श्रीभाष्यम् 01-02-12 सर्वत्रप्रसिद्ध्यधिकरणम्

अथ श्रीशारीरकमीमांसाभाष्ये प्रथमे समन्वयाध्याये

(अन्ययोगव्यवच्छेदत्रिपादी)

द्वितीयः पादः

 सर्वत्रप्रसिद्ध्यधिकरणम् ॥१॥

(अस्पष्टजीवादिलिङ्गकवेदान्तवाक्यविचाररूपः)

(पादार्थः – परमात्मनः सर्वशरीरकत्वम्)

(पूर्वपादीयः जिज्ञासाधिकरणार्थः)

प्रथमे पादे अधीतवेद: पुरुष: कर्ममीमांसाश्रवणाधिगतकर्मयाथात्म्यज्ञान: केवलकर्मणां अल्पास्थिरफलत्वमवगम्य, वेदान्तवाक्येषु चापातप्रतीतानन्तस्थिरफलब्रह्मस्वरूप तदुपासनसमुप-जातपरमपुरुषार्थलक्षणमोक्षापेक्षोऽवधारितपरिनिष्पन्नवस्तुबोधनशब्दशक्ति: वेदान्तवाक्यानां परस्मिन् ब्रह्मणि निश्चितप्रमाणभावस्तदितिकर्तव्यतारूपशारीरकमीमांसा-श्रवणमारभेतेत्युक्तं शास्त्रारम्भसिद्धये    ॥१॥

(जन्माद्यधिकरणार्थः)

अनन्तविचित्रस्थिरत्रसरूपभोक्तृभोग्यभोगोपकरणभोगस्थानलक्षणनिखिलजगदुदयविभवलय-महानन्दैककारणं परं ब्रह्म यतो वा इमानि इत्यादिवाक्यं बोधयतीति च प्रत्यपादि॥२॥

(शास्त्रयोनित्वाधिकरणार्थः)

जगदेककारणं परं ब्रह्म सकलेतरप्रमाणाविषयतया शास्त्रैकप्रमाणकमित्यभ्यधाम॥३॥

(समन्वयाधिकरणार्थः)

शास्त्रप्रमाणकत्वं च ब्रह्म प्रवृत्तिनिवृत्त्यन्वयविरहेऽपि स्वरूपेणैव परमपुरुषार्थभूते परस्मिन् ब्रह्मणि वेदान्तवाक्यानां समन्वयान्निरुह्यत इत्यब्रूम॥४॥

(ईक्षत्यधिकरणार्थः)

निखिलजगदेककारणतया वेदान्तवेद्यं ब्रह्म च ईक्षणाद्यन्वयादानुमानिक-प्रधानादर्थान्तरभूत: चेतनविशेष एवेत्युपापीपदाम॥ ५॥

(आनन्दमयाधिकरणार्थः)

स च स्वाभाविकानवधिकातिशयानन्दविपश्चित्त्वनिखिलचेतनभयाभयहेतुत्वसत्यसङ्कल्पत्व-समस्त-चेतनाचेतनान्तरात्मत्वादिभिर्बद्धमुक्तोभयावस्थाज्जीव शब्दााभिलपनीयाच्चार्थान्तरभूत इति च समार्तिथामहि॥६॥

(अन्तरधिकरणार्थः)

स चाप्राकृताकर्मनिमित्तस्वासाधारणदिव्यरूप इत्युदैरिराम॥ ७॥

(आकाशाधिकरणार्थः)

आकाशप्राणाद्यचेतनविशेषाभिधायिभिर्जगत्कारणतया प्रसिद्धवन्निर्दिश्यमान: सकलेतरचेतन-अचेतनविलक्षणस्स एवेति समगरिष्महि॥ ८॥

(ज्योतिरधिकरणार्थः)

परतत्त्वासाधारणनिरतिशयदीप्तियुक्तज्योतिश्शब्दाभिधेयो द्युसम्बन्धितया प्रत्यभिज्ञानात्स एवेत्यातिष्ठामहि॥ ९ ॥

(इन्द्रप्राणाधिकरणार्थः)

परमकारणसाधारणामृतत्वप्राप्तिहेतुभूत: परमपुरुष एव शास्त्रदृष्ट्येन्द्रादिशब्दैरभिधीयत इत्यब्रूमहि      ॥१०॥

(आहत्य प्रथमपादार्थसारः)

तदेवमतिपतितसकलेतरप्रमाणसम्भावनाभूमिस्सार्वज्ञ्यसत्यसङ्कल्पत्वाद्यपरिमितोदारगुणसागरतया स्वेतरसमस्तवस्तुविलक्षण: परं ब्रह्म पुरुषोत्तमो नारायण एव वेदान्तवेद्य इत्युक्तम्॥११॥

(अनन्तरत्रिपाद्या अर्थः)

अत: परं द्वितीयतृतीयचतुर्थेषु पादेषु यद्यपि वेदान्तवेद्यं ब्रह्मैव, तथापि कानिचिद्वेदान्तवाक्यानि प्रधानक्षेत्रज्ञान्तर्भूतवस्तुविशेषस्वरूपप्रतिपादनपराण्येवेत्याशङ्कय तन्निरसनमुखेन तत्तद्वाक्योदितकल्याणगुणाकरत्वं ब्रह्मण: प्रतिपाद्यते।

(त्रिपाद्यामपि प्रतिपादम् अर्थसारः)

तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये पादे विचार्यन्ते; स्पष्टलिङ्गकानि तृतीये, तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थे॥

३३. सर्वत्र प्रसिद्धोपदेशात् ॥ १-२-१ ॥

(अधिकरणार्थः – ब्रह्मण एव सर्वात्मभावेनावस्थानम्)

(शाण्डिल्यविद्या छा.उ.3.14)

इदमाम्नायते छान्दोग्ये – अथ खलु क्रतुमय: पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेत: प्रेत्य भवति स क्रतुं कुर्वीत मनोमय: प्राणशरीरो भारूप: (छा.३.१४.१) इत्यादि॥

(जिज्ञास्यो विषयः)

अत्र स क्रतुं कुर्वीत (छा.३.१४.१) इति प्रतिपादितस्योपासनस्योपास्य: मनोमय: प्राणशरीर: (छा.३.१४.१) इति निर्दिश्यत इति प्रतीयते ॥

(संशयाकारः)

तत्र संशय: – किं मनोमयत्वादिगुणक: क्षेत्रज्ञ:; उत परमात्मा – इति ॥

(पूर्वपक्षस्वरूपम्)

किं युक्तम्? क्षेत्रज्ञ इति। कुत:? मन:प्राणयो: क्षेत्रज्ञोपकरणत्वात्, परमात्मनस्तु अप्राणो ह्यमना: (मुं.२.१.२) इति तत्प्रतिषेधाच्च। न च सर्वं खल्विदं ब्रह्म (छां.३.१४.१) इति पूर्वनिर्दिष्टं ब्रह्मात्रोपास्यतया सम्बद्धुं शक्यते, शान्त उपासीत (छां.३.१४.१) इत्युपासनोपकरणशान्ति-निर्वृत्त्युपायभूतब्रह्मात्मकत्वोपदेशायोपात्तत्वात् ॥

(सिद्धान्तमाशङ्क्य पूर्वपक्षस्थिरीकरणम्)

न च   स क्रतुं कुर्वीत (छां.३.१४.१) इत्युपासनस्योपास्यसाकाङ्क्षत्वाद्वाक्यान्तरस्थमपि ब्रह्म सम्बध्यत इति युक्तं वक्तुम्, स्ववाक्योपात्तेन मनोमयत्वादिगुणकेन निराकाङ्क्षत्वात्; मनोमय: प्राणशरीर: (छां.३.१४.१) इत्यनन्यार्थतया निर्दिष्टस्य विभक्तिविपरिणाममात्रेण उभयाकाङ्क्षानिवृत्तिसिद्धे:। एवं निश्चिते जीवत्वे एतद्ब्रह्म (छां.३.१४.१) इत्युपसंहारस्थ-ब्रह्मपदमपि जीव एव पूजार्थं प्रयुक्तमित्यध्यवसीयत इति॥

(सिद्धान्तारम्भः)

एवं प्राप्ते ब्रूम:- सर्वत्र प्रसिद्धोपदेशात्

(सूत्रार्थविवरणम्)

नोमयत्वादिगुणक: परमात्मा कुत: सर्वत्र – वेदान्तेषु परस्मिन्नेव ब्रह्मणि प्रसिद्धस्य मनोमयत्वादेरुपदेशात्। प्रसिद्धं हि मनोमयत्वादि ब्रह्मण:। यथा मनोमय: प्राणशरीरनेता (मुं.२.२.७) स एषोऽन्तर्हृादय आकाश:। तस्मिन्नयं पुरुषो मनोमय:। अमृतो हिरण्मय: (तै.शिक्षा ६.३) हृदा मनीषा मनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते  भवन्ति (तै.नारा.३) न चक्षुषा गृह्यते नापि वाचा (मु.३.१.८), मनसा तु विशुद्धेन तथा प्राणस्य प्राण: (केन.१.२), अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति (कौषी.३.२), सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते (छां.१.११.५) इत्यादिषु ॥

(परमात्मनि मनःप्राणसम्बन्धोपपादनम्)

मनोमयत्वं – विशुद्धेन मनसा ग्राह्यत्वम्। प्राणशरीरत्वं – प्राणस्याप्याधारत्वं नियन्तृत्वं च। एवं च सति एष म आत्माऽर्न्तहृदय एतद्ब्रह्म (छा.३.१४.४) इति ब्रह्मशब्दोऽपि मुख्य एव भवति। अप्राणो ह्यमना: (मु.२.१.२) इति मन आयत्तं ज्ञानं प्राणायत्तां स्थितिं च ब्रह्मणो निषेधति।

(स्वाभिमता अधिकरणयोजना, तत्र जिज्ञायविषयनिर्देशः)

अथवा सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत (छा.३.१४.१) इत्यत्रैवोपासनं विधीयते – सर्वात्मकं ब्रह्म शान्तस्सन्नुपासीतेति। स क्रतुं कुर्वीत (छा.३.१४.१) इति तस्यैव गुणोपादनार्थोऽनुवाद:। उपादेयाश्च गुणा मनोमयत्वादय:; यतस्सर्वात्मकं ब्रह्म मनोमयत्वादिगुणकमुपासीतेति वाक्यार्थ: ॥

(संशयस्वरूपनिर्देशः)

तत्र सन्देह: – किमिह ब्रह्मशब्देन प्रत्यगात्मा निर्दिश्यते; उत परमात्मा – इति।

(सयुक्तिकः पूर्वपक्षः)

किं युक्तम्? प्रत्यगात्मेति। कुत:? तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्ते:। सर्वशब्दनिर्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्। ब्रह्मादिभावश्च प्रत्यगात्मनोऽनाद्यविद्यामूलकर्मविशेषोपाधिको विद्यत एव; परस्य तु ब्रह्मणस्सर्वज्ञस्य सर्वशक्तेरपहतपाप्मनो निरस्तसमस्ताविद्यादिदोषगन्धस्य समस्तहेयाकरसर्वभावो नोपपद्यते ॥

(जीवे ब्रह्मशब्दप्रयोगोपपत्तिः)

प्रत्यगात्मन्यपि क्वचित्क्वचिद्ब्रह्मशब्द: प्रयुज्यते। अत एव परमात्मा परं ब्रह्मेति परमेश्वरस्य क्वचित्सविशेषणो निर्देश:। प्रत्यगात्मनश्च निर्मुक्तोपाधेर्बृहत्वं च विद्यते स चानन्त्याय कल्पते (श्वे.५.९) इति श्रुते:।  अविदुषस्तस्यैव कर्मनिमित्तत्वाज्जन्मस्थितिलयानां तज्जलानिति हेतुनिर्देशोऽप्युपपद्यते। तदयमर्थ: – अयं जीवात्मा स्वतोऽपरिच्छिन्नस्वरूपत्वेन ब्रह्मभूतस्सन्ननाद्यविद्यया देवतिर्यङ्मनुष्यस्थावरात्मनाऽवतिष्ठते- इति।

(सिद्धान्तस्वरूपम्)

अत्र प्रतिविधीयते – सर्वत्र प्रसिद्धोपदेशात् – सर्वत्र – सर्व खल्विदम् (छा.३.१४.१) इति निर्दिष्टे सर्वस्मिन्  जगति ब्रह्मशब्देन तदात्मतया विधीयमानं परं ब्रह्मैव, न प्रत्यगात्मा। कुत:?  प्रसिद्धोपदेशात्, तज्जलान् (छां.३.१४.१) इति हेतुत: सर्वं खल्विदं ब्रह्म इति प्रसिद्धवदुपदेशात्। ब्रह्मणो जातत्वाद् ब्रह्मणि लीनत्वाद्ब्रह्माधीनजीवनत्वाच्च हेतोर्ब्रह्मात्मकं सर्वं खल्विदं जगदित्युक्ते यस्माज्जगज्जन्मस्थितिलया वेदान्तेषु प्रसिद्धास्तदेवात्र ब्रह्मेति प्रतीयते ॥

(सूत्रोक्तार्थोपपादनम्)

तच्च परमेव ब्रह्म; तथाहि यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्म  (तै.भृ.१) इत्युपक्रम्य आनन्दो ब्रह्मेति व्यजानात्, आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते (तै.भृ.६) इत्यादिना पूर्वानुवाकप्रतिपादित- अनवधिकातिशयानन्दयोगिनो विपिश्चत: परस्माद्ब्रह्मण एव जगदुत्पत्तिस्थितलया निर्दिश्यन्ते; तथा स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप: (श्वे.६.९) इति करणाधिपस्य जीवस्याधिप: परं ब्रह्मैव कारणं व्यपदिश्यते। एवं सर्वत्र परस्यैव ब्रह्मण: कारणत्वं प्रसिद्धम् ॥

(जगद्ब्रह्मणोः तादात्म्यस्य स्थिरीकरणम्)

अत: परब्रह्मणो जातत्वात्तस्मिन् प्रलीनत्वात्तेन प्राणनात्तदात्मकतया तादात्म्यमुपपन्नम्।अतस्सर्वप्रकारं सर्वशरीरं सर्वात्मभूतं परं ब्रह्म शान्तो भूत्वोपासीतेति श्रुतिरेव परस्य ब्रह्मणस्सर्वात्मकत्वमुपपाद्य तस्योपासनमुपदिशति। परं ब्रह्म हि कारणावस्थं कार्यावस्थं सूक्ष्मस्थूलचिदचिद्वस्तुशरीरतया सर्वदा सर्वात्मभूतम् ॥

(लक्षणतः सर्वतादात्म्येऽप्यपुरुषार्थासंस्पर्शः)

एवम्भूततादात्म्यस्य प्रतिपादने परस्य ब्रह्मणस्सकलहेयप्रत्यनीककल्याणगुणाकरत्वं न विरुध्यते, प्रकारभूतशरीरगतानां दोषाणां प्रकारिण्यात्मन्यप्रसङ्गात्, प्रत्युत निरतिशयैश्वर्यापादनेन गुणायैव भवतीति पूर्वमेवोक्तम्॥

(जीवस्य सर्वतादात्म्यायोगः)

यदुक्तं जीवस्य सर्वतादात्म्यमुपपद्यत इति; तदसत्, जीवानां प्रतिशरीरं भिन्नानामन्योन्य-तादात्म्यासम्भवात्। मुक्तस्याप्यनवच्छिन्नस्वरूपस्यापि जगत्तादात्म्यं जगज्जन्मस्थिति-प्रलयकारणत्वनिमित्तं न सम्भवतीति जगद्व्यापारवर्जम् (शारी.४.४.१७) इत्यत्र वक्ष्यते । जीवकर्मनिमित्तत्वात् जगज्जन्मस्थितिलयानां स एव कारणमित्यपि न साधीय:, तत्कर्मनिमित्तत्वेऽपि श्वरस्यैव जगत्कारणत्वात् ॥

(सूत्रार्थोपसंहारः)

अत: परमात्मैवाऽत्र ब्रह्मशब्दाभिधेय:। इममेव सूत्रार्थमभियुक्ता बहुमन्वते। यथाह वृत्तिकार: – सर्वं खल्विति सर्वात्मा ब्रह्मेश: इति॥ १॥

(श्रुत्युक्तगुणयोगस्य ब्रह्मणि सर्वतादात्म्योपपादकत्वम्)

३४. विविक्षतगुणोपपत्तेश्च ॥ १-२-२ ॥

वक्ष्यमाणाश्च गुणा: परमात्मन्येवोपपद्यन्ते मनोमय: प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादर: (छां.३.१४.२) इति। मनोमय: – परिशुद्धेन मनसैकेन ग्राह्य:; विवेकविमोकादिसाधनसप्तकानुगृहीत-परमात्मोपासननिर्मलीकृतेन हि मनसा गृह्यते। अनेन हेयप्रत्यनीककल्याणैकतानतया सकलेतरविलक्षणस्वरूपतोच्यते; मलिनमनोभिर्मलिनानामेव ग्राह्यत्वात्। प्राणशरीर:  – जगति सर्वेषां प्राणानां धारक:। प्राणो यस्य शरीरम् आधेयं विधेयं शेषभूतं च स प्राणशरीर:। आधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तानी- त्युपपादयिष्यते। भारूप: – भास्वररूप:; अप्राकृतस्वासाधारणनिरतिशयकल्याणदिव्यरूपत्वेन निरतिशयदीप्तियुक्त इत्यर्थ:। सत्यसङ्कल्प: – अप्रतिहतसङ्कल्प:। आकाशात्मा – आकाशवत्सूक्ष्मस्वच्छस्वरूप:; सकलेतरकारणभूतस्य आकाशस्याप्यात्मभूत इति वा आकाशात्मा; स्वयं च प्रकाशते अन्यानपि प्रकाशयतीति वा आकाशात्मा। सर्वकर्मा क्रियत इति कर्म; सर्वं जगद्यस्य कर्म, असौ सर्वकर्मा; सर्वा वा क्रिया यस्यासौ सर्वकर्मा। सर्वकाम: – काम्यन्त इति कामा:- भोग्यभोगोपकरणादय:; ते परिशुद्धा: सर्वविधास्तस्य सन्तीत्यर्थ:। सर्वगन्ध: सर्वरस: – अशब्दमस्पर्शम् (कठ.१.३.१५) इत्यादिना प्राकृतगन्धरसादिनिषेधादप्राकृता: स्वासाधारणा निरवद्या निरतिशया: कल्याणा: स्वभोग्यभूतास्सर्वविधा गन्धरसास्तस्य सन्तीत्यर्थ:। सर्वमिदमभ्यात्त: – उक्तं रसपर्यन्तं सर्वमिदं कल्याणगुणजातं स्वीकृतवान्। अभ्यात्त: इति भुक्ता ब्राह्मणा: इतिवत्कर्तरिक्त: प्रतिपत्तव्य:। अवाकी – वाक: उक्ति:; सोऽस्य नास्तीत्यवाकी। कुत इत्याह – अनादर इति अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहित:। अत एव अवाकी-अजल्पाक:; परिपूर्णैश्वर्यत्वात् ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत्तृणीकृत्य जोषमासीन इत्यर्थ:। त एते विविक्षता गुणा: परमात्मन्येवोपपद्यन्ते॥२॥

(उक्तानां गुणानां, व्यतिरेकतः परमात्मनि दृढीकारः)

३५. अनुपपत्तेस्तु न शारीर:॥ १-२-३ ॥

तमिमं गुणसागरं पर्यालोचयतां खद्योतकल्पस्य शरीरसम्बन्धनिबन्धनापरिमित-दु:खसम्बन्धयोग्यस्य बद्धमुक्तावस्थस्य जीवस्य प्रस्तुतगुणलेशसम्बन्धगन्धोऽपि नोपपद्यत इति नास्मिन् प्रकरणे शारीरपरिग्रहशङ्का जायत इत्यर्थ:॥३॥

(एतदधिकरणीयपरमसाध्यहेतुकथनम्)

३६. कर्मकर्तृव्यपदेशाच्च ॥ १-२-४ ॥

एतमित: प्रेत्याभिसम्भिवताऽस्मि (छा.३.१४.४) इति प्राप्यतया परं ब्रह्म व्यपदिश्यते, प्राप्ततृतया च जीव:। अत: प्राप्ता जीव उपासक:, प्राप्यं परं ब्रह्मोपास्यमिति प्राप्तुरन्यदेवेदमिति विज्ञायते ॥४॥

(विभक्तिविशेषनिर्देशात् ब्रह्मपदवाच्यः परमात्मा)

७. शब्दविशेषात् ॥ १-२-५ ॥

एष म आत्माऽन्तर्हृदये (छा.३.१४.३) इति शारीरष्षष्ठ्या निर्दिष्ट: उपास्यस्तु प्रथमया। एवं समानप्रकरणे वाजिनां च श्रुतौ शब्दविशेषश्श्रूयते जीवपरयो:; यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वा एवमयमन्तरात्मन् पुरुषो हिरण्मयो यथा ज्योतिरधूमम् (शत.ब्रा.१.६.३) इति। अत्र अन्तरात्मन्  इति सप्तम्यन्तेन शारीरो निर्दिश्यते; पुरुषो हिरण्मय: इति प्रथमयोपास्य:। अत: पर एवोपास्य:॥

(हृदयस्थे ईश्वरतायाः उपबृंहणतः स्थापनम्)

इतश्च शारीरादन्य:-

३८. स्मृतेश्च ॥ १-२-६ ॥

सर्वस्य चाहं हृदि सन्निविष्टो मत्त: स्मृतिर्ज्ञानमपोहनञ्च (भ.गी.१५.१५) यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् (गी.१५.१९), ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया। तमेव शरणं गच्छ (गी.१८-६१) इति शारीरमुपासकं, परमात्मानं चोपास्यं स्मृतिर्दर्शयति॥ ६॥

(हृदयाख्याल्पदेशस्थितेः जीवत्वज्ञापकताशङ्कापरिहारौ)

३९. अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ १-२-७ ॥

अल्पायतनत्वमर्भकौकस्त्वम्, तद्व्यपदेश: – अल्पत्वव्यपदेश:। एष म आत्माऽन्तर्हृादये (छा.३.१४.३) इत्यणीयसि हृदयायतने स्थितत्वात् अणीयान् व्रीहेर्वा यवाद्वा (छां.३.१४.३) इत्यादिनाऽणीयस्त्वस्य स्वरूपेण व्यपदेशाच्च नायं परमात्मा,  अपि तु जीव एव;  सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा: (मुण्ड.१.१.६) इत्यादिभि: परमात्मनोऽपरिच्छन्नत्व -अवगमात्, जीवस्य चाराग्रमात्रत्वव्यपदेशादिति चेत् –

नैतदेवम्, परमात्मैव ह्यणीयानित्येवं निचाय्यत्वेन व्यपदिश्यते; एवं निचाय्यत्वेन – एवं द्रष्टव्यत्वेन, एवमुपास्यत्वेनेति यावत्। न पुनरणीयस्त्वमेवास्य स्वरूपमिति; व्योमवच्चायं व्यपदिश्यते, स्वाभाविकमहत्त्वं चात्रैव व्यपदिश्यते – ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्य: (छां.३.१४.१) इति। अत उपासनार्थमेवाल्पत्वव्यपदेश:। तथाहि –

(अल्पायतनत्वाद्युपदेशस्य उपासनार्थत्वदृढीकरणम्)

सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत (मुण्ड.३.१४.४) इति सर्वोत्पत्तिप्रलयकारणत्वेन सर्वस्याऽत्मतया अनुप्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्मोपासीतेत्युपासनं विधाय अथ खलु क्रतुमय: पुरुषो यथाक्रतुरस्मिल्लोंके पुरुषो भवति तथेत: प्रेत्य भवति (छां.३.१४.४) इति यथोपासनं प्राप्यसिद्धिमभिधाय स क्रतुं कुर्वीत इति गुणविधानार्थमुपासनमनूद्य (छां.३.१४.४) मनोमय: प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामस्सर्वगन्धरस्सर्वरस: सर्वमिदमभ्यात्तोऽवाक्यनादर: (छां.३.१४.४) इति जगदैश्वर्यविशिष्टस्य स्वरूपगुणांश्चोपादेयान् प्रतिपाद्य एष म आत्माऽन्तर्हृादयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाक-तण्डुलाद्वा (छां.३.१४.४) इत्युपासकस्य हृदयेऽणीयस्त्वेन तदात्मतयोपास्यस्य परमपुरुषस्योपासनार्थमवस्थानमुक्त्वा एष म आत्माऽन्तर्हृादये ज्यायान् पृथिव्या ज्यायानन्तरक्षाज्ज्यायान्दिवो ज्यायानेभ्योलोकेभ्यस्सर्वकर्मा सर्वकामस्सर्वरसस्सर्वमिदं अभ्यात्त: अवाक्यनादर: (छां.३.१४.१,४) इत्यन्तर्हृादयेऽवस्थितस्य उपास्यमानस्य प्राप्याकारं निर्दिश्य एष म आत्माऽन्तर्हादय एतद्ब्रह्म इत्येवं भूतं परं ब्रह्म परमकारुण्येनास्मदुज्जिजीवयिषया अस्मद्धृदये सन्निहितमितीदमनुसन्धानं विधाय एतमित: प्रेत्याभिसम्भवितास्मि (छां.३.१४.४) इति यथोपासनं प्राप्तिनिश्चयानुसन्धानं च विधाय इति यस्य स्यादद्धा न विचिकत्साऽस्ति (छां.३.१४.४) इत्येवंविधप्राप्यप्राप्तिनिश्चयोपेतस्योपासकस्य प्राप्तौ न संशयोऽस्तीत्युपसंहृतम्। अत उपासनार्थं अर्भकौकस्त्वमणीयस्त्वं च॥७॥

(ब्रह्मणः जीवशरीरान्तर्वर्तित्वे सुखदुःखोपभोजशङ्कापरिहारौ)

४०. सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ १-२-८ ॥

जीवस्येव परस्यापि ब्रह्मणश्शरीरान्तर्वर्तित्वमभ्युपगतं चेत् – तद्वदेव शरीरसम्बन्धप्रयुक्त-सुखदु:खोपभोगप्राप्तिरिति चेत् – तन्न, हेतुवैशेष्यात् – न हि शरीरान्तर्वर्तित्वमेव सुखदु:खोप-भोगहेतु:;  अपि तु पुण्यपापरूपकर्मपरवशत्वम्; तत्त्वपहतपाप्मन: परमात्मनो न सम्भवति। तथा च श्रुति: तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति (मुण्ड.३.११) इति ॥८॥

इति श्रीशारीरकमीमांसाभाष्ये सर्वत्रप्रसिद्ध्यधिकरणम्॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.