनान्तरस्य अभावात् ।। आत्मशब्दाञ्च (ब्र.सू.३-३-१५) अन्योऽन्तर आत्माऽऽनन्दमयः इति आनन्दमयस्य आत्मशब्देन निर्देशात्, आत्मनश्च शिर:पक्षपुच्छाद्यसंभवात्, प्रियशिरस्त्वादिकं बुद्ध्यारोहाय कल्पितम् इत्येव अवसीयते । ननु, अन्योऽन्तर आत्मा प्राणमय: इति आत्मशब्दस्य अनात्मसु अपि पूर्वं प्रत्युक्तत्वात्, अन्योऽन्तर आत्मा आनन्दमयः इति आत्मशब्दस्य आत्मविषयत्वं कथं निश्चीयते? तत्राह • आत्मगृहीतिरितरवदुत्तरात् (ब्र.सू.३-३-१६) । अन्योऽन्तर आत्माऽऽनन्दमय: इति आत्मशब्देन परमात्मनः एव ग्रहणम् । इतरवत् यथा इतरत्र, आत्मा वा इदमेक एवाग्र आसीत् । स ईक्षत लोकान्नु सृजा (ऐ.उ.आत्मा.१) इत्यादिषु आत्मशब्देन परमात्मनः एव ग्रहणं तद्वत् । कुत एतत् ? उत्तरात् । सोऽकामयत बहु स्यां प्रजायेय इत्यानन्दमयविषयात् उत्तरात् वाक्यात् । अन्वयादिति चेत्, स्यादवधारणात् (ब्र.सू.३-३-१७) । पूर्वत्र प्राणमयादिषु अनात्मसु आत्मशब्दान्वयदर्शनात् न उत्तरात् निश्चेतुं शक्यते इति चेत्, स्यात् अवधारणात् । स्यादेव निश्चयः । कुतः? अवधारणात् । पूर्वत्रापि, तस्माद्वा एतस्मात् आत्मन: आकाश: सम्भूत: इति परमात्मनः एव बुद्ध्या अवधारितत्त्वात् । अन्नमयात् अन्तरे प्राणमये प्रथमं परमात्मबुद्धिः अवतीर्णा। तदनन्तरञ्च प्राणमयात् अन्तरे मनोमये, ततो विज्ञानमये। ततः आनन्दमये प्रक्रान्ता परमात्मबुद्धिः । तदन्तराभावात्, तदुत्तराञ्च सोऽकामयत इति वाक्यात् , प्रतिष्ठिता इत्यपक्रमेऽपि अपरमात्मनि परमात्मबुद्ध्या आत्मशब्दान्वयः इति निरवद्यम् । न च आनन्दमयेऽपि परमात्मबुद्ध्या आत्मशब्द प्रयोगः’ इति शंक्यम् ।। तद्वदत्र आत्मान्तरानुपदेशात् बाधकाभावात् ।।

[स्वरूपनिरूपकनिरूपितस्वरूपगतधर्मव्यवस्थाविचारः]

ननु इतरव्यावृत्तब्रह्मस्वरूपप्रतिपत्तिकाले सत्यत्वज्ञानत्वादीनां न प्रतीयमानत्वनियम: सम्भवति। अस्थूलत्वादिना वा अन्तर्यामित्व-जगत्कारणत्व-लक्ष्मीपतित्वनिरुपाधिकसर्वज्ञत्वादिभिः वा इतरव्यावृत्तब्रह्मस्वरूप प्रतिपत्तेः सम्भवात् । अतः आनन्दादीनां सत्यकामत्वसंयद्वामत्वादीनां च वैषम्यं दुर्विवेचम् इति चेत् । –

अत्र केचित् – धर्माः हि द्विविधाः – विशेष्यस्वरूपनिष्ठाः, सविशेषणस्वरूपनिष्ठाश्च । ये विशेष्यस्वरूपनिष्ठाः आनन्दत्वादयः ते सर्वानुयायिनः । इतरे तु व्यवस्थिताः । जगत्कारणत्वस्य प्रकृतिपुरुषकालविशिष्टलक्षणतया तदुपयुक्तसार्वज्ञ्यादेरपि तथात्वात् न सर्वानुयायित्वम् । अयं भावः – केचित् धर्माः स्वरूपप्रयुक्ताः सततैकरूपाः निर्विकाराः । अत एव,

यञ्च कालान्तरेणापि नान्यसंज्ञामुपैति वै ।

परिणामादिसम्भूतां तद्वस्तु नृप तञ्च किम् ?

अनाशी परमार्थव प्राज्ञैरभ्युपगम्यते (वि.पु.२-१४-२४)

इत्यादिभि: उपपादिता: परमार्थशब्दवाच्याः सर्वज्ञत्वसर्वनियन्तृत्वादिविलक्षणा: ते सर्वविद्यानुयायिनः । संयद्वामत्वसर्वज्ञत्वादयस्तु धर्मा: स्वरूपव्यतिरिक्त-सततैकरूपत्वशून्य-प्रकृतितत्कार्यजीवकालेश्वरधर्मभूतज्ञानघटिताः । न ते एकरूपाः । ईश्वर धर्मभूतज्ञानस्यापि नानाविध संकल्पत्वादिलक्षणविकारशालितया ईश्वर तत्क्रियाणामपि अनेकरूपत्वात् तद्धटितधर्माणामपि नैकरूपत्वम् । अतः एव न परमार्थशब्दितत्वञ्च । अतः तेषां न सर्वानुयायित्वम् । ज्ञानत्वानन्तत्वसत्यत्वादीनां तु न तथा इति वैषम्यमाहुः ।।

अन्ये तु स्वरूपप्रतीत्यन्तर्गताः धर्माः सर्वविद्यानुयायिनः । स्वरूपप्रतीत्यन्तर्गतत्वं स्वरूपान्तर्गतत्वमेव । ज्ञानत्वाऽऽनन्दत्वादयस्तु स्वरूपाभिन्नधर्माः । अतः एव परैरपि, आनन्दो विषयानुभव: नित्यत्वं च इति सन्ति धर्माः । ते च अपृथक्त्वेऽपि पृथगिव अवभासन्ते इत्युक्तम् । अतश्च ये स्वरूपाभिन्नाः धर्माः, ते सर्वविद्यानुयायिनः । सर्वज्ञत्व । सर्व कर्तृत्वादयस्तु धर्मभूतज्ञानक्रियादिरूपा: धर्मिस्वरूपभिन्नाः इति न सर्वानुयायिनः [इत्याहुः] ।

अपरे तु – स्वरूपोपदेशपरवाक्यप्रतिपन्नानां सर्वविद्यानुयायित्वम्, न उपासनार्थोपदिष्टानाम् । न च, यः सर्वज्ञः सर्ववित् (मुं.उ.२-२-७) इत्यादिषु स्वरूपोपदेशपरवाक्यप्रतिपन्नतया सार्वज्ञ्यादीनामपि सर्वविद्यानुयायित्वप्रसङ्गः इति वाच्यम् । तस्यापि उपासनविध्यश्रवणेऽपि तत्परत्वात् । अत: एव, सम्भृतिद्युव्याप्त्यपि चात: (ब्र.सू.३-३-२३) इत्यधिकरणे अनारभ्य श्रुतानाम् अश्रुतोपासनविधीनामपि उपासनार्थत्वं सिद्धवत्कृत्य एव, किं सर्वविद्यानिवेशः? उत अल्पायतनव्यतिरिक्तासु ? इति चिन्ता प्रवर्तिता । न चैवम् उपासनार्थत्वे सार्वज्ञ्यादीनां अपारमार्थ्यप्रसङ्गः इति वाच्यम् । बाधकाभावेन सत्यत्वात् । अत: एव, ध्यानार्थेऽपि तद्गुणोपदेशे तद्गुणक: ईश्वरः सिद्ध्यति इति व्यतिहारसूत्रे शंकरभाष्येऽपि उक्तम् । इतरथा परमते सत्यकामत्वादीनां वागादिपादत्वादिवत् व्यावहारिकसत्यत्वस्यापि अभावप्रसङ्गात् इत्याहुः

।। इति आनन्दवल्लीप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.