श्रीभाष्यम् 03-03-21 शरीरेभावाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये शरीरेभावाधिकरणम्॥२१॥ (अधिकरणार्थः – उपासककर्तृकं प्रत्यगात्मभूतस्य स्वात्मनोऽनुसन्धानम् आविर्भूयमानगुणाष्टकवत्वेन) ४०५. एक आत्मनश्शरीरे भावात् ॥ ३–३–५१ ॥ (विचारणीयविषयोपस्थापनम्) सर्वासु परविद्यासूपास्योपासनस्वरूपवदुपासकस्वरूपस्यापि ज्ञातव्यत्वमुक्तं –  त्रयाणामेव चैवमुपन्यास: प्रश्नश्च (ब्र.सू.१.४.३) इति। वक्ष्यति चास्य प्रत्यगात्मन: परमात्मात्मकत्वेन अनुसन्धानम्  आत्मेति तूपगच्छन्ति ग्राहयन्ति च (ब्र.सू.४.१.३) इति । (विचारौपयिकः संशयः) किमयं प्रत्यगात्मा ज्ञाता कर्ता भोक्तेहामुत्र सञ्चारक्षमोऽनुसन्धेय:, उत प्रजापतिवाक्योदितापहतपाप्मत्वादिस्वरूपः? ॥ (सहेतुकः पूर्वः पक्षः) किं युक्तम्? ज्ञातृत्वाद्याकारमात्र इत्येके […]

श्रीभाष्यम् 03-03-20 पूर्वविकल्पाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये पूर्वविकल्पाधिकरणम्॥२०॥ (अधिकरणार्थः – अग्निरहस्यब्राह्मणोक्तानां मनश्चिदादीनां विद्यामयक्रत्वनुप्रविष्टता) ३९८. पूर्वविकल्प: प्रकरणात्स्यात्क्रिया मानसवत् ॥ ३–३–४४ ॥ (विचारणीयविषयोपस्थापनम्) वाजसनेयके  अग्निरहस्ये मनश्चितादयोऽग्नय: श्रूयन्ते – मनश्चितो वाक्चित: प्राणचित: चक्षुश्चित: श्रोत्रचित: कर्मचितोऽग्निचित: (अग्निरहस्यं) इति । (विचारौपयिकस्संशयः) तत्र संशय: – किमेते मनश्चितादयस्साम्पादिकत्वेन विद्यारूपा अग्नय: क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा:, आहोस्विद्विद्यामयक्रत्वनुप्रवेशेन विद्यारूपा एव – इति विशये (पूर्वः पक्षः सूत्रत एव) क्रियारूपत्वं तावदाह – पूर्वविकल्प: – इत्यादिना। […]

श्रीभाष्यम् 03-03-19 लिङ्गभूयस्त्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये लिङ्गभूयस्त्वाधिकरणम्॥१९॥ (अधिकरणार्थः – तैत्तरीयकगतस्य सहस्रशीर्षकमित्यनुवाकस्य सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणपरत्वम्, न तु दहरविद्यामात्रशेषत्वम्) ३९७. लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ३–३–४३ ॥ (विचारणीयविषयनिर्देशः) तैत्तिरीया दहरविद्यानन्तरमधीयते  सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं प्रभुम् इत्यारभ्य सोऽक्षर: परमस्स्वराट् (तै.ना.१) इत्यन्तम्। (विचारौपयिकः संशयः) तत्र संशय:- किं पूर्वप्रकृतविद्यैकविद्यात्वेन तदुपास्यविशेषनिर्धारणमनेन क्रियते, उत सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणम् – इति। (सहेतुकः पूर्वःपक्षः) किं युक्तम्? दहरविद्योपास्यविशेषनिर्धारणमिति। कुत:? प्रकरणात्। पूर्वस्मिन्ननुवाके दहरविद्या […]

श्रीभाष्यम् 03-03-18 प्रदानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्रदानाधिकरणम् ॥१८॥ (अधिकरणार्थः – हविस्त्यागपार्थक्ये इन्द्रादीनामिव, प्रतिगुणचिन्तनं परमात्मचिन्तनावृत्तिः) ३९६. प्रदानवदेव तदुक्तम् ॥ ३–३–४२ ॥ (सि) (विचारणीयविषयनिर्देशः) दहरविद्यायां – तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् (छा.८.१.६) इति दहराकाशस्य परमात्मन उपासनमुक्त्वा  एतांश्च सत्यान्कामान् (छां.८.१.६) इति गुणानामपि पृथगुपासनं विहितम् । (विचारौपयिकस्संशयः) तत्र संशय: – गुणचिन्तनेऽपि तत्तद्गुणविशिष्टतया दहरस्यात्मनश्चिन्तनमावर्तनीयम्, उत नेति। (पूर्वः पक्षः) दहराकाशस्यैव अपहतपाप्मत्वादीनां गुणित्वात्तस्य च सकृदेवानुसन्धातुं शक्यत्वाद्गुणार्थं तच्चिन्तनं नावर्तनीयम् […]

श्रीभाष्यम् 03-03-17 तन्निर्धारणानियमाधिकरणम्

श्री शारीरकमीमांसाभाष्ये तन्निर्धारणानियमाधिकरणम्॥१७॥ (अधिकरणार्थः – कर्माङ्गाश्रितोद्गीथोपासनादेः क्रतुषु उपादेयतानियमाभावः) ३९५. तन्निर्धारणानियमस्तद्दृष्टे: पृथग्घ्यप्रतिबन्ध: फलम् ॥ ३–३–४१ ॥ (एतदधिकरणीयः संशयगर्भः पूर्वः पक्षः) ओमित्येतदक्षरमुद्गीथमुपासीत (छां.१.१.१) इत्यादीनि कर्माङ्गाश्रयाण्युपासनानि कर्माङ्गभूतोद्गीथादिमुखेन जुह्वादिमुखेन पर्णतादिवत् कर्माङ्गत्वेन निरूढानुष्ठानानि इत्युद्गीथाद्युपासन-सम्बन्धिनो  यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छा.१.१.१०) इति वर्तमाननिर्देशस्य पर्णतादिसम्बन्धपापश्लोकश्रवणवत्पृथक्फलत्वकल्पनायोगात् क्रतुषु             नियमेनोपसंहार्याणीति ॥ (सूत्रारार्थतः सिद्धान्तप्रदर्शनम्) एवं प्राप्ते प्रचक्ष्महे – तन्निर्धारणानियम: – इति । निर्धारणं निश्चयेन […]

श्रीभाष्यम् 03-03-16 कामाद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कामाद्यधिकरणम्॥१६॥ (अधिकरणार्थः – छान्दोग्य-वाजसनेयकप्रतिपन्नयोर्दहरविद्ययोः रूपाभेदादभेदः) ३९२. कामादीतरत्र तत्र चायतनादिभ्य: ॥ ३–३–३८ ॥ (विचारणीयं विषयवाक्यम्) छान्दोग्ये श्रूयते  – अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यम् (छा.८.१.१) इत्यादि; वाजसनेयके च  स वा एष महानज आत्मा योऽयं विज्ञानमय: प्राणेषु य एषोऽन्तर्हृादय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशान: (बृ।६-४-२२) इत्यादि। (विचारौपयिकः संशयः) तत्र संशय: – किमनयोर्विद्याभेद:, उत […]

श्रीभाष्यम् 03-03-15 अन्तरत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अन्तरत्वाधिकरणम्॥ १५ ॥ (अधिकरणार्थः – उषस्त-कहोलयोः प्रश्न-प्रतिवचनाभ्याम् अवगता विद्या एकैव, न भिन्ना) ३८९. अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ३–३–३५ ॥ (विचारणीयस्य विषयोपस्थापनम्) बृहदारण्यके उषस्तप्रश्न एवमाम्नायते  यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर: तं मे व्याचक्ष्व (बृ.५.४.१) इति । तस्य प्रतिवचनं  य: प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा इत्यादि । अतुष्टेन तेन पुन: पृष्ट […]

श्रीभाष्यम् 03-03-14 अक्षरध्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अक्षरध्यधिकरणम्॥१४॥ (अधिकरणार्थः – अक्षरपरब्रह्मविद्योक्तानां अस्थूलत्वादीनां ब्रह्मगुणानां सर्वासु परविद्यासूपसंहारः) ३८७. अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३–३–३३ ॥ (विचारणीयविषयोपस्थापनम्) बृहदारण्यके श्रूयते  एतद्वै तदक्षरं गार्गि ब्रह्मणा अभिवदन्ति अस्थूलमनणु अह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुश्श्रोत्रं अवाङ्मनः अतेजस्कं अप्राणमसुखममात्रमनंतरमबाह्यं न तदश्नाति किञ्चन एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृह.५.८.८) इति। तथा आथर्वणे अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम् (मु.१.१.५) इति । (संशयस्वरूपम्) तत्र संशय: […]

श्रीभाष्यम् 03-03-13 अनियमाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अनियमाधिकरणम् ॥१३॥ (अधिकरणार्थः – अर्चिरादिगतेः वेदान्तावगतसर्वविद्यासाधारणत्वम्, न तु विशेषनियतत्वम्) ३८६. अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥ ३–३–३२ ॥ (विचारणौपयिकः संशयः) उपकोसलादिषु येषूपासनेष्वर्चिरादिगति: श्रूयते; किं तन्निष्ठानामेव तया ब्रह्मप्राप्ति:, उत सर्वेषां ब्रह्मोपासननिष्ठानामिति संशये, (पूर्वपक्षः सहेतुकः) इतरेष्वनाम्नानात्,  ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छा.५.१०.१)  श्रद्धां सत्यमुपासते (बृ.८.२.१५) इतीतरसकलब्रह्मविद्योपस्थापकत्वे प्रमाणाभावाच्च तन्निष्ठानामेव – (सूत्रतः सिद्धान्तवर्णनम्) इति प्राप्तेऽभिधीयते –  अनियम: – इति । सर्वेषां – […]

श्रीभाष्यम् 03-03-12 साम्परायाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये साम्परायाधिकरणम्॥१२॥ (पर्यङ्कविद्या – कौषी.उ.1) (अधिकरणार्थः – विदुषः देहादपक्रमणसमये एव पुण्यपापयोर्निरवशेषहानचिन्तनम्) ३८१. साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ ३–३–२७ ॥ (उक्तानुवादेन सङ्गत्यभिव्यञ्जनम्) सुकृतदुष्कृतयोर्हानमुपायनं च सर्वासु विद्यासु चिन्तनीयमित्युक्तम् । (विचारोपयोगी संशयः) तद्धानं किं देहवियोगकाले देहादुत्क्रान्तस्याध्वनि च, उत देहवियोगकाल एवेति विशये (युक्त्या पूर्वपक्षः) उभयत्रेति युक्तम्, उभयथा श्रुतत्वात्; एवं हि कौषीतकिनस्समामनन्ति  स एतं देवयानं पन्थानमापद्याग्निलोकं गच्छति (कौषी.१.३.४) इत्युपक्रम्य  स आगच्छति […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.