अधिकरणसारावली अर्चिराद्यधिकरणम्

अधिकरणसारावली चतुर्थाध्याये तृतीय: पाद: अर्चिराद्यधिकरणम् 4.3.1      1.निर्गत्य ब्रह्मरन्ध्रात् तपनकरमथालम्ब्य नाडीनिबद्धं प्रत्युद्यद्देवबृन्दप्रहितबलिरसौ येन योगी प्रयाति । मौकुन्दस्स्थाप्यतेऽसौ परमिह मुनिना पञ्चभिर्न्यायभेदैः मोहाकूपारपारं पुरमभिगमयन्मुक्तिघण्टापथो नः।। 4.3.2      शाखाभेदेषु भिन्नां गतिमुपनिषदोऽधीयते तन्मुमुक्षोः विद्यावैषम्यनीत्या गतिरपि विषमा न व्यवस्थार्चिरादेः। नैतत्सर्वत्र तैस्तैरिह तदिदमिति प्रत्यभिज्ञानसिद्धौ भाव्यं न्यूनाधिकत्वप्रभृति निखिलमप्यत्र सिद्धाविरुद्धम्।। 4.3.3      चैद्यादीनामयोध्यास्थिरचरजनुषां पुण्डरीकादिकानां भीष्मादीनामुपास्तिक्रमभवविभवव्यूहलोकस्थितानाम् । धातॄणां तत्सुतानामिधिकृतिविगमे ब्रह्मसम्प्रेप्सताम- प्यन्येषां प्रस्थितिस्सा शितपृथुमतिभिश्चिन्तनीया […]

अधिकरणसारावली दक्षिणायनाधिकरणम्

अधिकरणसारावली दक्षिणायनाधिकरणम् 4.2.23    देहं योगीश्वरोऽपि त्यजति यदि रवेर्दक्षिणावृत्तिकाले विन्देत्सायुज्यमिन्दोरिह भवति पुनस्तच्छ्रुतेस्तत्स्मृतेश्च। मैवं पूर्वोक्तनीतिस्त्विह नहि विहताथास्य सायुज्यमिन्दौ विश्रान्त्यै सूर्यनीत्या जगदुपकृतये भीष्मकालप्रतीक्षा।। 4.2.24    किञ्च प्रारब्धकर्मप्रतिनियतमिदं जाह्नवीसम्भवस्य स्वेच्छा येनैवमासीत् स च वसुरभवन्नै साक्षाद्विमुक्तः। तस्माद्विन्देत मुक्तिं नरपितृदिविषद्रात्रिकालेऽपि योगी स्यातां प्राशस्त्यनिन्दे तदितरविषये गीतयोक्तौ तु मार्गौ।। 4.2.25    सम्पद्येतान्यदक्षं मनसि तदपि तत्संयुतं प्राणवायौ सोऽध्यक्षे तैस्समेतस्स च तदखिलवान् भूतवर्गे तु […]

अधिकरणसारावली निशाधिकरणम्

अधिकरणसारावली निशाधिकरणम् 4.2.21    सर्वेषामप्रशस्तं रजनिमरणमित्यह््नि योगी म्रियेत प्रेयाद्यद्येष रात्रौ न चरममरणं तद्भवेदित्ययुक्तम्। कर्म प्रारब्धकार्यं ह्यनियतसमयं क्षीयते तावदेवे- त्युक्तश्चास्मिन्विलम्बोऽहनि निशि च परं विद्यया सोऽश्नुतेऽतः।। 4.2.22    यत्रैकस्यापवर्गः प्रतिनियततया गण्यते जातकक्षैः तत्स्यादन्त्यं शरीरं न तु भवति ततोऽप्यन्ययोगव्युदासः। न ह्यत्राप्यन्तकाले दिनरजनिभिदा देशभेदादि चैवं शव्यं कुर्वन्ति चास्मिन् यदुच यदुच नेत्यादि चैवं विभाव्यम्।।

अधिकरणसारावली रश्म्यनुसाराधिकरणम्

अधिकरणसारावली रश्म्यनुसाराधिकरणम् 4.2.20    एतैरेवेति वाक्ये दिनकरकिरणालम्बनेनोर्ध्वयानं यत्प्रोक्तं योगिनस्तद्दिनमृतिनियतं निश्ययुक्त्येति चेन्न। अह्नि च्छायासु रात्रिष्वपि हि लधुतरा रश्मयस्सन्ति लिङ्गात् तापो वर्षादिरात्रौ न यदि हिमदिनन्यायतो नेयमेतत्।।

अधिकरणसारावली तदोकोधिकरणम्

अधिकरणसारावली तदोकोधिकरणम् 4.2.18    नाडीजालेऽतिसूक्ष्मे न भवति सुशका मुक्तिनाडी विवेक्तुं तस्मान्मूर्धन्यनाडीगतिरनियमतो मुच्यमानस्य पुंसः। वाक्यं गन्तुस्तयोर्ध्वं प्रवददमृततां सम्भवादस्तु मैवं विद्यासम्प्रीतहार्दप्रसदनमहसा स्वार्हनाडीप्रवेशात्।। 4.2.19    स्वाधीनो हार्दसंज्ञस्स्वयमविकलया सम्पदा साकमेकः स्थित्वा हृतपद्ममध्ये स्थगितनिजतनुस्सप्तलोकीगृहस्थः। नाडीचक्रे सुषुम्नां निखिलधृतिकरीं नाभिमूर्धान्तरूपां भित्त्वा तन्मध्यरन्ध्रप्रहितमिषुमिवोत्क्षिप्य नेता मुमुक्षुम्।।

अधिकरणसारावली अविभागाधिकरणम्

अधिकरणसारावली अविभागाधिकरणम् 4.2.17    सम्पत्तिर्देवतायां भवतु लय इयं सा हि सर्वस्य योनिः भूयस्स्रष्टुं क्षमा चेत्यसदनुषजतो वाच्यवैरूप्यदोषात्। विश्लेषो भूतसूक्ष््मैरिह न च घटते सृष्टिक्लृप्तिस्तु गुर्वी प्रोक्ता धूमादिमार्गे गतिरपि भविनस्तत्परिष्व़ञ्जनेन।।

अधिकरणसारावली परसंपत्त्यधिकरणम्

अधिकरणसारावली परसंपत्त्यधिकरणम् 4.2.15    जीवोत्क्रान्त्युक्तिकाले विदुषि तु घटते तत्प्रतिक्षेपभङ्गो भूतोत्क्रान्तेस्तु पश्चात्तदुपनिपतने सङ्गतिस्स्यात्कथंचित्। तस्मात्साधारणोऽपि ह्ययमुपरि ततस्स्थाप्यते हार्दयोगः तुल्येऽप्यस्मिन्नतुल्यास्सरणिमुखतया प्राप्यभेदेन नाड्यः।। 4.2.16    प्राप्तुं भोगापवर्गौ प्रयति तनुभृति प्राप्तसूक्ष्मस्वदेहे सम्पत्त्या किं परस्यां श्रितहृदयसुषौ लभ्यते देवतायाम्। आतस्तेजः परस्यामिति चिरघटितेऽप्यस्तु सिद्धानुवादो मैवं मानानुसारात्फलमिति परमे संक्रमश्श्रान्तिशान्त्यै।।

अधिकरणसारावली आसृत्युपक्रमाधिकरणम्

अधिकरणसारावली आसृत्युपक्रमाधिकरणम् 4.2.10    अत्रैव ब्रह्म विन्दत्यमृत इह भवत्यागमाद्ब्रह्मनिष्ठो नोत्क्रान्तिस्तस्य युक्तेत्यसदुपनिषदो ह्यस्य गत्याद्युशन्ति। नान्यप्राप्त्यर्थमेतत् सगुणसमधिकं कुत्रचिन्मानहानेः तस्मादत्रामृतत्वप्रभृतिवचनतस्तादृशी तद्दशोक्ता।। 4.2.11    निश्शेषं भोगहेतौ गलति परविदः कर्मणि प्रायणेऽथो गत्यर्थँ सूक्ष्मदेहानुगतिरणुतया निश्चितस्याफला स्यात्। मार्गे संवादवादस्तदुचितवपुषा त्वस्त्वितीवानुयोगे कृत्स्नाविद्यानिवृत्तिः परपदगमनापेक्षिणीत्यादि वाच्यम्।। 4.2.12    कल्पादौ भूतसूक्ष्््मप्रभृतिभिरुदितं वर्ष्म कल्पान्तनाश्यं प्रत्येकं प्राणिभेदे नियतमनियतस्थूलदेहानुयायि। लिङ्गाख्यं भस्त्रिकान्तः परुवकवदवस्थायि सांख्यैः प्रगीतं सूक्ष््मांशः पूर्वमूर्तेरुपरितनतनोर्बीजमत्रेष्यते तत्।। 4.2.13    […]

अधिकरणसारावली भूताधिकरणम्

अधिकरणसारावली भूताधिकरणम् 4.2.9      तेजस्येवास्तु युक्तश्श्रिततनुभृदनस्तेजसीत्याद्यबाधात् छत्रिन्यायोऽपि नास्मिन्निति यदि न तथान्यत्र भूतान्तरोक्तेः। विश्वारम्भाय देवस्त्रिवृतमकृत च प्रागिमं भूतपूर्वं प्राचुर्यात्तत्तेदकव्यवहृतिरिति चासूत्रयत्पूर्वमेव।।

अधिकरणसारावली अध्यक्षाधिकरणम्

अधिकरणसारावली अध्यक्षाधिकरणम् 4.2.8      प्राणस्सैकादशाक्षस्तदनु निविशते तेजसीत्थं श्रुतत्वात् मध्येऽन्यप्राप्तिक्लृप्तौ श्रुतिहतिरिति चेन्नात्मयोगस्य चोक्तेः। प्राणस्य स्वाप्तजीवे मिलति निजतनोरुद्धृतैर्भूतसूक्ष्मैः तेजः प्राप्तिश्च गङ्गानिपतितयमुनासागरप्राप्तिवत्स्यात्।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.