श्रीभाष्योपन्यासः Adhyaya 04
श्रीमहाचार्यैः विरचितः श्रीभाष्योपन्यासः ॥ अथ चतुर्थोऽध्यायः ॥ एवम् अङ्गैः सह विद्या तृतीये चिन्तिता । अनन्तरम् विद्याफलम् चिन्त्यते । तत्र प्रथमे पादे विद्यास्वरूपविशोधनपूर्वकम् देहावस्थिति-समये सम्भवद्विद्याफलम् चिन्त्यते । यद्यपि चतुर्थः फलनिरूपणपर एव तथापि भक्तिरूपापन्नस्य ज्ञानस्य प्रीतिरूपतया फलकोटिनिवेशन-ज्ञापनार्थम् अस्य इदम् साधनमिति साध्यसाधनभावसम्बन्धज्ञापनार्थम् च विद्यास्वरूपमात्रम् विशोध्यते । तत्र – *आवृत्तिः* इत्यत्र *ब्रह्मविदाप्नोति* इति वेदनमात्रस्यैव विधानात् असकृदावृत्तौ प्रमाणाभावात् सकृत्कृतमेव वेदनम् […]
श्रीभाष्योपन्यासः Adhyaya 03
श्रीमहाचार्यैः विरचितः श्रीभाष्योपन्यासः ॥ अथ तृतीयोऽध्यायः ॥ एवम् अध्यायद्वयेन सकलजगदेककारणम् ब्रह्मेति स्थापितम् । अनन्तरद्विकेन ब्रह्मप्राप्त्युपायैस्सह तत्प्राप्तिप्रकारश्चिन्त्यते । तत्र तृतीयेऽध्याये उपायभूतम् उपासनम् चिन्त्यते । तत्र प्रथम-द्वितीयपादयोः उपासनारम्भाय प्राप्यव्यतिरिक्तविषयवैतृप्ण्यजननार्थम् प्राप्यतृष्णाजननार्थम् च जीवस्य लोकान्तरेषु सञ्चरतो जाग्रदाद्यवस्थस्य दोषाः, परमात्मनः तद्राहित्येन कल्याणगुणाकरत्वम् च प्रतिपाद्यते । तत्र *तदन्तरप्रतिपत्तौ* इत्यत्र देहात् देहान्तरम् गच्छन् जीव तत्र तत्र भूतसूक्ष्माणाम् सुलभत्वात् तैरसम्परिष्वक्त एव गच्छतीत्याशङ्क्य *वेत्थ […]
श्रीभाष्योपन्यासः Adhyaya 02
श्रीमहाचार्यैः विरचितः श्रीभाष्योपन्यासः ॥ अथ द्वितीयोऽध्यायः ॥ एवम् प्रथमे अध्याये चिदचिद्विलक्षणम् ब्रह्म सकलजगदेककारण-मित्युक्तम् । अस्यैव अर्थस्य सम्भावितसमस्तप्रकारदुर्धर्षणत्वज्ञापनाय द्वितीयोऽध्याय आरभ्यते ॥ तत्र प्रथमे पादे स्वपक्षे कारणविषये परोक्तदूषणपरिहारः क्रियते । तत्र *स्मृत्यनवकाशे* त्यत्र वेदान्तानाम् ब्रह्मकारणत्वपरत्वे परमर्षि- प्रणीतायाः साङ्ख्यस्मृतेः निरवकाशत्वप्रसङ्गात् प्रधानमेव कारणमित्य-शङ्क्य मन्वादिपरमर्षिप्रणीतानाम् बह्वीनाम् स्मृतीनाम् अनवकाशत्व-प्रसङ्गात् ब्रह्मैव कारणमित्युक्तम् ॥ १ ॥ *एतेन योग* इत्यत्र योगस्मृतेः सर्ववेदप्रवर्तनाधिकृतहिरण्यगर्भ-प्रणीतत्वात् तदनुरोधेन वेदान्तार्थवर्णनम् […]
श्रीभाष्योपन्यासः Adhyaya 01
श्रीमहाचार्यै: विरचितः ॥श्रीभाष्योपन्यासः॥ वन्दे वेदान्तकर्पूरवासितस्वान्तमन्वहम् । वाधूलकुलजीवातुम् श्रीनिवासमहागुरुम् ।। श्रियः पतिः परमकारुणिको भगवान् सर्वेषाम् पुरुषाणाम् उपादित्सितजिहासितेष्टानिष्टतत्साधनानाम् त्याज्योपादेयविवेकार्थम् “हर्तुम् तमः सदसती च विवेक्तुमीशो मानम् प्रदीपमिव कारुणिको ददाति” इत्यु- क्तप्रकारेण वेदाख्यम् प्रमाणम् प्रदाय, अवतारादिमुखेन तदर्थविषयज्ञानम् चोदपादयत् । तच्च ज्ञानम् “नारायणात्समुत्पन्नम् ज्ञानम् कृतयुगे स्थितमि”ति कृतयुगे तेनैव आकारेणावर्तिष्ट । अनन्तरम् तस्मिन्, “किञ्चित् तदन्यथाभूतम् त्रेतायाम्, द्वापरे खिलम्” इत्युक्तप्रकारेण […]