श्रीभाष्यम् 03-02-08 फलाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये फलाधिकरणम् ॥ ९ ॥ (अधिकरणार्थः – फलप्रदत्वम्, उपासनप्रीतस्य परमात्मन एव, न केवलस्योपासनस्य) ३५१. फलमत उपपत्ते: ॥ ३–२–३७ ॥ (अवान्तरसङ्गत्यर्थमनुवादः) उक्तमुपासिसिषोपजननार्थं जीवस्य सर्वावस्थासु सदोषत्वं, प्राप्यस्य च परमपुरुषस्य निर्दोषत्वं, कल्याणगुणाकरत्वं सर्वस्मात्परत्वञ्च; अत: परमुपासनं विवक्षन्नुपासीनानां परस्मादेवास्मात्पुरुषात्तत्प्राप्ति-रूपमपवर्गाख्यं फलिमिति सम्प्रति ब्रूते। तुल्यन्यायतया शास्त्रीयमैहिकामुष्मिकमपि फलम्, अत एव परस्मात्पुरुषाद्भवतीति सामान्येन  फलमत: इत्युच्यते। (ईश्वरस्यैव फलप्रदत्वस्योपपन्नत्वम्) कुत एतत्? उपपत्ते: – स एव हि […]

श्रीभाष्यम् 03-02-07 पराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये पराधिकरणम् ॥७॥ (अधिकरणार्थः – सर्वस्मात्परं परब्रह्मैव, न तु ततोऽपि परं किढ) ३४४. परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्य: ॥ ३–२–३० ॥ (अवान्तरसङ्गतिः) इदानीमस्मात्परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्परब्रह्मण: परमपि किञ्चित्तत्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्क्य निराक्रियते, अस्योपास्यस्य निर्दोषत्वानवधिकातिशयासंख्येयकल्याणगुणाकरत्वस्थेम्ने। (अधिकरणारम्भार्था शङ्का) तत्रेयमाशङ्का यदिदं परं ब्रह्मोभयलिङ्गम्, एतस्मान्निखिलजगत्कारणात् परमपि किञ्चित्तत्वमस्ति । कथम्?  अथ य आत्मा स सेतुर्विधृति: (छा.८.४.१) इत्यस्य परस्य सेतुत्वव्यपदेशात्। सेतुशब्दस्य च लोके कूलान्तरप्राप्तिहेतौ प्रसिद्धेरितोऽन्यदनेन प्राप्तव्यमस्तीति गम्यते। तथा  एतं सेतुं […]

श्रीभाष्यम् 03-02-06 अहिकुण्डलाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अहिकुण्डलाधिकरणम्॥६॥ (अधिकरणार्थः – अचिद्ब्रह्मणोरपि चिद्ब्रह्मणोरिव अंशांशिभावः) ३४०. उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ ३–२–२६ ॥ (पू) (अवान्तरसङ्गतिप्रदर्शनम् विचारणीयो विषयश्च) मूर्तामूर्तात्मकस्य  अचित्प्रपञ्चस्य ब्रह्मणो रूपत्वं  द्वे वाव ब्रह्मणो रुपे (बृ.४.३.१) इत्यादिनोपदिश्यते।  अथात आदेशो नेति नेति (बृ.४.१.६) इति मूर्तामूर्ताचिद्वस्तुरूपतया ब्रह्मण इयत्ता प्रतिषिध्यते।  नह्येतस्मादिति नेत्यन्यत्परमस्ति  (बृ.४.३.६) इति ब्रह्मणोऽन्यदुत्कृष्टं नह्यस्तीति प्रतिपादितम्। तदुपपादनाय  अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् (बृ.४.३.६) इति […]

श्रीभाष्यम् 03-02-05 उभयलिङ्गाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उभयलिङ्गाधिकरणम्॥५॥ (अधिकरणार्थः – सर्वत्र व्याप्तिमत्यपि ब्रह्मणि निखिलहेयप्रत्यनीकता समस्तकल्याणगुणाकरता च) (सङ्गतिप्रदर्शनम्) ३२५. न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ३–२–११ ॥ (संशयप्रतिपादनम्) दोषदर्शनाद्वैराग्योदयाय जीवस्यावस्थाविशेषा निरूपिता:; इदानीं ब्रह्मप्राप्तितृष्णाजननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वकल्याणगुणात्मकत्वप्रतिपादनायारभते। (पूर्वपक्षः) तत्र जागरस्वप्नसुषुप्तिमुग्ध्युत्क्रान्तिषु स्थानेषु तत्तत्स्थानप्रयुक्ता जीवस्य ये दोषा: ते तदन्तर्यामिण: परस्य ब्रह्मणोऽपि तत्र तत्रावस्थितस्य सन्ति, नेति विचार्यते। (अधिकरणद्वयार्थनिगमनम्) किं युक्तम्? सन्तीति। कुत:? तत्तदवस्थशरीरेऽवस्थानात्। (शङ्कितस्य दोषसम्बन्धस्य अयोगाक्षेप-परिहारौ) […]

श्रीभाष्यम् 03-02-04 मुग्धाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये मुग्धाधिकरणम् ॥४॥ (अधिकरणार्थः – देहिनो मूर्च्छावस्थास्वरूपनिर्णयः) ३२४. मुग्धेऽर्धसम्पत्ति: परिशेषात् ॥ ३–२–१० ॥ मुग्धमधिकृत्य चिन्त्यते; किमियं मूर्च्छा सुषुप्त्यादिष्वन्यतमावस्था, उतावस्थान्तरमिति विशये सुषुप्त्यादीनामन्यतमावस्थायामेव मूर्च्छाप्रसिद्ध्युपत्ते: अवस्थान्तर-कल्पने प्रमाणाभावादन्यतमावस्था – (सूत्रार्थवर्णनपूर्वकं सिद्धान्तः) इति प्राप्ते उच्यते – मुग्धेऽर्धसम्पत्ति: इति। मुग्धे पुरुषे या तस्यावस्था, सा मरणायार्धसम्पत्ति:। कुत:? परिशेषात् – न तावत्स्वप्नजागरौ, ज्ञानाभावात्; निमित्तवैरूप्यादाकारवैरूप्याच्च न सुषुप्तिमरणे। निमित्तं हि मूर्च्छाया  अभिघातादि:। पारिशेष्यान्मरणायार्धसम्पत्तिर्मूर्छा । मरणं […]

श्रीभाष्यम् 03-02-03 कर्मानुस्मृतिशब्दविध्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कर्मानुस्मृतिशब्दविध्यधिकरणम्॥३॥ (अधिकरणार्थः – जाग्रदवस्थातः सुषुप्तिदशां प्राप्त एव जीवः प्रबुध्यते, नान्यः) ३२३. स एव तु कर्मानुस्मृतिशब्दविधिभ्य: ॥ ३–२–९ ॥ (प्रकृताधिकरणीयः संशयः पूर्वपक्षश्च) किं सुषुप्त एव प्रबोध समये उत्तिष्ठति, उतान्य इति संशये अस्य सकलोपाधिविनिर्मुक्तस्य ब्रह्मणि सम्पन्नस्य मुक्तादविलक्षणत्वेन प्राचीनशरीरेन्द्रियादिसम्बन्धाभावादन्य: – इति प्राप्ते  (सिद्धान्तार्थः सूत्रतः) उच्यते – स एव तु इति। तुशब्द: पक्षं व्यावर्तयति; स एवोत्तिष्ठति; कुत:? कर्मानुस्मृतिशब्दविधिभ्य:। […]

श्रीभाष्यम् 03-02-02 तदभावाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तदभावाधिकरणम्॥२॥ (अधिकरणार्थः – जिवात्मनां सुषुप्तौ स्थानानि हिताख्यनाडी – पुरीतत् – परमात्मनस्त्रयोऽपि) ३२१. तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ३–२–७ ॥ (सङ्गतिः विषयनिर्देशश्च) इदानीं सुषुप्तिस्थानं परीक्ष्यते, इदमाम्नायते  अथ यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्न: स्वप्नं न विजानाति आसु तदा नाडीषु सृप्तो भवति (छां.८.३.३) इति; तथा  अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभि: प्रत्यवसृप्य पुरीतति […]

श्रीभाष्यम् 03-02-01 सन्ध्याधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीररकमीमांसाभाष्ये तृतीयस्य साधनाध्यायस्य – द्वितीयः उभयलिङ्गपाद: (अधिकरणानि – 8, सूत्राणि – 40) (पादार्थः – परस्य ब्रह्मणः निरस्ताखिलदोषता समस्तकल्याणगुणाकरता च)   सन्ध्याधिकरणम् (बृहदारण्यकदहरविद्या 6-3-10) (अधिकरणार्थः – स्वप्नानां जीवानुभाव्यानां ) ३१५. सन्ध्ये सृष्टिराह हि ॥ ३–२–१ ॥ (पू) (पादसङ्गतिप्रदर्शनम्, विषयवाक्यं च) एवं कर्मानुरूपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दु:खित्वं ख्यापितम्; इदानीमस्य स्वप्नावस्था परीक्ष्यते। स्वप्नमधिकृत्य श्रूयते –  न तत्र रथा […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.