॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
श्रीभगवद्रामानुजविरचितः उपनिषदर्थसङ्ग्राहकः
वेदार्थसङ्ग्रह:
(मङ्गलाचरणम्)
अशेषचिदचिद्वस्तुशेषिणे शेषशायिने ।
निर्मलानन्तकल्याणनिधये विष्णवे नम: ॥ १॥
परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत्
परोपाध्यालीढं विवशमशुभस्यास्पदमिति ।
श्रुतिन्यायापेतं जगति विततं मोहनमिदं
तमो येनापास्तं स हि विजयते यामुनमुनि: ॥२॥
(स्वसिद्धान्तार्थसारः)
अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयमर्थ: जीवपरमात्मयाथात्म्यज्ञान-पूर्वकवर्णाश्रमधर्मेतिकर्तव्यताक परमपुरुषचरणयुगलध्यानार्चनप्रणामादिरत्यर्थप्रिय: तत्प्राप्तिफल:।
अस्य जीवात्मनोऽनाद्यविद्यासञ्चितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यक् स्थावरात्मकचतुर्विधदेहप्रवेशकृततत्तदभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्म-स्वरूपतत्स्वभाव-तदन्तर्यामिपरमात्मस्वरूपतत्स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वक- अनवधिकातिशयानन्द-ब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्, तत्त्वमसि (छा.उ.६.८.४) । अयमात्मा ब्रह्म । (बृ.उ.६.४.५) य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृत: । (बृ.उ.मा.पा.५.७.२६) एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: । (सुबा.उ.७) तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन । ब्रह्मविदाप्नोति परम्। तमेवं विद्वानमृत इह भवति नान्य: पन्था अयनाय विद्यते (तै.आ.पु.३.१२.१७) इत्यादिकम् ।
(जीवात्मनः स्वरूपम्)
जीवात्मन: स्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणं, तस्यैतस्य कर्मकृतदेवादिभेदेऽपध्वस्ते स्वरूपभेदो वाचामगोचर: स्वसंवेद्य:, ज्ञानस्वरूपमित्येतावदेव निर्देश्यम् । तच्च सर्वेषामात्मनां समानम् ।
(परमात्मनः स्वरूपम्)
एवंविधचिदचिदात्मकप्रपञ्चस्योद्भवस्थितिप्रलयसंसारनिर्वर्तनैकहेतुभूतस्समस्तहेय-प्रत्यनीकानन्तकल्याणतया च स्वेतरसमस्तवस्तुविलक्षणस्वरूपोऽनवधिकातिशयासंख्येय-कल्याणगुणगण: सर्वात्म-परब्रह्मपरज्योति:परतत्त्वपरमात्मसदादिशब्दभेदैर्निखिलवेदान्तवेद्यो भगवान्नारायण: पुरुषोत्तम इत्यन्तर्यामिस्वरूपम् ।
(परमात्मनो वैभवम्)
अस्य च वैभवप्रतिपादनपरा: श्रुतय: स्वेतरसमस्तचिदचिद्वस्तुजातान्तरात्मतया निखिलनियमनं तच्छक्ति-तदंश-तद्विभूति-तद्रूप-तच्छरीर-तत्तनुप्रभृतिभि: शब्दैः तत्सामानाधिकरण्येन च प्रतिपादयन्ति ।
(निरसनीयानां मतानां संक्षिप्तानुवादः तत्र शाङ्करमतसंग्रहश्च)
तस्य वैभवप्रतिपादनपराणामेषां सामानाधिकरण्यादीनां विवरणे प्रवृत्ता: केचन निर्विशेषज्ञानमात्रमेव ब्रह्म, तच्च नित्यमुक्तस्वप्रकाशस्वभावमपि तत्त्वमस्यादि-सामानाधिकरण्यावगतजीवैक्यं, ब्रह्मैवाज्ञं बध्यते मुच्यते च, निर्विशेषचिन्मात्रातिरेकेश्वरेशितव्यादि अनन्तविकल्परूपं कृत्स्नं जगन्मिथ्या, कश्चिद्बद्ध:, कश्चिन्मुक्त इतीयं व्यवस्था न विद्यते । इत: पूर्वं केचन मुक्ता इत्ययमर्थो मिथ्या । एकमेव शरीरं जीववत्, निर्जीवानीतराणि, तच्छरीरं किमिति न व्यवस्थितम्, आचार्यो ज्ञानस्योपदेष्टा मिथ्या, शास्त्रं च मिथ्या, शास्त्रप्रमाता च मिथ्या, शास्त्रजन्यं ज्ञानं च मिथ्या, एतत्सर्वं मिथ्याभूतेनैव शास्त्रेणावगम्यत इति वर्णयन्ति ।
(भास्करमतसंक्षिप्तानुवादः)
अपरे तु अपहतपाप्मत्वादिसमस्तकल्याणगुणोपेतमपि ब्रह्मैतेनैववाक्यावबोधेन केनचिदुपाधिविशेषेण संबद्धं बध्यते मुच्यते च नानाविधमलरूपपरिणामास्पदं चेति व्यवस्थिता: ।
(यादवप्रकाशमतसंक्षिप्तानुवादः)
अन्ये पुनः ऐक्यावबोधयाथात्म्यं वर्णयन्त: स्वाभाविकनिरतिशयापरिमितोदारगुणसागरं ब्रह्मैव सुरनरतिर्यक्स्थावरनारकिस्वर्ग्यपवर्गिचेतनेषु स्वभावतो विलक्षणमविलक्षणं च वियदादिनानाविधमलरूप -परिणामास्पदं चेति प्रत्यवतिष्ठन्ते ।
(शाङ्करमते औचित्यराहित्यम्)
तत्र प्रथमपक्षस्य श्रुत्यर्थपर्यालोचनपरा दुष्परिहारान् दोषानुदाहरन्ति । प्रकृतपरामर्शितच्छब्दावगत-स्वसंकल्पकृत जगदुदयविभवविलयादय: तदैक्षत बहु स्यां प्रजायेय (छा.उ.६.२.३) इत्यारभ्य सन्मूला: सोम्येमा: सर्वा: प्रजा: सदायतना: सत्प्रतिष्ठा (छा.उ.६.८.४) इत्यादिभि: पदै: प्रतिपादिताः तत्संबन्धितया प्रकरणान्तरनिर्दिष्टा: सर्वज्ञतासर्वशक्तित्वसर्वेश्वरत्व-सर्वप्रकारत्वसमाभ्यधिक-निवृत्तिसत्यकामत्वसत्यसंकल्पत्व-सर्वावभासकत्वाद्यनवधिकातिशय असंख्येयकल्याणगुणगणा: अपहतपाप्मा (छा.उ.८.७.१) इत्याद्यनेकवाक्यावगतनिरस्त-निखिलदोषता च सर्वे तस्मिन् पक्षे विहन्यन्ते।
(ब्रह्मणो निर्विशेषतायाः श्रौतत्वशङ्कापरिहारौ)
अथ स्यात् – उपक्रमेऽप्येकविज्ञानेन सर्वविज्ञानमुखेन कारणस्यैव सत्यतां प्रतिज्ञाय तस्य कारणभूतस्यैव ब्रह्मण: सत्यतां विकारजातस्यासत्यतां मृद्दृष्टान्तेन दर्शयित्वा सत्यभूतस्यैव ब्रह्मण: सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.उ.६.२.१.) इति सजातीयविजातीयनिखिल-भेदनिरसनेन निर्विशेषतैव प्रतिपादिता। एतच्छोधकानि प्रकरणान्तरगतवाक्यान्यपि सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आन.१.१), निष्कलं निष्क्रियं (श्वे.उ.६.१९), निर्गुणं (श्वे.उ.६.१), विज्ञानम् (तै.उ.भृ.५.१) आनन्दम् (तै.उ.आ.९.१) इत्यादीनि सर्वविशेषप्रत्यनीकैकाकारतां बोधयन्ति । न चैकाकारताबोधने पदानां पर्यायता । एकत्वेऽपि वस्तुन: सर्वविशेषप्रत्यनीकतोपस्थापनेन सर्वपदानामर्थवत्त्वादिति ।
नैतदेवम् । एकविज्ञानेन सर्वविज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न सेत्स्यति। सत्यत्वमिथ्यात्वयोरेकताप्रसक्तिर्वा । अपि त्वेकविज्ञानेन सर्वविज्ञानं सर्वस्य तदात्मकत्वेनैव सत्यत्वे सिध्यति ।
(भास्करमतसंक्षिप्तानुवादः)
अयमर्थ: – श्वेतकेतुं प्रत्याह स्तब्धोऽस्युत तमादेशमप्राक्ष्य (छा.उ.६.१.३) इति परिपूर्ण इव लक्ष्यसे तानाचार्यान् प्रति तमप्यादेशं पृष्टवानसीति । आदिश्यतेऽनेनेत्यादेश: । आदेशः – प्रशासनम्। एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्यादिभिरैकार्थ्यात् । तथा च मानवं वच: – प्रशासितारं सर्वेषां (म.स्मृ.१२-१२२) इत्यादि । अत्राप्येकमेवेति जगदुपादानतां प्रतिपाद्य अद्वितीयपदेनाधिष्ठात्रन्तरनिवारणात् अस्यैवाधिष्ठातृत्वमपि प्रतिपाद्यते ।
(एकविज्ञानेन सर्वविज्ञानश्रुत्याशयः)
अतस्तं प्रशासितारं जगदुपादानभूतमपि पृष्टवानसि येन श्रुतेन मतेन विज्ञातेनाश्रुतममतमविज्ञानं श्रुतं मतं विज्ञातं भवति इत्युक्तं स्यात् । निखिलजगदुदयविभवविलयादिकारणभूतं सर्वज्ञत्वसत्यकामत्व-सत्यसंकल्पत्वपरिमितोदार-गुणगणसागरं किं ब्रह्मापि त्वया श्रुतमिति हार्दो भाव: ।
तस्य निखिलकारणतया कारणमेव नानासंस्थानविशेषसंस्थितं कार्यमित्युच्यत इति कारणभूतसूक्ष्मचिदचिद्वस्तुशरीरकब्रह्मविज्ञानेन कर्र्यभूतमखिलं जगद्विज्ञातं भवतीति हृदि निधाय येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं स्यात् (छा.उ.६.१.३) इति पुत्रं प्रति पृष्टवान् पिता ।
(एकविज्ञानेन सर्वविज्ञानुपपत्तिचिन्तया पुरुषस्य चोदना)
तदेतत्सकलस्य वस्तुजातस्यैककारणत्वं पितृहृदि निहितमजानन् पुत्र: परस्परविलक्षणेषु वस्तुष्वन्यस्य ज्ञानेन तदन्यविज्ञानस्याघटमानतां बुद्ध्वा परिचोदयति कथं नु भगव: स आदेश (छा.उ.६.१.३) इति। परिचोदित: पुनस्तदेव हृदि निहितं ज्ञानानन्दामलत्वैकस्वरूपमपरिच्छेद्य-माहात्म्यं सत्यसंकल्पत्वमिश्रै: अनवधिकातिशयासंख्येयकल्याणगुणगणैर्जुष्टमविकारस्वरूपं परं ब्रह्मैव नामरूपविभागानर्हासूक्ष्मचिदचिद्वस्तुशरीरं स्वलीलायै स्वसंकल्पेनानन्तविचित्रस्थिर-त्रसस्वरूपजगत्संस्थानं स्वांशेनावस्थितमिति।
तज्ज्ञानेनास्य निखिलस्य ज्ञाततां ब्रुवन् लोकदृष्टं कार्यकारणयोरनन्यत्वं दर्शयितुं दृष्टान्तमाह – यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् (छा.उ.६.१.४) इति। एकमेव मृद्द्रव्यं स्वैकदेशेन नानाव्यवहारास्पदत्वाय घटशरावादि-नानासंस्थानावस्थारूपविकारापन्नं नानानामधेयमपि मृत्तिकासंस्थानविशेषत्वात् मृद्द्रव्यमेवेत्थमवस्थितं न वस्त्वन्तरमिति । यथा मृत्पिण्डविज्ञानेन तत्संस्थानविशेषरूपं घटशरावादि सर्वं ज्ञातमेव भवतीत्यर्थ:।
(श्वेतकेतुप्रश्नमनुरुद्ध्य सतः जगदुपादानतानिमित्तत्वयोः प्रतिपादनम्)
तत: कृत्स्नस्य जगतो ब्रह्मैककारणतामजानन् पुत्र: पृच्छति भगवांस्त्वेव मे तद्ब्रवीतु (छा.उ.६.१.७) इति । तत: सर्वज्ञं सर्वशक्ति ब्रह्मैव सर्वकारणमित्युपदिशन् स होवाच सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति । अत्रेदम् इति जगन्निर्दिष्टम् । अग्र इति च सृष्टे: पूर्वकाल:। तस्मिन् काले जगत: सदात्मकतां सदेव इति प्रतिपाद्य, तत्सृष्टिकालेऽप्यविशिष्टमिति कृत्वा एकमेव इति सदापन्नस्य जगतस्तदानीमविभक्तनामरूपतां प्रतिपाद्य तत्प्रतिपादनेनैव सतो जगदुपादानत्वं प्रतिपादितमिति स्वव्यतिरिक्तनिमित्तकारणं अद्वितीयपदेन प्रतिषिद्धम् ।
तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवति (छा.उ.६.१.३) इत्यादावेव प्रशास्तितैव जगदुपादानमिति हृदि निहितमिदानीमभिव्यक्तम् । (एतदेवोपपादयति) स्वयमेव जगदुपादानं जगन्निमित्तं च सत् तदैक्षत बहु स्यां प्रजायेय (छा.उ.६.२.३) इति । तदेतच्छब्दवाच्यं परं ब्रह्म सर्वज्ञं सर्वशक्ति सत्यसङ्कल्पमवाप्तसमस्तकाममपि लीलार्थं विचित्रानन्तचिदचिन्मिश्रजगद्रूपेणाहमेव बहु स्यां तदर्थं प्रजायेयेति स्वयमेव संकल्प्य स्वांशैकदेशादेव वियदादिभूतानि सृष्ट्वा पुनरपि सैव सच्छब्दाभिहिता परा देवतैवमैक्षत –
(नामरूपव्याकरणश्रुति-तदर्थविचारः)
हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि (छा.उ.६.३.२) इति । अनेन जीवेनात्मनेति जीवस्य ब्रह्मात्मकत्वं प्रतिपाद्य ब्रह्मात्मजीवानुप्रवेशादेव कृत्स्नस्याचिद्वस्तुन: पदार्थत्वमेवंभूतस्यैव सर्वस्य वस्तुनो नामभाक्त्वमिति च दर्शयति ।
(नामरूपव्याकरणश्रुत्यर्थस्फुटीकरणम्)
एतदुक्तं भवति – जीवात्मा तु ब्रह्मण: शरीरतया प्रकारत्वाद्ब्रह्मात्मक: । यस्यात्मा शरीरम् (बृ.उ.मा.पा.५.७.२६) इति श्रुत्यन्तरात् । एवंभूतस्य जीवस्य शरीरतया प्रकारभूतानि देवमनुष्यादिसंस्थानानि वस्तूनीति ब्रह्मात्मकानि तानि सर्वाणि । अतो देवो मनुष्यो राक्षस: पशुर्मृग: पक्षी वृक्षो लता काष्ठं शिला तृणं घट: पट इत्यादय: सर्वे प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धा: शब्दा लोके तत्तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्म-पर्यन्तसंघातस्यैव वाचका इति ।
(तत्त्वमसि श्रुतेरर्थोपपादनम्)
एवं समस्तचिदचिदात्मकप्रपञ्चस्य सदुपादानतासन्निमित्ततासदाधारतासन्नियम्यता-सच्छेषतादि सर्वं च सन्मूला: सोम्येमा: सर्वा: प्रजा: सदायतना: सत्प्रतिष्ठा (छा.उ.६.८.४) इत्यादिना विस्तरेण प्रतिपाद्य कार्यकारणभावादिमुखेन ऐतदात्म्यमिदं सर्वं तत्सत्यम् (छा.उ.६.८.७) इति कृत्स्नस्य जगतो ब्रह्मात्मकत्वमेव सत्यमिति प्रतिपाद्य कृत्स्नस्य जगत: स एवात्मा कृत्स्नं जगत्तस्य शरीरं तस्मात्त्वंशब्दवाच्यमपि जीवप्रकारं ब्रह्मैवेति सर्वस्य ब्रह्मात्मकत्वं प्रतिज्ञातं तत्त्वमसि (छा.उ.६.९.४) इति जीवविशेष उपसंहृतम् ।
(जगतः ब्रह्मात्मकत्वं शरीरशरीरिभावनिबन्धनम्)
एतदुक्तं भवति । ऐतदात्म्यमिदं सर्वं (छा.उ.८.६.७) इति चेतनाचेतनप्रपञ्चमिदं सर्वमिति निर्दिश्य तस्य प्रपञ्चस्यैष आत्मेति प्रतिपादित:, प्रपञ्चोद्देशेन ब्रह्मात्मकत्वं पतिपादितमित्यर्थ: । तदिदं ब्रह्मात्मकत्वं किमात्मशरीरभावेनोत स्वरूपेणेति विवेचनीयम् । स्वरूपेण चेद्ब्रह्मण: सत्यसङ्कल्पादय: तदैक्षत बहु स्यां (छा.उ.६.२.३) इत्युपक्रमावगता बाधिता भवन्ति । शरीरात्मभावेन च तदात्मकत्वं श्रुत्यन्तराद्विशेषतोऽवगतं अन्त:प्रविष्ट: शास्ता जनानां सर्वात्मा (तै.आ.३.११.३) इति प्रशासितृत्वरूपात्मत्वेन सर्वेषां जनानामन्त:प्रविष्टोऽत: सर्वात्मा सर्वेषां जनानामात्मा सर्वं चास्य शरीरमिति विशेषतो ज्ञायते ब्रह्मात्मकत्वम् । य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृत (बृ.उ.मा.पा.५.७.२६) इति च । अत्रापि अनेन जीवेनात्मना (छा.उ.६.३.२) इतीदमेव ज्ञायत इति पूर्वमेवोक्तम् ।
(तत्त्वमसीति श्रुत्यर्थनिगमनम्)
अत: सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वात्सर्वप्रकारं सर्वशब्दैर्ब्रह्मैवाभिधीयत इति तत्त्वमिति सामानाधिकरण्येन जीवशरीरतया जीवप्रकारं ब्रह्मैवाभिहितम् ।
एवमभिहिते सत्ययमर्थो ज्ञायते त्वमिति य: पूर्वं देहस्याधिष्ठातृतया प्रतीत: स परमात्मशरीरतया परमात्मप्रकारभूत: परमात्मपर्यन्त: । अतस्त्वमिति शब्दस्त्वत्प्रकारविशिष्टं त्वदन्तर्यामिणमेवाचष्ट इति ।
(बुदधिशब्दयोः परमात्मपर्यन्तत्वे हेतुः)
अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि (छा.उ.६.३.२) इति ब्रह्मात्मकतयैव जीवस्य शरीरिण: स्वनामभाक्त्वात्तत्त्वमिति सामानाधिकरण्यप्रवृत्तयोर्द्वयोरपि पदयोर्ब्रह्मैव वाच्यम्। तत्र च तत्पदं जगत्कारणभूतं सकलकल्याणगुणगणाकरं निर्वद्यं निर्विकारमाचष्टे । त्वमिति च तदेव ब्रह्म जीवान्तर्यामिरूपेण सशरीरप्रकारविशिष्टमाचष्टे । तदेवं प्रवृत्तिनिमित्तभेदेनैकस्मिन् ब्रह्मण्येव तत्त्वमिति द्वयो: पदयोर्वृत्तिरुक्ता । ब्रह्मणो निरवद्यं निर्विकारं सकलकल्याणगुणगणाकरत्वं जगत्कारणत्वं चाबाधितम् ।
(वेदान्ततत्त्वज्ञानिनः इतरवैलक्षण्यम्)
अश्रुतवेदान्ता: पुरुषा: पदार्था: सर्वे जीवात्मनश्च ब्रह्मात्मका इति न पश्यति सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु वाच्यैकदेशेषु वाच्यपर्यवसानं मन्यन्ते । इदानीं वेदान्तवाक्यश्रवणेन ब्रह्मकार्यतया तदन्तर्यामितया च सर्वस्य ब्रह्मात्मकत्वं सर्वशब्दानां तत्तत्प्रकारसंस्थितब्रह्मवाचित्वं च जानन्ति ।
(सर्वशब्दानां ब्रह्मवाचकत्वे लौकिकव्युत्पत्तिविरोधपरिहारौ)
नन्वेवं गवादिशब्दानां तत्तत्पदार्थवाचितया व्युत्पत्तिर्बाधिता स्यात् । नैवं सर्वे शब्दा अचिज्जीवविशिष्टस्य परमात्मनो वाचका इत्युक्तम् । नामरूपे व्याकरवाणि (छा.उ.६.३.२) इत्यत्र । तत्र लौकिका: पुरुषा: शब्दं व्याहरन्त: शब्दवाच्ये प्रधानांशस्य परमात्मन: प्रत्यक्षाद्यपरिच्छेद्यत्वाद्वाच्यैकदेशभूते वाच्यसमाप्तिं मन्यन्ते। वेदान्तश्रवणेन च व्युत्पत्ति: पूर्यते। एवमेव वैदिका: सर्वे शब्दा: परमात्मपर्यन्तान् स्वार्थान् बोधयन्ति ।
(लौकिकानां वैदिकानां च शब्दानामेकता)
वैदिका एव सर्वे शब्दा वेदादवुद्धृत्योद्धृत्य परेणैव ब्रह्मणा सर्वपदार्थान् पूर्ववत्सृष्ट्वा तेषु परमात्मपर्यन्तेषु पूर्ववन्नामतया प्रयुक्ता: । तदाह मनु:
सर्वेषां तु नामानि कर्माणि च पृथक्पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ (मनु.स्मृ १.२१)
इति । संस्था: संस्थानानि रूपाणीति यावत् । आह च भगवान् पराशर:
नाम रूपं भूतानां कृत्यानां प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ दैवादीनां चकार स: ॥ (वि.पु.१.५.६३)
इति । श्रुतिश्च सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् (तै.आ.उ.१.४४) इति । सूर्यादीन् पूर्ववत्परिकल्प्य नामानि च पूर्ववच्चकार इत्यर्थ: ।
(प्रक्रान्तविचारोपसंहारः)
एवं जगद्ब्रह्मणोरनन्यत्वं प्रपञ्चितम् । तेनैकेन ज्ञातेन सर्वस्य ज्ञाततोऽपपादिता भवति । सर्वस्य ब्रह्मकार्यत्वप्रतिपादनेन तदात्मकतयैव सत्यत्वं नान्यथेति तत्सत्यम् (छा.उ.६.८.६) इत्युक्तम्। यथा दृष्टान्ते सर्वस्य मृद्विकारस्य मृदात्मनैव सत्यत्वम् ।
(शोधकवाक्यानां निर्विशेषपरत्वनिरासः)
शोधकवाक्यान्यपि निरवद्यं सर्वकल्याणगुणाकरं परं ब्रह्म बोधयन्ति । सर्वप्रत्यनीकाकारताबोधनेऽपि तत्तत्प्रत्यनीकाकारतायां भेदस्यावर्जनीयत्वान्न निर्विशेषवस्तुसिद्धि:।
ननु च ज्ञानमात्रं ब्रह्मेति प्रतिपादिते निर्विशेषज्ञानमात्रं ब्रह्मेति निश्चीयते ।
नैवम् । स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन स्वरूपमपि प्रतिपादयन्ति । गवादिशब्दवत् । तदाह सूत्रकार: तद्गुणसारत्वात्तद्व्यपदेश: प्राज्ञवत् (ब्र.सू.२.३.२९)। यावदात्मभावितत्वाच्च न दोष (ब्र.सू.२.३.३०) इति ।
(ब्रह्मणि ज्ञानधर्मकत्वासिद्धिशङ्कापरिहारौ)
ज्ञानेन धर्मेण स्वरूपमपि निरूपितं न ज्ञानमात्रं ब्रह्मेति । कथमिदमवगम्यत इति चेत्, यस्सर्वज्ञ: सर्ववित् (मु.उ.२.२.७) इत्यादिज्ञातृत्वश्रुते: परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । विज्ञातारमरे केन विजानीयात्? (बृ.उ.४.४.१४) इत्यादिश्रुतिशतसमधिगतमिदम्। ज्ञानस्य धर्ममात्रत्वाद्धर्ममात्रस्यैकस्य वस्तुत्वप्रतिपादनानुपपत्तेश्च । अत: सत्यज्ञानादिपदानि स्वार्थभूतज्ञानादिविशिष्टमेव ब्रह्म प्रतिपादयन्ति।
तत्त्वमिति द्वयोरपि पदयो: स्वार्थप्रहाणेन निर्विशेषवस्तुस्वरूपोपस्थापनपरत्वे मुख्यार्थपरित्यागश्च ।
(क्वचित् लक्षणाया अदोषत्वशङ्कापरिहारश्च)
नन्वैक्ये तात्पर्यनिश्चयान्न लक्षणादोष: । सोऽयं देवदत्त इतिवत् । यथा सोऽयमित्यत्र स इति शब्देन देशान्तरकालान्तरसंबन्धी पुरुष: प्रतीयत अयमिति च संनिहितदेशवर्तमानकालसंबन्धी, तयो: सामानाधिकरण्येनाइक्यं प्रतीयते । तत्रैकस्य युगपद्विरुद्धदेशकालसंबन्धितया प्रतीतिर्न घटत इति द्वयोर्पदयो: स्वरूपमात्रोपस्थापनपरत्वं स्वरूपस्य चाइक्यं प्रतिपद्यत इति चेन्नैतदेवम् । सोऽयं देवदत्त इत्यत्रापि लक्षणागन्धो न विद्यते । विरोधाभावात् । एकस्य भूतवर्तमानक्रियाद्वयसंबंधो न विरुद्ध: । देशान्तरस्थितिर्भूत्वा संनिहितदेशस्थितिर्वर्तते । अतो भूतवर्तमानक्रियाद्वयसंबन्धितया ऐक्यप्रतिपादनं अविरुद्धम्। देशद्वयविरोधश्च कालभेदेन परिहृत: । लक्षणायामपि न द्वयोरपि पदयोर्लक्षणासमाश्रयणम्। एतेनैव लक्षितेन विरोधपरिहारात् । लक्षणाभाव एवोक्त: । देशान्तरसंबन्धितया भूतस्यैवान्यदेशसंबन्धितया वर्तमानत्वाविरोधात् ।
(सामानाधिकरण्यस्वरूपं स्वाभिमतार्थसिद्धिश्च)
एवमत्रापि जगत्कारणबूतस्यैव परस्य ब्रह्मणो जीवान्तर्यामितया जीवात्मत्वमविरुद्धमिति प्रतिपादितम्। यथा भूतयोरेव हि द्वयोरैक्यं सामानाधिकरण्येन प्रतीयते । तत्परित्यागेन स्वरूपमात्राइक्यं न सामानाधिकरण्यार्थ: भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्ति: सामानाधिकरण्यम् (कै.वृ) इति हि तद्विद: । तथाभूतयोरैक्यमुपपादितमस्माभि: ।
(परपक्षे उपक्रमविरोधः)
उपक्रमविरोध्युपसंहारपदेन वाक्यतात्पर्यनिश्चयश्च न घटते । उपक्रमे हि तदैक्षत बहु स्याम् प्रजायेय (छा.उ.६.२.३) इत्यादिना सत्यसंकल्पत्वं जगदेककारणत्वमप्युक्तम् । तद्विरोधि चाविद्याश्रयत्वादि ब्रह्मण:।
(शब्दस्य निर्विशेषवस्त्वसाधकत्वम्)
अपि चार्थभेदतत्संसर्गविशेषबोधनकृतपदवाक्यस्य स्वरूपतालब्धप्रमाणभावस्य शब्दस्य निर्विशेषवस्तुबोधनासामर्थान्न निर्विशेषवस्तुनि शब्द: प्रमाणम् ।
(निर्विशेषस्य गतिकल्पनम्)
निर्विशेष इत्यादिशब्दास्तु केनचिद्विशेषेण विशिष्टतयावगतस्य वस्तुनो वस्त्वन्तरगतविशेषनिषेधपरतया बोधका: । इतरथा तेषमप्यनवबोधकत्वमेव । प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषगर्भत्वादनेकपदार्थसंसर्ग-बोधकत्वाच्च वाक्यस्य ।
(स्वयंप्रकाशस्य निर्विशेषस्य प्रमाणानपेक्षा)
अथ स्यात् नास्माभिर्निर्विशेषे स्वयंप्रकाशे वस्तुनि शब्द: प्रमाणमित्युच्यते । स्वत:सिद्धस्य प्रमाणानपेक्षत्वात् । सर्वै: शब्दैस्तदुपरागविशेषा ज्ञातृत्वादय: सर्वे निरस्यन्ते । सर्वेषु विशेषेषु निवृत्तेषु वस्तुमात्रमनवच्छिन्नं स्वयंप्रकाशं स्वत एवावतिष्ठत इति ।
(तन्निरासः)
नैतदेवम् । केन शब्देन तद्वस्तु निर्दिश्य तद्गतविशेषा निरस्यन्ते । ज्ञप्तिमात्रशब्देनेति चेन्न । सोऽपि सविशेषमेव वस्त्ववलम्बते । प्रकृतिप्रत्ययरूपेण विशेषगर्भत्वात् । ज्ञा अवबोधन इति सकर्मक: सकर्तृक: क्रियाविशेष: क्रियान्तरव्यावर्तकस्वभावविशेषश्च प्रकृत्यावगम्यते । प्रत्ययेन च लिङ्गसंख्यादय: । स्वत:सिद्धावप्येतत्स्वभावविशेषविरहे सिद्धिरेव न स्यात् । अन्यसाधन-स्वभावतया हि ज्ञप्ते: स्वत:सिद्धिरुच्यते ।
(निर्विशेषत्वे अविद्यातिरोधानाद्यनुपपत्तिः)
ब्रह्मस्वरूपं कृत्स्नं सर्वदा स्वयमेव प्रकाशते चेन्न तस्मिन्नन्यधर्माध्यास: संभवति । न हि रज्जुस्वरूपेऽवभासमाने सर्पत्वादिरध्यस्यते । अत एव हि भवद्भिराच्छादिकाविद्याभ्युपगम्यते । ततश्च शास्त्रीयनिवर्तकज्ञानस्य ब्रह्मणि तिरोहितांशो विषय: । अन्यथा तस्य निवर्तकत्वं च न स्यात्। अधिष्ठानातिरेकिरज्जुत्वप्रकाशनेन हि सर्पत्वं बाध्यते ।
एकश्चेद्विशेषो ज्ञानमात्रे वस्तुनि शब्देनाभिधीयते स च ब्रह्मविशेषणं भवतीति सर्वश्रुतिप्रतिपादितसर्वविशेषणविशिष्टं ब्रह्म भवति । अत: प्रामाणिकानां न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धि: ।
(निर्विकल्पकस्य निर्विशेषग्राहितानिरासः)
निर्विकल्पकप्रत्यक्षेऽपि सविशेषमेव वस्तु प्रतीयते । अन्यथा सविकल्पके सोऽयमिति पूर्वावगतप्रकारविशिष्टप्रत्ययानुपपत्ते: । वस्तुसंस्थानविशेषरूपत्वात् गोत्वादेर्निर्विकल्पतदशायामपि ससंस्थानमेव वस्त्वित्थमिति प्रतीयते । द्वितीयादिप्रत्ययेषु तस्य संस्थानविशेषस्यानेक-वस्तुनिष्ठतामात्रं प्रतीयते । संस्थानरूपप्रकाराख्यस्य पदार्थस्यानेकवस्तुनिष्ठतयानेकवस्तु-विशेषणत्वं द्वितीयादिप्रत्ययावगम्यमिति द्वितीयादिप्रत्यया: सविकल्पका इत्युच्यन्ते ।
(भेदाभेदवादनिरासः)
अत एवैकस्य पदार्थस्य भिन्नाभिन्नत्वरूपेण द्व्यात्मकत्वं विरुद्धं प्रत्युक्तम् । संस्थानस्य संस्थानिन: प्रकारतया पदार्थान्तरत्वम् । प्रकारत्वादेव पृथक्सिद्ध्यनर्हात्वं पृथगनुपलम्भश्चेति न द्व्यात्मकत्वसिद्धि: ।
(वेदान्तवाक्यानां भेदनिरासपरत्वानुपपत्तिः)
अपि च निर्विशेषवस्त्वादिना स्वयंप्रकाशे वस्तुनि तदुपरागविशेषा: सर्वै: शब्दैर्निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् (छा.उ.६.१.४) इति विकारनामधेययोर्वाचारम्भणमात्रत्वात् । यत्तत्र कारणतयोपलक्ष्यते वस्तुमात्रं तदेव सत्यमन्यदसत्यमितीयं श्रुतिर्वदतीति चेन्नैतदुपपद्यते । एकस्मिन् विज्ञाते सर्वं विज्ञातं भवतीति प्रतिज्ञातेऽन्यज्ञानेनान्यज्ञानासंभवं मन्वानस्यैकमेव वस्तु विकाराद्यवस्थाविशेषेण पारमार्थिकेनैव नामरूपमवस्थितं चेत्तत्रैकस्मिन् विज्ञाते तस्माद्विलक्षणसंस्थानान्तरमपि तदेवेति तत्र दृष्टान्तोऽयं निदर्शित:।
(वाचारम्भणश्रुत्यर्थः)
नात्र कस्यचिद्विशेषस्य निषेधक: कोऽपि शब्दो दृश्यते । वाचारम्भणमिति वाचा व्यवहारेणारभ्यत इत्यारम्भणम् । पिण्डरूपेणावस्थिताया: मृत्तिकाया नाम वान्यद्व्यवहारश्चान्य: । घटशरावादिरूपेणावस्थितायास्तस्या एव मृत्तिकाया अन्यानि नामधेयानि व्यवहाराश्चान्यद्दशा: । तथापि सर्वत्र मृत्तिकाद्रव्यमेकमेव नानासंस्थाननानानामधेयाभ्यां नानाव्यवहारेण चारभ्यत इत्येतदेव सत्यमित्यनेनान्यज्ञानेनान्यज्ञानसंभवो निदर्शित: । नात्र किंचिद्वस्तु निषिध्यत्ा इति पूर्वमेवायमर्थ: प्रपञ्चित: ।
(अद्वैतिनां मते मृद्दृष्टान्तवैघट्यम्)
अपि च येनाश्रुतं श्रुतम् (छा.उ.६.१.३) इत्यादिना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेत् यथा सोम्यैकेन मृत्पिण्डेन (छा.उ.६.१.४) इत्यादिदृष्टान्त: साध्यविकल: स्यात् । रज्जुसर्पादिवत् मृत्तिकाविकारस्य घटशरावादेरसत्यत्वं श्वेतकेतो: शुश्रूषो: प्रमाणान्तरेण युक्त्या चासिद्धमिति
(दृष्टान्ते साध्यवैकल्यपरिहारशङ्कातदसिद्धी)
एतदपि सिषाधयिषितमिति चेत् । यथेति दृष्टान्तयोपादानं न घटते । सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छा.उ.६.२.१) इत्यत्र सदेवैकमेवेत्यवधारणद्वयेन अद्वितीयमित्यनेन च सन्मात्रातिरेकिसजातीयविजातीया: सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्नेतदेवम् । कार्यकारणभावावस्थाद्वयावस्थितस्यैकस्य वस्तुन एकावस्थावस्थितस्य ज्ञानेनावस्थान्तरा-वस्थितस्यापि वस्त्वैक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोरप्रज्ञातं सर्वस्य ब्रह्मकारणत्वं च वक्तुं सदेव सोम्येदमित्यारब्धम् । इदमग्रे सदेवासीदिति । अग्र इति कालविशेष: । इदंशब्दवाच्यस्य प्रपञ्चस्य सदापत्तिरूपां क्रियां सद्रव्यतां च वदति । एकमेवेति चास्य नानानामरूपविकारप्रहाणम् ।
(ब्रह्मणो जगदुपादाननिमित्तत्वसिद्धिः)
एतस्मिन् प्रतिपादितेऽस्य जगत: सदुपादानता प्रतिपादिता भवति । अन्यत्रोपादानकारणस्य स्वव्यतिरिक्ताधिष्ठात्रपेक्षा-दर्शनेऽपि सर्वविलक्षणत्वादस्य सर्वज्ञस्य ब्रह्मण: सर्वशक्तियोगो न विरुद्ध इत्यद्वितीयपदमधिष्ठात्रन्तरं निवारयति ।
सर्वशक्तियुक्तत्वादेव ब्रह्मण: । काश्चन श्रुतय: प्रथममुपादानकारणत्वं प्रतिपाद्य निमित्तकारणमपि तदेवेति प्रतिपादयन्ति । यथेयं श्रुति: । अन्याश्च श्रुतयो ब्रह्मणो निमित्तकारणत्वमनुज्ञायास्यैवोपादानतादि कथमिति परिचोद्य, सर्वशक्तियुक्तत्वादुपादानकारणं तदितराशेषोपकरणं च ब्रह्मैवेति परिहरन्ति ।
किंस्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टक्षुर्मणीषिणो मनसा पृच्छतेदुत्द्यदध्यतिष्ठद्भुवनानि धारयन् । (तै.ब्रा.२.८.९.१५)
ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुर्मनीषिणो मनसा विब्रवीमि व: ब्रह्माध्यतिष्ठद्भुवनानि धारयन् (तै.ब्रा.२.८.९.१५) इति सामान्यतो दृष्टेन विरोधमाशङ्क्य ब्रह्मण: सर्वविलक्षणत्वेन परिहार उक्त:।
(सदेवेति कारणवाक्यस्यापि सविशेषप्रतिपादकता)
अत: सदेव सोम्येदमग्र आसीत् (छा.उ.६.२.१) इत्यत्राप्यग्र इत्याद्यनेकविशेषा ब्रह्मणो प्रतिपादिता: । भवदभिमतविशेषनिषेधवाची कोऽपि शब्दो न दृश्यते ।
प्रत्युत जगद्ब्रह्मणो: कार्यकारणभावज्ञापनायाग्र इति कालविशेषसद्भाव:। आसीदिति क्रियाविशेषो, जगदुपादानता जगन्निमित्तता च, निमित्तोपादानयोर्भेदनिरसनेन तस्यैव ब्रह्मण: सर्वशक्तियोगश्चेत्यप्रज्ञात: सहस्रशो विशेषा एव प्रतिपादिता:।
यतो वास्तवकार्यकारणभावादिविज्ञाने प्रवृत्तमत एव असदेवेदमग्र आसीत् (छा.उ.६.२.१) इत्यारभ्य असत्कार्यवादनिषेधश्च क्रियते कुतस्तु खलु सोम्यैवं स्यात् (छा.उ.६.२.२) इति ।प्रागसत उत्पत्तिरहेतुकेत्यर्थ:। तदेवोपपादयति कथमसत: सज्जायेत (छा.उ.६.२.१) इति। असत उत्पन्नमसदात्मकमेव भवतीत्यर्थ:। यथा मृदुत्पन्नं घटादिकं मृदात्मकम् । सत उत्पत्तिर्नाम व्यवहारविशेषहेतुभूतोऽवस्थाविशेषयोग:।
(असत्कार्यवादे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावैघट्यम्)
एतदुक्तं भवति – एकमेव कारणभूतं द्रव्यमवस्थान्तरयोगेन कार्यमित्युच्यत इत्येकविज्ञानेन सर्वविज्ञानं प्रतिपिपादयिषितम् । तदसत्कार्यवादे न सेत्स्यति । तथा हि निमित्त-समवाय्यसमवायिप्रभृति: कारणैरवयव्याख्यं कार्यं द्रव्यान्तरमेवोत्पद्यत इति कारणभूताद्वस्तुन: कार्यस्य वस्त्वन्तरत्वान्न तज्ज्ञानेनास्य ज्ञातता कथमपि संभवतीति । कथमवयवि द्रव्यान्तरं निरस्यत इति चेत् । कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पत्तिवादिन: संप्रतिपन्नस्यैव एकत्वनामान्तरादेरुपपादकत्वाद्द्रव्यान्तरादर्शनाच्चेति कारणमेवावस्थान्तरापन्नं कार्यमित्युच्यत इत्युक्तम् ।
(प्रकरणस्य शून्यवादनिरासपरत्वासम्भवः)
ननु निरधिष्ठानभ्रमासंभवज्ञापनायासत्कार्यवादनिरास: क्रियते । तथा ह्येकं चिद्रूपं सत्यमेवाविद्याच्छादितं जगद्रूपेण विवर्तत इत्यविद्याश्रयत्वाय मूलकारणं सत्यमित्यभ्युपगन्तव्यं इत्यसत्कार्यवादनिरास: । नैतदेवम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादृष्टान्तमुखेन सत्कार्यवादस्यैव प्रसक्तत्वादित्युक्तम् । भवत्पक्षे निरधिष्ठानभ्रमासंभवस्य दुरुपपादत्वाच्च । यस्य हि चेतनगतदोष: पारमार्थिको दोषाश्रयत्वं च पारमार्थिकं तस्य पारमार्थिकदोषेण युक्तस्यापारमार्थिक-गन्धर्वनगरादिदर्शनमुपपन्नं, यस्य तु दोषश्चापारमार्थिको दोषाश्रयत्वं चापारमार्थिकं तस्यापारमार्थिकेनाप्याश्रयेण तदुपपन्नमिति भवत्पक्षे न निरधिष्ठानभ्रमासंभव: ।
(शोधकवाक्यानां निर्विशेषपरत्वनिरासः)
शोधकेष्वपि सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.आन.१.१), आनन्दो ब्रह्म (तै.उ.भृ.६.१) इत्यादिषु वाक्येषु सामान्याधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्टैकार्थावबोधनमविरुद्धमिति सर्वगुण-विशिष्टं ब्रह्माभिधीयत इति पूर्वमेवोक्तम् ।
(नेति नेति श्रुत्यर्थविचारः)
अथात आदेशो नेति नेति (बृ.उ.४.३.६) इति बहुधा निषेधो दृष्यत इति चेत् । किमत्र निषिध्यत इति वक्तव्यम्। द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च (बृ.उ.४.३.१) इति मूर्तामूर्तात्मक: प्रपञ्च: सर्वोऽपि निषिध्यत इति चेन्नैवम्। ब्रह्मणो रूपतयाप्रज्ञातं सर्वं रूपतयोपदिश्य पुनर्तदेव निषेद्धुमयुक्तम् । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमिति न्यायात् । कस्तर्हि निषेधवाक्यार्थ: । सूत्रकार: स्वयमेव वदति प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय: (ब्र.सू.३.२.१) इति। उत्तरत्र अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम् (बृ.उ.४.३.६) इति सत्यादिगुणगणस्य प्रतिपादितत्वात्पूर्वप्रकृतैतावन्मात्रं न भवति ब्रह्मेति, ब्रह्मण एतावन्मात्रता प्रतिषिध्यत इति सूत्रार्थ:।
(नेह नाना इति श्रुत्यर्थः)
नेह नानास्ति किंचन (बृ.उ.६.४.१९) इत्यादिना नानात्वप्रतिषेध एव दृष्यत इति चेत् । अत्राप्युत्तरत्र सर्वस्य वशी सर्वस्येशन (बृ.उ.६.४.२२) इति सत्यसङ्कल्पत्वसर्वेश्वरत्वप्रतिपादनात् चेतनवस्तुशरीर ईश्वर इति सर्वप्रकारसंस्थित: स एक एवेति तत्प्रत्यनीकाब्रह्मात्मकनानात्वं प्रतिषिद्धं न भवदभिमतम्। सर्वास्वेवंप्रकारासु श्रुतिष्वियमेव स्थितिरिति न क्वचिदपि ब्रह्मण: सविशेषत्वनिषेधकवाची कोऽपि शब्दो दृश्यते ।
(अद्वैतिसम्मतस्य ब्रह्मणः अविद्यया तिरोधानस्यानुपपत्तिः)
अपि च निर्विशेषज्ञानमात्रं ब्रह्म तच्चाछादिकाविद्यातिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्ययमर्थो न घटते । तिरोधानं नाम प्रकाशनिवारणम् । स्वरूपातिरेकिप्रकाशधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनाश एव स्यात् । प्रकाशपर्यायं ज्ञानं नित्यं स च प्रकाशोऽविद्यातिरोहित इति बालिशभाषितमिदम् । अविद्यया प्रकाशतिरोहित इति प्रकाशोत्पत्ति-प्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वाद्विनाश एव स्यात् । प्रकाशो नित्यो निर्विकारस्तिष्ठतीति चेत् । सत्यामप्यविद्यायां ब्रह्मणि न किंचित्तिरोहितमिति नानात्वं पश्यतीति भवतामयं व्यवहार: सत्स्वनिर्वचनीय एव ।
(सिद्धान्ते जीवस्य स्वरूपतिरोधानानुपपत्तिशङ्कापरिहारौ)
ननु च भवतोऽपि विज्ञानस्वरूप आत्माभ्युपगन्तव्य: । स च स्वयंप्रकाश: । तस्य च देवादिस्वरूपात्माभिमाने स्वरूपप्रकाशतिरोधानमवश्यमाश्रयणीयम् । स्वरूपप्रकाशे सति स्वात्मन्याकारान्तराध्यासायोगात् । अतो भवतश्चायं समानो दोष: । किं चास्माकमेकस्मिन्नेव आत्मनि भवदुदीरितं दुर्घटत्वं भवतामात्मानन्त्याभ्युपगमात्सर्वेष्वयं दोष: परिहरणीय: ।
अत्रोच्यते – स्वभावतो मलप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपं स्वाभाविकानवधिकातिशय- अपरिमितोदारगुणसागरं निमेषकाष्ठाकलामुहूर्तादिपरार्धपर्यन्तापरिमितव्यवच्छेदस्वरूपसर्वोत्पत्ति-स्थितिविनाशादि-सर्वपरिणामनिमित्तभूतकालकृतपरिणामास्पष्टानन्तमहाविभूति स्वलीलापरिकर-स्वांशभूतानन्तबद्धमुक्तनानाविधचेतनतद्भोग्यभूतानन्तविचित्रपरिणामशक्तिचेतनेतरवस्तुजात-अन्तर्यामित्वकृतसर्वशक्तिशरीरत्वसर्वप्रकर्शावस्थानावस्थितं परं ब्रह्मैव वेद्यं, तत्साक्षात्कार-क्षमभगवद्द्वैपायनपराशर-वाल्मीकिमनुयाज्ञवल्क्यगौतमापस्तम्बप्रभृतिमुनिगणप्रणीतविध्यर्थवाद मन्त्रस्वरूपवेदमूलेतिहासपुराण-धर्मशास्त्रोपभृंहितपरमार्थभूतानादिनिधनाविच्छिन्नपाठसंप्रदाय-ऋक् –यजुस्-साम-अथर्वरूपानन्त शाखं वेदं चाभ्युपगच्छतामस्माकं किं न सेत्स्यति ।
(सिद्धान्तिसम्मते अर्थे प्रमाणानि)
यथोक्तं भगवता द्वैपायनेन महाभारते –
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ॥ (भ.गी.१०.३)
द्वाविमौ पुरषौ लोके क्षरश्चाक्षर एव च ।
क्षर: सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ (भ.गी.१५.१६)
उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत: ।
यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वर: ॥ (भ.गी.१५.१७)
कालं च पचते तत्र न कालस्तत्र वै प्रभू: । (म.भा.शा.१९६.९)
एते वै निरयास्तात स्थानस्य परमात्मन: ॥ (म.भा.शा.१९६.६)
अव्यक्तादिविशेषान्तं परिणामर्द्धिसंयुक्तम् ।
क्रीडा हरेरिदं सर्वं क्षरमित्यवधार्यताम् ॥ (म.भा.शा.२०६.५८)
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्यय: ।
कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् ॥ (म.भा.शा.३८.२३)
इति । कृष्णस्य हि कृत इति कृष्णस्य शेषभूतं सर्वमित्यर्थ: । भगवता पराशरेणाप्युक्तम् –
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते ।
मैत्रेय! भगवच्छब्द: सर्वकारणकारणे ॥ (वि.पु.६.५.७२)
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषत: ।
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभि: ॥ (वि.पु.६.५.७९)
एवमेष महाशब्दो मैत्रेय भगवानिति ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यग: ॥ (वि.पु.६.५.७६)
तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वित: ।
शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारत: ॥ (वि.पु.६.५.७७)
एवं प्रकारममलं सत्यं व्यापकमक्षयम् ।
समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ (वि.पु.१.२२.५५)
कलामुहूर्तादिमयश्च कालो न यद्विभूते: परिणामहेतु: ॥ (वि.पु.४.३८)
क्रीडतो बालकस्येव चेष्टास्तस्य निशामय ॥ (वि.पु.१.२.२०) इत्यादि । मनुनापि
प्रशासितारं सर्वेषामणीयांसमणीयसाम् । (म.स्मृ. १२.१२२) इत्युक्तम् ।
याज्ञवल्क्येनापि
क्षेत्रस्येश्वरज्ञानाद्विशुद्धि: परमा मता । (याज्ञ.स्मृ.३४)
इति । आपस्तम्बेनापि पू: प्राणिन: सर्व एव गुहाशयस्य (आप.ध.सू.२२.४) इति । सर्वे प्राणिनो गुहाशयस्य – परमात्मन: पू: – पुरं शरीरमित्यर्थ: । प्राणिन इति सजीवात्मभूतसंघात: ।
(स्वपरमतविमर्शः)
ननु च किमनेनाडम्बरेण । चोद्यं तु न परिहृतम् । उच्यते । एवमभ्युपगच्छतामस्माकं आत्मधर्मभूतस्य चैतन्यस्य स्वाभाविकस्यापि कर्मणा पारमार्थिकं संकोचं विकासं च ब्रुवतां सर्वमिदं परिहृतम् । भवस्तु प्रकाश एव स्वरूपमिति प्रकाशो न धर्मभूतस्तस्य संकोचविकासौ वा नाब्युपगम्येते। प्रकाशप्रसारानुत्पत्तिमेव तिरोधानभूता: कर्मादय: कुर्वन्ति । अविद्या चेत्तिरोधानं तिरोधानभूततयाविद्यया स्वरूपभूतप्रकाशनाश इति पूर्वमेवोक्तम् । अस्माकं त्वविद्यारूपेण कर्मणा स्वरूपनित्यधर्मभूतप्रकाश: संकुचित: । तेन देवादिस्वरूपात्माभिमानो भवतीति विशेष: । यथोक्तम् –
अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते ।
यथा क्षेत्रशक्ति: सा वेष्टिता नृप सर्वगा ॥ (वि.पु.६.७.६२)
संसारतापानखिलानवाप्नोत्यतिसंततान् ॥ (वि.पु.६.७.६१)
तया तिरोहितत्वाच्च शक्ति: क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाले तारतम्येन वर्तते ॥ (वि.पु.६.७.६३)
इति । क्षेत्रज्ञानां स्वधर्मभूतस्य ज्ञानस्य कर्मसंज्ञाविद्यया संकोचं विकासं च दर्शयति ।
(अविद्यायाः स्वरूपानुपपत्तिः)
अपि चाच्छादिकाविद्या श्रुतिभिश्चाइक्योपदेशबलाच्च ब्रह्मस्वरूपतिरोधानहेयदोषरूपाश्रीयते तस्याश्च मिथ्यारूपत्वेन प्रपञ्चवत्स्वदर्शनमूलदोषापेक्षत्वात् । न सा मिथ्या दर्शनमूलदोष: स्यादिति ब्रह्मैव मिथ्यादर्शनमूलं स्यात् । तस्याश्चानादित्वेऽपि मिथ्यारूपत्वादेव ब्रह्मदृश्यत्वेनैवानादित्वात् तद्दर्शनमूलपरमार्थदोषानभ्युपगमाच्च ब्रह्मैव तद्दर्शनमूलं स्यात् । तस्य नित्यत्वादनिर्मोक्ष एव ।
(एकजीववादप्रतिपादनम्)
अत एवेदमपि निरस्तम् एकमेव शरीरं जीववत्, निर्जीवानीतराणि शरीराणि स्वप्नदृष्टनानाविधानन्तशरीराणां यथा निर्जीवत्वम् । तत्र स्वप्ने द्रष्टु: शरीरमेकमेव जीववत् । तस्य स्वप्नवेलायां दृश्यभूतनानाविधशरीराणां निर्जीवत्वमेव । अनेनैकेनैव परिकल्पितत्वाज्जीवा मिथ्याभूता इति।
(उक्तवादनिरासः)
ब्रह्मणा स्वस्वरूपव्यतिरिक्तस्य जीवभावस्य सर्वशरीराणां च कल्पितत्वादेकस्मिन्नपि शरीरे शरीरवज्जीवभावस्य च मिथ्यारूपत्वात्सर्वाणि शरीराणि मिथ्यारूपाणि, तत्र जीवभावश्च मिथ्यारूप इत्येकस्य शरीरस्य तत्र जीवभावस्य च न कश्चिद्विशेष: । अस्माकं तु स्वप्ने द्रष्टु: स्वशरीरस्य तस्मिन्नात्मसद्भावस्य च प्रबोधवेलायामबाधितत्वानन्येषां शरीराणां तद्गतजीवानां च बाधितत्वात्ते सर्वे मिथ्याभूता: स्वशरीरमेकं तस्मिञ्जीवभावश्च परमार्थ इति विशेष: ।
(अविद्याया निवर्तकस्य निवृत्तेश्चानुपपत्तिः)
अपि च केन वा विद्यानिवृत्ति: सा कीदृशीति विवेचनीयम् । ऐक्यज्ञानं निवर्तकं निवृत्तिश्चानिर्वचनीयप्रत्यनीकाकारेति चेत् । अनिर्वचनीयप्रत्यनीकं निर्वचनीयं तच्च सद्वासद्वा द्विरूपं वा कोट्यन्तरं न विद्यते । ब्रह्मव्यतिरेकेणैतदभ्युपगमे पुनरविद्या न निवृत्ता स्यात् । ब्रह्मैव चेन्निवृत्तिस्तत्प्रागप्यविशिष्टमिति वेदान्तज्ञानात्पूर्वमेव निवृत्ति: स्यात् । ऐक्यज्ञानं निवर्तकं तदभावात्संसार इति भवद्दर्शनं विहन्यते ।
किञ्च निवर्तकज्ञानस्याप्यविद्यारूपर्वात्तन्निवर्तनं केनेति वक्तव्यम् । निवर्तकज्ञानं स्वेतरसमस्तभेदं निवर्त्य क्षणिकत्वादेव स्वयमेव विनश्यति दावानलविषनाशनविषान्तरवदिति चेन्न । निवर्तकज्ञानस्य ब्रह्मव्यतिरिक्तत्वेन तत्स्वरूपतदुत्पत्तिविनाशानां मिथ्यारूपत्वात्तद्विनाशरूपा विद्या तिष्ठत्येवेति तद्विनाशदर्शनस्य निवर्तकं वक्तच्यमेव । दावाग्न्यादीनामपि पूर्वावस्थाविरोधिपरिणामपरंपरावर्जनीयैव।
(अविद्यायाः ज्ञात्रनुपपत्तिः सर्वस्य ज्ञानस्य त्रिरूपता च)
अपि च चिन्मात्रब्रह्मव्यतिरिक्तकृत्स्ननिषेधविषयज्ञानस्य कोऽयं ज्ञाता । अध्यासरूप इति चेन्न। तस्य निषेधतया निवर्तकज्ञानकर्मत्वात्तत्कर्तृत्वानुपपत्ते: । ब्रह्मस्वरूप एवेति चेन्न । ब्रह्मणो निवर्तकज्ञानं प्रति ज्ञातृत्वं किं स्वरूपमुताध्यस्तम् । अध्यस्तं चेदयमध्यासस्तन्मूलविद्यान्तरं च निवर्तकज्ञानविषयतया तिष्ठत्येव । तन्निवर्तकान्तराभ्युपगमे तस्यापि त्रिरूपतयानवस्थैव । सर्वस्य हि ज्ञानस्य त्रिरूपकत्वविरहे ज्ञानत्वमेव हीयते । कस्यचित्कंचनार्थविशेषं प्रति सिद्धिरूपत्वात् । ज्ञानस्य त्रिरूपत्वविरहे भवतां स्वरूपभूतज्ञानवन्निवर्तकज्ञानमप्यनिवर्तकं स्यात् । ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमेऽस्मदीय एव पक्ष: परिगृहीत: स्यात् । निवर्तकज्ञानस्वरूपज्ञातृत्वं च स्वनिवर्त्यान्तर्गतमिति वचनं भूतलव्यतिरिक्तं कृत्स्नं छिन्नं देवदत्तेनेत्यस्यामेव छेदनक्रियायामस्याश्छेदनक्रियायाश्छेत्तृत्वस्य च छेद्यान्तर्भाववचनवदुपहास्यम्।
(अविद्यानिवर्तकज्ञानसामग्र्यनुपपत्तिः)
अपि च निखिलभेदनिवर्तकमिदमैक्यज्ञानं केन जातमिति विमर्शनीयम् । श्रुत्यैवेति चेन्न । तस्या ब्रह्मव्यतिरिक्ताया अविद्यापरिकल्पितत्वात्प्रपञ्चबाधकज्ञानस्योत्पादकत्वं न संभवति । तथा हि दुष्टकारणजातमपि रज्जुसर्पज्ञानं न दुष्टकारणजन्येन रज्जुरियं न सर्प इति ज्ञानेन बाध्यते । रज्जुसर्पज्ञानभये वर्तमाने केनचिद्भ्रान्तेन पुरुषेण रज्जुरियं न सर्प इत्युक्तेऽप्ययं भ्रान्त इति ज्ञाते सति तद्वचनं रज्जुसर्पज्ञानस्य बाधकं न भवति भयं च न निवर्तते । प्रयोजकज्ञानवत: श्रवणवेलायामेव हि ब्रह्मव्यतिरिक्तत्वेन श्रुतेरपि भ्रान्तिमूलत्वं ज्ञातमिति । निवर्तकज्ञानस्य ज्ञातुस्तत्सामग्रीभूतशास्त्रस्य च ब्रह्मव्यतिरिक्ततया यदि बाध्यत्वमुच्यते हन्त तर्हि प्रपञ्चनिवृत्तेर्मिथ्यात्वमापततीति प्रपञ्चस्य सत्यता स्यात् । स्वप्नदृष्टपुरुषवाक्यावगत-पित्रादिमरणस्य मिथ्यात्वेन पित्रादिसत्यतावत् । किञ्च तत्त्वमस्यादिवाक्यं न प्रपञ्चस्य बाधकम् । भ्रान्तिमूलत्वाद्भ्रान्तप्रयुक्तरज्जुसर्पबाधकवाक्यवत् ।
ननु च स्वप्ने कस्मिंश्चिद्भये वर्तमाने स्वप्नदशायामेवायं स्वप्न इति ज्ञाते सति पूर्वभयनिवृत्तिर्दृष्टा। तद्वदत्रापि संभवतीति । नैवम् । स्वप्नवेलायामेव सोऽपि स्वप्न इति ज्ञाते सति पुनर्भयानिवृत्तिरेव दृष्टेति न कश्चिद्विशेष:। श्रवणवेलायामेव सोऽपि स्वप्न इति ज्ञातमेवेत्युक्तम् ।
(ब्रह्मणः मिथ्याभूतशास्त्रसिद्धत्वेपि सत्यत्वसिद्धिशङ्कातत्परिहारौ)
यदपि चेदमुक्तं भ्रान्तिपरिकल्पितत्वेन मिथ्यारूपमपि शास्त्रमद्वितीयं ब्रह्मेति बोधयति तस्य सतो ब्रह्मणो विषयस्य पश्चात्तनबाधादर्शनाद्ब्रह्म सुस्थितमेवेति । तदयुक्तम् । शून्यमेव तत्त्वमिति वाक्येन तस्यापि बाधितत्वात् । इदं भ्रान्तिमूलवाक्यमिति चेत् । सदद्वितीयं ब्रह्मेति वाक्यमपि भ्रान्तिमूलमिति त्वयैवोक्तम् । पश्चात्तनबाधादर्शनं तु सर्वशून्यवाक्यस्यैवेति विशेष: ।
(वादानधिकारापादकहेतुप्रदर्शनम्)
सर्वशून्यवादिनो ब्रह्मव्यतिरिक्तवस्तुमिथ्यात्ववादिनश्च स्वपक्षसाधनप्रमाण पारमार्थ्यानभ्युपगमेन अभियुक्तैर्वादानधिकार एव प्रतिपादित: । अधिकारोऽनभ्युपायत्वान्न वादे शून्यवादिन:। इति ।
(शास्त्रस्य प्रत्यक्षबाधकत्वसिद्धिः)
अपि च प्रत्यक्षदृष्टस्य प्रपञ्चस्य मिथ्यात्वं केन प्रमाणेन साध्यते । प्रत्यक्षस्य दोषमूलत्वेनान्यथासिद्धिसंभवान्निर्दोषं शास्त्रमनन्यथासिद्धं प्रत्यक्षस्य बाधकमिति चेत् । केन दोषेण जातं प्रत्यक्षमनन्तभेदविषयमिति वक्तव्यम् । अनादिभेदवासनाख्यदोषजातं प्रत्यक्षमिति चेत्। हन्त तर्ह्यनेनैव दोषेण जातं शास्त्रमपीत्येकदोषमूलत्वाच्छास्त्रप्रत्यक्षयोर्न बाध्यबाधकभावसिद्धि:।
(शास्त्रप्रत्यक्षयोर्विषयभेदप्रदर्शनम्)
आकाशवाय्वादि भूततदारब्धशब्दस्पर्शादियुक्तमनुष्यत्वादिसंस्थानसंस्थितपदार्थग्राहि प्रत्यक्षम्। शास्त्रं तु प्रत्यक्षाद्यपरिच्छेद्यसर्वान्तरात्मत्वसत्यत्वाद्यनन्तविशेषणविशिष्ट ब्रह्मस्वरूपतदुपासनाद्याराधन प्रकारतत्प्राप्ति पूर्वकतत्प्रसादलभ्यफलविशेष-तदनिष्टकरणमूल -निग्रहविशेषविषयमिति न शात्रप्रत्यक्षयोर्विरोध: । अनादिनिधनाविच्छिन्न पाटसंप्रदायताद्यनेक-गुणविशिष्टस्य शास्त्रस्य बलीयस्त्वं वदता प्रत्यक्षपारमार्थ्यमवश्यमभ्युपगन्तव्यमित्यलमनेन श्रुतिशतविततिवातवेगपराहतकुदृष्टिदुष्टयुक्ति जालतूलनिरसनेनेत्युपरम्यते ।
(इति शाङ्करमतनिराकरणपरकरणम्)
(भास्करमतनिराकरणारम्भः)
द्वितीये तु पक्ष उपाधिब्रह्मव्यतिरिक्तवस्त्वन्तरानभ्युपगमात् ब्रह्मण्येवोपाधि-संसर्गादौपाधिका: सर्वे दोषा ब्रह्मण्येव भवेयु: । ततश्चापहतपाप्मत्वादिनिर्दोषत्वश्रुतय: सर्वे विहन्यन्ते ।
यथा घटाकाशादे: परिच्छिन्नतया महाकाशाद्वैलक्षण्यं परस्परभेदश्च दृश्यते तत्रस्था गुणा वा दोषा वानवच्छिन्ने महाकाशे न संबध्यन्ते एवमुपाधिकृतभेदव्यवस्थितजीवगता दोषा अनुपहिते परे ब्रह्मणि न संबध्यन्त इति चेत् ।
नैतदुपपद्यते । निरवयवस्याकाशस्यानवच्छेद्यस्य घटादिभिश्छेदासंभवात्, तेनैवाकाशेन घटादय: संयुक्ता इति ब्रह्मणोऽप्यच्छेद्यत्वाद्ब्रह्मैवोपाधिसंयुक्तं स्यात्।
घटसंयुक्ताकाशप्रदेशोऽन्यस्मादाकाशप्रदेशाद्भिद्यत इच्चेत् । आकाशस्यैकस्यैव प्रदेशभेदेन घटादिसंयोगाद्घटादौ गच्छति तस्य च प्रदेशभेदस्यानियम इति तद्वद्ब्रह्मण्येव प्रदेशभेदानियमेनोपाधिसंसर्गादुपाधौ गच्छति संयुक्तवियुक्तब्रह्मप्रदेशभेदाच्च ब्रह्मण्येवोपाधि-संसर्ग: क्षणे क्षणे बन्धमोक्षौ स्यातामिति सन्त: परिहसन्ति ।
(श्रोत्रदृष्टान्तेन ब्रह्मणि व्यवस्थाशङ्का – तत्परिहारौ)
निरवयवस्यैवाकाशस्य श्रोत्रेन्द्रियत्वेऽपीन्द्रियव्यवस्थावद्ब्रह्मण्यपि व्यवस्थोपपद्यत इति चेत् । न वायुविशेषसंस्कृतकर्णप्रदेशसंयुक्तस्यैवाकाशप्रदेशस्येन्द्रियत्वात्तस्य च प्रदेशान्तराभेदे अपीन्द्रिय-व्यवस्थोपपद्यते । आकाशस्य तु सर्वेषां शरीरेषु गच्छत्स्वनियमेन सर्वप्रदेशसंयोग इति ब्रह्मण्युपाधिसंयोगप्रदेशानियम एव ।
(इन्द्रियाणामाहङ्कारिकत्वम्)
आकाशस्य स्वरूपेणैव श्रोत्रेन्द्रियत्वमभ्युपगम्यापीन्द्रियव्यवस्थोकता । परमार्थतस्त्वाकाशो न श्रोत्रेन्द्रियम् । वैकारिकादहंकारादेकादशेन्द्रियाणि जायन्त इति हि वैदिका: । यथोक्तं भगवता पराशरेण
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।
एकादशं मनश्चात्र देवा वैकारिका: स्मृता: ॥ (वि.पु.१.२.४७) इति ।
अयमर्थ: । वैकारिकस्तैजसो भूतादिरिति त्रिविधोऽहंकार: । स च क्रमात्सात्त्विको राजसस्तामसश्च। तत्र तामसाद्भूतादेराकाशादीनि भूतानि जायन्त इति सृष्टिक्रममुक्त्वा तैजसाद्राजसात् अहंकारादेकदशेन्द्रियाणि जायन्त इति परमतमुपन्यस्य सात्त्विकाहंकारात् वैकारिकानीन्द्रियाणि जायन्त इति स्वमतमुच्यते देवा वैकारिका: स्मृता: (वि.पु.१.२.४७) इति । देवा इन्द्रियाणि । एवमिन्द्रियाणामाहंकारिकाणां भूतैश्चाप्यायनं महाभारत उच्यते । भौतिकत्वेऽपीन्द्रियाणां आकाशादिभूतविकारत्वादेवाकाशादिभूतपरिणामविशेषा व्यवस्थिता एव शरीरवत्पुरुषाणामिन्द्रियाणि भवन्तीति ब्रह्मण्यच्छेद्ये निरवयवे निर्विकारे त्वनियमेनानन्तहेयोपाधिसंसर्गदोषो दुष्परिहर एवेति श्रद्दधानानामेवायं पक्ष इति शास्त्रविदो न बहु मन्यन्ते ।
(भास्करमतनिरासोपसंहारः)
स्वरूपपरिणामाभ्युपगमादविकारत्वश्रुतिर्बाध्यते । निरवद्यता च ब्रह्मण: शक्तिपरिणाम इति चेत् । केयं शक्तिरुच्यते । किं ब्रह्मपरिणामरूपा । उत ब्रह्मणोऽनन्या कापीति । उभयपक्षेऽपि स्वरूपपरिणामोऽवर्जनीय एव ।
(इति भास्करमतनिरासः)
(तत्र ब्रह्मणि अपुरुषार्थसम्बन्धोपपादनम्)
(यादवप्रकाशमतनिरासारम्भः)
तृतीयेऽपि पक्षे जीवब्रह्मणोर्भेदवदभेदस्य चाभ्युपगमात्तस्य च तद्भावात्सौभरिभेदवच्च स्वावतारभेदवच्च सर्वस्येश्वरभेदतात्सर्वे जीवगता दोषास्तस्यैव स्यु: । एतदुक्तं भवति । ईश्वर: स्वरूपेणैव सुरनरतिर्यक्स्थावरादिभेदेनावस्थित इति हि तदात्मकत्ववर्णनं क्रियते । तथा सत्येकमृत्पिण्डारब्धघटशरावादिगतान्युदकाहरणादीनि सर्वकार्याणि यथा तस्यैव भवन्ति, एवं सर्वजीवगतसुखदु:खादि सर्वमीश्वरगतमेव स्यात् ।
(अंशभेदेन परिहारेऽपि असामञ्जस्यम्)
घटशरावादिसंस्थानानुपयुक्तमृद्द्रव्यं यथा कार्यान्तरान्वितमेवमेव सुरपशुमनुजादि-जीवत्वानुपयुक्तेश्वर: सर्वज्ञ: सत्यसंकल्पत्वादिकल्याणगुणाकर इति चेत्सत्यं स एवेश्वर एकेनांशेन कल्याणगुणगणाकर: स एवान्येनांशेन हेयगुणाकर इत्युक्तम् । द्वयोरंशयोरीश्वराविशेषात् ।
(भेदाभेदपक्षस्य अत्यन्तहेयत्वम्)
द्ववंशौ व्यवस्थितविति चेत् । कस्तेन लाभ: । एकस्यैवानेकांशेन नित्यदु:खित्वादंशान्तरेण सुखित्वमपि नेश्वरत्वाय कल्पते । यथा देवदत्तस्यैकस्मिन् हस्ते चन्दनपङ्कानुलेपकेयूर-कटकाङ्गुलीयालंकाः तस्यैवान्यस्मिन् हस्ते मुद्गराभिघात: कालानलज्वालानुप्रवेशश्च तद्वदेव ईश्वरस्य स्यादिति ब्रह्माज्ञानपक्षादपि पापीयानयं भेदाभेदपक्ष: । अपरिमितदु:खस्य पारमार्थिकत्वात्संसारिणाम् अन्तत्वेन दुस्तरत्वाच्च ।
(तादात्म्यस्य शरीरात्मभावनिबन्धनतया सर्वदोषासंस्पर्शः)
तस्माद्विलक्षणोऽयं जीवांश इति चेत् । आगतोऽसि तर्हि मदीयं पन्थानम् । ईश्वरस्य स्वरूपेण तादात्म्यवर्णने स्यादयं दोष: । आत्मशरीरभावेन तु तादात्म्यप्रतिपादने न कश्चिद्दोष: । प्रत्युत निखिलभुवननियमनादिर्महानयं गुणगण: प्रतिपादितो भवति । सामानाधिकरण्यं च मुख्यवृत्तम् ।
(भेदाभेदपक्षदूषणम्)
अपि चैकस्य वस्तुनो भिन्नाभिन्नत्वं विरुद्धत्वान्न संभवतीत्युक्तम् । घटस्य पटाद्भिन्नत्वे सति तस्य तस्मिन्नभाव: । अभिन्नत्वे सति तस्य च भाव इति । एकस्मिन् काले चैकस्मिन् देशे चैकस्य हि पदार्थस्य युगपत्सद्भावोऽसद्भावश्च विरुद्ध: ।
जात्यात्मना भावो व्यक्त्यात्मना चाभाव इति चेत् । जातेर्मुण्डेन चाभावे सति खण्डे मुण्डस्यापि सद्भावप्रसङ्ग: । खण्डेन च जातेरभिन्नत्वे सद्भावो भिन्नत्वे चासद्भाव: अ_ो महिशत्वस्यैवेति विरोधो दुष्परिहर एव । जात्यादेर्वस्तुसंस्थानतया वस्तुन: प्रकारत्वात्प्रकार-प्रकारिणोश्च पदार्थान्तरत्वं प्रकारस्य पृथक्सिद्ध्यनर्हात्वं पृथगनुपलम्भश्च तस्य च संस्थानस्य चानेकवस्तुषु प्रकारतयावस्थितश्चेत्यादि पूर्वमुक्तम् ।
सोऽयमिति बुद्धि: प्रकाराइक्यादयमपि दण्डीति बुद्धिमत् । अयं च जात्यादिप्रकारो वस्तुनो भेद इत्युच्यते। तद्योग एव वस्तुनो भिन्नमिति व्यवहारहेतुरित्यर्थ: । स च वस्तुनो भेदव्यवहारहेतु: स्वस्य च संवेदनवत् । यथा संवेदनं वस्तुनो व्यवहारहेतु: स्वस्य व्यवहारहेतुश्च भवति ।
(प्रत्यक्षस्य सन्मात्रग्राहित्वादिनिरासः, यादवप्रकाशमतनिरासोपसंहारश्च)
अत एव सन्मात्रग्राहि प्रत्यक्षं न भेदग्राहीत्यादिवादा निरस्ता: । जात्यादिसंस्थानसंस्थितस्यैव वस्तुन: प्रत्यक्षेण गृहीतत्वात्तस्यैव संस्थानरूपजात्यादे: प्रतियोग्यपेक्षया भेदव्यवहारहेतुत्वाच्च । स्वरूपपरिणामदोषश्च पूर्वमेवोक्त: ।
(इति यादवप्रकाशमतनिराकरणम्)
य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयति एष त आत्मान्तर्याम्यमृत: । (बृ.उ.५.७७) य आत्मनि तिष्ठन्नात्मनोऽन्तरो य आत्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति एष त आत्मान्तर्याम्यमृत: । (बृ.उ.५.२६) य: पृथिवीमन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद (सुबा.उ.७) इत्यादि योऽक्षरमन्तरे संचरन् यस्याक्षरं शरीरमक्षरं न वेद (सुबा.उ.७) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति (मुण्ड.उ.३.१.१) अन्त: प्रविष्ट: शास्ता जनानां सर्वात्मा (तै.आ.३.११.३) तत्सृष्ट्वा तदेवानुप्राविशत्। तदनुप्रविश्य सच्च त्यच्चाभवत् (तै.उ.आ.६.२.३) इत्यादि। सत्यं चानृतं च सत्यमभवत् (तै.उ.आ.६.३) अनेन जीवेनात्मना (छा.उ.६.३.२) इत्यादि । पृथगात्मानं प्रेरितारं मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.उ.१.६) भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म, एतत् (श्वे.उ.१.१२) नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वे.६.१३) प्रधानक्षेत्रज्ञपतिर्गुणेश: (श्वे.उ.६.१६) ज्ञाज्ञौ द्ववजवीशानीशौ (श्वे.उ.१.९) इत्यादिश्रुतिशतैस्तदुपबृंहणै:
जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ॥ (वा.रा.यु.१२६.१६)
यत्किंचित्सृज्यते येन सत्त्वजातेन वै द्विज ।
तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस्तनु: ॥ (वि.पु.१.२२.३८)
अहमात्मा गुडाकेश सर्वभूताशयस्थित: ॥ (भ.गी.१०.२०)
सर्वस्य चाहं हृदि संनिविष्टो मत्त: स्मृतिर्ज्ञानमपोहनं च ॥ (भ.गी.१५.१५)
इत्यादिवेदविदग्रेसरवाल्मीकिपराशरद्वैपायनवचोभिश्च परस्य ब्रह्मण: सर्वस्यात्मत्वावगमात् चिदचिदात्मकस्य वस्तुनस्तच्छरीरत्वावगमाच्च शरीरस्य शरीरिणं प्रति प्रकारतयैव पदार्थत्वाच्शरीरशरीरिणोश्च धर्मभेदेऽपि तयोरसंकरात्सर्वशरीरं ब्रह्मेति ब्रह्मणो वैभवं प्रतिपादयद्भि: सामानाधिकरण्यादिभिर्मुख्यवृत्तै: सर्वचेतनाचेतनप्रकारं ब्रह्मैवाभिधीयते ।
(सामानाधिकरण्यस्य स्वमते मुख्यता)
सामानाधिकरण्यं हि द्वयो: पदयो: प्रकारद्वयमुखेनैकार्थनिष्ठत्वम्। तस्य चैतस्मिन् पक्षे मुख्यता । तथा हि तत्त्वमिति सामानाधिकरण्ये तदित्यनेन जगत्कारणं सर्वकल्याणगुणगणाकरं निरवद्यं ब्रह्मोच्यते । त्वमिति च चेतनसामानाधिकरण्यवृत्तेन जीवान्तर्यामिरूपि तच्छरीरं तदात्मतयावस्थितं तत्प्रकारं ब्रह्मोच्यते। इतरेषु पक्षेषु सामानाधिकरण्यहानिर्ब्रह्मण: सदोषता च स्यात् ।
(चिदचितोः ब्रह्मप्रकारत्वसमर्थनम्)
एतदुक्तं भवति । ब्रह्मैवमवस्थितमित्यत्रैवंशब्दार्थभूतप्रकारतयैव विचित्रचेतनाचेतनात्मक-प्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्भाव: । तथा च बहु स्यां प्रजायेय इत्ययमर्थ: संपन्नो भवति । तस्यैवेश्वरस्य कार्यतया कारणतया च नानासंस्थानसंस्थितस्य संस्थानतया चिदचिद्वस्तुजातमवस्थितमिति ।
ननु च संस्थानरूपेण प्रकारतयैवंशब्दार्थत्वं जातिगुणयोरेव दृष्टं न द्रव्यस्य । स्वतन्त्रसिद्धियोग्यस्य पदार्थस्यैवंशब्दार्थतयेश्वरस्य प्रकारमात्रत्वमयुक्तम् । उच्यते द्रव्यस्यापि दण्डकुण्डलादेर्द्रव्यान्तरप्रकारत्वं दृष्टमेव ।
(शरीरवाचिनां आत्मपर्यन्तत्वेन सामानाधिकरण्यम्)
ननु च दण्डादे: स्वतन्त्रस्य द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्ट: । यथा दण्डी कुण्डलीति। अतो गोत्वादितुल्यतया चेतनाचेतनस्य द्रव्यभूतस्य वस्तुन ईश्वरप्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते । अत्रोच्यते – गौरश्वो मनुष्यो देव इति भूतसंघातरूपाणां द्रव्याणामेव देवदत्तो मनुष्यो जात: पुण्यविशेषेण, यज्ञदत्तो गौर्जात: पापेन, अन्यश्चेतन: पुण्यातिरेकेण देवो जात इत्यादिदेवादिशरीराणां चेतनप्रकारतया लोकदेवयो: सामानाधिकरण्येन प्रतिपादनं दृष्टम् ।
अयमर्थ: जातिर्वा गुणो वा द्रव्यं वा न तत्रादर: । कंचन द्रव्यविशेषं प्रति विशेषणतयैव यस्य सद्भावस्तस्य तदपृथक्सिद्धेस्तत्प्रकारतया तत्सामानाधिकरण्येन प्रतिपादनं युक्तम् । यस्य पुनर्द्रव्यस्य पृथक्सिद्धस्यैव कदाचित्क्वचिद्द्रव्यान्तरप्रकारत्वमिष्यते तत्र मत्वर्थीयप्रत्यय इति विशेष: ।
(सर्वेषां शब्दानां ईश्वरपर्यन्तता, एकविज्ञानेन सर्वविज्ञानोपपत्तिश्च)
एवमेव स्थावरजङ्गमात्मकस्य सर्वस्य वस्तुन ईश्वरशरीरत्वेन तत्प्रकारतयैव स्वरूपसद्भाव इति । तत्प्रकारीश्वर एव तत्तच्छब्देनाभिधीयत इति तत्सामानाधिकरण्येन प्रतिपादनं युक्तम् । तदेवैतत्सर्वं पूर्वमेव नामरूपव्याकरणश्रुतिविवरणे प्रपञ्चितम् ।
अत: प्रकृतिपुरुषमहदहंकारतन्मात्रभूतेन्द्रियतदारब्धचतुर्दशभुवनात्मकब्रह्माण्ड-तदन्तर्वर्ति-देवतिर्यङ्मनुष्यस्थावरादि सर्वप्रकारसंस्थानसंस्थितं कार्यमपि सर्वं ब्रह्मैवेति कारणभूतब्रह्मविज्ञानादेव सर्वं विज्ञातं भवतीत्येकविज्ञानेन सर्वविज्ञानमुपपन्नतरम् । तदेवं कार्यकारणभावादिमुखेन कृत्स्नस्य चिदचिद्वस्तुन: परब्रह्मप्रकारतया तदात्मकत्वमुक्तम् ।
(ब्रह्मणो जगदुपादानतायाः निर्विकारत्वविघटकत्वाक्षेपः)
ननु च परस्य ब्रह्मण: स्वरूपेण परिणामास्पदत्वं निर्विकारत्वनिरवद्यत्व-श्रुतिव्याकोपप्रसञ्गेन निवारितम् । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् (ब्र.सू.१.४.२३) इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा-मृत्तत्कार्यदृष्टान्ताभ्यां परमपुरुषस्य जगदुपादानकारणत्वं च प्रतिपादितम् । उपादानकारणत्वं च परिणामास्पदत्वमेव । कथमिदमुपपद्यते ।
(ब्रह्मणः उपादानतायाः निर्विकारत्वाविघटकत्वं, तस्य चिद्रूपेण अचिद्रूपेण च परिणामाभ्युपगमे दोषोपपादनम्)
अत्रोच्यते सजीवस्य प्रपञ्चस्याविशेषेण कारणत्वमुक्तम् । तत्रेश्वरस्य जीवरूपपरिणामाभ्युपगमेन नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य: (ब्र.सू.२.३.१८) इति विरुध्यते । वैषम्यनैर्घृण्यपरिहारश्च जीवनमनादित्वाभ्युपगमेन तत्कर्मनिमित्ततया प्रतिपादित: वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र.सू.२.१.३४) न कर्मविभागादिति चेन्न अनादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू. २.१.३५) इति । अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्चानित्यत्वेऽभिहित: ।
तथा प्रकृतेरप्यनादिता श्रुतिभि: प्रतिपदिता
अजामेकां लोहितशुक्लकृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य: ॥ (तै.ना.उ.१०.५)
इति प्रकृतिपुरुषयोरजत्वं दर्शयति ।
अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया संनिरुद्ध: (श्वे.उ.४.९)
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे.उ.४.१०)
इति प्रकृतिरेव स्वरूपेण विकारास्पदमिति च दर्शयति-
गौरनाद्यन्तवती सा जनित्री भूतभाविनी (मन्त्रि.उ.१.५) इति च ।
स्मृतिश्च भवति,
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभवपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ (भ.गी.१३.१९)
भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ (भ.गी.७.४)
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ (भ.गी.७.५)
प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन: । (भ.गी.९.८)
मयाध्यक्षेण प्रकृति: सूयते सचराचरम् ॥ (भ.गी.९.१०)
इत्यादिका ।
एवं च प्रकृतेरपीश्वरशरीरत्वात्प्रकृतिशब्दोऽपि तदात्मभूतस्येश्वरस्य तत्प्रकारसंस्थितस्य वाचक:। पुरुषशब्दोऽपि तदात्मभूतस्येश्वरस्य पुरुषप्रकारसंस्थितस्य वाचक: । अतस्तद्विकाराणामपि तथेश्वर एवात्मा । तदाह –
व्यक्तं विष्णुस्तथाव्यक्तं पुरुष: काल एव च । (वि.पु.१.२.२०)
सा एव क्षोभको ब्रह्मन् क्षोभ्यश्च परमेश्वर: ॥ (वि.पु.१.२.३३)
इति । अत: प्रकृतिप्रकारसंस्थिते परमात्मनि प्रकारभूतप्रकृत्यंशे विकार: प्रकार्यंशे चाविकार: । एवमेव जीवप्रकारसंस्थिते परमात्मनि च प्रकारभूतजीवांशे सर्वे चापुरुषार्था: प्रकार्यंशो नियन्ता निरवद्य: सर्वकल्याणगुणाकर: सत्यसंकल्प एव ।
तथा च सति कारणावस्थ ईश्वर एवेति तदुपादानकजगत्कार्यावस्थोऽपि स एवेति कार्यकारणयोरनन्यत्वं सर्वश्रुत्यविरोधश्च भवति ।
(ब्रह्मण एव कारणत्व-कार्यत्वसमर्थनम्)
तदेवं नामरूपविभागानर्हासूक्ष्मदशापन्नप्रकृतिपुरुषशरीरं ब्रह्म कारणावस्थं, जगतस्तदापत्तिरेव च प्रलय: । नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यत्वं, ब्रह्मणस्तथाविधस्थूलभाव एव जगत: सृष्टिरित्युच्यते । यथोक्तं भगवता पराशरेण –
प्रधानपुंसोरजयो: कारणं कार्यभूतयो: । (वि.पु.१.९.३७) इति ।
तस्मादीश्वरप्रकारभूतसर्वावस्थप्रकृतिपुरुषवाचिन: शब्दास्तत्प्रकारविशिष्टतयावस्थिते परमात्मनि मुख्यतया वर्तन्ते । जीवात्मवाचिदेवमनुष्यशब्दवत् । यथा देवमनुष्यादिशब्दा देवमनुष्यादिप्रकृतिपरिणामविशेषाणां जीवात्मप्रकारतयैव पदार्थत्वात्प्रकारिणि जीवात्मनि मुख्यतया वर्तन्ते । तस्मात्सर्वस्य चिदचिद्वस्तुन: परमात्मशरीरतया तत्प्रकारत्वात्परमात्मनि मुख्यतया वर्तन्ते सर्वे वाचका: शब्दा: ।
(शरीरात्मनोः लक्षणनिर्वचनम्)
अयमेव चात्मशरीरभाव: पृथक्सिद्ध्यनर्हाधाराधेयभावो नियन्तृनियाम्यभाव: शेषशेषिभावश्च। सर्वात्मनाधारतया नियन्तृतया शेषितया च आप्नोतीत्यात्मा सर्वात्मनाधेयतया नियाम्यतया शेषतया च अपृथक्सिद्धं प्रकारभूतमित्याकार: शरीरमिति चोच्यते । एवमेव हि जीवात्मन: स्वशरीरसंबन्ध:। एवमेव परमात्मन: सर्वशरीरत्वेन सर्वशब्दवाच्यत्वम् ।
(उक्तेर्थे श्रुतिसम्मतिः पुराणवचस्सम्मतिश्च)
तदाह श्रुतिगण: – सर्वे वेदा यत्पदमामनन्ति (कठ.उ.२.१५) सर्वे वेदा यत्रैकं भवन्ति (तै.आ.उ.११.२) इति । तस्यैकस्य वाच्यत्वादेकार्थवाचिनो भवन्तीत्यर्थ: । एको देवो बहुधा निविष्ट: (तै.आर.३.१४.१), सहैव सन्तं न विजानन्ति देवा: (तै.आर.३.११.१२) इत्यादि । देवा – इन्द्रियाणि । देवमनुष्यादीनामन्तर्यामितयात्मत्वेन निविश्य सहैव सन्तं तेषामिन्द्रियाणि मन:पर्यन्तानि न विजानन्तीत्यर्थ: । तथा च पौराणिकानि वचांसि –
नता: स्म सर्ववचसां प्रतिष्ठा यत्र शश्वाती । (वि.पु.१.१२.२३)
वाच्ये हि वचस: प्रतिष्ठा ।
कार्याणां कारणां पूर्वं वचसां वाच्यमुत्तमम् । (जित.स्तो.७.४)
वेदैश्च सर्वैरहमेव वेद्य: । (भ.गी.१५.१५)
इत्यादीनि सर्वाणि हि वचांसि सशरीरात्मविशिष्टमन्तर्यामिणमेवाचक्षते । हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मानुप्रविश्य नामरूपे व्याकरवाणीति हि श्रुति: । तथा च मानवं वच: –
(परमात्मनः सर्वशब्दवाच्यतायाः हेतुः)
प्रशासितारं सर्वेषामणीयांसमणीयसाम्
रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥ (मनु.स्मृ.१२.१२२)
अन्त: प्रविश्यान्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् अणीयांस आत्मान: कृत्स्नस्याचेतनस्य व्यापकतया सूक्ष्मभूतास्ते तेषामपि व्यापकत्वात्तेभ्योऽपि सूक्ष्मतर इत्यर्थ: रुक्माभ: आदित्यवर्ण: स्वप्नकल्पबुद्धिप्राप्य:, विशदतमप्रत्यक्षतापन्नानुध्यानैकलभ्य इत्यर्थ: ।
एनमेके वदन्त्यग्निं मारुतोऽन्ये प्रजापतिम् ।
इन्द्रमेके परे प्रमाणमपरे ब्रह्म शाश्वतम् ॥ (मनु.स्मृ.१२.१२३)
ये यजन्ति पित्न् देवान् ब्राह्मणान् सहुताशनान् ।
सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥ (द.स्मृ) इति । पितृदेवब्राह्मणहुताशनादिशब्दास्तन्मुखेन तदन्तरात्मभूतस्य विष्णोरेव वाचका इत्युक्तं भवति ।
(जीवात्मनां स्वाभाविकं रूपम्, तत्सहारहेतुनिवारणं च)
अत्रेदं सर्वशास्त्रहृदयम् – जीवात्मान: स्वयमसंकुचितापरिच्छिन्ननिर्मलज्ञानस्वरूपा: सन्त: कर्मरूपाविद्यावेष्टितास्तत्तत्कर्मानुरूपज्ञानसंकोचमापन्ना:, ब्रह्मादिस्तम्बपर्यन्तविविधविचित्रदेहेषु प्रविष्टा: तत्तद्देहोचितलब्धज्ञानप्रसरास्तत्तद्देहात्माभिमानिनस्तदुचितकर्माणि कुर्वाणास्तदनुगुण-सुखदु:खोपभोग-रूपसंसारप्रवाहं प्रतिपद्यन्ते । एतेषां संसारमोचनं भगवत्प्रपत्तिमन्तरेण नोपपद्यत इति तदर्थ: प्रथममेषां देवादिभेदरहित- ज्ञानैकाकारतया सर्वेषां साम्यं प्रतिपाद्य, तस्यापि स्वरूपस्य भगवच्छेषतैकरसतया भगवदात्मकतामपि प्रतिपाद्य, भगवत्स्वरूपं च हेयप्रत्यनीक-कल्याणैकतानतया सकलेतरविसजातीयमनवधिकातिशयासंख्येयकल्याणगुणगणाश्रयं स्वसंकल्प-प्रवृत्तसमस्तचिदचिद्वस्तुजाततया सर्वस्यात्मभूतं प्रतिपाद्य, तदुपासन साङ्गं तत्प्रापकं प्रतिपदयन्ति शास्त्राणीति ।
(जीवात्मनां ज्ञानानन्दस्वरूपता)
यथोक्तम् – निर्वाणमय एवायमात्मा ज्ञानमयोऽमल: ।
दु:खाज्ञानमला धर्मा प्रकृतेस्ते न चात्मन: ॥ (वि.पु.६.७.२२)
इति प्रकृतिसंसर्गकृतकर्ममूलत्वान्नात्मस्वरूपप्रयुक्ता धर्मा इत्यर्थ: । प्राप्ताप्राप्तविवेकेन प्रकृतेरेव धर्मा इत्युक्तम् ।
(आत्मसु ज्ञानैकाकारतादर्सनमेव पाण्डित्यम्)
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पाण्डिता: समदर्शिन: ॥ (भ.गी.५.१८)
इति । देवतिर्यङ्मनुष्यस्थावररूपप्रकृतिसंसृष्टस्यात्मन: स्वरूपविवेचनी बुद्धिरेषां ते पण्डिता: । तत्तत्प्रकृतिविशेषवियुक्तात्मयाथात्म्यज्ञानवन्तस्तत्र तत्रात्यन्तविषमाकारे वर्तमानमात्मानं समानाकारं पश्यन्तीति समदर्शिन इत्युक्तम् ।
तदिदमाह
इहैव तैर्जित: सर्गो येषां साम्ये स्थितं मन: ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिता: ॥ (भ.गी.५.१९)
इति । निर्दोषं देवादिप्रकृतिविशेषसंसर्गरूपदोषरहितं स्वरूपेणावस्थितं सर्वमात्मवस्तु निर्वाणरूपज्ञानैकाकारतया सममित्यर्थ: ।
(जीवात्मनां भगवच्छेषतैकरसत्वादि)
तस्यैवंभूतस्यात्मनो भगवच्छेषतैकरसता तन्नियाम्यता तदेकाधारता च तच्छरीरतत्तनु-प्रभृतिभि: शब्दैस्तत्समानाधिकरण्येन च श्रुतिस्मृतीतिहासपुराणेषु प्रतिपाद्यत इति पूर्वमेवोक्तम् ।
(प्रपदनस्य अत्यन्तावश्यकता)
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ (भ.गी.७.१४)
इति तस्यात्मन: कर्मकृतविचित्रगुणमयप्रकृतिसंसर्गरूपात्संसारान्मोक्षो भगवत्प्रपत्तिमन्तरेण नोपपदयत इत्युक्तं भवति । नान्य: पन्था अयनाय विद्यते (तै.आ.३.१२.१७) इत्यादिश्रुतिभिश्च ।
(भगवतो विचित्रैश्वर्यम्)
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेषु अवस्थित: ॥ (भ.गी.९.४)
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥ (भ.गी.९.५)
इति सर्वशक्तियोगात्स्वैश्वर्यवैचित्र्यमुक्तम् । तदाह –
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् । (भ.गी.१०.४२)
इति अनन्तविचित्रमहाश्चर्यरूपं जगन्ममायुतांशेनात्मतया प्रविश्य सर्वं मत्संकल्पेन विष्टभ्यानेन रूपेणानन्तमहाविभूतिपरिमितोदारगुणसागरो निरतिशयाश्चर्यभूत: स्थितोऽहमित्यर्थ: ।
(ब्रह्मणो दुर्ज्ञेयाश्चर्यरूपता)
तदिदमाह
एकत्वे सति नानात्वं नानात्वे सति चैकता ।
अचिन्त्यं ब्रह्मणो रूपं कुतस्तद्वेदितुमर्हाति ॥
इति । प्रशासितृत्वेनैक एव सन्विचित्रचिदचिद्वस्तुष्वन्तरात्मतया प्रविश्य तत्तद्रूपेण विचित्रप्रकारो विचित्रकर्म कारयन्नानारूपां भजते । एवं स्वल्पांशेन तु सर्वाश्चर्यं नानारूपं जगत्तदन्तरात्मतया प्रविश्य विष्टभ्य नानात्वेनावस्थितोऽपि सन्ननवधिकातिशयासंख्येय कल्याणगुणगण: सर्वेश्वर: परब्रह्मभूत: पुरुषोत्तमो नारायणो निरतिशयाश्चर्यभूतो नीलतोयदसंकाश: पुण्डरीकदलामलायतेक्षण: सहस्रांशुसहस्रकिरण: परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमन्, (तै.उ.आन.१.१) तदक्षरे परमे व्योमन् (तै.ना.उ.१.२) इत्यादिश्रुतिसिद्ध एक एवातिष्ठते ।
(ब्रह्मणः समाभ्यधिकरहितत्वम्)
ब्रह्मव्यतिरिक्तस्य कस्यचिदपि वस्तुन एकस्वभावस्यैककार्यशक्तियुक्तस्यैकरूपस्य रूपान्तरयोग: स्वभावान्तरयोग: शक्त्यन्तरयोगश्च न घटते । तस्यैतस्य परब्रह्मण: सर्ववस्तुविजातीयतया सर्वस्वभावत्वं सर्वशक्तियोगश्चेत्येकस्यैव विचित्रानन्तरूपता च पुनरप्यनन्तापरिमिताश्चर्ययोगेनैकरूपता च न विरुद्धेति वस्तुमात्रसाम्याद्विरोधचिन्ता न युक्तेत्यर्थ: । यथोक्तं
शक्तय: सर्वभावानामचिन्त्यज्ञानगोचरा: ।
यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तय: ॥
भवन्ति तपसां श्रेष्ट पावकस्य यथोष्णता ॥ (वि.पु.१.३.२-३) इति ।
एतदुक्तं भवति सर्वेषामग्निजलादीनां भावानामेकस्मिन्नपि भावे दृष्टैव शक्तिस्तद्विजातीयभावान्तरेऽपीति न चिन्तयितुं युक्ता जलादावदृष्टापि तद्विजातीयपावके भास्वरत्वोष्णतादिशक्तिर्यथा दृश्यते, एवमेव सर्ववस्तुविसजातीये ब्रह्मणि सर्वसाम्यं नानुमातुं युक्तमिति।
(फलितार्थकथनम्)
अतो विचित्रानन्तशक्तियुक्तं ब्रह्मैवेत्यर्थ: । तदाह –
जगदेतन्महाश्चर्यं रूपं यस्य महात्मन: ।
तेनाश्चर्यवरेणाहं भवता कृष्ण संगत: ॥ (वि.पु.५.१९.७) इति ।
(विविधश्रुतिसमन्वयः)
तदेतन्नानाविधानन्तश्रुतिनिकरशिष्टपरिगृहीततद्व्याख्यानपरिश्रमादवधारितम् । तथा हि प्रमाणान्तरापरिदृष्टापरिमितपरिणामानेक तत्त्वनियतक्रमविशिष्टौ सृष्टिप्रलयौ ब्रह्मणोऽनेकविधा: श्रुतयो वदन्ति निरवद्यं निरञ्जनं (श्वे.उ.६.१९), विज्ञानम् (तै.उ.भृ.५.१), आनन्दं (तै.उ.आन.९.१), निर्विकारं (यो.शि.३.२१), निष्कलं निष्क्रियं शान्तं (श्वे.उ.६.१९), निर्गुण: (श्वे.उ.६.११) इत्यादिका: निर्गुणं ज्ञानस्वरूपं ब्रह्मेति काश्चन श्रुतयोऽभिदधति । नेह नानास्ति किंचन, मृत्यो: स मृत्युमाप्नोति य इह नानेव पश्यति (बृ.उ.६.४.१९), यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्तत्केन कं विजातीयात् (बृ.उ.४.१४.१४) इत्यादिका नानात्वनिषेधवादिन्य: सन्ति काश्चन श्रुतय: । य: सर्वज्ञ: सर्ववित्, यस्य ज्ञानमयं तप: (मुण्ड.उ.१.१.१०), सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते (तै.आ.पु.३.१२.१६), सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधि (तै.ना.उ.१.८), अपहतपाप्मा विजरो विमृत्युर्विशोको विजघत्सोऽपिपास: सत्यकाम: सत्यसंकल्पः (छा.उ.८.१.५) इति सर्वस्मिञ्जगति हेयतयावगतं सर्वगुणं प्रतिषिध्य निरतिशयकल्याणगुणानन्त्यं सर्वज्ञता सर्वशक्तियोगं सर्वनामरूपव्याकरणं सर्वस्यावधारतां च काश्चन श्रुतयो ब्रुवते । सर्वं खल्विदं ब्रह्म तज्जलान् (छा.उ.१४.१) इति ऐतदात्म्यमिदं सर्वं (छा.उ.६.८.७) एक: सन् बहुधा विचार (तै.आ.३.११.२) इत्यादिका ब्रह्मसृष्टं जगन्नानाकारं प्रतिपाद्य तदैक्यं च प्रतिपादयन्ति काश्चन । पृथगात्मानं प्रेरितारं च मत्वा (श्वे.उ.१.६), भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.१.१२), प्रजापतिरकामयत प्रजा: सृजेयेति (तै.सं.उ.१.१.१), पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतं (तै.ना.उ.११.३), तमीश्वराणां परमं महेश्वरं तं देवतानां परं च दैवतं (श्वे.उ.६.७), सर्वस्य वशी सर्वस्येशानः (बृ.उ.६.४.२२) इत्यादिका ब्रह्मण: सर्वस्मादन्यत्वं सर्वस्येशितव्यमीश्वरत्वं च ब्रह्मण: सर्वस्य शेषतां पतित्वं चेश्वरस्य काश्चन । अन्त: प्रविष्ट: शास्ता जनानां सर्वात्मा (तै.आ.३.११.३), एष त आत्मान्तर्याम्यमृत: (बृ.उ.५.७.७), यस्य पृथिवी शरीरं…, यस्याप: शरीरं…., यस्य तेज: शरीरं… (सुबा.उ.७) इत्यादि यस्याव्यक्तं शरीरं…, यस्याक्षरं शरीरं…, यस्य मृत्यु: शरीरं… (सुबा.उ.७), यस्यात्मा शरीरं… (बृ.उ.मा.पा.५.७.२६) इति ब्रह्मव्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश्च शरीरात्मभावं दर्शयन्ति काश्चनेति। नानारूपाणां वाक्यानामविरोधो मुख्यार्थापरित्यागश्च यथा संभवति तथा वर्णनीयम् । वर्णितं च ।
(सर्वासां श्रुतीनां सामरस्यप्रकारः)
अविकारश्रुतय: स्वरूपपरिणामपरिहारादेव मुख्यार्था: । निर्गुणवादाश्च प्राकृतहेयगुणनिषेध-परतया व्यवस्थिता: । नानात्वनिषेधवादाश्चैकस्य ब्रह्मण: शरीरतया प्रकारभूतं सर्वं चेतनाचेतनं वस्त्विति सर्वस्यात्मतया सर्वप्रकारं ब्रह्मैवावस्थितमिति सुरक्षिता: । सर्वप्रकारविलक्षणत्व-पतित्वेश्वरत्वसर्वकल्याणगुणगणाकारत्व सत्यकामत्वसत्यसंकल्पत्वादिवाक्यं तदभ्युपगमादेव सुरक्षितम् । ज्ञानानन्दमात्रवादि च सर्वस्मादन्यस्य सर्वकल्याणगुणगणाश्रयस्य सर्वेश्वरस्य सर्वशेषिण: सर्वाधारस्य सर्वोत्पत्तिस्थितिप्रलयहेतुभूतस्य निरवद्यस्य निर्विकारस्य सर्वात्मभूतस्य परस्य ब्रह्मण: स्वरूपनिरूपकधर्मो मलप्रत्यनीकानन्दरूपज्ञानमेवेति स्वप्रकाशतया स्वरूपमपि ज्ञानमेवेति च प्रतिपादनादनुपालितम् । ऐक्यवादाश्च शरीरात्मभावेन सामानाधिकरण्य-मुख्यार्थतोपपादनादेव सुस्थिता:।
(भेदादिषु मध्ये कस्यार्थस्य श्रुतितात्पर्यविषयता? इत्यस्योत्तरम्)
एवं च सत्यभेदो वा भेदो वा द्व्यात्मकता वा वेदान्तवेद्य: कोऽयमर्थ: समर्थितो भवति । सर्वस्य वेदवेद्यत्वात्सर्वं समर्थितम् । सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितमित्यभेद: समर्थित: । एकमेव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेनावस्थितमिति भेदाभेदौ । अचिद्वस्तुनश्चिद्वस्तुनश्चेश्वरस्य च स्वरूपस्वभाववैलक्षण्यादसंकराच्च भेद: समर्थित: ।
(ऐक्यज्ञानस्य मोक्षसाधनत्वशङ्का, तन्निरासश्च)
ननु च तत्त्वमसि श्वेतकेतो (छा.उ.६.८.७), तस्य तावदेव चिरं (छा.उ.६.१४.२) इत्यैक्यज्ञानमेव परमपुरुषार्थलक्षणमोक्षसाधनमिति गम्यते । नैतदेवम् । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.उ.१.६) इत्यात्मानं प्रेरितारं चान्तर्यामिणं पृथग्मत्वा तत: पृथक्त्वज्ञानाद्धेतोस्तेन परमात्मना जुष्टोऽमृतत्वमेतीति साक्षादमृतत्वप्राप्तिसाधनमात्मनो नियन्तुश्च पृथग्भावज्ञानमेवेत्यवगम्यते ।
(सगुणब्रह्मणः अपरमार्थत्वाभावः)
ऐक्यवाक्यविरोधादेतदपरमार्थसगुणब्रह्मप्राप्तिविषयमित्यभ्युपगन्तव्यमिति चेत् । पृथक्त्वज्ञानस्यैव साक्षादमृतत्वप्राप्तिसाधनत्वश्रवणाद्विपरीतं कस्मान्न भवति ।
एतदुक्तं भवति । द्वयोस्तुल्ययोर्विरोधे सत्यविरोधेन तयोर्विषयो विवेचनीय इति । कथमविरोध इति चेत् –
(तत्त्वमसिश्रुतिलभ्योऽर्थः)
अन्तर्यामिरूपेणावस्थितस्य परस्य ब्रह्मण: शरीरतया प्रकारत्वाज्जीवात्मनस्तत्प्रकारं ब्रह्मैव त्वमिति शब्देनाभिधीयते । तथैव ज्ञातव्यमिति तस्य वाक्यस्य विषय: । एवंभूताज्जीवात् तदात्मतया-अवस्थितस्य परमात्मनो निखिलदोषरहिततया सत्यसंकल्पत्वात् अनवधिकातिशय- असंख्येयकल्याणगुणगणाकरत्वेन च य: पृथग्भाव: सोऽनुसंधेय इत्यस्य वाक्यस्य विषय इत्ययमर्थ: पूर्वमसकृदुक्त: ।
(तत्त्वत्रयस्वभावविवेकस्य मोक्षोपयोगिता)
भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.१.१२) इति भोग्यरूपस्य वस्तुनोऽचेतनत्वं परमार्थत्वं सततं विकारास्पदत्वमित्यादय: स्वभावा:, भोक्तुर्जीवात्मनश्चामलापरिच्छिन्नज्ञानानन्द-स्वभावस्यैव अनादि-कर्मरूपाविद्याकृत-नानाविधज्ञानसंकोचविकासौ भोग्यभूताचिद्वस्तुसंसर्गश्च परमात्मो-पासनात् मोक्षश्चेत्यादय: स्वभावा:, एवंभूतभोक्तृभोग्ययोरन्तर्यामिरूपेणावस्थानं स्वरूपेण चापरिमितगुणौघाश्रयत्वेनावस्थानमिति परस्य ब्रह्मस्त्रिविधावस्थानं ज्ञातव्यमित्यर्थ: ॥
(सगुणस्यैव सद्विद्योपास्यत्वम्)
तत्त्वमसि (छा.उ.६.८.७) इति सद्विद्यायामुपास्यं ब्रह्म सगुणं सगुणब्रह्मप्राप्तिश्च फलमित्यभियुक्तै: पूर्वाचार्यैर्व्याख्यातम्। यथोक्तं वाक्यकारेण युक्तं तद्गुणकोपासनात् (ब्र.न.वा) इति । व्याख्यातं च द्रमिडाचार्येण विद्याविकल्पं वदता यद्यपि सच्चितो न निर्भुग्नदैवतं गुणगणं मनसानुधावेत्तथाप्यन्तर्गुणामेव देवतां भजत इति तत्रापि सगुणैव देवता प्राप्यत (द्र.भा) इति। सच्चित्त:-सद्विद्यानिष्ठ: । न निर्भुग्नदैवतं गुणगणं मनसानुधावेत, अपहतपाप्मत्वादि-कल्याणगुणगणं दैवताद्विभक्तं यद्यपि दहरविद्यानिष्ठ इव सच्चितो न स्मरेत्, तथापि अन्तर्गुणामेव देवतां भजते देवतास्वरूपानुबन्धित्वात्सकलकल्याणगुणगणस्य केनचिद्परदेवता-साधारणेन निखिलजगत्कारणत्वादिना गुणेनोपास्यमानापि देवता वस्तुत: स्वरूपानुबन्धि सर्वकल्याणगुणगणविशिष्टैवोपास्यते । अतस्सगुणमेव ब्रह्म तत्रापि प्राप्यमिति सद्विद्यादहरविद्ययोर्विकल्प इत्यर्थ: ।
……Continued