इन्द्रप्राणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ इन्द्रप्राणाधिकरणम् ॥११॥ कौषीतकिनामुपनिषदि – *प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियम् धामोपजगाम तम् हेन्द्र उवाच प्रतर्दन वरम् ते ददानीति स होवाच प्रतर्दनः त्वमेव वरम् वृणीष्व यम् त्वम्, मनुष्याय हिततमम् मन्यसे* (कौषी.३-१) स्पष्टोऽर्थः । *स होवाच मामेव विजानीहोतदेवाहम् मनुष्याय हिततमम् मन्ये*(कौषी.३-९) मोक्षसाधनमिति मम मतम् । अत-इतरत्प रित्यज्य मामुपास्वेत्यर्थः […]
ज्योतिरधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ ज्योतिरधिकरणम् ॥१०॥ एवम् श्रुत्यवलम्बनपूर्वपक्षावान्तरपेटिका उक्ता । अथ कारणत्वाक्षेपक- लिङ्गानुगृहीतश्रुत्यवलम्बनमवान्तरपेटिकान्तरम् प्रस्तूयते । यद्यपि एतदधिकरणस्य *अथ यदतःपरो दिवो ज्योति*(छान्.३-१३-७) रित्यत्र ज्योतिश्शब्द एव सन्देहविषयः, तथाऽपि द्वितीयसूत्राद्यर्थवर्णनोप-युक्ततया लिख्यते । तथा हि-चतुष्पात्वषाङ्विध्याभ्याम् ब्रह्मणि गायत्री-सादृश्यानुसन्धानरूपा विद्या प्रस्तूयते । चतुर्विम्शत्यक्षरयुक्ता षडक्षरपाद- चतुष्टयवती च गायत्री भवति । तच्छन्दः पाञ्चालशाखाध्यायिनः उदाह-रन्ति – *पेटिला लगन्ते […]
प्राणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ प्राणाधिकरणम् ॥९॥ चिन्तोपयुक्तवाक्यानि व्याख्यायन्ते । *अथ हैनम् प्रस्तोतोपससाद* (छान्.१-११-४) उषस्तिवचनम् श्रुत्वा प्रस्तोता विनयेन उषस्तिसमीपमाग- तवानित्यर्थः । *प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता ताञ्चेदविद्वान प्रस्तो-ष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति* (छान्.१-११-४) भगवान् माम् प्रति *प्रस्तोतर्या देवते*(छान्.१-११-४)त्या-दिना यान्देवतामुक्तवान् सा देवता केति पप्रच्छेत्यर्थः । *प्राण इति होवाच *(छान्.१-११-५) […]
आकाशाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ आकाशाधिकरणम् ॥८॥ एवम् सद्विद्यानन्दवल्लीप्रतिपाद्यम् जगत्कारणवस्तु जीवस्स्या-दित्याक्षेपेणोत्थानादवान्तरसङ्गतिः । अथ जगत्कारणम् आकाशप्राणादिकमेव न ततोऽन्यत् जगत्कारणम् ब्रह्मास्त्विति श्रुत्यवलम्बपूर्वपक्षादवान्तरपेटिका । पेटिकान्तरम् प्रस्तूयते- पूर्वम् आदित्यपुरुषस्य वैशेषिकलिङ्गात् वेदान्तवेद्यजगत्कारणत्वमुक्तम्, तदयुक्तम् । लिङ्गतः प्रबलया श्रुत्या भूताकाशस्यैव कारणत्वात् इत्याक्षेपेणोत्थानादवान्तरसङ्गतिः । *त्रयो होद्गीथे कुशला बभूवुश्शिलकश्शालावत्यश्चेकितानो दाल्भ्य: प्रवाहणो जैवलिरिति । ते होचुः उद्गीथे वै […]
अन्तरधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ अन्तरधिकरणम् ॥७॥ जगत्कारणम् वस्तु ईक्षणश्रवणात् *तत्त्वमसी*(छान्.६-(८-१६)) त्युप-सम्हाराच्च मा भूत्प्रधानम् मा भूच्चजीवसामान्यम् ततो भेदनिर्देशात् । तथाप्युपचितपुण्यविशेषाणाम् ब्रह्मादीनाम् विश्वामित्रा-दीनामृषीणाम् वा मध्ये यःकश्चित् जीवविशेष: कल्पभेदेन स्यात्, तत्र आनन्दवल्ल्युक्तजीव- सामान्यव्यावर्तकसकलमहिमोपपत्तेरिति शङ्कायाम् एतदधिकरणोत्थानम् । द्विर्देवताविषयकवाक्यमुदाह्रियते *अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते*(छान्.१-६-६) । आदित्यमण्डलस्यान्तः हिरण्मयः रमणीयः यो योगिभिर्दृश्यत इत्यर्थः। *हिरण्मय इति रूपसामान्यात् […]
आनन्दमयाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ आनन्दमयाधिकरणम् ॥६॥ यदि सतो मुख्यमीक्षणम् वाच्यम् तर्हि चेतनत्वान्मुख्येक्षणार्हो जीव एव जगत्कारणमस्त्विति पूर्वपक्षोत्थानादवान्तरसङ्गतिः । तैत्तरीये आनन्दवल्ली विषयवाक्यतया प्रस्तूयते – *ब्रह्मविदाप्नोति परम्*(तै.आन.१) । निरतिशयबृहत्वाश्रयवस्तूपासकः सर्वेभ्यः उत्कृष्टम् प्राप्नोतीत्यर्थः । वेदनोपासन शब्दानामेकार्थत्वात्ब्रह्मविदित्यत्र विच्छ-ब्दोऽप्युपासनपरः । तत्क्रतुन्यायेन प्राप्यस्यैव उपास्यत्वात् ब्रह्मणः प्राप्यत्वकथनात् तस्यैव उपास्यत्वमिति द्रष्टव्यम्। अत्र ब्रह्म – तद्वेदनम् – प्राप्तिः प्राप्यञ्चेति चतुष्टयमुक्तम् […]
ईक्षत्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ ईक्षत्यधिकरणम् ॥५॥ एवमुपोद्धाताधिकरणचतुष्टयेन शास्त्रारम्भे समर्थिते ईक्षत्यधिकरणमारभ्य शास्त्रं प्रतायते । अत्र वेदार्थविचारत्वात् शास्त्रयोस्सङ्गतिः । वेदान्तार्थविचारत्वात् ब्रह्मकाण्डसङ्गतिः । कारणविषयत्वात् द्विकसङ्गतिः । कारणवाक्यसमन्वयविषयत्वादध्याय सङ्गतिः । अस्पष्टतरास्पष्ट स्पष्टच्छायानुसारिवाक्यविचारत्वात् पादसङ्गतिरिति विवेकः । इतः परं पेटिकासङ्गतयः । तासु चावान्तरसङ्गतयश्च वक्तव्याः । तत्र पादशेषाधिकरणानां पेटिकासङ्गतिः । तथा हि-ब्रह्म जगतः कारणमेव न भवति, किं […]
समन्वयाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ समन्वयाधिकरणम्।। 4 || तत्तु समन्वयात्।।4।। एवं मानान्तरसिद्धिमूलप्रामाण्यशङ््का निराकृता। अथाफलत्वनिबन्धनतदनारम्भशङ््कानिराकर- णार्थं चतुर्थमिदमधिकरणम्। अस्य च वाक्यद्वयं विषयः।तदर्थो लिख्यते–ईशावास्ये,सपर्यगाच्छु- क्लमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्। कविर्मनीषी परिभूस्स्वयम्भूः याथार्थ्यतोऽर्थान्व्यदधा- च्छाश्वतीभ्यस्समाभ्यः’।पर्यगात्-परितो व्याप्तवान्। शुक्लमित्यादेःलिङ्गव्यत्ययः छान्दसः।शुक्लः-तेजिष्ठः।कायाभावादेव व्रणरहितः। अत एव स्नायुशून्यः। शुद्धः-रागद्वेषादिशून्यः” अपापविद्धश्च। कविः-क्रान्तदर्शी।मनीषी।मनीषा स्रष्टव्यालोचनरूपं ज्ञानम्। परिभूः– -सर्वदेशव्यापनशीलः” स्वयम्भूः-उत्पादकशून्यः। याथार्थ्यतः-परमात्मयाथातथ्यतः।यथापूर्वम्- सत्य त्वेनेतिवार्थः। शाश्वतीभ्यस्समेभ्यः-चिरकालस्थायितया स्वाप्नपदार्थविसदृशान् पदार्थान् व्यदधात्- अकार्षीदित्यर्थः। तलवकारोपनिषदि […]
शास्त्रयोनित्वाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ शास्त्रयोनित्वाधिकरणम् ।। 3 || शास्त्रयोनित्वात्।। अथ ब्रह्मणो मानान्तरसिद्धिमूलशास्त्रानारम्भशङ््कानिराकरणार्थम् तृतीयमिदमधिकरणम् । शास्त्रयोनित्वादिति ।। बृहदारण्यके शाकल्य-याज्ञवल्क्यसम्वादे याज्ञवल्क्यः शाकल्यं पृच्छति – ‘एतान्यष्टावायतनानि अष्टौ लोका अष्टौ देवा अष्टौ पुरुषास्सर्वान् यस्तान् पुरुषान्निरूह्य प्रत्यूह्यात्यक्रामत् तन्त्वौपनिषदं” पुरुषं पृच्छामि तच्चेन्मे न वक्ष्यसि मूर्धा ते व्यपतिष्यदिति । यानि प्रागुक्तानि पृथिव्यादीन्यष्टावायतनानि, अग्न्याद्या अष्टौ लोकाः, अमृताद्यावष्टौ देवाः […]
जन्माद्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ जन्माद्यधिकरणम् ।। 2 ।। इत्थं व्युत्पत्त्यभावमूलानारम्भशङ्कां निरस्य प्रतिपत्तिदौस्थ्यमूलां शङ्कां तत्प्रतिपत्त्यर्थलक्षणसमर्थनेन निराचिकीर्षुः किं” पुनस्तद्विचार्यं ब्रह्मेत्याकांक्षायां तल्लक्षणमाह — जन्माद्यस्य यतः।।1.1.2।। भृगुवल्ल्यां श्रूयते – ‘यतो वा इमानि भूतानी’ त्यारभ्य तद्ब्रह्मेत्यन्तम् । तस्य चायमर्थः । जीवन्ति – येनात्मभूतेन जीवन्तीत्यर्थः । प्रयन्ति सन्ति भूतानि यदयमभिसम्विशन्ति – यत्र लीयन्ते । समित्येकीकरणे । […]