श्रीभाष्यम् 03-02-05 उभयलिङ्गाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उभयलिङ्गाधिकरणम्॥५॥

(अधिकरणार्थः – सर्वत्र व्याप्तिमत्यपि ब्रह्मणि निखिलहेयप्रत्यनीकता समस्तकल्याणगुणाकरता च)

(सङ्गतिप्रदर्शनम्)

३२५. स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ११

(संशयप्रतिपादनम्)

दोषदर्शनाद्वैराग्योदयाय जीवस्यावस्थाविशेषा निरूपिता:; इदानीं ब्रह्मप्राप्तितृष्णाजननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वकल्याणगुणात्मकत्वप्रतिपादनायारभते।

(पूर्वपक्षः)

तत्र जागरस्वप्नसुषुप्तिमुग्ध्युत्क्रान्तिषु स्थानेषु तत्तत्स्थानप्रयुक्ता जीवस्य ये दोषा: ते तदन्तर्यामिण: परस्य ब्रह्मणोऽपि तत्र तत्रावस्थितस्य सन्ति, नेति विचार्यते।

(अधिकरणद्वयार्थनिगमनम्)

किं युक्तम्? सन्तीति।

कुत:? तत्तदवस्थशरीरेऽवस्थानात्।

(शङ्कितस्य दोषसम्बन्धस्य अयोगाक्षेप-परिहारौ)

ननु  सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् (शारी.१.२.८) स्थित्यदनाभ्यां (शारी.१.३.६) इत्यादिषु परस्याकर्मवश्यत्वेन दोषाभाव उक्त:, तत्कथमकर्मवश्यस्य परस्य ब्रह्मणस्तत्तत्स्थानसम्बन्धाद्दोष उच्यते; इत्थमुच्यते – कर्माण्यपि देहसम्बन्धमापादयन्त्यपुरुषार्थजननानि  भवन्ति – इति  देहयोगाद्वा (शारी.३.२.५) इत्यत्रोक्तम्; तच्च देहसम्बन्धस्यापुरुषार्थत्वेन भवति; इतरथा कर्माण्येव दु:खं जनयिष्यन्ति; किं देहसम्बन्धेन; अतोऽकर्मवश्यत्वे सत्यपि नानाविधाशुचिदेहसम्बन्धोऽपुरुषार्थ एव; अतस्तन्नियमनार्थं स्वेच्छया तत्प्रवेशेऽप्यपुरुषार्थसम्बन्धोऽवर्जनीय:; पूयशोणितादिमज्जनं हि स्वेच्छाकारितमप्यपुरुषार्थ एव ।

(पूर्वपक्षार्थनिगमनम्)

अतो यद्यपि जगदेककारणं सर्वज्ञत्वादिकल्याणगुणाकरं च ब्रह्म, तथापि  : पृथिव्यां तिष्ठन् (बृह.५.७.३)  आत्मनि तिष्ठन् (बृह.५-७-२२)  यश्चक्षुषि तिष्ठन् (बृह.५-७-१८)  यो रेतसि तिष्ठन् (बृह.५.७.२३)  इत्यादिवचनात् तत्र तत्रावस्थितस्य तत्तत्सम्बन्धरूपापुरुषार्थास्सन्तीति॥

(सिद्धान्तारम्भः सूत्रार्थविवरणतः)

एवं प्राप्ते प्रचक्ष्महे – न स्थानतोऽपि परस्य – इति । न पृथिव्यात्मादिस्थानतोऽपि परस्य ब्रह्मण: अपुरुषार्थगन्धस्सम्भवति ।

कुत:? उभयलिङ्गं सर्वत्र हि – यत: सर्वत्र श्रुतिस्मृतिषु परं ब्रह्म उभयलिङ्गम् – उभयलक्षणमभिधीयते, निरस्तनिखिलदोषत्वकल्याणगुणाकरत्वलक्षणोपेतमित्यर्थ:।  अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकाम: सत्यसङ्कल्प: (छा.८.१.५)  समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्ग: (वि.पु.६.५.८४)  तेजाबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशि: पर: पराणां सकला यत्र क्लेशादयस्सन्ति परावरेशे (वि.पु.६.५.८५)  समस्तहेयरहितं विष्णाख्यं परमं पदम् (वि.पु.२.२२.५३) इत्यादिश्रुतिस्मृतिभ्य: उभयलक्षणं हि ब्रह्मावगतम् ॥११॥

३२६. भेदादिति चेन्न प्रत्येकमतद्वचनात् १२

यथा जीवस्य प्रजापतिवाक्यावगतापहतपाप्मत्वाद्युभयलिङ्गस्यापि देवादिदेहयोगरूपावस्था-भेदादपुरुषार्थयोग:, तथाऽन्तर्यामिण: परस्यापि स्वतोऽपहतपाप्मत्वाद्युभयलिङ्गस्य तत्तद्देवादिशरीरयोग-रूपावस्थाभेदादपुरुषार्थयोगोऽवर्जनीय इति चेत्  तन्न, प्रत्येकमतद्वचनात् –  : पृथिव्यां तिष्ठन् (बृ.५.७.३)  आत्मनि तिष्ठन्  (बृह.५.७.३) इत्यादिषु प्रतिपर्यायं  आत्माऽन्तर्याम्यमृत: (बृ.५.७.३) इत्यन्तर्यामिणोऽमृतत्ववचनेन तत्र तत्र स्वेच्छया नियमनं कुर्वतस्तत्तत्सम्बन्धप्रयुक्तापुरुषार्थ-प्रतिषेधात् । जीवस्य तु तत्स्वरूपं तिरोहितिमिति  पराभिध्यानात्तु तिरोहितम् (ब्र.सू.३.२.४) इत्यत्रोक्तम्।

(अपुरुषार्थयोगस्य कर्मायत्तत्वाभावेऽपि, वस्तुस्वभावायत्तत्वशङ्का-परिहारौ)

ननु स्वेच्छया कुर्वतोऽपि तत्तद्वस्तुस्वभावायत्तापुरुषार्थसम्बन्धोऽवर्जनीय इत्युक्तम्; नैतद्युक्तम्, नह्यचिद्वस्त्वपि स्वभावतोऽपुरुषार्थस्वरूपम्; कर्मवश्यानां तु कर्मस्वभावानुगुण्येन परमपुरुषसङ्कल्पादेकमेव वस्तु कालभेदेन पुरुषभेदेन च सुखाय दु:खाय च भवति; वस्तुस्वरूपप्रयुक्ते तु ताद्रूप्ये सर्वं सर्वदा सर्वस्य सुखायैव दु:खायैव वा स्यात्; नचैवं दृश्यते; तथाचोक्तं – नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम। वस्त्वेकमेव दु:खाय सुखायेर्ष्यागमाय च। कोपाय यतस्तस्माद्वस्तु वस्त्वात्मकं कुत: तदेव प्रीतये भूत्वा पुनर्दु:खाय जायते। तदेव कोपाय यत: प्रसादाय जायते। तस्माद्दु:खात्मकं नास्ति किञ्चित्सुखात्मकम् (वि.पु.२.६.४६,४७,४८) इति ।

(जीवपरवैलक्षण्यदृढीकरणम्)

अतो जीवस्य कर्मवश्यत्वात्तत्तत्कर्मानुगुण्येन तत्तद्वस्तुसम्बन्ध एवापुरुषार्थस्स्यात्; परस्य तु ब्रह्मण: स्वाधीनस्य स एव सम्बन्धस्तत्तद्विचित्रनियमनरूपलीलारसायैव स्यात्॥१२॥

(ब्रह्मणि देहादिसम्बन्धेऽपि अपुरुषार्थायोगः श्रुतिकण्ठोक्तः)

३२७. अपि चैवमेके १३

अपि च एके शाखिन: एकस्मिन्नेव देहसंयोगे जीवस्यापुरुषार्थं परस्य तु तदभावं नियमनरूपैश्वर्यायत्तदीप्तियोगं च स्वशब्देनाधीयते – द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति (मु.३.१.१) इति ॥१३॥

(विधिनिषेधशास्त्रपर्यवसानभूमित्वं, देवमनुष्यादीन् प्रति परमात्मभूतस्यैवेति नामरूपव्याकरणश्रुतितः सिध्यति, इति शङ्का-तत्परिहारौ)

अथ स्यात् –  अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा.६-३-२) इति ब्रह्मात्मकजीवानुप्रवेशपूर्वकं नामरूपव्याकरणमिति ब्रह्मणोऽपि तदात्मभूतस्य देवमनुष्यादिरूपत्वं तन्नामभाक्त्वं चास्ति, ततश्च  ब्राह्मणो यजेत इत्यादिविधिनिषेधशास्त्रगोचरत्वेन कर्मवश्यत्वमवर्जनीयिमिति; – तत्राह –

३२८. अरूपवदेव हि तत्प्रधानत्वात् १४

देवादिशरीरानुप्रवेशे तेन रूपेण युक्तमप्यरूपवदेव तत् ब्रह्म रूपरहिततुल्यमेव; जीववच्छरीरित्वनिबन्धनं कर्मवश्यत्वमस्य न विद्यत इत्यर्थ: । कुत:? निर्वाहकत्वेन प्रधानत्वात् । आकाशो वै नामरूपयोर्निर्विहता ते यदन्तरा तद्ब्रह्म (छा.८.१४.१) इति सर्वानुप्रवेशेऽपि नामरूपकार्यास्पर्शेन नामरूपयोर्निर्वोढृत्वमेव ब्रह्मण: प्रतिपादयति।

(तत्तदन्तर्यामित्वकृतकर्मवश्यत्वावश्यंभावाक्षेपसमाधाने)

ननु तच्छरीरकत्वेन तदन्तर्यामित्वे कथमरूपवदिति रूपसम्बन्धरहिततुल्यत्वमुच्यते? इत्थं – यथा जीवस्य तत्तज्जन्यसुखदु:खभाक्त्वेन ततद्रूपसम्बन्ध:, तथा तदभावात्परस्यारूपवत्त्वम्। विधिनिषेधशास्त्राण्यपि कर्मवश्यमेवाधिकुर्वन्ति; तस्मादरूपतुल्यमेव परं ब्रह्म। ततश्च अन्तर्यामिरूपेणावस्थितमपि ब्रह्म निरस्तनिखलदोषत्वकल्याणगुणाकरत्वरूपोभयलिङ्गमेव ॥१४॥

(ब्रह्मण उभयलिङ्गतायाः श्रुत्यवगतनिर्विशेषप्रकाशरूपत्वविरोधशङ्का-तत्परिहारौ)

ननु च  सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यादिभिर्निर्विशेषप्रकाशैकस्वरूपं ब्रह्मावगम्यते, अन्यत्तु सर्वज्ञत्वसत्यसङ्कल्पत्वजगत्कारणत्वसर्वान्तरात्मत्वसत्यकामत्वादिकं  नेति नेति (बृ.४.३.६) इत्यादिभि: प्रतिषिध्यमानत्वेन मिथ्याभूतमित्यवगन्तव्यम्; तत्कथं कल्याणगुणाकरत्व-निरस्तनिखिलदोषत्वरूपोभयलिङ्गत्वं ब्रह्मणि इति; अत आह –

३२९. प्रकाशवच्चावैयर्थ्यात् १५

यथा  सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.१.१) इत्यादिवाक्यावैयर्थ्यात्प्रकाशस्वरूपत्वं ब्रह्मणोऽभ्युपगम्यते; तथा सत्यसङ्कल्पत्वसर्वज्ञत्वजगत्कारणत्व सर्वात्मकत्वनिरस्तनिखिल-अविद्यादिदोषत्वाद्यभिधायिवाक्यावैयर्थ्यादुभयलिङ्गमेव ब्रह्म ॥१५॥

(सत्यादिवाक्यस्य गुणनिषेधकत्वाभावः)

३३०. आह तन्मात्रम् १६

किञ्च  सत्यं ज्ञानमनन्तम् (तै.आन.१.१) इत्यादिवाक्यं ब्रह्मण: प्रकाशस्वरूपतामात्रं प्रतिपादयति, नान्यत्सत्यसङ्कल्पत्वादिकं वाक्यान्तरावगतं निषेधति,  नेति नेति (बृ.४.३.६) इति च निषेधविषयोऽनन्तरमेव वक्ष्यते॥

(गुणानां श्रुत्यादिप्रतिपन्नत्वस्पष्टीकरणम्)

३३१. दर्शयति चाथो अपि स्मर्यते १७

दर्शयति च वेदान्तगण: कल्याणगुणाकरत्वं निरस्तनिखिलदोषत्वं च  तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं दैवतम्। कारणं करणाधिपाधिपो चास्य कश्चिज्जनिता चाधिप: तस्य कार्यं करणं विद्यते तत्समश्चाभ्यधिकश्च दृश्यते। पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया (श्वे.६.७,८)  यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तप: (मु.१.१.९)  भीषाऽस्माद्वात: पवते भीषोदेति सूर्य: (तै.आ.८.४)  एको ब्रह्मण आनन्द: (तै.आ.८.४)  यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् बिभेति कुतश्चनेति (तै.आ.९.१) निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् (श्वे.६.१९) इत्यादि । स्मर्यते च  यो मामजमनादिं वेत्ति लोकमहेश्वरम् (भ.गी.१०.३) विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् (भ.गी.१०.४२)  मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते (भ.गी.९.१०)  उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत: यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर: (भ.गी.१५.१७)  सर्वज्ञस्सर्वकृत् सर्वशक्तिज्ञानबलर्द्धिमान्। अन्यूनश्चाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी। क्लमतन्द्रीभयक्रोधकामादिभिरसंयुत: निरवद्य: पर: प्राप्तेर्निरधिष्ठोऽक्षर: क्रम: (वि.पु.५.१.४७,४८,४९) इत्यादि:। अतस्सर्वत्रावस्थितस्यापि ब्रह्मण उभयलिङ्गत्वात्तत्तत्स्थानप्रयुक्ता दोषा न परं ब्रह्म स्पृशन्ति ॥१७॥

(ब्रह्मणि स्थानसम्बन्धायत्तदोषभाक्त्वाभावस्य, शास्त्रस्थजलबिम्बितसूर्योपमासङ्गतिः)

३३२. अत एव चोपमा सूर्यकादिवत् १८

यतो नानाविधेषु स्थानेषु स्थितस्यापि परस्य ब्रह्मणो न तत्प्रयुक्तदोषभाक्त्वम्, अत एव जलदर्पणादिप्रतिबिम्बितसूर्यादिवत्परमात्मा तत्रतत्रावस्थितोऽपि निर्दोष इति शास्त्रेषूपमा क्रियते –  आकाशमेकं हि यथा घटादिषु पृथग्भवेत्। तथात्मैको ह्यनेकस्थो जलाधारेष्विवांशुमान्। एक एव हि भूतात्मा भूते भूते व्यवस्थित: एकधा बहुधा चैव दृश्यते जलचन्द्रवत् (याज्ञवल्क्य.३.१४४) इत्यादिषु॥१८॥

(जलसूर्यदृष्टान्तवैषम्यशङ्का)

अत्र चोदयति –

३३३. अम्बुवदग्रहणात्तु तथात्वम् १९

तुशब्दश्चोद्यं द्योतयति। अम्बुवदिति सप्तम्यन्तात् वति:। अम्बुदर्पणादिषु यथा सूर्यमुखादयो गृह्यन्ते; न तथा पृथिव्यादिषु स्थानेषु परमात्मा गृह्यते । अम्ब्वादिषु हि सूर्यादयो भ्रान्त्या तत्रस्था इव गृह्यन्ते, न परमार्थतस्तत्रस्था: । इह तु  : पृथिव्यां तिष्ठन् (बृ.५.७.३)  योऽप्सु तिष्ठन् (बृह.५.७.४)  …. आत्मनि तिष्ठन् (बृ.५.७.२२)  इत्येवमादिना परमार्थत एव परमात्मा पृथिव्यादिषु स्थितो गृह्यते ।    अतस्सूर्यादेरम्बुदर्पणादिप्रयुक्तदोषाननुषङ्गस्तत्रतत्र स्थित्यभावादेव। अतो न तथात्वं – दार्ष्टान्तिकस्य न दृष्टान्ततुल्यत्वमित्यर्थ: ॥१९॥

(आपादितस्य दृष्टान्तवैषम्यस्य परिहारः)

परिहरति –

३३४. वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च २०

पृथिव्यादिस्थानान्तर्भावात्स्थानिन: परस्य ब्रह्मण: स्वरूपतो गुणतश्च पृथिव्यादिस्थानगत-वृद्धिह्रासादिदोषभाक्त्वमात्रं सूर्यादिदृष्टान्तेन निवर्त्यते। कथमिदमवगम्यते? उभयसामञ्जस्यादेवम् – उभयदृष्टान्तसामञ्ज्स्यादेवमिति निश्चीयते।  आकाशमेकं हि यथाघटादिषु पृथग्भवेत्, जलधारेष्विवांशुमान् (याज्ञ.प्राय.३.१४४)  इति दोषवत्स्वनेकेषु वस्तुषु वस्तुतोऽवस्थितस्य आकाशस्य, वस्तुतोऽनवस्थितस्यांशुमतश्चोभयस्य दृष्टान्तस्योपादानं हि परमात्मन: पृथिव्यादिगत-दोषभाक्त्वनिवर्तनमात्रे प्रतिपाद्ये समञ्जसं भवति । घटकरकादिषु यथा वृद्धिह्रासभाक्षु पृथक्पृथक्संयुज्यमानमप्याकाशं वृद्धिह्रासादिदोषैर्न स्पृश्यते; यथा च जलाधारेषु विषमेषु दृश्यमानोंऽशुमान् तद्गतवृद्धिह्रासादिभिर्न स्पृश्यते; तथाऽयं परमात्मा पृथिव्यादिषु नानाकारेष्वचेतनेषु चेतनेषु च स्थितस्तत्तद्गतवृद्धिह्रासादिदोषैरसंस्पृष्टस्सर्वत्र वर्तमानोऽप्येक एव अस्पृष्टदोषगन्ध: कल्याणगुणाकर एव।

(उभयसामञ्जस्यस्पष्टीकरणम्)

            एतदुक्तं भवति – यथा जलादिषु वस्तुतोऽनवस्थितस्यांशुमतो हेत्वभावाज्जलादि-दोषानभिष्वङ्ग: तथा पृथिव्यादिष्ववस्थितस्यापि परमात्मनो दोषप्रत्यनीकाकारतया दोषहेत्वभावान्न दोषसम्बन्ध: – इति।

(दृष्टान्तस्य विवक्षितसाम्यमात्रे पर्यवसानम्)

दर्शनाच्च – दृश्यते चैवं सर्वात्मना साधर्म्याभावेऽपि विवक्षितांशसाधर्म्याद्दृष्टान्तोपादानं, सिंह इव माणवक इत्यादौ। अत: स्वभावतो निरस्तनिखिलाज्ञानादिदोषगन्धस्य समस्तकल्याणगुणाकरस्य पृथिव्यादिस्थानतोऽपि न दोषसम्भव: ॥२०॥

(नेति नेति वाक्याद्ब्रह्मणि सर्वविशेषनिषेधात् उभयलिङ्गत्वासिद्धिशङ्का-तत्परिहारौ)

अथ स्यात् –  द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तमेव इति (बृ.४.३.१) इति प्रकृत्य समस्तं स्थूलसूक्ष्मरूपं प्रपञ्चं ब्रह्मणो रूपत्वेन परामृश्य तस्य वा एतस्य पुरुषस्य रूपं यथा माहारजनं वास: (बृ.४.३.६) इत्यादिना आकारविशेषं चाभिधाय अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति (बृ.४.३.६) इति सर्वं प्रकृतं ब्रह्मण: प्रकारमितिशब्देन परामृश्य तत्सर्वं प्रतिषिध्य सर्वविशेषाधिष्ठानं सन्मात्रमेव ब्रह्म; विशेषास्त्वेवंविधं स्वस्वरूपमजानता ब्रह्मणा कल्पिता इति दर्शयति; अत: कथमुभयिलङ्गत्वं ब्रह्मण इति – अत्राह –

३३५. प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति भूय: २१

नैतदुपपद्यते – यद्ब्रह्मण: प्रकृतिविशेषवत्त्वं  नेति नेति (बृ.४.३.६) इति प्रतिषिध्यत – इति, तथा सति भ्रान्तिजल्पितायमानत्वात् । न हि ब्रह्मणो विशेषणतया प्रमाणान्तराप्रज्ञातं सर्वं  तद्विशेषणत्वेनोपदिश्य पुनस्तदेवानुन्मत्त: प्रतिषेधति । यद्यपि निर्दिश्यमानेषु केचन पदार्था: प्रमाणान्तरप्रसिद्धा:, तथापि तेषां ब्रह्मण: प्रकारत्वमप्रज्ञातमेव, इतरेषां तु स्वरूपं ब्रह्मण: प्रकारत्वं चाज्ञातम् । अतस्तेषामनुवादासम्भवादत्रैवोपदिश्यन्ते। अतस्तन्निषेधो नोपपद्यते । यस्मादेवं तस्मात्प्रकृतैतावत्त्वं ब्रह्मण: प्रतिषेधतीदं वाक्यम्। ये ब्रह्मणो विशेषा: प्रकृता: तद्विशिष्टतया ब्रह्मण: प्रतीयमानेयत्ता नेति नेति (बृ.४.३.६) इति प्रतिषिध्यते। नेति नेति – नैवं नैवम्, उक्तप्रकारमात्रविशिष्टं न भवति ब्रह्म; उक्तप्रकारविशिष्टतया या ब्रह्मण इयत्ता प्रकृता; साऽत्र इति शब्देन परामृश्यत इत्यर्थ:। यतश्च निषेधानन्तरं ब्रह्मणो भूयो गुणजातं ब्रवीति, अतश्च प्रकृतविशेषणयोगित्वमात्रं ब्रह्मण: प्रतिषेधति । ब्रवीति हि भूयो गुणजातं –  न ह्येतस्मादिति नेत्यन्यत्परमस्त्यथ नामधेयं सत्यस्यसत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् (बृ.४.३.६) इति ।

(उभयवाक्यशेषस्यार्थविशदीकरणम्)

अयमर्थ: – इति नेति यद्ब्रह्म प्रतिपादितम्, तस्मादेतस्मादन्यद्वस्तु परं नह्यस्ति, ब्रह्मणोऽन्यत् स्वरूपतो गुणतश्चोत्कृष्टं नास्तीत्यर्थ:। तस्य च ब्रह्मण: सत्यस्य सत्यमिति नामधेयम् । तस्य च निर्वचनं  प्राणा वै सत्यं तेषामेव सत्यम् (बृ.४.३.६) इति। प्राणशब्देन प्राणसाहचर्याज्जीवा: परामृश्यन्ते । ते तावत्सत्यम्, वियदादि-वत्स्वरूपान्यथाभावरूपपरिणामाभावात्। तेषामेष सत्यम् – तेभ्योऽप्येष परमपुरुषस्सत्यम् । जीवानां कर्मानुगुण्येन ज्ञानसङ्कोचविकासौ विद्येते; परमपुरुषस्य त्वपहतपाप्मनस्तौ न विद्येते; अतस्तेभ्योऽप्येष सत्यम्।

(सूत्रार्थोपसंहारः)

अतश्चैवं वाक्यशेषोदितगुणजातयोगात् नेति नेति (बृ.४.३.६) इति ब्रह्मणस्सविशेषत्वं न प्रतिषिध्यते;  अपि तु पूर्वप्रकृतेयत्तामात्रम्। अत उभयलिङ्गमेव परं ब्रह्म ॥२१॥

(ब्रह्म-तद्गुणानां प्रमाणान्तरागोचरता)

ब्रह्मण: प्रमाणान्तरागोचरत्वेन तत्सम्बन्धितया मूर्तामूर्तादिरूपानुवादेन तन्निषेधासम्भवात् प्रकृतेयत्ताप्रतिषेध उक्त:; तदेव प्रमाणान्तरागोचरत्वं द्रढयति –

३३६. तदव्यक्तमाह हि २२

तत् – ब्रह्म प्रमाणान्तरेण न व्यज्यते, आह हि शास्त्रं  सन्दृशे तिष्ठति रूपमस्य चक्षुषा पश्यति कश्चनैनम् (तै.ना.१.१)  चक्षुषा गृह्यते नापि वाचा (मु.३.१.८) इत्यादि॥

(निदिध्यासनार्थं ब्रह्मोपदेशपरे वाक्ये अनुवादकत्वायोगः)

हेत्वन्तरं चाह –

३३७. अपि संराधने प्रत्यक्षानुमानाभ्याम् २३

अपि च संराधने – सम्यक्प्रीणने भक्तिरूपापन्ने निदिध्यासन एवास्य साक्षात्कार:; नान्यत्रेति श्रुतिस्मृतिभ्यामवगम्यते। नायमात्मा प्रवचनेन लभ्यो मेधया बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् (मु.३-२-३)  ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमान: (मु.३.१.८) इति श्रुति: । स्मृतिरपि  नाहं वेदैर्न तपसा दानेन चेज्यया (भ.गी.११.५३)  भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं तत्त्वेन प्रवेष्टुं परन्तप (भ.गी.११.५४) इति। भक्तिरूपापन्नमेवोपासनं संराधनम् – तस्य प्रीणनमिति पूर्वमेवोक्तम्। अतो निदिध्यासनाय ब्रह्मस्वरूपमुपदिशत्  द्वे वाव ब्रह्मण: (बृ.४.३.१) इत्यादिशास्त्रं ब्रह्मणो मूर्तामूर्तरूपद्वयादिविशिष्टतां प्रागसिद्धां नानुवदितुं क्षमम् ॥२३॥

(ब्रह्मणः मूर्तामूर्तादिवैशिष्ट्यस्य वामदेवादियोगिप्रत्यक्षगोचरतया, निषेधस्य प्रकृतैतावन्मात्रविषयता)

३३८. प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् २४

इतश्च प्रकृतैतावत्त्वमेव प्रतिषेधति; न मूर्तामूर्तादिविशष्टत्वम्; यतस्साक्षात्कृतपरब्रह्म-स्वरूपाणां वामदेवादीनां दर्शने प्रकाशादिवत् ज्ञानानन्दादिस्वरूपवन्मूर्तादिप्रपञ्चविशष्टताया अपि ब्रह्मगुणत्वावैशेष्यं प्रतीयते – तद्धेतत्पश्यन्नृषिर्वामदेव: प्रतिपेदे अहं मनुरभवं सूर्यश्च (बृ.३.४.१०) इत्यादि। ब्रह्मस्वरूपभूतप्रकाशानन्दादिश्च तेषां वामदेवादीनां संराधनात्मके कर्मण्यभ्यासादुपलभ्यते। तद्वच्चाभ्यस्तसंराधनानां तेषां मूर्तामूर्तादिविशष्टत्वमप्यविशेषेण प्रतीयत इत्यर्थ:॥२४॥

(ब्रह्मणः कल्याणगुणवत्तानिर्णयेन उभयलिङ्गत्वोपसंहारः)

उक्तं ब्रह्मण उभयिलङ्गत्वमुपसंहरति –

३३९. अतोऽनन्तेन तथा हि लिङ्म् २५

अत: उक्तैर्हेातुभिर्ब्रह्मण: अनन्तेन कल्याणगुणगणेन विशिष्टत्वं  सिद्धम् । तथा हि सत्युभयलिङ्गं ब्रह्मोपपन्नं भवति ॥२५॥

इति श्रीशारीरकमीमांसाभाष्ये उभयलिङ्गाधिकरणम् ॥५॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.