तैत्तिरीयोपनिषत् भृगुवल्ली

तैत्तिरीयोपनिषत्

भृगुवल्ली

[शान्तिपाठः]

सह नाववतु । सहनौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ओं शान्तिः शान्तिः शान्तिः ।।

प्रथमोऽनुवाकः

[ब्रह्मजिज्ञासा]

भृगुर्वै वारुणि: । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तँ होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । स तपोऽतप्यत । स तपस्तत्वा ।। १ ।।

।। इति प्रथमोनुवाकः ।।

अथ लक्षणान्तरमुखेन ब्रह्म प्रतिपादयितुम्, ब्रह्मप्रतिपत्तौ तपोनिधूतकल्मषान्त:करणस्य हेतुत्वम् इति प्रतिपादनाय च भृगुवल्ली आरभ्यते – भृगुर्वै इति । वरुणसुतः भृगुः पितरं – वरुणम् , अधीहि भगवो ब्रह्मेति मन्त्रपूर्वकम् उपसन्न इत्यर्थः । हे भगवन् ! पूजार्ह ! ब्रह्म प्राणः ब्रह्म अधीहि – उपदेशाय स्मर । अधीष्व इति वा, अध्यापय इति वा अर्थः । तस्मा एतत् इति । अन्नं ब्रह्म, प्राणो ब्रह्म इत्यादिकं तन्मनश्शोधनाय उपदिश्य किं सर्वाणि अपि ब्रह्माणि ? उत एकम् ? तत्रापि किं वा ब्रह्म इति व्याकुलचेतसं पुत्रम् आलोक्य वक्ष्यमाणम् उवाच इत्यर्थः । यतो वा इमानि भूतानि इति । जीवन्ति – आत्मभूतेन जीवन्ति इत्यर्थः । प्रयन्ति सन्ति भूतानि – यत् अभिसंविशन्ति – लीयन्ते । सम् इत्येकीकरणे । एकीकृततया प्रवेश: संवेशः । यद्वा प्रयन्ति इति मोक्षः । अभिसंविशन्ति इति प्रलय: । अस्मिन् पक्षे यच्छब्दस्य आवृत्तिः । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति इत्यत्र हि प्रतिवाक्यं तद् ब्रह्म इत्युनुक्तेः न जगज्जन्मादिप्रत्येकं लक्षणम् । प्रत्येकलक्षणत्वे लक्षणान्तरवैय्यर्थ्यप्रसङ्गाञ्च । अतः समुदितमेव लक्षणम् ।

न च जन्मादिसमुदायस्य लक्षणत्वे व्यावर्त्याभावेन निष्प्रयोजनत्वम् ;लक्ष्याकारविपरीतशंकानिवारणक्षमत्वेन सप्रयोजनत्वात् । उत्पत्तिकारणत्वमात्रे अभिहिते हि तस्य स्थितिप्रलयकारणीभूतवस्त्वन्तरशंकया जगज्जन्ममात्रकारणस्य ब्रह्मण: निरतिशयबृहत्वं न सिद्ध्येत् । तथा लयकारणत्वाभिधाने आत्यन्तिकलय रूपमोक्षप्रदान्तर सद्भावशंकया मोक्षप्रदत्वप्राप्यत्वानुगुणगुणैः बृहत्त्वं न सिद्धयेत् । अतः जगज्जन्मकारणत्वमात्रस्य समस्तवस्तुव्यवच्छेदक्षमत्वेऽपि जन्मादिसमुदायकारणत्वस्य एव बृहत्त्वातिशयौपयिकत्वात् सृष्टि-स्थिति-प्रलय-समुदायकारणत्वं लक्षणम् इति ज्ञापितम् ।।

[वाक्यस्य कारणत्वलक्षणविधानपरत्वम्]

यत: येन यत् इति यद्वृत्तयोगात् कारणम् अनूद्यते । तद्ब्रह्मेति कारणस्य ब्रह्मत्वं विधीयते । तेन कारणत्वस्य ब्रह्मलक्षणत्वं सिद्धं भवति । तद्विजिज्ञासस्व – इति न विचारस्य उपासनस्य वा विधिः । विचारात्मकज्ञानं रागप्राप्तत्वात् न विधेयम् । उपासनात्मकस्य तु ज्ञानस्य ब्रह्मविदाप्नोति इति प्राकरणिकवाक्यान्तरसिद्धत्वात्, उपक्रमे – अधीहि भगवो ब्रह्म इति प्रश्नस्य तत्त्वपरत्वेन उपायविषयत्वाभावाच्च नोपासनाज्ञानमिह विधेयम् । अतः विजिज्ञासस्व इति उपदिश्यमानार्थे सावधानत्वार्थं सन्देहनिवृत्त्यर्थं च उक्तम् । या गन्धवती तां पृथिवीं विद्धि इतिवत् । अतः कारणत्वस्य ब्रह्मलक्षणत्वमेव अस्य वाक्यस्य विधेयम् । यथा यत्र सारसः स देवदत्तकेदारः इत्युक्ते सारसम्बन्धस्य देवदत्तकेदारलक्षणत्वम् उक्तं स्यात् तद्वदिति व्यासार्यै: उक्तम् ।

[कारणत्वरूपलक्षणविशेषकथनफलम् ]

ननु ईश्वरस्य लिलक्षयिषितत्वे तर्हि तदसाधारण सर्वज्ञत्वादिप्रतिपादकसत्यज्ञानादिवाक्यानादरेण जन्मादिकारणत्वेन किमर्थं लक्ष्यत इति चेत्, उच्यते । गुणैः स्वरूपस्य लक्ष्यत्वे तदपेक्षया बहिष्ठाया: विभूतेः उपास्यान्तर्भावः न प्रतीयेत । सर्गादिविषयभूतया तु विभूत्या स्वरूपे लक्ष्यमाणे, विभूतेः सर्गाद्यौपयिकसर्वज्ञत्वादिगुणानामपि जिज्ञास्यान्तर्भावः सिद्ध्यति । विभूतेश्च जिज्ञास्यान्तर्भावः, उपासात्रैविध्यात् (ब्र.सू.१-१-३२) इति सूत्रितः । ननु एवमपि कृत्स्नविभूते: जिज्ञास्यान्तर्भावः न सिद्ध्यति ; त्रिपाद्विभूतेः जन्माद्यस्पृष्टत्वात् इति चेन्न । यत्प्रयन्ति इति प्रलयवाक्यस्थयच्छब्देन मुक्तप्राप्यस्य ब्रह्मणः विवक्षितत्वात्, नित्यविभूतिविशिष्टस्यैव मुक्तप्नाप्यत्वात्, नित्यविभूतेरपि जिज्ञास्यत्वसिद्धिः ।।

एवञ्च जगत्कारणत्वलक्षणं विशिष्टनिष्ठम्, सत्यज्ञानत्वलक्षणं तु विशेष्यनिष्ठम् इति भिदा । एवमेव व्यासार्यै: उक्तम् ।

[यतः इति हैतुपञ्चमी समर्थनम् ]

अत्र यत इति पञ्चमी हेत्वर्थिका । यच्छब्दस्य अनुवादरूपत्वात् । अनुवादस्य च प्रापकवाक्यसापेक्षतया तद्विरुद्धार्थपरत्वासम्भवात् । प्रापकवाक्येषु, एकमेवाद्वितीयम्, तदैक्षत बहु स्याम्, (छां.उ.६-२-१-३) तत् तेजोऽसृजत (छां.उ.६-२-३) इति निमित्तत्वोपादानत्वयोः प्रतिपादनात् तदनुवादिनि लक्षणवाक्ये यत: इति पदम् उभयविषयकम् इति व्यासार्यै: उक्तम् । न च हेतौ पञ्चमी नानुशिष्टेति शंक्यम् । अ इ उ ण् (पा.सू.१) इति सूत्रे, विवारभेदात् इति भाष्यनिर्देशेन, विभाषा गुणेऽस्त्रियाम् (पा.सू.२-३-२५) इत्यत्र विभाषा इति योगविभागस्य आश्रिततया, ततः एव हेतुपञ्चम्युपपत्तेः इति द्रष्टव्यम् ।।

[जन्माद्यधिकरणविचारः]

इदञ्च चिन्तितम्, जन्माद्यस्य यत: (ब.सू.१-१-२) इति सूत्रे । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति इत्यत्र जगजन्मादयः न विशेषणत्वेन ब्रह्म लक्षयितुं शक्नुवन्ति । विशेषणानां व्यावर्तकस्वभावत्वेन व्यावर्तकबहुत्वे व्यावर्त्यबहुत्वावश्यंभावेन विशेषणानां बहुत्वे विशेष्यनानात्वप्रसङ्गात् । खण्डमुण्डः पूर्णशृङ्गः गौ: इत्यत्र विशेषणबहुत्वेन विशेष्यबहुत्वस्य दर्शनात् । न च, देवदत्तः श्यामो युवा लोहिताक्षः समपरिमाणः इत्यादौ विशेषणबहुत्वेऽपि विशेष्यैक्यं दृष्टम् इति वाच्यम् । प्रत्यक्षावगतविशेष्यैक्यबलात् तत्र विशेष्यभेदत्यागेऽपि, प्रत्यक्षाद्यप्रतिपन्ने अलौकिके ब्रह्मणि उत्सर्गप्राप्तस्य विशेषणभेदप्रयुक्तविशेष्यभेदस्य त्यागायोगात् ।।

नापि उपलक्षणतया जन्मादीनां व्यावर्तकत्वम्, यत्रायं सारसः स देवदत्तकेदारः इत्यादौ केदारत्वादिना केनचित् आकारणे पूर्वप्रतिपन्नः एव केदारः देवदत्तकेदारत्वरूपधर्मान्तरवत्तया सारसेन उपलक्ष्यते । इह तु जगज्जन्मादिभिर्हि निरतिशयबृहत्त्व रूप लक्षणीये उपलक्ष्याकारसमानाधिकरण: केदारत्वस्थानीयः पूर्वप्रतिपन्नः कश्चन आकार: वक्तव्यः । न च इह ब्रह्मणि पूर्वप्रतिपन्नाकारः कश्चित् अस्ति । न च, सत्यं ज्ञानमनन्तं ब्रह्म इति वाक्यप्रतिपन्नसत्यत्वज्ञानत्वादीनां पूर्वप्रतिपन्नाकारत्वसम्भवः । सत्यत्वादिषु अपि विशेषणत्वोपलक्षणत्वविकल्पदौस्स्थ्येन तेषामपि लक्षणत्वासम्भवात् इति प्राप्ते, उच्यते – जन्माद्यस्य यत: (ब्र.सू.१-१-२) अस्य – अचिन्त्यविविधविचित्ररचनस्य ब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रितस्य जगत: जन्मस्थितिलया: यतः भवन्ति, तद्ब्रह्म इति सूत्रार्थः । ततश्च जगज्जन्मादिहेतुत्वं ब्रह्मलक्षणं भवितुमर्हति इति सूत्रार्थः ।।

अयं भावः – यद्यपि विशेषणानां व्यावर्तकत्वं स्वभावः, अथापि विशेषण स्वविरुद्धधर्माश्रयात् स्वाश्रयं व्यवच्छिनत्ति इत्येव । न तु स्वाविरुद्धधर्माश्रयादपि स्वाश्रयं व्यावर्तयति । नीलम् उत्पलम् इत्यादौ नैल्यस्य शौक्ल्याश्रयव्यावर्तकत्ववत् । दैर्ध्याश्रयव्यावर्तकत्वाभावात् । प्रकृते च जन्महेतुत्वस्थितिहेतुत्वादीनां परस्परविरुद्धत्वाभावेन व्यक्तिबहुत्वस्या प्रसक्ति: । खण्डः मुण्डः इत्यादौ खण्डत्वादीनां परस्परविरुद्धत्वात् स्वाश्रयभेदकत्वम् । उपलक्षणत्वपक्षेऽपि न दोषः । उपलक्षणभूतात् जगज्जन्मादिहेतुत्वात् उपलक्ष्याच्च निरतिशयबृहत्वात् अन्यस्य बृहत्वसामान्यस्य पूर्वप्रतिपन्नाकारस्य सम्भवेन उपलक्षणत्वपक्षेऽपि दोषाभावात् ।

ननु परस्परविरुद्धयोः विशेषणत्वोपलक्षणत्वपक्षयोः उभयोरपि भाष्ये कथम् अभ्युपगमः इति चेत्, अत्र केचित् – विशिष्टनिष्ठं जगत्कारणत्वम्, विशेष्यनिष्ठं तु सत्यत्वादिकम् इति व्यासार्यै: तत्र तत्रोक्तम् । भाष्ये च जगत्कारणत्वोपलक्षितस्वरूपस्य इति बहुशो व्यवहतत्वात् जगत्कारणत्वं चिदचिदिशष्टस्य ब्रह्मण: विशेषणभूतं लक्षणम् । शुद्धस्वरूपस्य तु उपलक्षणम्, जगत्कारणत्वस्य शुद्धस्वरूपनिष्ठत्वाभावात् । तदभिप्रायेणैव विशेषणोपलक्षणत्वाभ्युपगमः । न च शुद्धस्वरूपानिष्ठस्य विशिष्टनिष्ठस्य जगत्कारणत्वस्य कथं शुद्धस्वरूपोपलक्षणत्वमिति वाच्यम् । तटस्थस्यापि शाखाग्रस्य चन्द्रोपलक्षणत्वस्य दर्शनात् – इति वदन्ति ।

अन्ये तु विशेष्यनिष्ठत्वानिष्ठत्वाभ्यामेव विशेषणोपलक्षणभेदम् आश्रित्य, जगत्कारणत्वस्य ब्रह्मनिष्ठतया विशेषणत्वम्, प्रपञ्चगतजन्मादेस्तु ब्रह्मनिष्ठत्वाभावेन उपलक्षणत्वम् इति वर्णयन्ति ।

अपरे तु, यतो वा इमानि इति वाक्येन जन्मादिविशिष्टे ब्रह्मत्वं बोध्यते ? उत तदुपलक्षिते ? नाद्यः ; जन्मविशिष्टे ब्रह्मत्वबोधने विशेषणभूतजन्मादौ अपि ब्रह्मत्वप्रसङ्गः । उपलक्षणपक्षे आकारान्तराप्रतिपत्तिः दोषः इति पूर्वपक्षिण: भावः । तन्न, न विधेयान्वयित्वं विशेषणत्वम् ; येन जन्मादेः विशेषणत्वे विधेयभूतब्रह्मत्वान्वयः अपि प्रसज्येत् । अपि तु यदन्विततया ज्ञाते इतरान्वयः तत्तत्र विशेषणम् । प्रकृते च जगज्जन्मादिहेतुत्वान्वयितया ज्ञाते ब्रह्मणि ब्रह्मत्वान्वयधीः इति विशेषणत्वे न अनुपपत्तिः । यदि विधेयान्वयी एव विशेषणम् इति आग्रहः, तर्हि उपलक्षणपक्षो वा अस्तु । बृहत्त्वसामान्यलक्षणतृतीयाकार-प्रतिपत्तेः असम्भवात् इत्येव सिद्धान्तिन: अभिप्रायः । न तु विशेषणत्वोपलक्षणत्वयोः समुञ्चयः इति (वदन्ति) ।

इतरे तु, तद्विजिज्ञासस्व इत्यत्र उपासनं विधीयते । तत्र केषुचित् उपासनेषु जगत्कारणत्वम् अनुसन्धेयम् । तत्र ज्ञाप्यान्तर्भूतत्वात् जगत्कारणत्वं विशेषणम् । यत्र तु नानुसन्धेयम् तत्र उपलक्षणं ज्ञाप्यानन्तर्गतत्वात् इति, इतरे तु अर्थसामान्यात् (ब्र.सू. ३-३-१३) इति सूत्रे व्यासार्योक्तेः तदनुसारेण विशेषणत्वोपलक्षणत्व समुञ्चयः अपि न अनुपपन्नः इति वदन्ति ।

अतः जगज्जन्मादिहेतुत्त्वं ब्रह्मलक्षणम् इति स्थितम् । प्रकृतम् अनुसरामः ।

[पुन: पुनरुपसरणम्]

स तपोऽतप्यत इति शृङ्गग्राहिकया इदं ब्रह्म इत्युपदेशं परित्यज्य लक्षणोपदेशपूर्वकं, विजिज्ञासस्व इत्युपदिशतो हि अयं भावः । सम्पादनीयं ब्रह्मज्ञानसाधनं संपाद्य एतल्लक्षणलक्षितं ब्रह्म विजानीहि इति । एतम् अर्थं निश्चित्य इन्द्रियनिग्रहादिलक्षणस्य तपसा ब्रह्मविद्यायाम् अन्तरङ्गोपायत्वात् तदेव साधनमिति ज्ञात्वा तपः कृत्वा ।।।

द्वितीयोऽनुवाकः

[अन्ने ब्रह्मत्व परिज्ञानम्]

अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ।।

।। इति द्वितीयोऽनुवाकः ।।

प्रथमतः अन्नस्य सर्वभूतोत्पत्त्यादिकारणत्वात्, अन्नं ब्रह्मेति ज्ञातवान् इत्यर्थः । तद्विज्ञाय इति । अन्नं ब्रह्मेति ज्ञात्वा उत्पत्तिमत्त्वादिना अन्नस्य ब्रह्मत्वे अपरितुष्यन् पुनरपि पितृसमीपमागत्य अधीहि भगव इति मन्त्रम् उच्चारितवानित्यर्थः । तँ होवाच इति । पूर्ववदेव तपः समाचर, तप एव ब्रह्मविद्यासाधनम् । तस्मात् तपसा ब्रह्म विजिज्ञासस्व इत्युक्तवान् इत्यर्थः । स तपस्तप्त्वा इत्यादि । स्पष्टोऽर्थः ।।

तृतीयोऽनुवाकः

[प्राणे ब्रह्मत्वपरिज्ञानम्]

प्राणो ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति, तद्विज्ञाय, पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तें होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ।।

इति तृतीयोऽनुवाकः ।।

स्पष्टोऽर्थः ।।

चतुर्थोऽनुवाकः

[मनसि ब्रह्मत्वज्ञानम्]

मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ।।

।। इति चतुर्थोऽनुवाकः ।।

स्पष्टोऽर्थः ।।

पञ्चमोऽनुवाकः

[विज्ञानं ब्रह्म इति परिज्ञानम्]

विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तत्वा ।

।। इति पञ्चमोनुवाकः ।।

स्पष्टोऽर्थः ।।

षष्ठोऽनुवाकः

[ब्रह्मविद्याफलम्]

आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति । सैषा भार्गवी वारुणी विद्या । परमे व्योमन् प्रतिष्ठिता । य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ।।

।। इति षष्टोऽनुवाकः ।।

सैषा भार्गवी इति । भृगवे वरुणेन प्रोक्ता विद्या अन्नमयादिकम् अतिक्रम्य. परमे व्योमन् इति निर्दिष्टे परमव्योमशब्दिते परमात्मनि प्रतिष्ठिता, न तु तमपि अतिक्रम्य ततः अन्यत्र गता इत्यर्थः । तद्वेदनस्य फलमाह – स य एवं वेद इति । स्पष्टोऽर्थः ।।

सप्तमोऽनुवाकः

[ब्रह्मविद्यांगतया अनुष्ठेयानि व्रतानि]

अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ।।

।। इति सप्तमोऽनुवाकः ।।

एतद्विद्याङ्गं व्रतमाह – अन्नं न निन्द्यात्, तद्व्रतम् इति । प्राणशरीरयोः, अप्तेजसोः पृथिव्याकाशयोः अन्नान्नादत्वदृष्टिम् , तयोः परस्परप्रतिष्ठितत्वदृष्टिम, परस्परप्रतिष्ठिततया परम्परया स्वप्रतिष्ठितत्त्वदृष्टिम् , तदङ्गव्रतविशेषम्, तत्फलञ्चाह – प्राणो वा अन्नम् इत्यादिना ।।

अष्टमोऽनुवाकः

[अन्ननिन्दानिषेधः]

अन्नं न परिचक्षीत । तद्व्रतम् । आपो वाऽन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ।।

।। इति अष्टमोऽनुवाकः ।।

न परिचक्षीत । पात्रस्थम् अन्नं न निराकुर्यात् इत्यर्थः ।।

नवमोऽनुवाकः

अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाश: प्रतिष्ठित: । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ।।

।। इति नवमोऽनुवाकः ।।

बहु कुर्वीति इति । अतिथ्यभ्यागतस्वजनपर्याप्तं कुर्यात् इत्यर्थः । यद्वा – बहुकुर्वीति – बहुमन्वीत इत्यर्थः । अन्ने बहुमतिं कुर्यात् इत्यर्थः ।।

दशमोऽनुवाकः

[अन्नदानमाहात्म्यम्]

न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मखतोऽन्नँराद्धम् । मुखतोऽस्मा अन्नँ राध्यते । एतद्वै मध्यतोऽन्नँ राद्धम् । मध्यतोऽस्मा अन्नँ राध्यते । एतद्वा अन्ततोऽन्नँ राद्धम् । अन्ततोऽस्मा अन्नँ राध्यते ।। १ ।।

न कञ्चन वसतौ प्रत्याचक्षीत इति । स्वगृहे रात्र्यादौ भोजनार्थम् आगतं कमपि नरं न निराकुर्यात् इत्यर्थः । तस्मात् इति । भोजनार्थम् आगतानां पुरुषाणाम्  अप्रत्याख्यानस्य आवश्यकत्वात् निषिद्धेनापि येन केनचिन्मार्गेण बह्वन्नं सम्पादयेत् इत्यर्थः । अराध्यस्मा इति । अस्मै – उपासकाय अन्नम्, अराधि – सिद्धम् । उपासकार्थमेव हि अन्नस्य निष्पत्तिः । अतः तदर्थमेव निष्पन्नत्वात् अन्नानां तेषां येन केनापि उपायेन आर्जने न दोषः इति भावः । एतद्वा इति । आदिमध्यान्तप्रदेशेषु अन्नं यदेतत्सिद्धं, सर्वावयवयुक्तमपि अन्नम् अस्मै उपासकाय सिद्धं ; तदर्थमेव उत्पन्नमिति हि सन्त: आचक्षते इत्यर्थः ।

य एवं वेद, स: यया कया च विधया बह्वन्नं प्राप्नुयात् इति पूर्वेण सम्बन्धः ।।

[आध्यात्मिकआधिदैविकोपासनानि]

य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषी: समाज्ञाः । अथदैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति ।। २ ।।

यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे । तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति । तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत । मानवान् भवति ।। ३ ।।

 तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान् भवति । तद्ब्रह्मण: परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि येऽप्रिया भ्रातृव्याः । स यश्चायं पुरुषे यश्चासावादित्ये । स एकः ।। ४ ।।

क्षेम इति इत्यादि । क्षेमसाधनत्वात् वाचः, क्षेमत्वबुद्धिः तत्र कार्या इत्यर्थः । एवम् उत्तरत्रापि । विमुक्तिः – विसर्गः इत्यर्थः । अध्यात्मम् एता: उपासनाः उक्ताः इत्यर्थः । अथ दैवी: दैविकी: उपासना: वक्ष्यामि इत्यर्थः ।।

प्रजातिः इति । एतत्तु आध्यात्मिकोपासने सङ्गतम्, पाठक्रमात् अर्थक्रमस्य बलवत्त्वात् इति द्रष्टव्यम् । सर्वमित्याकाशे इत्यादि । आकाशस्य प्रतिष्ठितत्वादि गुणयुक्ततया उपासते । तत्क्रतुन्यायेन प्रतिष्ठादिकं भवति इत्यर्थः । ब्रह्मवान् – बृहत्ववानित्यर्थ: । नम्यन्ते – प्राप्यन्ते इत्यर्थः । परितः म्रियन्ते अस्मिन् इति परिमरः । सार्वत्रिकमरणस्यापि अवकाशतया आश्रय इत्यर्थः । एवम् आकाशस्य ब्रह्मशेषत्वेन परिमरत्वेन च उपासने, एनम् – उपासकं परितः द्विषन्तः म्रियन्ते इत्यर्थः । पर्येणम् इति णत्वं छान्दसम् । तदेव व्याचष्टे परि येऽप्रियाः इति । अप्रियाः. भ्रातृव्याः शत्रवः परितः वर्तमानाः म्रियन्ते इत्यर्थः ।।

[उपासनाफलम्]

स य एवं वित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य । एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य । एतं विज्ञान मयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत्सामगायन्नास्ते । हा३ वु हा३ वु हा३ वु ।। ५ ।।

अहमन्नमहमन्नमहमन्नम् । अहमन्नादोऽहमन्नादोऽहमन्नादः । अहँ श्लोककदहँ श्लोककृदहँ श्लोककृत् । अहमस्मि प्रथमजा ऋता३स्य । पूर्वं देवेभ्योऽमृतस्य ना३ भा ३ इ । यो मा ददाति स इ देवा मा३वा ३: । अहमन्नमन्नमदन्तमा३ द्मि । अहं विश्वं भुवनमभ्यभवा३म् । सुवर्णज्योती: । य एवं वेद ।। ६ ।।इत्युपनिषत् । राध्यते विद्युति मानवान् भवत्येको हा३वु य एवं वेदैकं च ।। १० ।।

इति दशमोनुवाकः ।।

।।इति भृगुवल्ली समाप्ता समाप्ता तैत्तिरीयोपनिषत् ।।

स यः इत्यादि । पूर्ववदर्थः । एतत् वक्ष्यमाणम् इत्यर्थः । शिष्टं स्पष्टम् । हा३ वु हा३ वु हा३ वु इति स्तोभाक्षराणि एतानि ।

अहमन्नम् इति । अत्र अहं शब्दः परमात्मपर्यन्तः । भोग्यभोक्तृवाच्यौ अन्नान्नादशब्दौ अपि तत्पर्यन्तौ । श्लोककृत् श्लोक्यन्ते इति श्लोकाः; श्लाघनीयजगद्रक्षणादिकृत्  इत्यर्थः । अहमस्मि इति । ऋतस्य कर्मणः । प्रथमजाः – सर्गाद्यसमयः तत्परिपाककृत्  इत्यर्थः । पूर्वं देवेभ्यः वर्तमानाः अमृतस्य – मोक्षस्य, नाभिः – रथचक्रस्य नाभिरिव आश्रयभूतः । नाभा इ इति गानकृतः विकारः । यो मां योग्याय शिष्याय ददाति – उपदिशति, स एव मा – मां, अवा: – अवात् प्राप्तः भवति । वा गतिगन्धनयो: (धा.पा.१०५०) इति हि धातुः । इच्छब्दोऽनर्थकः । अहमन्नं इति । अन्नशब्दितम्  अचेतनम् , तद्भोक्तारं चेतनञ्च अद्मि – व्याप्नोमि । अहं विश्वम् इति । प्रळयकाले विश्वम् अभिभूतवान् अस्मि इत्यर्थः ।

सुवर्णज्योती: इति । कमनीयदेदीप्यमानशरीरः भवति । य एवं वेद । इत्युपनिषत् । समाप्ता इति शेषः ।।

क्षेमाय : करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः

वामागमाध्वगवदावदतूलवातो रामानुजस्स मुनिराद्रियतां मदुक्तिम् ।।

।। इति भृगुवल्ली प्रकाशिका ।।

।। इति श्रीभगवद्रामानुजसिद्धान्तनिर्धारणसार्वभौम श्रीमद्रङ्गरामानुजमुनिविरचिततैत्तिरीयोपनिषत्प्रकाशिका सम्पूर्णा ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.