श्रीभाष्यम् 02-02-08 उत्पत्त्यसम्भवाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उत्पत्त्यसम्भवाधिकरणम्॥८॥

(अधिकरणार्थः – जीवोत्पत्तिवादशङ्कितपाञ्चरात्राप्रामाण्यनिरासः)

२१३. उत्पत्यसम्भवात् ३९

(अवान्तरसङ्गतिः)

कपिलादितन्त्रसामान्याद्भगवदभिहितपरमनिश्श्रेयससाधनावबोधिनि पञ्चरात्रतन्त्रेऽपि अप्रामाण्यमाशङ्क्य निराक्रियते;

(प्रकृताधिकरणारम्भोपयोगिनी आशङ्का)

तत्रैवमाशङ्कते – परमकारणात्परब्रह्म भूताद्वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायते (परमसंहिता) इति हि भागवतप्रक्रिया। अत्र जीवस्योत्पत्ति: श्रुतिविरुद्धा प्रतीयते; श्रुतयो हि जीवस्यानादित्वं वदन्ति – जायते म्रियते वा विपश्चित् (कठ.२.१८) इत्याद्या:॥ ३९॥

२१४. न च कर्तु: करणम् ॥ २४०॥

(जीवात् मनस उत्पत्तिवादस्य असाधुता)

सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते (परमसंहिता) इति कर्तु: जीवात्, करणस्य मनस उत्पत्तिर्न सम्भवति, – एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि (मु.२.१.३) इति परस्मादेव ब्रह्मणो मनसोऽप्युत्पत्तिश्रुते:। अत: श्रुतिवरुद्धार्थप्रतिपादनादस्यापि तन्त्रस्य प्रामाण्यं प्रतिषिद्ध्यत इति॥४०॥

(जीवोत्पत्तिवादादितात्पर्यव्यक्तीकरणेन सिद्धान्तः)

एवं प्राप्ते प्रचक्ष्महे

२१५. विज्ञानादिभावे वा तदप्रतिषेध: ४१

वाशब्दात्पक्षो विपरिवर्तते; विज्ञानं चादि चेति परब्रह्म विज्ञानादि। सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपादनपरस्य शास्त्रस्य प्रामाण्यं न प्रतिषिध्यते। एतदुक्तं भवति –  भागवतप्रक्रियामजनतामिदं चोद्यं – यज्जीवोत्पत्तिर्विरुद्धाऽभिहिता इति । वासुदेवाख्यं परं ब्रह्मैवाश्रितवत्सलं स्वाश्रितसमाश्रयणीयत्वाय स्वेच्छया चतुर्धाऽवतिष्ठत इति हि तत्प्रक्रिया। यथा पौष्करसंहितायां – कर्तव्यत्वेन वै यत्र चातुरात्म्यमुपास्यते। क्रमागतैस्स्वसंज्ञाभि: ब्राह्मणैरागमं तु तत् (पौ.सं) इत्यादि। तच्च चातुरात्म्योपासनं वासुदेवाख्यपरब्रह्मोपासनमिति सात्त्वतसंहितायामुक्तं – ब्राह्मणानां हि सद्ब्रह्मवासुदेवाख्ययाजिनाम् विवेकदं परं शास्त्रं ब्रह्मोपिनषदं महत् (सा.सं)) इति। तद्धि वासुदेवाख्यं परं ब्रह्म सम्पूर्णषाङ्गुण्यवपु: सूक्ष्मव्यूहविभवभेदभिन्नं यथाधिकारं भक्तै: ज्ञानपूर्वेण कर्मणा अभ्यर्चितं सम्यक्प्राप्यते। विभवार्चनाद्व्यूहं प्राप्य व्यूहार्चनात्परं ब्रह्म वासुदेवाख्यं सूक्ष्मं प्राप्यत इति वदन्ति। विभवो हि नाम रामकृष्णादिप्रादुर्भावगण:। व्यूहो वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धरूपश्चतुर्व्यूह:। सूक्ष्मं तु केवलषाड्गुण्यविग्रहं वासुदेवाख्यं पर ब्रह्म। यथा पौष्करे – यस्मात्सम्यक्परं ब्रह्म वासुदेवाख्यमव्ययम् अस्मादवाप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा (पौ.सं) इत्यादि। अत: सङ्कर्षणादीनामपि परस्यैव ब्रह्मण: स्वेच्छाविग्रहरूपत्वात् – अजायमानो बहुधा विजायते (पु.सू) इति श्रुतिसिद्धस्यैवाश्रितवात्सल्यनिमित्तस्वेच्छाविग्रहसंग्रहरूपजन्मनोऽभिधानात्तदभिधायिशास्त्र-   प्रामाण्यस्याप्रतिषेध: – इति। तत्र जीवमनोऽहङ्कारतत्त्वानामधिष्ठातार: सङ्कर्षणप्रद्युम्नानिरुद्धा इति तेषामेव जीवादिशब्दैरभिधानमविरुद्धम्; यथा आकाशप्राणादिशब्दैर्ब्रह्मणोऽभिधानम् ॥४१॥

(जीवोत्पत्तिवादस्य उक्ततात्पर्यनिर्णये एतत्तन्त्रोक्तस्य जीवोत्पत्तिनिषेधवादस्य उपष्टम्भकता)

२१६. विप्रतिषेधाच्च ४२

विप्रतिषिद्धा हि जीवोत्पत्तिस्तस्मिन्नपि तन्त्रे; यथोक्तं परमसंहितायाम्, अचेतना परार्था च नित्या सततविक्रिया। त्रिगुणा कर्मिणां क्षेत्रं प्रकृते रूपमुच्यते॥ व्याप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च। स ह्यनादिरनन्तश्च परमार्थेन निश्चित: (परमसंहिता) इति। एवं सर्वास्वपि संहितासु जीवस्य नित्यत्ववचनाज्जीवस्वरूपोत्पत्ति: पञ्चरात्रतन्त्रे प्रतिषिद्धैव। जन्ममरणादिव्यवहारस्तु लोकवेदयोर्जीवस्य यथोपपद्यते, तथा नात्माश्रुते: (ब्र.सू.२.३.१८) इत्यत्र वक्ष्यते। अतो जीवस्योत्पत्तिस्तत्रापि प्रतिषद्धैवेति जीवोत्पत्तिवादनिमित्ताप्रामाण्यशङ्का दूरोत्सारिता।

(शाण्डिल्यस्य वेदेषु निष्ठाया अलाभोक्तेस्तात्पर्यचिन्ता)

यश्चैष केषाञ्जिदुद्घोष: साङ्गेषु वेदेषु निष्ठामलभमान: शाण्डिल्य: पञ्चरात्रशास्त्रमधीतवान्  इति । साङ्गेषु वेदेषु पुरुषार्थनिष्ठा न लब्धेति वचनाद्वेदविरुद्धमेवेदं तन्त्रम् इति, साऽप्यनाघ्रातवेदवचसामानाकलिततदुपबृंहणन्यायकलापानां श्रद्धामात्रविजृम्भित:; यथा – प्रात:प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् (ऐ.ब्रा) इति अनुदितहोमनिन्दा उदितहोमप्रशंसार्थेत्युक्तम्; यथा च भूमविद्याप्रक्रमे नारदेन – ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमम् (छा.७.१.२) इत्यारभ्य सर्वं विद्यास्थानमभिधाय सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित् (छां.७.१.३) इति भूमविद्याव्यतिरिक्तासु सर्वासु विद्यास्वात्मवेदनालाभवचनं वक्ष्यमाणभूमविद्याप्रशंसार्थं कृतम्; अथवा अस्य नारदस्य साङ्गेषु वेदेषु यत्परतत्त्वं प्रतिपाद्यते, तदलाभनिमित्तोऽयं वाद:; एवमेव शाण्डिल्यस्येति पश्चाद्वेदान्तवेद्यवासुदेवाख्यपरब्रह्मतत्त्वाभिधानादवगम्यते।

(दुर्ज्ञानस्य वेदार्थस्य सुखावबोधाय पाञ्चरात्रारम्भः)

तथा वेदार्थस्य दुर्ज्ञानतया सुखावबोधार्थश्शास्त्रारम्भ: परमसंहितायामुच्यते अधीता भगवन् वेदा: साङ्गोपाङ्गास्सविस्तरा:। श्रुतानि च मयाऽङ्गानि वाकोवाक्ययुतानि च। नचैतेषु समस्तेषु संशयेन विना क्वचित्। श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भवष्यति इति, (पाञ्चरात्रम्) वेदान्तेषु यथा सारं संगृह्यभगवान् हरि:। भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम् (पाञ्चरात्रम्) इति च।

(पाञ्चरात्रतन्त्रप्रणयने भगवतस्तात्पर्यम्)

अतस्स भगवान्वेदैकवेद्य: परब्रह्माभिधानो वासुदेवो निखिलहेयप्रत्यनीककल्याणैकतान-अनन्तज्ञानानन्दाद्यपरिमितोदारगुणसागरस्सत्यसङ्कल्पः चातुर्वर्ण्यचातुराश्रम्यव्यवस्थया अवस्थितान् धर्मार्थकाममोक्षाख्यपुरुषार्थाभिमुखान् भक्तानवलोक्यापारकारुण्यसौशील्यवात्सल्यौदार्य-महोदधि: स्वस्वरूपस्वविभूतिस्वाराधनतत्फलयाथात्म्यावबोधिनो वेदान् ऋग्यजुस्सामाथर्वभेद-भिन्नान् अपरिमितशाखान् विध्यर्थवादमन्त्ररूपान् स्वेतरसकलसुरनरदुरवगाहांश्चावधार्य तदर्थ-याथात्म्यावबोधि पञ्चरात्रशास्त्रं स्वयमेव निरमिमीतेति निरवद्यम्॥

(परकीये व्याख्याने सूत्राक्षराननुगुणता – तद्विरोधश्च)

यत्तु – परैस्सूत्रचतुष्टयं कस्यचिद्विरुद्धांशस्य प्रामाण्यनिषेधपरं व्याख्यातम्; तत्सूत्राक्षराननुगुणम्, सूत्रकाराभिप्रायविरुद्धञ्च। तथाहि – सूत्रकारेण वेदान्तन्यायाभिधायीनि सूत्राण्यभिधाय वेदोपबृंहणाय च भारतसंहितां शतसहस्रिकां कुर्वता मोक्षधर्मे ज्ञानकाण्डेऽभिहितं,

(पाञ्चरात्रप्रामाण्यस्थापकमहाभारतवचनादि)

गृहस्थो ब्रह्मचारी वानप्रस्थोऽथ भिक्षुक: इच्छेत्सिद्धमास्थातुं देवतां कां यजेत : (म.भा.शा.मोक्ष.३३५.१) इत्यारभ्य महता प्रबन्धेन पञ्चरात्रशास्त्रप्रक्रियां प्रतिपाद्य इदं शतसहस्रादि भारताख्यानविस्तरात्। आविध्य मतिमन्थानं दध्नो घृतमिवोद्धृतम्। नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा। आरण्यकं वेदेभ्य: ओषधीभ्यो यथाऽमृतम् (म.भा.शा.मोक्ष.३४०.१११) इदं महोपनिषदं चतुर्वेदसमन्वितम्। साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् (म.भा.शा.मोक्ष.३४०.१११) इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम्। ऋग्यजुस्सामभिर्जुष्टमथर्वाङ्गिरसैस्तथा भविष्यति प्रमाणं वै एतदेवानुशासनम् (म.भा.शा.मोक्ष.३३६-३२) इति। साङ्ख्ययोगशब्दाभ्यां ज्ञानयोगकर्मयोगावभिहितौ; यथोक्तं -ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् (भ.गी.३.३) इति। भीष्मपर्वण्यपि – ब्राह्मणै: क्षत्रियैर्वैश्यै: शूद्रैश्च कृतलक्षणै: अर्चनीयश्च सेव्यश्च पूजनीयश्च माधव: सात्त्वतं  विधिमास्थाय गीतस्सङ्कर्षणेन : (म.भा.शा.मोक्ष.३६-३९,४०) इति। कथमेवं ब्रुवाणो बादरायणो वेदविदग्रेसरो वेदान्तवेद्यपरब्रह्मभूतवासुदेवोपासनार्चनादिप्रतिपादनपरस्य सात्त्वतशास्त्रस्याप्रामाण्यं ब्रूयात्।

(महाभारतप्रशंसायाः अनैकान्त्यशङ्कासमाधाने)

ननु च साङ्ख्यं योग: पञ्चरात्रं वेदा: पाशुपतं तथा। किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने (म.भा.शा.मोक्ष.३५०-१,२) इत्यादिना साङ्ख्यादीनामप्यादरणीयतोच्यते; शारीरके तु साङ्ख्यादीनि प्रतिषिध्यन्ते; अत इदमपि तन्त्रं तत्तुल्यम्; नेत्युच्यते, यतस्तत्रापीममेव शारीरकोक्तं न्यायमवतारयति; किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा इति प्रश्नस्यायमर्थ: -किं साङ्ख्ययोगपाशुपतवेदपञ्चरात्राण्येकतत्त्वप्रतिपादनपराणि, पृथक्तत्त्वप्रतिपादनपराणि वा; यदैकतत्त्वप्रतिपादनपराणि; किं तदेकं तत्त्वम्; यदा तु पृथक्तत्त्वप्रतिपादनपराणि, तदैषां परस्परं विरुद्धार्थप्रतिपादनपरत्वाद्वस्तुनि विकल्पासम्भवाच्चैकमेव प्रमाणमङ्गीकरणीयम्, कि तदेकम् – इति। अस्योत्तरं ब्रूवन् ज्ञानान्येतानि राजर्षे  विद्धि नानामतानि वै। साङ्ख्यस्य वक्ता कपिल: (म.भा.शा.मो.३५०.६३,६४) इत्यारभ्य साङ्ख्ययोगपाशुपतानां कपिलहिरण्यगर्भपशुपतिकृतत्वेन पौरुषेयत्वं प्रतिपाद्य अवान्तरतपा नाम वेदाचार्यस्स उच्यते (म.भा.शा.मो.३५०.६५) इति वेदानामपौरुषेयत्वमभिधाय पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् (म.भा.शा.मो.३५०-६७) इति   पञ्चरात्रतन्त्रस्य वक्ता नारायण: स्वयमेवेत्युक्तवान् ।

(वक्ता नारायणस्स्वयम् इत्यस्याशयाविष्कारः)

एवं वदतश्चायमाशय: – पौरुषेयाणां तन्त्राणां परस्परविरुद्धवस्तुवादितया अपौरुषेयत्वेन निरस्तप्रमादादिनिखिलदोषगन्धवेदवेद्यवस्तुविरुद्धाभिधायित्वाच्च यथावस्थितवस्तुनि प्रामाण्यं दुर्लभम्; वेदवेद्यश्च परब्रह्मभूतो नारायण:; अतस्तत्तत्तन्त्राभिहितप्रधानपुरुषपशुपतिप्रभृतितत्त्वस्य वेदान्तवेद्यपरब्रह्मभूतनारायणात्मकतयैव वस्तुत्वमभ्युपगमनीयम् – इति। तदिदमाह च सर्वेषु नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते यथागमं यथान्यायं निष्ठा नारायण: प्रभु: (म.भा.शा.मो.३५०.६७,६८) इति। यथागमं यथान्यायम् इति न्यायानुगृहीततत्तदागमोक्तं वस्तु परामृशतो नारायण एव सर्वस्य वस्तुनो निष्ठेति दृश्यते, अब्रह्मात्मकतया तत्तत्तन्त्राभिहितानां तत्त्वानां सर्वं खल्विदं ब्रह्म (छा.३.१४.१) विश्वं नारायण: (तै.नारा.१३) इत्यादिना सर्वस्य ब्रह्मात्मकतामनुसन्दधानस्य नारायण एव निष्ठेति प्रतीयत इत्यर्थ:।

(उक्तार्थस्य वचनान्तरेण विशदीकरणम्)

अतो वेदान्तवेद्य: परब्रह्मभू तो नारायण: स्वयमेव पञ्चरात्रस्य कृत्स्नस्य वक्तेति, तत्स्वरूपतदुपासनाभिधायि तत्तन्त्रमिति च तस्मिन्नितरतन्त्रसामान्यं न केनचिदुद्भायितुं शक्यम्। अतस्तत्रैवेदमुच्यते एवमेकं सांख्ययोगं वेदारण्यकमेव च। परस्पराङ्गान्येतानि पञ्चरात्रं तु कथ्यते (म.भा.शा.मो.३४९.८१) इति। सांख्यं च योगश्च सांख्ययोगम्, वेदाश्चारण्यकानि च वेदारण्यकम्, परस्पराङ्गान्येतानि एकतत्त्वप्रतिपादनपरतयैकीभूतानि एकं पञ्चरात्रमिति कथ्यते।

(सर्वस्य पाञ्चरात्रस्य एकत्वोक्तिविशदीकारः)

एतदुक्तं भवति –  सांख्योक्तानि पञ्चविंशतितत्त्वानि, योगोक्तं च यमनियमाद्यात्मकं योगम्, वेदोदितकर्मस्वरूपाण्यङ्गीकृत्य तत्त्वानां ब्रह्मात्मकत्वं, योगस्य च ब्रह्मोपासनप्रकारत्वं कर्मणां च तदाराधनरूपतामभिदधति, ब्रह्मस्वरूपं प्रतिपादयन्त्यारण्यकानि। एतदेव परेण ब्रह्मणा नारायणेन स्वयमेव पञ्चरात्रतन्त्रे विशदीकृतम् – इति।

(शारीरके तन्त्रान्तरनिराकरणस्याशयः)

शारीरके च सांख्योक्ततत्त्वानामब्रह्मात्मकतामात्रं निराकृतम्; न स्वरूपम्। योगपाशुपतयोश्चेश्वरस्य केवलनिमित्तकारणता, परावरतत्त्वविपरीतकल्पना, वेदबहिष्कृताचारो निराकृत:; न योगस्वरूपम्, पशुपतिस्वरूपं च। अत: सांख्यं योग: पञ्चरात्रं वेदा: पाशुपतं तथा। आत्मप्रमाणान्येतानि हन्तव्यानि हेतुभि: (म.भा.शा.मो.३५०.६३) इत्यपि तत्तदभिहिततत्तत्स्वरूपमात्रमङ्गीकार्यम्, जिनसुगताभिहिततत्त्ववत्सर्वं न बहिष्कार्यमित्युच्यते। यथागमं यथान्यायं निष्ठा नारायण: प्रभु: (म.भा.शा.मो.३५०.६८) इत्यनेनैकार्थ्यात् ॥४२॥

इति श्रीशारीरकमीमांसाभाष्ये उत्पत्त्यसम्भवाधिकरणम्॥८॥

(पाञ्चरात्राधिकरणम्)

इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये द्वितीयस्याध्यायस्य द्वितीय:पाद:॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.