नयमयूखमालिका – Adhyaya 2 Pada 2

॥श्रीः॥ नयमयूखमालिका ।।अथ द्वितीयस्याध्यायस्य द्वितीय पादः।। रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्र्व।।1।। पयोऽम्बुवच्चेत्तत्रापि।।2।। व्यतिरेकानवस्थितेश्र्वानपेक्षत्वात्।।3।। अन्यत्राभावाच्च न तृणादिवत्।।4।। पुरुषाश्मवदिति चेत्तथाऽपि।।5।। अंगित्वानुपपत्तेश्च।।6।। अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात्।।7।। अभ्युऽपगमेऽप्यर्थाभावात्।।8।। विप्रतिषेधाच्चासमंजसम्।।9।। प्रथमाध्यायप्रतिपादिते ब्रह्मणो जगत्कारणत्वे प्रधानपरमाणुकारणवादिभिस्सांख्य वैशेषिकादिभिः केवलतर्कमवष्टभ्यापादितानि दूषणानीति प्रथमपादेन निराकृतानि। तत्रापि प्रणेतृगौरवेण तेषां तर्काणामुपादेयत्व शङ्कास्मृत्यधिकरणयोगाधिकरणाभ्यांनिराकृता। तत्तत्तर्कस्वरूपपर्यालोचनया तेषामुपादेयत्वशङ्का नविलक्षणत्वाधिकरणमारम्भ निराकृता। एवमाद्याधिकरणयोस्तृतीयादीनामष्टानामधिकरणानाञ्चावान्तरार्थभेदेऽपि ब्रह्मवादप्रतिक्षेपकतर्कनिराकरणार्थत्वेनैकार्थ्यं, अस्मिन्पादे शुष्कतर्कालम्बनास्सांख्यादिपक्षास्तथाभूतैरेव तर्कैर्दूष्यन्ते। अन्यथा प्रधानादिकारणत्वप्रतिष्ठापकानां परपक्षाणां तदर्काभासमूलत्वं जानतां मन्दधियां तेषु प्रामाणिकत्वशङ्कया ब्रह्मवादश्रद्धा शिथिलीभवेत्। […]

नयमयूखमालिका – Adhyaya 2 Pada 1

।।श्रीः।। नयमयूखमालिका द्वितीयोऽद्ध्यायः । ।।द्वितीयस्याध्यायस्य प्रथमः पादः।। ।।स्मृत्यनवकाशदोषप्रसंगइतिचेन्नान्यस्मृत्यनवकाशदोषप्रसंगात्।।1 ।। ।।इतरेषाञ्चानुपलब्धेः।।2 ।। प्रथमेऽध्याये श्रीमन्नारायणाख्यं परंब्रह्म सकलजगत्कारणमिति तत्र सर्वेषां वेदान्तानां न्यायतस्समन्वयव्युत्पादनेन प्रसाधितं। तत्र संभावितसर्वविधविरोधसमाधानेन तदेव स्थिरीकर्तुं द्वितीयोऽध्याय आरभ्यते। तत्र प्रथमाधिकरणे सांख्यस्मृतिविरोधेन वेदांतानामन्यपरत्वाशङ्का निरस्यते। ननु कथं स्मृतिविरोधे श्रुतेरन्यपरत्वशङ्का, श्रुतिस्मृतिविरोधे स्मृतेरेवाप्रामाण्यस्य “विरोधेत्वनपेक्ष्यं स्यादसति ह्यनुमान” मिति पूर्वतन्त्राधिकरणे स्थितत्वात्। तत्र हि “औदुंबरीं स्पृष्ट्वोद्राये”दिति प्रत्यक्षश्रुतिविरोधेन “औदुंबरी सर्वा वेष्टयितव्ये”ति स्मृतेरनादरणीयत्वं, असत्येव प्रत्यक्षश्रुतिविरोधे स्मृतेर्मूल […]

नयमयूखमालिका – Adhyaya 1 Pada 4

॥श्रीः॥ नयमयूखमालिका ।।प्रथमाध्यायस्य चतुर्थ पादः।। आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त गृहीतेर्दर्शयति च।।1।। सूक्ष्मं तु तदर्हत्वात्।।2।। तदधीनत्वादर्थत्वात्।।3।। ज्ञेयत्वावचनाच्च।।4।। वदतीति चेन्न प्राज्ञो हि प्रकरणात्।।5।। त्रयाणामेव चैवमुपन्यासः प्रश्नश्च।।6।। महद्वच्च।।7।। इह पादे सांख्यतन्त्रप्रतिपादनच्छायापन्नानां वाक्यानां सांख्याभिमतार्थनिरासेन ब्रह्मणि समन्वयः प्रतिपाद्यत इति पादार्थस्तत्सङ्गतिश्चेत्युभयमपि प्रथमपाद एव दर्शितं। काठके श्रूयते- “इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परम्मनः। मनसस्तु परा बुद्धि र्बुद्धेरात्मा महान् परः।। महतः परमव्यक्तमव्यक्तात्पुरुषः परः।। पुरुषान्नपरं किंचित् […]

नयमयूखमालिका – Adhyaya 1 Pada 3

॥श्रीः॥ नयमयूखमालिका ।।प्रथमाध्यायस्य तृतीय पादः।। द्युभ्वाद्यायतनं स्वशब्दात्।।1।। मुक्तोपसृप्यव्यपदेशाच्च।।2।। नानुमानमतच्छब्दात्प्राणभृच्च।।3।। भेदव्यपदेशाच्च।।4।। प्रकरणात्।।5।। स्थित्यदनाभ्याञ्च।।6।। आथर्वणिकाः समामनंति– “यस्मिन् द्यौः पृथीवी चांतरिक्षमोतंमनस्सप्राणैश्च सर्वैः तमेवैकंजानथात्मानमन्यावाचो विमुंचथ अमृतस्यैषसेतुरिति। अत्र द्युभ्वाद्यायतनं जीवः परोवेति संशये जीवइति तावत्प्राप्तं, “अराइव रथनाभौ संहतायत्र नाड्यः सएषोऽन्तश्चरते बहुधा जायमन इति उत्तरमत्रे नाड्याधारत्तवशरीरांतस्संचारजन्मवत्त्वानां जीवलिंगानामाम्नानात्, तत्र आदिमन्त्रे “ओतं मनस्सह प्राणैश्च सर्वै”रिति मनः प्राणाश्रयत्वरूपजीवलिंगाम्नानात्, “एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पंचधा संविवेष। प्राणैश्चित्तं […]

नयमयूखमालिका – Adhyaya 1 Pada 2

॥श्रीः॥ नयमयूखमालिका ।।प्रथमाध्यायस्य द्वितीय पादः।। प्रथम पादे समस्तचिदचिद्वलक्षणश्रीपुरुषोत्तमाख्यवेदान्तवेद्यजगत्कारणास्तित्वं प्रसाधितं, तथाऽपि कानिचिद्वेदान्तवाक्यानि चिदचिदन्तर्भूतवस्तुविशेषप्रतिपादकानि दृश्यंत इत्याशङ्कानिरासः क्रियते। किञ्च जन्मादिसूत्रै ब्रह्म कारणमेव ब्रह्मैव कारणमिति अयोगान्ययोगव्यवच्छेदौ लक्षणस्य असम्भावातिव्याप्तिपरिहाराय विवक्षितौ, तत्र अयोगव्यवच्छेदः प्रथमपादेन सिद्धः अन्ययोगव्यवच्छेदार्थस्रिपाद्यारम्भइति च विभागः। तत्र स्पष्टतरजीवलिङ्गकानि वाक्यानि प्रथमे पादे विचारितानि, अस्पष्टजीवलिंगकानि द्वितीये विचार्यन्ते, स्पष्टजीवलिङ्गकानि तृतीये, प्रधानादिप्रतिपादनच्छायानुसारीणि चतुर्थ इति प्रायिकोऽयं पादार्थविभागः।। सर्वत्र प्रसिद्धोपदेशात्।।1।। विवक्षितगुणोपपत्तेश्च।।2।। अनुपपत्तेस्तु न शारीरः।।3।। कर्मकर्तृव्यपदेशाच्च।।4।। शब्दविशेषात्।।5।। स्मृतेश्च।।6।। अर्श्रकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न […]

नयमयूखमालिका – Adhyaya 1 Pada 1

॥श्रीः॥ नयमयूखमालिका ।।प्रथमाध्यायस्य प्रथमः पादः।। हेषारवैर्यश्श्रुतिब्रह्मनिर्भरैः स्त्रीयां व्यनक्ति स्वरसो दितां पुरा। निश्वासपङ्क्तिं निखिलामपि त्रयीमश्वाननः पातुस वश्चिरं हरिः।। श्रेयसान्निधिमिव श्रियःपतिं प्रेप्सतां प्रियहिताध्वदर्शिनी। लक्ष्मणार्यहृदयानुसारिणी लिख्यते नयमयूखमालिका।। “अथातोधर्मजिज्ञासे”त्यारभ्य “अनावृत्तिश्शब्दादनावृत्तिश्शब्दा” दितिपर्यंतं विंशतिलक्षणमेकं शास्त्रं, तत्र कर्मविचारार्था द्वादशलक्षणी देवताविचारार्था चतुर्लक्षणी च वृत्ता।ब्रह्मविचारार्था चतुर्लक्षण्यास्भ्यते।तत्रादौ ब्रह्मविषयव्युत्पत्त्यभावप्रतिपत्तिदौस्थ्यमानान्तरसिद्धत्वफलराहित्यरूपतदनारम्भहेतुचतुष्टयनिरीसेन तदारम्भसमर्थनार्थतया शास्रोपोद्धातरूपाणि समन्वयाधिकरणपर्यन्तानि चत्वार्यधिकरणानि।तेषु व्युत्पत्त्यभावशंकानिरीकरणार्थमिदमाद्यमधिकरणम्।। अथातो ब्रह्मजिज्ञासा।।1।। ब्रह्मविचारात्म्कमिदं शास्रमारम्भणीयं नवेति संशयः।तदर्थ ब्रह्मणि वेदान्ताः प्रमाणं नवेति संशयः। तदर्थञ्च सिद्धरूपे ब्रह्मणि […]

तत्त्वसारः – Vyakya

श्रीरस्तु श्रीमते रामानुजाय नमः श्रीवत्सकुलतिलकैः वरदाचार्यैः समनुगृहीतः तत्त्वसारः। रत्नसारिणीव्याख्यासहितः। (मु.) – श्रीविष्णुचित्तपदपङ्कजसंगमाय चेतो मम स्पृहयते किमतः परेण । नो चेन्ममापि यतिशेखरभारतीनां भावः कथं भवितुमर्हति वाग्विधेयः ।। 1 ।। ओं नमो भक्तिसाराय व्यवसायात्मने हरेः । दैत्यान् प्रच्छन्नदैत्यान् वा शस्त्रैः शास्त्रैर्विधून्वते ।। अव. – भगवान् वरदगुरुः, चिकीर्षितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यर्थं स्मृत्याचारसिद्धं मङ्गळमाचरति —- श्रीविष्णुचित्तेत्यादि  व्या. – (मम चेतः) श्रीविष्णुचित्तस्य –विष्णुः चित्ते […]

अधिकरणसारावली जगद्व्यापारवर्जाधिकरणम्

अधिकरणसारावली जगद्व्यापारवर्जाधिकरणम् 4.4.25    यद्यप्युक्तो विमुक्तः परतनुरपृथक्सिद्ध इत्यत्र पूर्वं व्यापारांशे तथापि श्रुतमिह परमं साम्यमक्षोभणीयम्। संकल्पादेव सर्वोत्थितिरपि हि ततस्स्यादिति प्रत्यवस्थां कृन्तत्यन्ते़ऽधिकारे कृतिमदितरयोस्स्थापयन्भोगसाम्यम्।। 4.4.26    सायुज्यं भोगसाम्यं समगणि निपुणैश्शब्दशक्त्याद्यबाधात् तच्च व्यापारसाम्ये त्वसति न घटते स्वक्रियास्वादहानेः। तस्मान्मुक्तस्य सृष्टिप्रभृतिरपि जगद्व्यापृतिर्ब्रह्मतुल्या मैवं तल्लक्षणं सा कथमनुगमतस्तस्य चान्यस्य च स्यात्।। 4.4.27    कथ्यन्ते सृष्टिवाक्ये क्वचिदपि न जगत्कारणत्वेन मुक्ताः प्राधीतः कामचारो भवतु न […]

अधिकरणसारावली अभावाधिकरणम्

अधिकरणसारावली अभावाधिकरणम् 4.4.17    मुक्तः प्रोक्तोऽशरीरः क्वचिदथ बहुधा संभवः क्वाप्यधीतो गानक्रीडादि चोक्तं तदनुगुणमतद्वन्द्वमार्षं निरस्यन्। स्वच्छन्दस्योभयं तत्क्षममिति वदति स्वं मतं सूत्रकारः स्याच्चाकर्मोद्भवं तन्निखिलमपि परब्रह्मवत्तत्समस्य।। 4.4.18    मोक्षे पुण्याद्यभावात्तदुपधिकवपुर्वर्जितत्वं न दूष्यं तस्मिन्दुःखार्हदेहत्यजि च शुभवपुस्सत्त्वपक्षोऽप्यबाध्यः। इत्थं सत्यत्र मुक्तस्थितिरिह मुनिना कीदृशी सूत्रिता स्यात् नैवं स्वच्छन्ददेहग्रहतदनियमस्थापनेऽत्राभिसन्धेः।। 4.4.19    19.नानादेहा यदि स्युर्युगपदधिगतब्रह्मसाम्यस्य पुंसः तेषां व्याप्तस्वरूपान्वय उचित इति प्राक्तनाणुत्वहानम्। नैतद्धीव्याप्तिसिद्धेर्भवति च जगदावेशवाक् तन्निदाना […]

अधिकरणसारावली संकल्पाधिकरणम् 

अधिकरणसारावली संकल्पाधिकरणम् 4.4.13    धात्रादेरप्यपेक्ष्यो ह्युपकरणगणस्सत्यसङ्कल्पवृत्तेः मुक्तस्याप्येवमेवास्त्विति यदि वितथं तद्विकल्पासहत्वात्। इष्टा द्रव्याद्यपेक्षा सुकृततदितरापेक्षणं तत्र दुस्स्थं न स्यादिच्छाविघातस्त्वनुपधिकतया देववाञ्छैकरस्यात्।। 4.4.14    विश्वस्यैतस्य जन्मस्थितिलयरचना विश्वकर्तुर्यथा स्यात् इच्छासन्तानभेदान्नियतिरिह तथा नित्यमुक्तक्रियाणाम्। तस्यानुच्छेदवृत्त्या प्रतिकलभिदुरास्ताश्च तादृक्प्रवाहाः तद्बुद्धेरापरोक्ष्यं त्वनिशमभिदुरं वर्तते ब्रह्मधीवत्।। 4.4.15    प्रत्यूहार्हः प्रजेशप्रभृतिसुकृतिनां सत्यसङ्कल्पभावो मर्त्यारम्भस्पृहादौ तदितरविविधप्राणिसृष्ट्यादिदृष्टेः। तेनेच्छासन्ततीनां सफलविफलते पुण्यपापैरमीषां मुक्तस्योक्ता चिकीर्षा त्वविहतविषया तारतम्यं न दोषः।। 4.4.16    सूत्रे मुक्तोऽप्यनन्याधिपतिरभिहितस्तेन कस्तस्य […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.