श्रीभाष्यम् 03-02-03 कर्मानुस्मृतिशब्दविध्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कर्मानुस्मृतिशब्दविध्यधिकरणम्॥३॥

(अधिकरणार्थः – जाग्रदवस्थातः सुषुप्तिदशां प्राप्त एव जीवः प्रबुध्यते, नान्यः)

३२३. एव तु कर्मानुस्मृतिशब्दविधिभ्य:

(प्रकृताधिकरणीयः संशयः पूर्वपक्षश्च)

किं सुषुप्त एव प्रबोध समये उत्तिष्ठति, उतान्य इति संशये अस्य सकलोपाधिविनिर्मुक्तस्य ब्रह्मणि सम्पन्नस्य मुक्तादविलक्षणत्वेन प्राचीनशरीरेन्द्रियादिसम्बन्धाभावादन्य: – इति प्राप्ते

 (सिद्धान्तार्थः सूत्रतः)

उच्यते – स एव तु इति। तुशब्द: पक्षं व्यावर्तयति; स एवोत्तिष्ठति; कुत:? कर्मानुस्मृतिशब्दविधिभ्य:। कर्म तावत् – सुषुप्तेन पूर्वकृतं पुण्यपापरूपं तत्त्वज्ञानात्प्राक् तेनैव भोक्तव्यम्। अनुस्मृतिरपि य एवाहं सुप्त:, स एव प्रबुद्धोऽस्मीति। शब्दोऽपि सुषुप्तप्रबुद्धस्स एवेति दर्शयति –  इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति (छा.६.१०.२) इति। विधयश्च मोक्षार्थास्सुषुप्तस्य मुक्तत्वेऽनर्थकास्स्यु:। नचासौ सर्वोपाधिविनिर्मुक्त आविर्भूतस्वरूप: – तद्यत्रैतत्सुषुप्त: (छा.८.११.२) इति सुषुप्तं प्रकृत्य  नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि (छा.८.११.२) इति वचनात् । मुक्तस्य च परं ज्योतिरुसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.३.४)  तत्र पर्येति जक्षत्क्रीडन्नममांण: (छा.८.१२.३) स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति (छा.७-२५-२) सर्वं हि पश्य: पश्यति सर्वमाप्नोति सर्वश: (छा.७.२६.२) इति सर्वज्ञत्वादि श्रूयते। अतस्सुषुप्तस्संसरन्नेव आयस्तसर्वकरणो ज्ञानभोगाद्यशक्तो विश्रमस्थानं परमात्मानमुपसम्पद्याश्वस्त: पुनर्भोगायोत्तिष्ठति॥९॥

इति श्रीशारीरकमीमांसाभाष्ये कर्मानुस्मृतिशब्दविध्यधिकरणम्॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.