वाय्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य तृतीयः पादः

वाय्वाधिकरणम् ॥२॥


वायुमब्दादविशेषविशेषाभ्याम् ॥ ४-३-२ ॥

वाजसनेयके *यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छती*(बृह.७-१०-१)ति । स ब्रह्मवित् छान्दोग्योक्तार्चिर्दिन-पूर्वपक्षषडुदङ्गासाब्दद्वारेण वायुमागच्छतीत्यर्थः । स वायुः तस्मै आगताय ब्रह्मविदे विजिहीते आत्मावयवान् विगमयति छिद्रीकरोति स्वात्मानमित्यर्थः । ब्रह्मविदो न गमनप्रतिरोधक इति भावः । कियत्परिमाणम् छिद्रमित्याह – यथा रथचक्रस्य खम् रथचक्रमध्यवर्ति रन्ध्रम् यत्परिमाणम् तत्परिमाणछिद्रम् करोति तेन छिद्रेण ऊर्ध्वम् गत्वा स आदित्यलोकमागच्छतीत्यर्थः । *तस्मै स तत्र विजिहीते यथा आडम्बरस्य खम् तेन स ऊर्ध्वमाक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभे:खम् तेन स ऊर्ध्वमाक्रमते स लोकमागच्छ-त्यशोकमहिमम् तस्मिन्वसति शाश्वतीस्समा*(बृह.७-१०-१) इति स्पष्टोऽर्थः ।
न च *देवलोकादादित्यमि*(बृह.८-२-१५)ति श्रुतेः अस्याश्श्रुतेश्च विरोध इति वाच्यम् । *योऽयम् पवत एष देवानाम् गृहाः*  इति श्रुतेः वायोरेव तत्र देवलोकशब्दवाच्यत्वात् । इतरथा *देवलोकादादित्यमि  *(बृह.८-२-१५)ति आदित्यानन्तरपूर्वपर्वतया देवलोकनिर्देशकस्यास्य वाक्यस्य *स वायुमागच्छति स आदित्यमागच्छती* ति वायो-रादित्यसमनन्तरपूर्वपर्वत्वप्रतिपादकश्रुतिविरोधप्रसङ्गात् । अतो देव-लोकवायुशब्दयोरेकार्थत्वम् वक्तव्यम् ।
वायुम् अब्दात् सम्वत्सरात् ऊर्ध्वमधिगच्छेत् । अविशेषविशेषाभ्याम् सामान्यविशेषाभ्याम् । देवलोकशब्दो हि सामान्यशब्दः । वायुशब्दो विशेषशब्दः । अतो वायुरेव देवलोक इति ॥

इति वाय्वधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.