श्रीभाष्यम् 02-02-08 उत्पत्त्यसम्भवाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उत्पत्त्यसम्भवाधिकरणम्॥८॥ (अधिकरणार्थः – जीवोत्पत्तिवादशङ्कितपाञ्चरात्राप्रामाण्यनिरासः) २१३. उत्पत्यसम्भवात् ॥ २–२–३९ ॥ (अवान्तरसङ्गतिः) कपिलादितन्त्रसामान्याद्भगवदभिहितपरमनिश्श्रेयससाधनावबोधिनि पञ्चरात्रतन्त्रेऽपि अप्रामाण्यमाशङ्क्य निराक्रियते; (प्रकृताधिकरणारम्भोपयोगिनी आशङ्का) तत्रैवमाशङ्कते – परमकारणात्परब्रह्म भूताद्वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायते (परमसंहिता) इति हि भागवतप्रक्रिया। अत्र जीवस्योत्पत्ति: श्रुतिविरुद्धा प्रतीयते; श्रुतयो हि जीवस्यानादित्वं वदन्ति – न जायते म्रियते वा विपश्चित् (कठ.२.१८) इत्याद्या:॥ ३९॥ २१४. न च कर्तु: करणम् […]

श्रीभाष्यम् 02-02-07 पशुपत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये पशुपत्यधिकरणम्॥७॥ (अधिकरणार्थः – वेदविरुद्धाभिप्रायकपाशुपतमतनिरासः) २०९. पत्युरसामञ्जस्यात् ॥ २–२–३५ ॥ (सङ्गतिप्रदर्शनम्) कपिलकणादसुगतार्हातमतानामसामञ्जस्यात् वेदबाह्यत्वाच्च निश्श्रेयसार्थिभि: अनादरणीयत्वमुक्तम्; इदानीं पशुपतिमतस्य वेदविरोधादसामञ्जस्याच्चानादरणीयता उच्यते। (पाशुपतस्य अनौचित्योपपादनतः स्वसिद्धान्तः) तन्मतानुसारिणश्चतुर्विधा: – कापाला:, कालामुखा:, पाशुपता:, शैवाश्च – इति सर्वे चैते वेदविरुद्धां तत्त्वप्रक्रियां ऐहिकामुष्मिकनिश्श्रेयससाधनकल्पनाश्च कल्पयन्ति। निमित्तोपादानयोर्भेदं, निमित्तकारणं च पशुपतिमाचक्षते। तथा निश्श्रेयससाधनमपि मुद्रिकाषट्कधारणादिकम् । यथाहु: कापाला: – मुद्रिकाषट्कतत्त्वज्ञ: परमुद्राविशारद:। भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति। कण्ठिका रुचकं चैव […]

श्रीभाष्यम् 02-02-06 एकस्मिन्नसम्भवाधिकरणम्

श्री शारीरकमीमांसाभाष्ये एकस्मिन्नसम्भवाधिकरणम् ॥ ६ ॥ (अधिकरणार्थः – आर्हताभ्युपगतानेकान्तवादनिरासः) २०५. नैकस्मिन्नसम्भवात् ॥ २–२–३१ ॥ (सङ्गतिप्रदर्शनम्) निरस्तास्सौगता:। जैना अपि परमाणुकारणत्वादिकं जगतो वदन्तीत्यनन्तरं जैनपक्ष: प्रतिक्षिप्यते। (आर्हतमतस्य संग्रहेणानुवादः) ते किल मन्यन्ते – जीवाजीवात्मकं जगदेतन्निरीश्वरम्; तच्च षड्द्रव्यात्मकम्। तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशाख्यानि। तत्र जीवा: – बद्धा:, योगसिद्धा:, मुक्ताश्चेति त्रिविधा:। धर्मो नाम गतिमतां गतिहेतुभूतो द्रव्यविशेषो जगद्व्यापी। अधर्मश्च स्थितिहेतुभूतो व्यापी। पुद्गलो नाम […]

श्रीभाष्यम् 02-02-05 सर्वथानुपपत्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सर्वथानुपपत्त्यधिकरणम्॥५॥ (अधिकरणार्थः – माध्यमिकपक्षसङ्क्षिप्तानुवादः) २०४. सर्वथानुपपत्तेश्च ॥ २–२–३० ॥ (पूर्वपक्षतया माध्यमिकपक्षसङ्क्षिप्तानुवादः) अत्र सर्वशून्यवादी माध्यमिक: प्रत्यवतिष्ठते। शून्यवाद एव हि सुगतमतकाष्ठा। शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उक्ता:। विज्ञानं बाह्यार्थाश्च सर्वे न सन्ति, शून्यमेव तत्त्वम्; अभावापत्तिरेव च मोक्ष इत्येव बुद्धस्याभिप्राय:। तदेव हि युक्तम्; शून्यस्याहेतुसाध्यतया स्वतस्सिद्धे: । सत एव हि हेतुरन्वेषणीय: । तच्च सत् भावादभावाच्च नोत्पद्यते; भावात्तावन्न कस्यचिदुत्पत्तिर्दृष्टा; न हि घटादिरनुपमृदिते […]

श्रीभाष्यम् 02-02-04 उपलब्ध्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उपलब्ध्यधिकरणम्॥४॥ (योगाचारबौद्धानां प्रत्यवस्थानम्) २०१. नाभाव उपलब्धे: ॥ २–२–२७ ॥ (अर्थगतस्याकारस्य ज्ञानगताकारत्वोपपादनम्) विज्ञानमात्रास्तित्ववादिनो योगाचारा: प्रत्यवतिष्ठन्ते। यदुक्तमर्थवैचित्र्यकृतं ज्ञानवैचित्र्यमिति, तन्नोपपद्यते, अर्थवत् ज्ञानानामेव साकाराणां स्वयमेव  विचित्रत्वात्। तच्च स्वरूपवैचित्र्यं वासनावशादेवोपपद्यते। वासना च विलक्षणप्रत्ययप्रवाह एव। यद्घटाकारज्ञानं कपालाकारज्ञानस्योत्पादकम्, तस्य तथाविधस्योत्पादकं तत्पूर्वघटज्ञानम्। तस्य च तथाविधस्योत्पादकं तत:पूर्वघटज्ञानम् इत्येवं रूप: प्रवाह एव वासनेत्युच्यते। (बाह्यानामर्थानामभावः) कथं बहिष्ठसर्षपमहीधरादेराकार आन्तरस्य ज्ञानस्येत्युच्यते? इत्थम् – अर्थस्यापि व्यवहारयोग्यत्वं ज्ञानप्रकाशायत्तम्, अन्यथा […]

श्रीभाष्यम् 02-02-03 समुदायाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये समुदायाधिकरणम् ॥३॥ (सू.17-26) (अधिकरणार्थः  बौद्ध-वैभाषिक-सौत्रान्तिकपक्षयोः निरसनम्) १९१. समुदाय उभयहेतुकेऽपि तदप्राप्ति: ॥ २–२–१७ ॥ (सङ्गतिप्रदर्शनम्) परमाणुकारणवादिनो वैशेषिका निरस्ता:; सौगताश्च जगत: परमाणुकारणत्वं अभ्युपगच्छन्तीत्यनन्तरं तन्मतेऽपि जगदुत्पत्तितद्व्यवहारादिकं नोपपद्यत इत्युच्यते  ॥ (बौद्धप्रभेद-तन्मतानां सामान्यतः प्रदर्शनम्) ते चतुर्विधा: – केचित्पार्थिवाप्यतैजसवायवीयपरमाणुसङ्घातरूपान् भूतभौतिकान् बाह्यांश्चित्तचैत्तरूपांश्च आभ्यन्तरानर्थान् प्रत्यक्षानुमानसिद्धानभ्युपयन्ति, अन्ये तु बाह्यार्थान् सर्वान् पृथिव्यादीन्विज्ञानानुमेयान्वदन्ति; अपरे त्वर्थशून्यं विज्ञानमेव परमार्थसत्, बाह्यार्थास्तु स्वाप्नार्थकल्पा इत्याहु:; त्रयोऽप्येते स्वाभ्युपगतं वस्तु क्षणिकमाचक्षते, उक्तभूतभौतिकचित्तचैत्त-व्यतिरिक्तं […]

श्रीभाष्यम् 02-02-02 महद्दीर्घाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये महद्दीर्घाधिकरणम् ॥२॥ (अधिकरणार्थः – तार्किकाभिमतपरमाणुकारणतावादनिरासः) १८४. महद्दीर्घवद्वाह्रस्वपिरमण्डलाभ्याम् ॥ २–२–१० ॥ (सङ्गतिप्रदर्शनम्) प्रधानकारणवादस्य युक्त्याभासमूलतया विप्रतिषिद्धत्वाच्चासामञ्जस्यमुक्तम्; सम्प्रति परमाणुकारणवादस्याप्यसामञ्जस्यं प्रतिपाद्यते महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् – इति। (सूत्राक्षरार्थप्रतिपादनम्) असमञ्जसमिति वर्तते; वाशब्दश्चार्थे। ह्रस्वपरिमण्डलाभ्याम् द्व्यणुकपरमाणुभ्यां, महद्दीर्घवत् – त्रयणुकोत्पत्तिवादवत्, अन्यच्च तदभ्युपगतं सर्वमसमञ्जसम्; परमाणुभ्यो द्व्यणुकादिक्रमेण जगदुत्पत्तिवादवदन्यदप्यसमञ्जसमित्यर्थ: ॥ (उक्तस्य असामञ्जस्यस्य विवरणम्) तथाहि – तन्तुप्रभृतयो ह्यवयवा: स्वांशैष्षड्भि: पार्श्वैस्संयुज्यमाना अवयविनमुत्पादयन्ति, परमाणवोऽपि स्वकीयै: षड्भि: पार्श्वैस्संयुज्यमाना एव द्व्यणुकादीनामुत्पादका भवेयु:, […]

श्रीभाष्यम् 02-02-01 रचनानुपपत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये द्वितायाध्याये–द्वितीयः (तर्क) पादः (पादार्थः – सांख्यादिपक्षाणां, तर्कतः प्रतिक्षेपः । पाञ्चरात्रतन्त्रप्रामाण्यस्थापनं च) (अधिकरणानि – 8, सूत्राणि – 42) रचनानुपपत्त्यधिकरणम्॥१॥ (अधिकरणार्थः – ब्रह्मानधिष्टितस्य सांख्योक्तप्रधानस्य जगत्कारणत्वायोगः) १७५. रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ॥ २–२–१ ॥ (आदितः एतावदन्तं शारीरके निरूपिता अर्थाः – सङ्गतिः, द्वितीयपादप्रयोजनं च) उक्तं जगज्जन्मादिकारणं परं ब्रह्मेति; तत्र परैरुद्भाविताश्च दोषा: परिहृता:। इदानीं स्वपक्षरक्षणाय परपक्षा: प्रतिक्षिप्यन्ते; इतरथा कस्यचिन्मन्दधियस्तेषां […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.