कार्याधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः कार्याधिकरणम् ॥५॥ कार्यम् बादरिरस्य गत्युपपत्तेः ॥ ४-३-६ ॥ कार्यम् हिरण्यगर्भमुपासीनानेव अर्चिरादिर्गणो नयतीति बादरिराचार्यो मन्यते । परिच्छिन्नप्राप्त्यर्थम् हि गतिरुपपद्यते नापरिच्छिन्नपरब्रह्म-प्राप्तये । नह्याकाशम् प्रेप्सता देशविशेषो गन्तव्यो भवति । विशेषितत्वाच्च ॥ ४-३-७ ॥ *पुरुषोऽमानव एत्य ब्रह्मलोकान् गमयती*(बृह.८-२-१५)ति गन्त-व्यस्य बहुवचनान्तलोकशब्देन विशेषितत्वात्, परब्रह्मण एकत्वेन बहुत्वासम्भवात्, लोकशब्दस्य देशविशेष एव मुख्यत्वाच्च न परब्रह्मणोऽर्चिरादिप्राप्यत्वम् । […]

आतिवाहिकाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः आतिवाहिकाधिकरणम् ॥ ४ ॥ लोके ग्रामादिगन्तृणामिमम् वृक्षम् गत्वा इमाम् नदीम् गत्वा स ग्रामो गन्तव्य इति तत्तद्देशिकोप देशसरूपत्वादस्यापि वाक्यस्यार्चिरादयो मार्गचिह्नभूताः । अथवा *स अग्निलोकमागच्छति स वायुलोकमि* (कौषी.१-६)ति लोकशब्दश्रवणादर्चिराद्या भोगभूमय इत्येवम् पूर्वपक्षे प्राप्ते उच्यते – आतिवाहिकास्तलिङ्गात् ॥ ४-३-४ ॥ विदुषामतिवाहे परमपुरुषेण नियुक्ताः देवताविशेषाः आतिवाहिकाः । गन्तृणाम् गमयितार इति […]

वरुणाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः वरुणाधिकरणम् ॥ ३ ॥     *स एतम् देवयानम् पन्थानमापद्याग्निलोकमागच्छति स वायुलोकम् स वरुणलोकम् स आदित्यलोकम् स इन्द्रलोकम्*(कौषी.१-३) । सः – ब्रह्मवित् देहवियोगकाल एव सुकृतदुष्कृते विधूय देवयानमार्गम् आपद्य – अवलम्ब्य अग्निलोकमागच्छति । *तेऽर्चिषमभिसम्भवन्ती*(छान्.४-१५-५)ति अर्चिश्शब्दितस्याग्नेः देवयानमार्गप्रथमपर्वत्वश्रवणात् प्रथमतः अग्निलोकप्राप्तिरुपपन्ना । स वायुलोकम् – यद्यप्यत्राग्निलोकानन्तरम् वायुलोकश्श्रूयते । तथाऽपि श्रुत्यन्तरे – *अर्चिषोऽहरह्न […]

वाय्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः वाय्वाधिकरणम् ॥२॥ वायुमब्दादविशेषविशेषाभ्याम् ॥ ४-३-२ ॥ वाजसनेयके *यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छती*(बृह.७-१०-१)ति । स ब्रह्मवित् छान्दोग्योक्तार्चिर्दिन-पूर्वपक्षषडुदङ्गासाब्दद्वारेण वायुमागच्छतीत्यर्थः । स वायुः तस्मै आगताय ब्रह्मविदे विजिहीते आत्मावयवान् विगमयति छिद्रीकरोति स्वात्मानमित्यर्थः । ब्रह्मविदो न गमनप्रतिरोधक इति भावः […]

अर्चिराद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः अर्चिराद्यधिकरणम् ॥ १ ॥    छान्दोग्ये पञ्चाग्निविद्यायाम् *वेत्थ पथो देवयानस्य पितृयाणस्य च व्यावर्तना*(छान्.५-३-२)इति चतुर्थम् प्रश्नम् प्रतिपाद्य *तद्य इत्थम् विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ती*(छान्.५-१०-१)ति श्रुतम् । अत्र तच्छब्देन प्राक्प्रस्तुतम् सम्सारिजीवस्वरूपम् परामृश्यते तत्प्रत्यगात्मस्वरूपम् ये – इत्थम् – उक्तप्रकारेणद्युपर्जन्य-पृथिवीपुरुषयोषित्सु श्रद्धासोमवृष्ट्यन्नरेतश्शरीरकतया देहादिलक्षण-प्रकृतिवियुक्ततया च उपासत इत्यर्थः । उत्तरवाक्ये श्रद्धाशब्दो द्विती-यान्तः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.