कृतात्ययाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः

तृतीयाध्यायस्य प्रथमः पादः ॥

कृतात्ययाधिकरणम् ॥ २ ॥

*यावत्सम्पातमुषित्वे*(छान्.५-१०-५)ति सम्पातशब्दितसर्वकर्म-फलस्य तत्रैवोपभोक्तव्यत्व श्रवणात् *प्राप्यान्तम् कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्मान्ल्लोकात्पुनरेत्यस्मै लोकाय कर्मण* (बृह.६-४-६) इति बृहदारण्यके श्रवणात् सर्वम् कर्मफलम् भुक्त्वा निरनुशय एवावरोहति जीवः । अनुशयः भुक्तशिष्ठम् कर्म । एवम् प्राप्त उच्यते –

कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्याम् यथेतमनेवञ्च ॥ ३-१-८ ॥

कृतस्य कर्मणोऽत्यये अवसाने अनुशयवानेव प्रत्यवरोहति जीवः । दृष्टस्मृतिभ्याम् श्रुतिस्मृतिभ्यामित्यर्थः । *तद्य इह रमणीयचरणा अभ्याशो ह यत्ते* इति*(छान्.५-१०-७) श्रुतेः, *वर्णा आश्रमाश्च स्वकर्म-निष्ठाः प्रेत्य कर्मफलमनुभूय ततश्शेषेण विशिष्ठदेशजातिकुलरूपायु-श्श्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते । विष्वञ्चो विपरीता विनश्यन्ती*(गौतम.ध.स-२प्र.११.अ)ति स्मरणाच्च अतस्सानुशया एवावरोहन्ति । *यावत्सम्पातमुषित्वे*(छान्.५-१०-५)त्यादिकन्तु फलदानप्रवृत्तकर्मविशेषविषयम् । तत्र च *अथैतमेवाध्वानम् पुनर्निवर्तन्ते यथेतमाकाशमि*(छान्.५-१०-५)ति श्रवणाद्यथागमनम् प्रत्यागमनम् । *आकाशाद्वायुम् वायुर्भूत्वा धूमो भवती*(छान्.५-१०-४)ति श्रवणात् । अनेवञ्चयेन प्रकारेण गतम् तदन्येनप्रकारेणावरोहन्तीत्यर्थः ।

चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॥ ३-१-९ ॥

ननु *तद्य रमणीयचरणा अभ्याशो ह यत्ते रमणीयाम् योनिमाप-द्येरन्नि*(छान्.५-१०-७)त्यादिना सदसच्चरणयोरेव सदसत्प्राप्तिहेतुत्वम् श्रूयते । चरणम् आचारः शीलम् वृत्तमिति पर्यायाः । ततश्च *रमणीय-चरणा*(छान्.५-१०-७) इति श्रुतिवशादवरोहताम् सदसद्योनिजन्महेतुभूत-चरणशब्दिताचारानुवृत्तावपि न कर्मशेषानुवृत्तौ प्रमाणमस्तीति चेन्न । चरणश्रुतिः कर्मोपलक्षणार्थेति कार्ष्णाजिनिराचार्यो मन्यते । केवलाच्चरणशब्दितादाचारात्सुखदुःखहेतुभूतयोनिप्राप्त्यसम्भवात् ।

आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ ३-१-१० ॥

ननु सन्ध्यावन्दनाद्याचारस्य सुखदुःखहेतुत्वाभावे आनर्थक्यमिति चेन्न । तदपेक्षत्वादग्निहोत्रादिपुण्यकर्मणः । *सन्ध्याहीनोऽशुचिर्नित्य-मनर्हस्सर्वकर्मस्वि*(छान्.५-१०-४)ति श्रवणात् सन्ध्यावन्दनाद्याचारवत एव वैदिककर्मण्यधिकारात् ।

सुकृतदुष्कृते एवेति तु बादरिः ॥ ३-१-११ ॥

*पुण्यम् कर्माचरति पापम् कर्माचरती*ति सुकृतदुष्कृतकर्मसु चरति-शब्दप्रयोगात् चर्यत इति चरणमिति व्युत्पत्त्या सुकृतदुष्कृते एव चरण-शब्दाभिधेये । *यान्यनवद्यानिकर्माणि तानि सेवितव्यानि यान्यस्माकम् सुचरितानि तानि त्वयोपास्यानी*(दक्षस्मृतिः२ अ-२२५)ति कर्माचारयोः पृथङ्निर्देशस्तु गोबलीवर्दन्यायादुपपद्यते । वैतानिकानि तु कर्माणि कर्माणीत्युच्यन्ते । इतराणि तु आचारशब्देनाभिलप्यन्ते । अतश्चरण-शब्देन सुकृतदुष्कृतयोरेवाभिलाप इति बादरिराचार्यो मन्यत इति स्थितम् ।

इति कृतात्ययाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.