श्रीभाष्यम् 01-02-15 अन्तर्याम्यिधकरणम्

श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यधिकरणम्॥४॥

(अधिकरणार्थः – ब्रह्मणः सर्वान्तर्यामित्वम्, न जीवस्य)

(अन्तर्यामिविद्या (वृ.उ.5-7))

(पूर्वानुवादपुरस्सरं तदुक्तार्थसमर्थनात् सङ्गतिः)

स्थानादिव्यपदेशाच्च (ब्र.सू.१.२.१४) इत्यत्र यश्चक्षुषि तिष्ठन् (बृ.५.७.१८) इत्यादिना प्रतिपाद्यमानं चक्षुषि स्थितिनियमनादिकं परमात्मन एवेति  सिद्धं कृत्वाऽक्षिपुरुषस्य परमात्मत्वं साधितम्? इदानीं तदेव समर्थयते-

५१. अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् ॥ १-२-१९॥

(विषयवाक्यप्रदर्शनम्)

काण्वा माध्यन्दिनाश्च वाजसनेयिनस्समामनन्ति – य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृत: (बृ.५.७.३), य: पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवीं न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयत्वेष त आत्माऽन्तर्याम्यमृत: इति। एवमम्ब्वग्न्यन्तरिक्षवाय्वादित्य-द्विचन्द्रतारकाकाश-तमस्तेजस्सु दैवेषु च सर्वेषु भूतेषु प्राणवाक्चक्षुश्श्रोत्रमनस्त्वग्विज्ञान-रेतस्स्वात्मात्मीयेषु च तिष्ठन्तं तत्तदनन्तरभूतं तत्तदवेद्यं तत्तच्छरीरकं तत्तद्यमयन्तं कञ्चिन्निर्दिश्य एष त आत्माऽन्तर्याम्यमृत:  (बृह.५.७) इत्युपदिश्यते। माध्यिन्दनपाठे तु यस्सर्वेषु लोकेषु तिष्ठन् (बृ.५.७) यस्सर्वेषु वेदेषु (बृ.५.६.२३) यस्सर्वेषु यज्ञेषु (बृ.५.७.२३) इति च पर्याया:। यो विज्ञाने तिष्ठन् (बृ.५.७) इत्यस्य पर्यायस्य स्थाने य आत्मनि तिष्ठन् (बृ.५.७.२३) इति पर्याय:।  स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.२३) इति च विशेष:।

(संशयस्वरूपप्रदर्शनम्)

तत्र संशय्यते – किमयमन्तर्यामी प्रत्यगात्मा, उत परमात्मा – इति। कि युक्तम्? प्रत्यगात्मेति। कुत:? वाक्यशेषे द्रष्टा श्रोता (बृ.५.७.२३) इति करणायत्तज्ञानताश्रुते:। एवं द्रष्टुरेवान्तर्यामित्वोपदेशात्, नान्योऽतोऽस्ति द्रष्टा (बृ.५.७.२३) इति द्रष्ट्रन्तरनिषेधाच्चेति।

(सिद्धान्तारम्भः सयुक्तिकः)

एवं प्राप्तेऽभिधीयते – अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् –  अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्याम्यपहतपाप्मा परमात्मा नारायण:। काण्वपाठसिद्धेभ्योऽधिदैवादिमद्भ्यो वाक्येभ्योऽधिकान्यधिलोकादिमन्ति वाक्यानि माध्यन्दिनपाठे सन्तीति ज्ञापनार्थमधिदैवाधिलोकादिष्वित्युभयोरुपादानम्। तदेवमुभयेष्वपि वाक्येष्वन्तर्यामी परमात्मेत्यर्थ:। कुत:? तद्धर्मव्यपदेशात्; परमात्मधर्मो ह्ययम्, यदेक एव सन् सर्वलोकसर्वभूतसर्वदेवादीन्नियमयतीति। तथा उद्दालकप्रश्न: – य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति (बृ.५.७.१) इत्युपक्रम्य तमन्तर्यामिणं ब्रूहि (बृ.५.७.१) इति, तस्य चोत्तरम् य: पृथिव्यां तिष्ठन् (बृ.५.७.३) इत्यारभ्योक्तम् ॥दे

(अन्तर्यामित्वस्य परमात्मासाधारणता)

तदेतत्सर्वाल्लोकान् सर्वाणि च भूतानि सर्वान् देवान् सर्वान्वेदान् सर्वांश्च यज्ञानन्त: प्रविश्य सर्वप्रकारनियमनम्, सर्वशरीरतया सर्वस्यात्मत्वं च सर्वज्ञात्सत्यसङ्कल्पात् पुरुषोत्तमादन्यस्य न सम्भवति। तथाहि अन्त:प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आर.११.२०) तत्सृष्ट्वा, तदेवानुप्राविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत् (तै.आन.३.६.) इत्यादीन्यौपनिषदानि वाक्यानि परमात्मन एव सर्वस्य प्रशासितृत्वं सर्वस्याऽत्मत्वं इत्यादीनि वदन्ति। तथा सुबालोपिनषदि नैवेह किञ्चनाग्र आसीदमूलमनाधारमिमा: प्रजा: प्रजायन्ते दिव्यो देव एको नारायण:। चक्षुश्च द्रष्टव्यं च नारायण:। श्रोत्रं च श्रोतव्यं च नारायण: (सुबा.६) इत्यारभ्य अन्तश्शरीरे निहितो गुहायामज एको नित्य: यस्य पृथिवी शरीरं य: पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद यस्यापश्शरीरम् (सुबा.६) इत्यादि, यस्य मृत्युश्शरीरं यो मृत्युमन्तरे सञ्चरन्यं मृत्युर्न वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण: (सुबा.६) इति परस्यैव ब्रह्मणस्सर्वात्मत्वं सर्वशरीरत्वं सर्वस्य नियन्तृत्वं च प्रतिपाद्यते। स्वाभाविकं चामृतत्वं परमात्मन एव धर्म: ॥

(परमात्मनः  करणायत्तज्ञानराहित्यम्)

न च परस्यात्मन: करणायत्तं द्रष्टृत्वादिकम्;  अपितु स्वभावत एव सर्वज्ञत्वात्सत्यसङ्कल्पत्वाच्च स्वत एव। तथाच श्रुति: पश्यत्यचक्षुस्स शृणोत्यकर्ण: अपाणिपादो जवनो ग्रहीता (श्वे.३.१९) इति।  न च दर्शनश्रवणादिशब्दाश्चक्षुरादिकरणजन्मनो ज्ञानस्य वाचका:;  अपि तु रूपादिसाक्षात्कारस्य। स च रूपादिसाक्षात्कार: कर्मतिरोहितस्वाभाविकज्ञानस्य जीवस्य चक्षुरादिकरणजन्मा; परस्य तु स्वत एव  ॥

(नान्योऽतः इति द्रष्ट्रन्तरनिषेधसाङ्गत्यम्)

नान्योऽतोऽस्ति द्रष्टा (बृ.५.७.२३) इत्येतदपि पूर्ववाक्योदितान्नियन्तुर्द्रष्टुरन्यो द्रष्टा नास्तीति वदति। यं पृथिवी न वेद (सुबा.७) यमात्मा न वेद (सुबा.७) इत्येवमादिभिर्वाक्यै: पृथिव्यात्मादिनियाम्यैरनुपलभ्यमान एव नियमयतीति यत्पूर्वमुक्तम्, तदेव अदृष्टो द्रष्टा अश्रुतश्श्रोता (बृ.५.७.२३) इति निगमय्य नान्योऽतोऽस्ति द्रष्टा (बृ.५.७.२३) इत्यादिना तस्य नियन्तुर्नियन्त्रन्तरं निषिध्यते  ॥

(व्यतिरेकनिर्देशात् अन्तर्यामिणः पृथक्त्वम्)

एष त आत्मा (बृह.५.७.२३) स त आत्मा इति च त इति व्यतिरेकविभक्तिनिर्दिष्टस्य जीवस्य आत्मतयोपदिश्यमानः अन्तर्यामी न प्रत्यगात्मा  भवितुमर्हाति॥१९॥

(अधिकरणद्वयार्थनिगमनम्)

५२. न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च ॥ १-२-२० ॥

स्मार्तं प्रधानम्। शारीर: जीव:। स्मार्तं च शारीरश्च नान्तर्यामी, अतद्धर्माभिलापात्- तयोरसम्भावितधर्माभिलापात्। स्वभावत एव सर्वस्य द्रष्टृत्वम्, सर्वस्य नियन्तृत्वम्, सर्वस्याऽत्मत्वम्, स्वत एवामृतत्वं च तयोर्न सम्भावनागन्धमर्हाति। एतदुक्तं भवति – यथा स्मार्तमचेतनं सर्वज्ञत्वनियन्तृत्वसर्वात्मत्वादिकं नार्हाति, तथा जीवोऽपि, अतद्धर्मत्वात् इति॥

(उत्तरसूत्रावतरणम्)

अमीषां गुणानां परमात्मन्यन्वय:, प्रत्यगात्मनि व्यतिरेकश्च सूत्रद्वयेन दर्शित:॥२०॥

निरपेक्षं च हेत्वन्तरमाह –

५३. उभयेऽपि हि भेदेनैनमधीयते ॥ १-२-२१ ॥

उभये – माध्यिन्दना: काण्वाश्च, अन्तार्यामिणो नियाम्यत्वेन वागादिभिरचेतनैस्समम् एनं शारीरमपि विभज्याधीयते – य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत: (बृ.५.७.२२) इति माध्यन्दिना:, यो विज्ञाने तिष्ठन् (बृ.५.७.२२) इत्यादि च काण्वा:, परमात्मनियाम्यतया तस्माद्विलक्षणत्वेनैनमधीयत इत्यर्थ:। अतोऽन्तर्यामी प्रत्यगात्मनो विलक्षणोऽपहतपाप्मा परमात्मा नारायण इति सिद्धम्॥२१॥

इति श्रीशारीरकमीमांसाभाष्ये अन्तर्याम्यिधकरणम्॥४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.