श्रीभाष्योपन्यासः Adhyaya 03

श्रीमहाचार्यैः विरचितः श्रीभाष्योपन्यासः

॥ अथ तृतीयोऽध्यायः ॥

एवम् अध्यायद्वयेन सकलजगदेककारणम् ब्रह्मेति स्थापितम् । अनन्तरद्विकेन ब्रह्मप्राप्त्युपायैस्सह तत्प्राप्तिप्रकारश्चिन्त्यते ।
तत्र तृतीयेऽध्याये उपायभूतम् उपासनम् चिन्त्यते । तत्र प्रथम-द्वितीयपादयोः उपासनारम्भाय प्राप्यव्यतिरिक्तविषयवैतृप्ण्यजननार्थम् प्राप्यतृष्णाजननार्थम् च जीवस्य लोकान्तरेषु सञ्चरतो जाग्रदाद्यवस्थस्य दोषाः, परमात्मनः तद्राहित्येन कल्याणगुणाकरत्वम् च प्रतिपाद्यते ।
तत्र *तदन्तरप्रतिपत्तौ* इत्यत्र देहात् देहान्तरम् गच्छन् जीव तत्र तत्र भूतसूक्ष्माणाम् सुलभत्वात् तैरसम्परिष्वक्त एव गच्छतीत्याशङ्क्य *वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति* इत्यादिप्रश्न-प्रतिवचनाभ्याम् भूतसूक्ष्मसम्परिष्वक्त एव गच्छतीत्युक्तम् ॥ १ ॥
*कृतात्ययेऽनुशयवान्* इत्यत्र लोकान्तरात् प्रत्यवरोहन् जीवः *प्राप्यान्तम् कर्मणः* इत्यादिभिः लोकान्तरे कृत्स्नकर्मफलानुभवस्य उक्तत्वात् कर्मशेषरहित एव अवरोहति इत्याशङ्क्य *तद्य इह रमणीय-चरणा* इत्यादिभिः प्रत्यवरूढानाम् पुण्यपापरूपकर्म (फल) सम्बन्ध-श्रवणात् *प्राप्यान्तमि*त्यादेश्च फलप्रदानप्रवृत्तकर्मविषयत्वाच्च कर्म-शेषसहित एव अवरोहतीत्युक्तम् ॥ २ ॥
*अनिष्टादिकारिणामि*त्यत्र *ये वै के च अस्मात् लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ती*त्यविशेषेण सर्वेषाम् गतिश्रवणात् पाप-कारिणोऽपि चन्द्रमसम् गच्छन्तीत्याशङ्क्य *अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ती*त्यादिना इष्टादिकारिणामेव पितृ-याणवचनात् *चन्द्रमसमेव ते सर्वे गच्छन्ति* इति वचनस्यापि इष्टा-पूर्ताधिकारिविषयतया नेयत्वाच्च पापकारिणः चन्द्रमसम् न गच्छन्ती-त्युक्तम् ॥ ३ ॥
*तत्स्वाभाव्यापत्तिः* (साभाव्यापत्तिः) इत्यत्र *अथैतमेवाध्वानम् पुनर्निवर्तन्ते यथेतमाकाशम् आकाशाद्वायुम्, वायुर्भूत्वा धूमो भवती*- त्यादि वाक्ये जीवस्य आकाशाद्यापत्तिः श्रद्धावस्थस्य सोमभाववदविशेषात् आकाशादिशरीरत्वापत्तिरित्याशङ्क्य श्रद्धावस्थस्य सोमभाव इव आकाशादौ सुखदुःखभोगाभावेन तच्छरीरकत्वानुपपत्तेः आकाशाद्यापत्तिर्नाम तत्सम्योगकृततत्सादृश्यापत्तिरित्युक्तम् ॥ ४ ॥
*नातिचिरेणे*त्यत्र आकाशादिप्राप्तौ तत्र तत्र अवस्थाने काल-विशेषनियमो नास्ति नियमहेत्वभावात् इत्याशङ्क्य व्रीह्यादिप्राप्तौ *अतो वै खलु दुर्निष्प्रपतरमि*ति विशिष्य कृच्छ्रनिष्क्रमणत्वाभिधानात् आकाशादिप्राप्तौ अचिरेण निष्क्रामन्तीत्युक्तम् ॥ ५ ॥
*अन्याधिष्ठिते*  इत्यत्र *मेघो भूत्वा प्रवर्षति, त इह व्रीहि, यवा ओषधिवनस्पतयस्तिलमाषा जायन्त* इत्यत्र देवो जायत इतिवत् जायन्ते इति वचनात् आत्मानो व्रीह्यादिशरीरा जायन्त इत्याशङ्क्य आकाशादिमेघपर्यन्तवत् केवलतद्भावापत्तिवचनात् अन्याधिष्ठितेषु व्रीह्यादिषु सम्श्लेषमात्रमित्युक्तम् ॥ ६ ॥

॥ (इति) तृतीयस्याध्यायस्य प्रथमः पादः ॥
——————

*सन्ध्ये सृष्टिराह हि* इत्यत्र *न तत्र रथा न रथयोगा न पन्थानो भवन्ति* इत्यादौ *स हि कर्ते*ति प्रकृतस्य जीवस्य स्रष्टृत्वस्मर (श्रव) णात् स्वाप्नार्थसृष्टिस्तस्यैवेत्याशङ्क्य जीवस्य सम्सारदशायाम् सत्य-सङ्कल्पवत्वाद्यनाविर्भावे विचित्रार्थसृष्ट्यशक्तत्वात् *य एष सुप्तेषु जागर्ति* इत्यादि वाक्येषु स्वप्नसृष्टे: परमात्मकर्तृकत्वाव (गमा) धारणाच्च स्वप्नसृष्ठिः परमात्मकर्तृकैवेत्युक्तम् ॥ १ ॥
*तदभावो नाडीषु तच्छ्रुतेः* इत्यत्र *अथ यत्रैतत्पुरुषस्सुप्त* इत्येवमादिवाक्येषु *नाडीषु सुप्तः* *पुरीतति शेते*, *सता सम्पन्न* इति नाडीपुरीतद्ब्रह्मणाम् सुषुप्तिस्थानत्वश्रवणात् युगपज्जीवस्य अनेकत्र वृत्यसम्भवाच्च तेषाम् सुषुप्तिस्थानत्वम् विकल्पेनेत्याशङ्क्य त्रयाणाम् सुषुप्तिस्थानत्वश्रवणात् प्रासादखट्वापर्यङ्कवत् नाड्यादीनाम् कार्यभेदेन समुच्चये सम्भवति पाक्षिकबाधगर्भविकल्पस्य अन्याय्यात्वाच्च समुच्चयेनैव स्थानत्वमित्युम् ॥ २ ॥
*स एव तु कर्मे*त्यत्र सुषुप्तौ सर्वोपाधिविनिर्मुक्तस्य सता सम्पन्नस्य मुक्तादविलक्षणत्वात् प्रबोधसमये सुप्तादन्य एवोत्तिष्ठतीत्याशङ्क्य पूर्वकृतपुण्यापुण्ययोस्तेनैवानुभाव्यत्वात् *य एवाहम् सुप्तः स एव प्रबुद्धोऽस्मी*ति प्रत्यभिज्ञानात् स्वापमात्रेण मुक्तत्वे मोक्षशास्त्रार्थानर्थक्यप्रसङ्गाच्च सुप्त एवोत्तिष्ठतीत्युक्तम् ॥ ३ ॥
*मुग्धेऽर्धसम्पत्तिः परिशेषात्* इत्यत्र स्वापादिष्वेव मूर्च्छाप्रसिद्ध्यु-पपत्तेः, अवस्थान्तरकल्पने प्रमाणाभावात् सुषुप्त्यादिष्वन्यतमा अवस्थैव मूर्च्छेत्याशङ्क्य ज्ञानप्रसराभावेन जागरणस्वप्नयोः अनन्तर्भावात् हेतुवैषम्याकारवैषम्याभ्याम् सुषुप्तिमरणयोरनन्तर्भावाच्च पारिशेष्यात् मरणादर्ध सम्पत्तिरूपावस्थान्तरम् मूर्च्छेत्युक्तम् ॥ ४ ॥
*न स्थानतोऽपि* इत्यत्र जाग्रत्स्वप्नसुषुप्त्यादिषु स्थानेषु तत्तत्स्थानप्रयुक्त्या जीवस्य ये दोषाः ते परमात्मनोऽपि प्राप्नुवन्ति तत्रावस्थानाविशेषात् इत्याशङ्क्य *अपहतपाप्मा* *निरवद्यम् निरञ्जनम् इत्यादिभिः* परमात्मनः उभयलिङ्गत्वश्रवणात् तत्र तत्र स्थितस्यापि न दोषस्पर्श इत्युक्तम् ॥ ५ ॥

*उभयव्यपदेशात्* इत्यत्र अचिद्वस्तुनो ब्रह्मस्वरूपत्वम् अहि-कुण्डलवदवस्थाभेदेन अथवा प्रभाप्रभावतोरिव एकजातीययोगेनेत्या-शङ्क्य पक्षद्वयस्याप्यु(प्यनु)पपन्नत्वात् जीववदम्शाम्शिभावेनेत्युक्तम् ॥ ६ ॥
*परमत* इत्यत्र *एष सेतुर्विधरण* इति परब्रह्मणः सेतुत्वव्यप-देशात् सेतुशब्दस्य च कूलान्तरप्राप्तिहेतौ सुप्रसिद्धैः अतोऽन्यत् प्राप्य-मित्याशङ्क्य, बध्नाति स्वस्मिन्नासङ्कीर्णम् चिदचिद्वस्तुजातम् इति व्युत्पत्या सेतुशब्दस्य असङ्कीर्णधारणपरत्वात् *यस्मात् परम् नापरमस्ती*त्यादिभिः परान्तरनिषेधाच्च ब्रह्मणोऽन्यत् परम् नास्तीत्युक्तम् ॥ ७ ॥
*फलमत उपपत्तेः*इत्यत्र *यजेत स्वर्गकाम* इत्यादि शास्त्रम् सकामस्य कर्तव्यतया यागाद्यभिदधत् अन्यथानुपपत्या अपूर्व-द्वारेण फलसाधनत्वमवगमयतीति धर्म एव फलप्रद इत्याशङ्क्य *अन्नादो वसुदान* *एष ह्येवानन्दयाति* इत्यादिभिः तत्तत्कर्मभिः आराधितस्य परमात्मन एव भोगापवर्गरूपसकलफलप्रदत्वश्रवणात् अश्रुतापूर्वादिकल्पनायोगाच्च परमात्मैव फलप्रद इत्युक्तम् ॥ ८ ॥

॥ (इति) तृतीयस्य अध्यायस्य द्वितीयः पादः ॥
————————–

ब्रह्मोपासिषोपजननार्थम् जीवस्य सदोषत्वम् परस्य कल्याणगुणा-करत्वम् चोक्तम् । इदीनीम् ब्रह्मोपासनार्थम् गुणोपसम्हारविकल्प-निर्णयाय विद्याभेदाभेदचिन्ता क्रियते ।
तत्र *सर्ववेदान्तप्रत्ययमि*त्यत्र अनेकशाखासु श्रूयमाणायाः वैश्वा-नरविद्यादिकायाः किमेकविद्यात्वमुत नेति सम्शये, अविशेषपुनः श्रवणस्य प्रकरणान्तरस्य च विद्याभेदकत्वात् शाखान्तरे च तयोरवर्जनीयत्वात् विद्याभेद इत्याशङ्क्य *वैश्वानरमुपासीतेति* चोदनाया अविशिष्टत्वाद् ध्येयैक्यादिना रूपादेः अविशिष्टत्वात्; पुनः श्रवणादेस्तु प्रतिपत्तृभेद-निबन्धनत्वाच्च न विद्याभेद इत्युक्तम् ॥ १ ॥
एवम् चोदनाद्यविशेषात् विद्यैक्यमुक्तम् । अतः परम् काश्चन विद्याः अधिकृत्य चोदनाद्यविशेषः अस्ति नेति विचार्यते ।
तत्र *अन्यथात्वम्* इत्यत्र च्छान्दोग्यवाजसनेयकयो: *तद्ध देवा उद्गीथमाजह्रुरनेनैननानभिभविष्याम* इत्यादिना *ते ह देवा ऊचुः हन्तासुरान् यज्ञ उद्गीथेनात्ययाम* इत्यादिना च आम्नातयोः उद्गीथ-विद्ययोः अध्यस्तप्राणभावोद्गीथविषयत्वादिना रूपाद्यविशेषादेक विद्या-त्वमाशङ्क्य छान्दोग्ये *ओमित्येतदक्षरमुद्गीथमुपासीते*ति प्रस्तुतस्य प्रणवस्यैव प्राणदृष्ट्योपास्यत्वात्, वाजसनेये च कृत्स्नोद्गीथोद्गान-कर्तुरुपास्यत्वाच्च रूपभेदात् विद्याभेद इत्युक्तम् ॥ २ ॥
*सर्वाभेदादन्यत्रेमे* इत्यत्र छान्दोग्ये कौषीतकिशाखायाम् च ज्यैष्ठ्यश्रैष्ठ्यगुणोपासनम् विधीयते । तत्र छान्दोग्ये वसिष्ठत्वादिगुणा-न्विततयाप्युपास्यत्वात् इतरत्र तद्विधुरतया उपास्यत्वाच्च रूपभेदात् विद्याभेद इत्याशङ्क्य कौषीतकिवाक्ये वसिष्ठत्वादिनाम् प्राणसम्बन्धि-त्वानुक्तावपि तत्सम्बन्धिनाम् वागादीनाम् प्राणायत्तस्थितित्वादिप्रति-पादनेन वसिष्ठत्वादीनाम् प्राणसम्बन्धित्वस्य अर्थसिद्धत्वात् रूपभेदाभावात् विद्यैक्यमित्युक्तम् ॥ ३ ॥
*आनन्दादय* इत्यत्र अप्रकरणाघीतानाम् अन्यत्रोपसम्हारे प्रमाण-भावात् आनन्दादयो न सर्वविद्यानुयायिनः इत्याशङ्क्य सर्वविद्यासु गुणिनो ब्रह्मण एकत्वात् गुणानाम् च गुण्यपृथग्भावात् आनन्दादीनाम् स्वरूपनिरूपकत्वाच्च आनन्दादयः सर्वविद्यानुयायिन इत्युक्तम् ॥ ४ ॥
*कार्याख्यानादि*त्यत्र छान्दोग्यवाजसनेयकयोः *स होवाच किम् मे वास* इत्यादौ *तस्मादेवन्विदशिष्यन्नाचामेदशित्वा चाचामेत्* इत्याचमने विधिप्रत्यय श्रवणात् प्राणविद्याङ्गमाचमनान्तरम् विधीयते इत्याशङ्क्य *किम् मे वासः *अद्भिः परिदधति* इत्यादिभिः उपम-क्रमोपसम्हारयोः वाक्यस्य अपाम् प्राणवासोदृष्टिपरत्वप्रतीत्या आचार-प्राप्तमाचमनम् अनूद्याचमनीयासु अप्सु प्राणवासस्त्वानुसन्धानम् विधीयते इत्युक्तम् ॥ ५ ॥
*समानः* इत्यत्र वाचसनेयके अग्निरहस्ये बृहदारण्यके शाकल्य-विद्याम्नाता । तत्राग्निरहस्ये च सत्यसङ्कल्पत्वादिविशिष्टः उपास्यः इतरत्र वशित्वादिगुणक इति रूपभेदात् विद्याभेद इत्याशङ्क्य उपभय-त्रापि मनोमयत्वादिके समाने सति वशित्वादेश्च सत्यसङ्कल्पत्वगुणात् अभिन्नत्वात् रूपभेदाभावात् न विद्याभेद इत्युक्तम् ॥ ६ ॥
*सम्बन्धादेवम्* इत्यत्र बृहदारण्यके *तद्यत्सत्यम् असौ स आदित्यः* इत्यादिना आदित्यमण्डले अक्षिणि च सत्यस्य ब्रह्मणो व्याहृतिशरीरकत्वेन उपासनमुक्त्वा *तस्योपनिषद हरित्यधिदैवतम्*, *तस्योपनिषदहमित्यध्यात्ममि*ति द्वे रहस्यनामनी उपासनविषयतया आम्नायेते । तत्र व्याहृति शरीरकस्य ब्रह्मण एव उभयत्राप्युपास्यत्वेन रूपभेदाभावात् विद्यैक्यान्नामद्वयमपि स्थानविशेषानियमेन उभयत्राप्यनु-सन्धेयमित्याशङ्क्य ब्रह्मणः एकत्वेऽपि एकत्र आदित्यमण्डलस्थित-तया अन्यत्र अक्ष्याधारतया उपास्यत्वेन रूपभेदात् विद्याभेदः इति स्थानविशेषव्यवस्थयैव नामद्वयमनुसन्धेयमित्युक्तम् ॥ ७ ॥
*सम्भृती*त्यत्र ब्रह्मज्येष्ठा वीर्या सम्भृतानि, इत्यादिवाक्यावगते ब्रह्मणि ज्येष्ठानाम् वीर्याणाम् सम्भृतिः द्युव्याप्तिश्च विद्याविशेषमनारभ्या-धीतत्वात् सर्वविद्यासु उपसम्हार्येत्याशङ्क्य हृदयाद्यल्पस्थानविषयासु द्युव्याप्त्यादेरूपसम्हर्तुमशक्यत्वात्, सम्भृतेश्च तत्साहचर्यात् तयोः न सर्वत्र उपसम्हार इत्युक्तम् ॥ ८ ॥
*पुरुषविद्यायाम्* इत्यत्र छान्दोग्ये तैत्तिरीयके च आम्नातयोः पुरुषविद्ययोः ऐक्यमाशङ्क्य रूपभेदात् विद्याभेद इत्युक्तम् ॥ ९ ॥
*वेधात्* इत्यत्र *शुक्लम् (सर्वम्) प्रविध्य हृदयम्* इत्यादि-मन्त्राणाम् विद्याङ्गत्वमाशङ्क्य अन्यत्र लिङ्गादिभिः मन्त्रविनियोगात् न विद्याङ्गत्वमित्युक्तम् ॥ १० ॥
*हानौ तूपायन* इत्यत्र *पुण्यपापे विधूय* *सुहृदः साधुकृत्याम्* इत्यदिष्वाम्नातानाम् हानादिचिन्तानाम् विकल्पेन अनुष्ठानमित्याशङ्क्य  उपायनस्य हानशेषत्वात् समुच्चयेनैव सर्वत्रानुष्ठानमित्युक्तम् ॥ ११ ॥
*साम्पराये* इत्यत्र उपासकस्य देहवियोगानन्तरम् अर्चिरादिमार्गे कर्मनाशः इत्याशङ्क्य देहवियोगानन्तरङ्क्य विद्याफलव्यतिरेकेण  अनुभाव्यभोगाभावात् कृत्स्नकर्मणामपि देहवियोगकाल एव नाश इत्युक्तम् ॥ १२ ॥
*अनियम* इत्यत्र उपकोसलविद्यादिषु आम्नातया अर्चिरादिगत्या तन्निष्ठानामेव ब्रह्मप्राप्तिरित्याशङ्क्य *ये चेमेऽरण्ये(श्रद्धाङ्क्य सत्यमु) श्रद्धा तप इत्युपासते* इत्यादिश्रुतिषु सर्वब्रह्मविद्यानिष्ठानाम् अर्चिरादि-गतिप्रतिपादनात् सर्वेषाम् अचिर्रादिगत्यैव ब्रह्मप्राप्तिरित्युक्तम् ॥ १३ ॥
*अक्षरधियाम्* इत्यत्र अस्थूलत्वादीनाम् स्वप्रकरणश्रुतविद्यामात्र-सम्बन्ध इत्याशङ्क्य व्यावृत्तस्वरूपब्रह्मप्रतिपत्तेरस्थूलत्वादिभिः विना असम्भवात् आनन्दादिवत् तेऽपि सर्वाविद्यानुयायिन इत्युक्तम् ॥ १४ ॥

*अन्तरा भूत* इत्यत्र बृहदारण्यके उषस्तिकहोळप्रश्नप्रतिवचन-श्रुत्योः विद्याभेद इत्याशङ्क्य प्रश्नैकरुप्यात् विधिपदैक्याच्च विद्यैक्य-मुक्तम् ॥ १५ ॥
*कामादी*त्यत्र छन्दोग्यवाजसनेयकयोः आम्नाता दहरविद्या भिद्यते इत्याशङ्क्य रूपैक्यात् विद्या न भिद्यते इत्युक्तम् ॥ १६ ॥
*तन्निर्धारणे*त्यत्र उद्गीथाद्याश्रयाण्युपासनानि कर्मसु नियमेन अनुष्ठेयानि इत्याशङ्क्य पृथक्फलत्वेन गोदोहनादिवत् अनियमेन अनुष्ठेयानीत्युक्तम् ॥ १७ ॥
*प्रदानवत्* इत्यत्र दहरविद्यायाम् गुणचिन्तने दहरचिन्तनम् नावर्तनीयमित्याशङ्क्य दहरमात्रात् गुणविशिष्टदहरस्य भिन्नत्वेन विशिष्ठानुसन्धानसिध्यर्थम् गुणचिन्तने दहरचिन्तनमावर्तनीयमित्युक्तम् ॥ १८ ॥
*लिङ्गभूय* इत्यत्र तैत्तिरीयके दहरविद्यानन्तरम् आम्नातस्य  सहस्रशीर्षमित्याद्यनुवाकस्य प्रकृतविद्योपास्यविशेषनिधारणार्थत्वमाशङ्क्य भूयसीषु श्रुतानक्षरादीननूद्य नारायणत्वविधानात् सर्वविद्योपास्यविशेष-निर्धारणार्थत्वम् इत्युक्तम् ॥ १९ ॥
*पूर्वविकल्पः* इत्यत्र बृहदारण्यके *मनश्चितो वाक् चितः* इत्या-दिना अभिहितमनश्चितादयः अग्नयः क्रियामयक्रत्वनुप्रवेशिनः इत्या-शङ्क्य *ते वैते विद्याचित एवे*ति विद्यार्थचितत्ववचनात् विद्यामय-क्रत्वनुप्रवेशिन इत्युक्तम् ॥ २० ॥
*एक आत्मनः* इत्यत्र उपासनदशायाम् जीवस्य कर्तृत्वाद्याकारेणा- नुसन्धानमित्याम्शङ्क्य अपहतपाप्मत्वाद्याकारेणैव उपास्यत्वप्राप्तेः प्राप्तेश्च यथोपासनभावित्वात् अपहतपाप्मत्वाद्याकोरणानुसन्धानमित्युक्तम् ॥ २१ ॥
*अङ्गावबद्धा* इत्यत्र उद्गीथोपासनानि यासु शाखासु तास्वेव तेषा-मुपासनमित्यशङ्क्य सामान्येन उद्गीथादिसम्बन्धितया विहितत्वात् सर्वशाखासु उद्गीथादेः सन्निहितत्वाच्च सर्वशाखासु उद्गीथाद्युपासनानि सम्बध्येरन्नित्युक्तम् ॥ २२ ॥
*भूम्नः क्रतुवत्*! इत्यत्र त्रैलोक्यशरीरवैश्वानरोपासने द्युमूर्द्धा(त्वा) दीनाम् व्यस्तोपासनम् व्यस्तस्य च समस्तस्य च उपासनम् वा विधीयते इत्याशङ्क्य मूर्धा ते व्यपतिष्यदिति व्यस्तोपासने प्रत्यवायकथनात्समस्तोपासनमेवेत्युक्तम् ॥ २३ ॥
*नाना शब्दादी*त्यत्र सद्विद्यादहरविद्यादीनाम् ऐक्यमाशङ्क्य शब्दादिभेदात् विद्याभेद इत्युक्तम् ॥ २४ ॥
*विकल्पोऽविशिष्टफलत्वादि*त्यत्र फलविशेषार्थम् विद्यानाम् समुच्चय इत्याशङ्क्य ब्रह्मप्राप्तिफले विशेषाभावात् विद्यानाम् विकल्प एवेत्युक्तम् ॥ २५ ॥
*अङ्गेष्वि*त्यत्र पूर्वप्रकृतानावेव उद्गीथादिविद्यानाम् अनुष्ठा(ना) ननियमः कौश्चित् लिङ्गैः आक्षिप्य समाहितः ॥ २६ ॥

॥ (इति) तृतीयस्य अध्यायस्य तृतीयः पादः ॥

———————

एवम् विद्यैक्यनानात्वे चिन्तिते । अथ विद्याङ्गचिन्तनम् क्रियते तुरीयपादेन ।
*पुरुषार्थेऽत*,  इत्यत्र विद्याङ्गात्कर्मणः पुरुषार्थावाप्तिरित्याशङ्क्य *तमेवम् विद्वानमृत इह भवति* इति श्रवणात् कर्माङ्गात् वेदनात् पुरुषार्थावाप्तिरित्युक्तम् ॥ १ ॥
*स्तुतिमात्रम्* इत्यत्र प्रसङ्गात् *स एव रसानाम् रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः* इत्यादिवाक्यानाम् उद्गीथादिस्तुतिपरत्वमाशङ्क्य रसतमत्वादीनाम् प्रमाणान्तराप्राप्तत्वात् उद्गीथादिषु रसतमत्वादिदृष्टिविधाना(र्थानी)र्थत्वमित्युक्तम् ॥ २ ॥
*पारिप्लवार्था* इत्यत्र *प्रतर्दनो ह वै दैवोदासिः* इत्याद्यख्याना-नाम् *आख्यानानि शम्सन्ति* इति शम्सनार्थत्वम् आशङ्क्य *मनुर्वैव-स्वत* इत्यादिना शम्सने विनियुक्तानामाख्यानानाम् विशेषितत्वात् आख्यानानि विद्याविधिशेषभूतानि इत्युक्तम् ॥ ३ ॥
*अत एव च* इत्यत्र *ये चेमेऽरण्ये श्रद्धा तप इत्युपासते* इत्या-दिभिः ऊर्ध्वरेतसाम् ब्रह्मविद्याश्रवणात् तेषाम् विद्या अग्न्याधानाद्यन-पेक्षेत्युक्तम् ॥ ४ ॥
*सर्वापेक्षा च* इत्यत्र यद्यूर्ध्वरेतसाम् विद्या यज्ञाद्यनपेक्षा तर्हि गृहस्थेष्वपि अनपेक्षैवेत्याशङ्क्य *यज्ञेन दानेन* इति श्रुतेः यज्ञाद्य-पेक्षैवेत्युक्तम् ॥ ५ ॥
*शमदमाद्युपेत* इत्यत्र यज्ञदानादीनाम् प्रवृत्तिरूपत्वात् शमादीनाम् तु निवृत्तिरूपत्वेन तद्विरोधित्वाच्च शमदीनाम् विद्याङ्गत्वम् न सम्भवति इत्याशङ्क्य विषयभेदेन विरोधाभावात् *शान्तो दान्तः* इत्यादिश्रवणाच्च शमादीनाम् अङ्गत्वम् अस्तीत्युक्तम् ॥ ६ ॥
*सर्वान्नानुमति*रित्यत्र प्राणाविद्याधिकारिणाम् सर्वान्नानुमतिः सर्वदैवेत्याशङ्क्य ब्रह्मविद्यानिष्ठानामपि प्राणात्यय एव सर्वान्नानुमति-दर्शनात् अन्येषामपि सर्वान्नानुमतिः प्राणात्यय एवेत्युक्तम् ॥ ७ ॥
*विहितत्वाच्च* इत्यत्र विद्याङ्गकर्मणाम् आश्रमाङ्गत्वम् नास्तीत्याशङ्क्य विद्यङ्गानामेव कर्मणाम् आश्रमोपयोगितया विहितत्वात् आश्रमाङ्गत्वमस्तीत्युक्तम् ॥ ८ ॥
*अन्तरा चे*त्यत्र विधुरादीनाम् ब्रह्मविद्यायामधिकारो नास्तीत्या-शङ्क्य रैक्वादीनाम् अनाश्रमिणामपि ब्रह्मविद्यानिष्ठत्वदर्शनात् विधुरा-दीनामप्यधिकारः अस्तीत्युक्तम् ॥ ९ ॥
*तद्भूतस्य तु* इत्यत्र नैष्ठिकाद्याश्रमेभ्यः प्रच्युतानामपि विधुरादिवत् ब्रह्मविद्यायाम् अधिकार इत्याशङ्क्य नैष्ठिकाद्याश्रमभ्रष्टानाम् पतितत्वा-न्नाधिकार इत्युक्तम् ॥ १० ॥
*स्वामिन* इत्यत्र उद्गीथादिविद्यानाम् यजमानकर्तृकत्वमाशङ्क्य *यदेव विद्यया करोती*त्यादिना ऋत्विक्परिक्रयणादिश्रुतिभ्यः ऋत्विक्कर्तृकत्वप्रतीतेः ऋत्विक्कर्तृकाणीत्युक्तम् ॥ ११ ॥
*सहकार्यन्तरविधिः* इत्यत्र *बाल्यम् च पाण्डित्यम् च निर्विद्याथ मुनिरि*त्यत्र मौनमनूद्यते इत्याशङ्क्य सहकार्यन्तरत्वेन विधीयत इत्युक्तम् ॥ १२ ॥
*अनाविष्कुर्वन्* इत्यत्र *तस्माद्ब्राह्मणः पाण्डित्यम् निर्विद्य बाल्येन तिष्ठासेत्* इति बाल्यशब्देन कामचारादिकमपि उपायतया विधीयत इत्याशङ्क्य *नाविरतो दुश्चरितात्* इत्यादिना निषेधात् स्वमहिमाना-विष्करणमात्रमेव विधेयमित्युक्तम् ॥ १३ ॥
*ऐहिकम्* इत्यत्र आमुष्मिक फलविद्यायाः स्वसाधनभूतकर्मानुष्ठा-नानन्तरम् उत्पत्तिरित्याशङ्क्य प्रतिबन्धाभावे अनन्तरम् उत्पत्तिः तत्सद्भावे तद्विगम इत्युक्तम् ॥ १४ ॥
*एवम् मुक्तिरि*त्यत्र मुक्तिफलविद्याङ्गकर्मणाम् प्रबलत्वात् न प्रतिबन्ध इत्याशङ्क्य तेषामपि प्रबलैः ब्रह्मविदपचारैः प्रतिबन्धस्सम्भवतीत्युक्तम् ।

॥ (इति) श्रीमहाचार्यस्य कृतिषु श्रीभाष्योपन्यासे तृतीयस्य

अध्यायस्य चतुर्थः पादः ॥
॥ समाप्तश्चायमध्यायः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.