श्रीभाष्यम् 01-02-17 वैश्वानराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वैश्वानराधिकरणम्॥६॥ (अधिकरणार्थः – वैश्वानरशब्दार्थः परमात्मैव, न जाठराग्न्यादिकम्) (वैश्वानरविद्या – छा.उ. 5-11) ५७. वैश्वानरस्साधारणशब्दविशेषात् ॥ १-२-२५ ॥ (विषयवाक्यप्रदर्शनम्) इदमामनन्ति च्छन्दोगा: आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि (छां.५.११.६) इति प्रक्रम्य यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते (छा.५.१८.१) इति। (संशयस्वरूपम्) तत्र सन्देह: – किमयं वैश्वानर आत्मा, परमात्मेति शक्यनिर्णय:, उत न – इति। (सयुक्तिकः पूर्वपक्षः) किं प्राप्तम् अशक्यनिर्णय इति। कुत:? वैश्वानरशब्दस्य […]

श्रीभाष्यम् 01-02-16 अदृश्यत्वादिगुणकाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अदृश्यत्वादिगुणकाधिकरणम्॥ (अधिकरणार्थः – अदृश्यत्वादिगुणकं ब्रह्मैव, न प्रधानपुरुषौ) (अक्षरविद्या (मुण्ड.उ.1-1,2-3)) ५४. अदृश्यत्वादिगुणको धर्मोक्ते: ॥ १-२-२२ ॥ (विषयवाक्यप्रदर्शनम्) आथर्वणिका अधीयते अथ परा यया तदक्षरमधिगम्यते, यत्तदद्रेश्यमग्राह्यमगोत्रं अचक्षुश्श्रोत्रं तदपाणिपादम्। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा: (मु.१.१.५,६) इति; तथोत्तरत्र अक्षरात्परत: पर: (मु.२.१.२) इति। (संशयाकारः) तत्र सन्दिह्यते – किमिहादृश्यत्वादिगुणकं अक्षरात्परत: परश्च प्रकृतिपुरुषौ, अथोभयत्र परमात्मैव – इति। (सयुक्तिकः पूर्वपक्षः) […]

श्रीभाष्यम् 01-02-15 अन्तर्याम्यिधकरणम्

श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यधिकरणम्॥४॥ (अधिकरणार्थः – ब्रह्मणः सर्वान्तर्यामित्वम्, न जीवस्य) (अन्तर्यामिविद्या (वृ.उ.5-7)) (पूर्वानुवादपुरस्सरं तदुक्तार्थसमर्थनात् सङ्गतिः) स्थानादिव्यपदेशाच्च (ब्र.सू.१.२.१४) इत्यत्र यश्चक्षुषि तिष्ठन् (बृ.५.७.१८) इत्यादिना प्रतिपाद्यमानं चक्षुषि स्थितिनियमनादिकं परमात्मन एवेति  सिद्धं कृत्वाऽक्षिपुरुषस्य परमात्मत्वं साधितम्? इदानीं तदेव समर्थयते- ५१. अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥ १-२-१९॥ (विषयवाक्यप्रदर्शनम्) काण्वा माध्यन्दिनाश्च वाजसनेयिनस्समामनन्ति – य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: […]

श्रीभाष्यम् 01-02-14 अन्तरधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम् ॥३॥ (अधिकरणार्थः – अक्ष्याधारपुरुषत्वं परमात्मन एव, न जीवादेः) (उपकोसलविद्या छा.उ.4-10) ४५. अन्तर उपपत्ते: ॥ १-२-१३ ॥ (विषयवाक्यप्रदर्शनम्) इदमामनन्ति च्छन्दोगा: य एषोऽक्षिणि पुरुषो दृश्यते। एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म (छा.४.१५.१) इति ॥ (संशयस्वरूपम्) तत्र सन्देह: – किमयमक्ष्याधारतया निर्दिश्यमान: पुरुष: प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता निर्दिश्यमान: पुरुष: प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता देवताविशेष:, उत जीवात्मा, अथ परमात्मा इति ॥ (सयुक्तिकः […]

श्रीभाष्यम् 01-02-13 अत्त्रधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अत्त्रधिकरणम् ॥२॥ (अधिकरणार्थः – सर्वजगत्संहाररूपम् अत्तृत्वम् परमात्मन एव, न जीवस्य) (नाचिकेतविद्या कठ.उ.2) (पूर्वाधिकरणान्तिमसूत्रेण अवान्तरसङ्गतिः) यदि परमात्मा न भोक्ता, एवं तर्हि सर्वत्र भोक्तृतया प्रतीयमानो जीव एव स्यादित्याशङ्क्याह- ४१. अत्ता चराचरग्रहणात् ॥ १-२-९ ॥ (विषयवाक्यदर्शनम्) कठवल्लीष्वाम्नायते यस्य ब्रह्म च क्षत्रं च उभे भवत ओदन:। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स: (कठ.१.२.२५) इति। (अधिकरणाङ्गभूतः संशयः) अत्रौदनोपसेचनसूचितोऽत्ता किं […]

श्रीभाष्यम् 01-02-12 सर्वत्रप्रसिद्ध्यधिकरणम्

अथ श्रीशारीरकमीमांसाभाष्ये प्रथमे समन्वयाध्याये (अन्ययोगव्यवच्छेदत्रिपादी) द्वितीयः पादः  सर्वत्रप्रसिद्ध्यधिकरणम् ॥१॥ (अस्पष्टजीवादिलिङ्गकवेदान्तवाक्यविचाररूपः) (पादार्थः – परमात्मनः सर्वशरीरकत्वम्) (पूर्वपादीयः जिज्ञासाधिकरणार्थः) प्रथमे पादे अधीतवेद: पुरुष: कर्ममीमांसाश्रवणाधिगतकर्मयाथात्म्यज्ञान: केवलकर्मणां अल्पास्थिरफलत्वमवगम्य, वेदान्तवाक्येषु चापातप्रतीतानन्तस्थिरफलब्रह्मस्वरूप तदुपासनसमुप-जातपरमपुरुषार्थलक्षणमोक्षापेक्षोऽवधारितपरिनिष्पन्नवस्तुबोधनशब्दशक्ति: वेदान्तवाक्यानां परस्मिन् ब्रह्मणि निश्चितप्रमाणभावस्तदितिकर्तव्यतारूपशारीरकमीमांसा-श्रवणमारभेतेत्युक्तं शास्त्रारम्भसिद्धये    ॥१॥ (जन्माद्यधिकरणार्थः) अनन्तविचित्रस्थिरत्रसरूपभोक्तृभोग्यभोगोपकरणभोगस्थानलक्षणनिखिलजगदुदयविभवलय-महानन्दैककारणं परं ब्रह्म यतो वा इमानि इत्यादिवाक्यं बोधयतीति च प्रत्यपादि॥२॥ (शास्त्रयोनित्वाधिकरणार्थः) जगदेककारणं परं ब्रह्म सकलेतरप्रमाणाविषयतया शास्त्रैकप्रमाणकमित्यभ्यधाम॥३॥ (समन्वयाधिकरणार्थः) शास्त्रप्रमाणकत्वं च ब्रह्म प्रवृत्तिनिवृत्त्यन्वयविरहेऽपि […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.