श्रीभाष्यम् 02-02-02 महद्दीर्घाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये महद्दीर्घाधिकरणम् ॥२॥

(अधिकरणार्थः – तार्किकाभिमतपरमाणुकारणतावादनिरासः)

१८४. महद्दीर्घवद्वाह्रस्वपिरमण्डलाभ्याम् १०

(सङ्गतिप्रदर्शनम्)

प्रधानकारणवादस्य युक्त्याभासमूलतया विप्रतिषिद्धत्वाच्चासामञ्जस्यमुक्तम्; सम्प्रति परमाणुकारणवादस्याप्यसामञ्जस्यं प्रतिपाद्यते महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् – इति।

(सूत्राक्षरार्थप्रतिपादनम्)

असमञ्जसमिति वर्तते; वाशब्दश्चार्थे। ह्रस्वपरिमण्डलाभ्याम् द्व्यणुकपरमाणुभ्यां, महद्दीर्घवत् – त्रयणुकोत्पत्तिवादवत्, अन्यच्च तदभ्युपगतं सर्वमसमञ्जसम्; परमाणुभ्यो द्व्यणुकादिक्रमेण जगदुत्पत्तिवादवदन्यदप्यसमञ्जसमित्यर्थ: ॥

(उक्तस्य असामञ्जस्यस्य विवरणम्)

तथाहि – तन्तुप्रभृतयो ह्यवयवा: स्वांशैष्षड्भि: पार्श्वैस्संयुज्यमाना अवयविनमुत्पादयन्ति, परमाणवोऽपि स्वकीयै: षड्भि: पार्श्वैस्संयुज्यमाना एव द्व्यणुकादीनामुत्पादका भवेयु:, अन्यथा परमाणूनां प्रदेशभेदाभावे सति सहस्रपरमाणुसंयोगेऽप्येकस्मात्परमाणोरनतिरक्तपरिमाणतया अणुत्वह्रस्वत्वमहत्त्वदीर्घत्वादि असिद्धिस्स्यात् ॥

प्रदेशभेदाभ्युपगमे परमाणवोऽपि सांशा: स्वकीयैरंशै:, ते च स्वकीयैरंशैरित्यनवस्था।

न च वाच्यम् अवयवाल्पत्वमहत्त्वाभ्यां हि सर्षपमहीधरयो: वैषम्यम्, परमाणोरपि अनन्तावयवत्वे अवयवानन्त्यसाम्यात्सर्षपमहीधरयो: वैषम्यासिद्धे: अवयवापकर्षकाष्ठा अवश्याभ्युपगमनीया – इति । परमाणूनां प्रदेशभेदाभावे सत्येकपरमाणुपरिमाणातिरेकिप्रथिमा न जायेतेति सर्षपमहीधरयोरेवासिद्धे: । किं कुर्म इति चेत् – वैदिक: पक्ष: परिगृह्यताम् ॥

(एतत्सूत्रविषये परोक्तनिर्वाहानुवादपूर्वकं दूषणम्)

यत्तु परै: ब्रह्मकारणवाददूषणपरिहारपरमिदं सूत्रं व्याख्यातम्;

तदसङ्गतं, पुनरुक्तं च; ब्रह्मकारणवादे परोक्तान् दोषान् पूर्वस्मिन् पादे परिहृत्य परपक्षप्रतिक्षेपो ह्यस्मिन् पादे क्रियते। चेतनाद्ब्रह्मणो जगदुत्पत्तिसम्भवश्च      विलक्षणत्वात् (ब्र.सू.२.१.४) इत्यत्रैव प्रपञ्चित:। अतो ह्रस्वपरिमण्डलाभ्यां महद्दीर्घाणुह्रस्वोत्पत्तिवदन्यच्च तदभ्युपगतं सर्वमसमञ्जसमित्येव सूत्रार्थ:॥ १०॥

(पूर्वसूत्रे वा शब्दसमुच्चितस्य असमञ्जसस्य प्रदर्शनम्)

किमत्र अन्यदसमञ्जसमित्यत्राह –

१८५. उभयधाऽपि कर्मातस्तदभाव: ११

परमाणुकारणवादे हि परमाणुगतकर्मजनिततत्संयोगपूर्वकद्वयणुकादिक्रमेण जगदुत्पत्तिः इष्यते, तत्र निखिलजगदुत्पत्तिकारणभूतपरमाणुगतमाद्यं कर्मादृष्टकारितं इत्यभ्युपगम्यते अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि (वैशे.सू.५.१३) इति। तदिदं परमाणुगतं कर्म स्वगतादृष्टकारितम्, आत्मगतादृष्टकारितं वा। उभयधाऽपि न सम्भवति, क्षेत्रज्ञपुण्यपापानुष्ठान-जनितस्यादृष्टस्य परमाणुगतत्वासम्भवात्। सम्भवे च सदोत्पादकत्वप्रसङ्ग:। आत्मगतस्य चादृष्टस्य परमाणुगतकर्मोत्पत्तिहेतुत्वं न सम्भवति। अथादृष्टवदात्मसंयोगादणुषु कर्मोत्पत्ति:, तदा तस्यादृष्टप्रवाहस्य नित्यत्वेन नित्यसर्गप्रसङ्ग:।

(अदृष्टस्य विपाकापेक्षत्वेन सदोत्पादकत्वाभावशङ्का-परिहारौ)

नन्वदृष्टं विपाकापेक्षं फलायालम्। कानिचिददृष्टानि तदानीमेव विपच्यन्ते, कानिचिज्जन्मान्तरे, कानिचित्कल्पान्तरे। अतो विपाकापेक्षत्वान्न सर्वदोत्पादकत्वप्रसङ्ग इति । नैतत्, अनन्तैरात्मभिस्सङ्केतपूर्वकमयुगपदनुष्ठितानेकविधकर्मजनितानामदृष्टानामेकस्मिन् काले एकरूपविपाकस्याप्रामाणिकत्वात्। अत एव युगपत्सर्वसंहारो द्विपरार्धकालमविपाकेन अवस्थानं च न सङ्गच्छते । नचेश्वरेच्छाहितविशेषादृष्टसंयोगादणुषु कर्म, आनुमानिकेश्वरासिद्धे: शास्त्रयोनित्वात् (ब्र.सू.१.१.३) इत्यत्रोपपादितत्वात्। अतो जगदुत्पत्तेरणुगतकर्मपूर्वकत्वाभाव: ॥ ११ ॥

(समवायाख्यसम्बन्धाभ्युपगमकृतम् असामञ्जस्यम्)

१८६. समवायाभ्युपगमाच्च साम्यादनवस्थिते: १२

समवायाभ्युपगमाच्चासमञ्जसम्, कुत:? साम्यादनवस्थिते: समवा-यस्याप्यवयविजातिगुण-वदुपपादकान्तरापेक्षासाम्यादुपपादकान्तरस्यापि तथेत्यनवस्थिते: असमञ्जसमेव।

            (सूत्राभिप्रायनिष्कर्षणम्)

एतदुक्तं भवति – अयुतसिद्धानामाधाराधेयभूतानामिह प्रत्ययहेतुर्यस्सम्बन्ध:, स समवाय इति समवायोऽभ्युपगम्यते। अपृथक्स्थित्युपलब्धीनां जात्यादीनां तथाभावस्य निर्वाहकत्वेन चेत्समवायोऽभ्युपगम्यते, समवायस्यापि तत्साम्यात्तथाभावहेतुरन्वेषणीय: तस्यापि तथेन्यनवस्थिति:। समवायस्य तदपृथक्सिद्धत्वं स्वभाव इति परिकल्प्यते चेत्- जातिगुणानामेवैष स्वभाव: परिकल्पनीय:, न पुनरदृष्टचरं समवायमभ्युपगम्य तस्यैष स्वभाव इति कल्पयितुं युक्तम् – इति ॥ १२ ॥

(वैशेषिकसम्मते समवाये विशिष्टो दोषः)

समवायस्य नित्यत्वे अनित्यत्वे चायं दोषस्समान:, नित्यत्वे दोषान्तरं चाह –

१८७. नित्यमेव भावात् १३

समवायस्य सम्बन्धत्वात्सम्बन्धस्य नित्यत्वे सम्बन्धिनो जगतश्च नित्यमेव भावादसमञ्जसम् ॥१३॥

(कार्यसरूपाणामेव कार्यानुमेयत्वेन, परमाणूनाम् अनित्यत्वाद्यापत्तिः)

१८८. रूपादिमत्वाच्च विपर्ययो दर्शनात् १४

परमाणूनां पार्थिवाप्यतैजसवायवीयानां चतुर्विधानां रूपरसगन्धस्पर्शवत्त्वाभ्युपगमादभिमत-नित्यत्वसूक्ष्मत्वनिरवयवत्वादिविपर्ययेणानित्यत्वस्थूलत्वसावयवत्वादि प्रसज्यते, रूपादिमतां घटादीनामनित्यत्वतथाविधकारणान्तरारब्धत्वादिदर्शनात्। न हि दर्शनानुगुण्येनादृष्टाऽर्थ: कल्प्यमान: स्वाभिमतविशेषे व्यवस्थापयितुं शक्य:। दर्शनानुगुण्येन हि परमाणूनां रूपादिमत्त्वं त्वया कल्प्यते। अतोऽप्यसमञ्जसम्॥ १४॥

(परमाणुषु रूपाद्यभ्युपगम-तद्भावपक्षयोः असामञ्जस्यापातकता)

अथैतद्दोषपिरिजिहीर्षया परमाणूनां रूपादिमत्त्वं नाभ्युपगम्यते, तत्राह –

१८९. उभयधा दोषात् १५॥

न केवलं परमाणूनां रूपादिमत्त्वाभ्युपगम एव दोष:, रूपादिविरहेऽपि कारणगुणपूर्वकत्वात्कार्यगुणानां पृथिव्यादयो रूपादिशून्यास्स्यु:। तत्परिजिहीर्षया रूपादिमत्त्वाभ्युपगमे पूर्वोक्तदोष इत्युभयधा च दोषादसमञ्जसम्॥ १५॥

(वैदिकापरिग्रहतः वैशेषिकस्यासामञ्जस्यम्)

१९०. अपरिग्रहाच्चात्यन्तमनपेक्षा॥ १६॥

कापिलपक्षस्य श्रुतिन्यायविरोधपरित्यक्तस्यापि सत्कार्यवादादिना क्वचिदंशे वैदिकै: परिग्रहोऽस्ति, अस्य तु काणादपक्षस्य केनाप्यंशेनापरिग्रहादनुपपन्नत्वाच्चात्यन्तमनपेक्षैव नि:श्रेयसार्थिभि: कार्या ॥१६॥

इति महद्दीर्घाधिकरणं समाप्तम् ॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.