श्रीभाष्यम् 04-04-06 जगद्व्यापारवर्जाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये जगद्व्यापारवर्जाधिकरणम् ॥६॥ (अधिकरणार्थः – मुक्तात्मनां ब्रह्मणा परमसाम्यं भगवदसाधारणान् धर्मान्विहायैव) ५४०. जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ ४–४–१७ ॥ (विचारोपयोगी संशयः) किं मुक्तस्यैश्वर्यं जगत्सृष्ट्यादि परमपुरुषासाधारणं सर्वेश्वरत्वमपि, उत तद्रहितं केवलपरमपुरुषानुभवविषयमिति संशय:। (युक्त्या पूर्वः पक्षः) किं युक्तम् ? जगदीश्वरत्वमपीति। कुत:? निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इति परमपुरुषेण परमसाम्यापत्तिश्रुते: सत्यसङ्कल्पत्वश्रुतेश्च। (मुक्तैश्वर्यस्य जगन्नियमनाविनाभावशङ्का) न हि परमसाम्यसत्यसङ्कल्पत्वे सर्वेश्वरासाधारणजगन्नियमनेन विनोपपद्येते । अतस्सत्यसङ्कल्पत्वपरमसाम्योपपत्तये समस्तजगन्नियमनरूपमपि मुक्तस्यैश्वर्यमिति ॥ […]

श्रीभाष्यम् 04-04-05 अभावाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अभावाधिकरणम्॥५॥ (अधिकरणार्थः – मुक्तस्यात्मनः सशरीरत्वाशरीरत्वयोर्द्वयोरपि न्याय्यतास्थापनम्) ५३३. अभावं बादिरराह ह्येवम् ॥४–४–१०॥ (विचारार्थः संशयः) किं मुक्तस्य देहेन्द्रियाणि न सन्ति, उत सन्ति, अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये – (तत्र बादरेर्मतम्, सप्रमाणम्) शरीरेन्द्रियाणामभावं बादरिराचार्यो मन्यते; कुत:? आह ह्येवं –  न ह वै सशरीरस्य सत: प्रियाप्रिययोरपहतिरस्ति। अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशत: (छां.८.१२.१) इति शरीरसम्बन्धे […]

श्रीभाष्यम् 04-04-04 सङ्कल्पाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये संकल्पाधिकरणम्॥४॥ (अधिकरणार्थः – मुक्तात्मनोऽपि ज्ञात्यादिरूपेष्टार्थसम्पत्तिः) ५३१. संकल्पादेव तच्छ्रुते: ॥ ४–४–८॥ (अवान्तरसङ्गतिः – विचारणीयो विषयश्च) मुक्त: परं ब्रह्मोपसम्पद्य ज्ञानस्वरूपोऽपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणक आविर्भवतीत्युक्तम्; तमधिकृत्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहारा: श्रूयन्ते स तत्र पर्येति जक्षत्क्रीडन्रममाण: स्त्रीभिर्वायानैर्वा ज्ञातिभिर्वा (छां.८.१२.३) इति । (विचारोपयोगी संशयः) किमस्य ज्ञात्यादिप्राप्ति: प्रयत्नान्तरसापेक्षा, उत परमपुरुषस्येव सङ्कल्पमात्रादेव भवतीति विशये; (युक्तितः पूर्वः पक्षः) लोके राजादीनां सत्यसंकल्पत्वेन व्यवह्रियमाणानां कार्यनिष्पादने प्रयत्नान्तरसापेक्षत्वदर्शनादस्यापि तत्सापेक्षा – (सूत्रतः […]

श्रीभाष्यम् 04-04-03 ब्राह्माधिकरणम्

श्रीशारीरकमीमांसाभाष्ये ब्राह्माधिकरणम्॥३॥ (अधिकरणार्थः – मुक्तौ आत्मस्वरूपाविर्भावः, विज्ञानस्वरूपेण अपहतपाप्मत्वादिना चेति) ५२८. ब्राह्मेण जैमिनिरुपन्यासादिभ्य: ॥ ४–४–५ ॥ (भावान्तरसङ्गतिप्रदर्शनम्) प्रत्यगात्मन: परं ज्योतिरुपसम्पद्य निवृत्ततिरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम् । (विचारणीयो विषयः, प्रकृतः संशयश्च) तत्र येन स्वरूपेणायमाविर्भवति; तत्स्वरूपं श्रुतिवैविध्याद्विचार्यते। किमपहतपाप्मत्वादिकमेवास्य स्वरूपमिति तेन रूपेणायमाविर्भवति, उत विज्ञानमात्रमेवेति तेन रूपेण, अथोभयोरविरोध इत्युभयरूपेणेति । (जैमिनेर्मतानुवादः) किं तावत्प्राप्तम्? ब्राह्मेणेति जैमिनिराचार्यो मन्यते । ब्राह्मेण – अपहतपाप्मत्वादिनेत्यर्थ:। अपहतपाप्मत्वादयो हि […]

श्रीभाष्यम् 04-04-02 अविभागेनदृष्टत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये  अविभागेनदृष्टत्वाधिकरणम् (अधिकरणार्थः – मुक्तस्य मोक्षदशायां स्वानुभवः, स्वात्मभूतपरमात्मापृथग्भावेनेति निरूपणम्) ५२७. अविभागेन दृष्टत्वात् ॥ ४–४–४ ॥ (विचारोपयोगी विषयगर्भः संशयः) किमयं परं ज्योतिरुपसम्पन्न: सर्वबन्धविनिर्मुक्त: प्रत्यगात्मा स्वात्मानं परमात्मन: पृथग्भूतमनुभवति, उत तत्प्रकारतया तदविभक्तम् – इति विशये (पूर्वः पक्षः) सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपिश्चता (तै.आन.१.२)  यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्।  तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति […]

श्रीभाष्यम् 04-04-01 सम्पद्याविर्भावाधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थे फलाध्याये चतुर्थः मुक्तिपाद: (पादार्थः – भक्त्यानुष्ठानतः निष्पन्नमोक्षोपायत्वात् अर्चिरादिना मार्गेण गतानां मुक्तानामैश्वर्यप्रकारस्य चिन्तनम्) सम्पद्याविर्भावाधिकरणम्॥१॥ (अधिकरणार्थः – मुक्तात्मनां ब्रह्मोपसम्पत्या प्राप्यो दशाविशेषः स्वाभाविकस्वरूपाविर्भाव एव) ५२४. सम्पद्याविर्भावस्स्वेनशब्दात् ॥ ४–४–१ ॥ (पादसङ्गत्यर्थं पूर्वोत्तरार्थसङ्क्षेपः) परं ब्रह्मोपासीनानामात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानामर्चिरादिना मार्गेणापुनरावृत्तिलक्षणा गतिरुक्ता; इदानीं मुक्तानामैश्वर्यप्रकारं चिन्तयितुमारभते । (प्रकृतविचारार्थः संशयः) इदमाम्नायते – एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) इति। किमस्माच्छरीरात्समुत्थाय परज्योतिरुपसम्पन्नस्य […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.