आत्मत्वोपासनाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आत्मत्वोपासनाधिकरणम् ॥ २ ॥ *पृथगात्मनम् प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेती*(श्वेत.१-६)ति जीवेश्वरपृथक्त्वज्ञानस्य अमृतत्वसाधनत्वश्रवणात् स्वात्मानम् प्रत्यपृथक्सिद्धविशेष्यत्वलक्षणमात्मत्वम् ब्रह्मणो नास्त्येव । अत एव *आत्मेत्येवोपासीते*(बृह.३-४-७)तीतिकरणेन दृष्टिविधित्वम् सूच्यते । तादृशी च दृष्टिर्न मोक्षार्थोपासन विषया । ततश्च मोक्षोपासने तात्त्विक-विषयत्वावश्यम्भावेनातस्मिन्स्तदारोपरूपदृष्टिविधेरयुक्तत्वात् पृथक्त्वे-नैवानुसन्धानम् कार्यम् नत्वपृथक्सिद्धविशेष्यत्वरूपात्मत्वेनेति पूर्वपक्षे पठति – आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति ॥ ४-१-३ ॥ *त्वम् वा अहमस्मि […]
आवृत्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थोऽध्यायः ॥ चतुर्थस्याध्यायस्य प्रथमःपादः ॥ आवृत्त्यधिकरणम् ॥ १ ॥ *ब्रह्मविदाप्नोति परमि*(तै.अ.१-२)त्यादिषु मोक्षसाधनम् वेदनम् सकृत्कृतमेव शास्त्रार्थः । *स यो ह वै तत्परमम् ब्रह्म वेद ब्रह्मैव भवती*(मुण्ड.३-२-९)ति ब्रह्मवेदनस्य परप्राप्त्युपायत्वश्रुतेः सकृत्कृतेऽपि वेदने शास्त्रार्थनिर्वृत्तेः असकृदावृत्तौ ज्योतिष्टोमादेरिव फल-भूम्नः कल्पनीयतया अपुनरावृत्तिलक्षण मोक्षरूपफलभेदस्याभावाच्चेति पूर्वःपक्षः । सिद्धान्तस्तु – आवृत्तिरसकृदुपदेशात् ॥ ४-१-१ ॥ असकृदावृत्तम् वेदनमित्यर्थः । […]