अन्याधिष्ठिताधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ अन्याधिष्ठिताधिकरणम् ॥६॥      *व्रीहियवा ओषधिवनस्पतयः तिलामाषा इति जायन्त*(छान्.५-१०-६) इत्यनेनानुशयिनाम् व्रीह्यादिभाव उच्यते । तत्र देवो जायते मनुष्यो जायत इतिवदिह *तिलमाषा इति जायन्त*(छान्.५-१०-६) इति श्रवणाद्वीह्यादि शरीरका एवानुशयिनो भवन्तीति प्राप्त उच्यते – अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ३-१-२४ ॥ अवरोहताम् जीवानाम् जीवान्तराधिष्ठिते व्रीह्यादौ सम्श्लेषमात्रम् । कुतः? पूर्ववदभिलापात् । *आकाशाद्वायुम् […]

नातिचिराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ नातिचिराधिकरणम् ॥५॥    आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति किम् तत्र तत्र नातिचिरम् तिष्ठति उतानियम इति विशये नियमहेत्वभावादनियम इति प्राप्त उच्यते – नातिचिरेण विशेषात् ॥३-१-२३॥ आकाशादितो नातिचिरेण निष्क्रमणम् । कुतः? विशेषात् । उत्तरत्र व्रीह्यादिप्राप्तौ *अतो वै खलु दुर्निष्प्रपतरमि*(छान्.५-१०-६)ति विशिष्य कुच्छ्रनिष्क्रमणाभिधानादिति स्थितम् । इति नातिचिराधिकरणम् ॥

तत्स्वाभाव्यापत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ तत्स्वाभाव्यापत्त्यधिकरणम् ॥४॥       *यथैतमाकाशमाकाशाद्वायुम् वायुर्भूत्वा धूमो भवती*(छान्.५-१०-५) त्यादावाकाशादिभावोऽपि देवमनुष्यादिभाववत्तच्छरीरकत्वलक्षण एवा-स्त्विति पूर्वपक्षे प्राप्त उच्यते – तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ३-१-२२ ॥ तत्स्वाभाव्यापत्तिः आकाशादिसादृश्यापत्तिरित्यर्थ: । स्वभाव एव स्वाभाव्यम् । *वर्तमानसामीप्य*(अष्टा.३-३-१३१) इत्यादिवत् स्वार्थिकः ष्यङ् । अतः तत्स्वाभाव्यापत्तिः तत्सादृश्यापत्तिरित्यर्थः । चन्द्रमण्डले शरीरारम्भकाणाम् भूतसूक्ष्माणाम् कर्मक्षये द्रवीभूतानामाकाशगतानाम् भेदकाकारप्रहाणेनाकाशादिसादृश्ये तदुपश्लिष्टानुशयिनोऽप्याकाशसमा भवन्तीत्यर्थः । कुतः? उपपत्तेः […]

अनिष्टादिकार्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ अनिष्टादिकार्यधिकरणम् ॥३॥ अनिष्टादिकारिणामपि च श्रुतम् ॥३-१-१२॥ *ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ती* (कौषी.१-२)त्यविशेषश्रवणात् इष्टादिकारिणामिव अनिष्टादिकारिणामपि चन्द्रप्राप्ति-रस्त्येवेत्यर्थः । तर्हि सुकृतकारिणाम् दुष्कृतकारिणाम् च चन्द्रप्राप्तिसत्वे को विशेष इत्यत्राह – सम्यमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥३-१-१३॥ तुशब्दशङ्काम् व्यावर्तयति । सम्यमने यमशासने सति इतरेषाम् अनिष्टादिकारिणाम् यमयातनाः अनुभूय चन्द्रारोहावरोहौ । […]

कृतात्ययाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ कृतात्ययाधिकरणम् ॥ २ ॥ *यावत्सम्पातमुषित्वे*(छान्.५-१०-५)ति सम्पातशब्दितसर्वकर्म-फलस्य तत्रैवोपभोक्तव्यत्व श्रवणात् *प्राप्यान्तम् कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्मान्ल्लोकात्पुनरेत्यस्मै लोकाय कर्मण* (बृह.६-४-६) इति बृहदारण्यके श्रवणात् सर्वम् कर्मफलम् भुक्त्वा निरनुशय एवावरोहति जीवः । अनुशयः भुक्तशिष्ठम् कर्म । एवम् प्राप्त उच्यते – कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्याम् यथेतमनेवञ्च ॥ ३-१-८ ॥ कृतस्य कर्मणोऽत्यये अवसाने अनुशयवानेव प्रत्यवरोहति […]

तदन्तरपप्रतिपत्तयधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ तदन्तरपप्रतिपत्तयधिकरणम् ॥ १ ॥    लोकान्तरम् गच्छतो जीवस्य देहारम्भकभूतसूक्ष्माणाम् तत्रैव सुलभतया न भूतसूक्ष्मपरिष्वक्तया गमनमिति प्राप्त उच्यते – तदन्तरप्रतिपत्तौ रम्हति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ ३-१-१ ॥ पूर्वत्र *सञ्ज्ञामूर्तिक्लृप्तिरि*(ब्र.सू.२-४-१७)ति सूत्रे मूर्तिशब्देन निर्दिष्टो देहस्तच्छब्देन परामृश्यते । तदन्तरप्रतिपत्तौ देहान्तरप्रति-पत्त्यर्थम् जीवो भूतसूक्ष्मैः परिष्वक्त एव रम्हति गच्छतीत्यर्थः । पञ्चाग्निविद्यायाम् *वेत्थ यथा […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.