श्रीभाष्यम् 04-04-04 सङ्कल्पाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये संकल्पाधिकरणम्॥४॥

(अधिकरणार्थः – मुक्तात्मनोऽपि ज्ञात्यादिरूपेष्टार्थसम्पत्तिः)

५३१. संकल्पादेव तच्छ्रुते:

(अवान्तरसङ्गतिः – विचारणीयो विषयश्च)

मुक्त: परं ब्रह्मोपसम्पद्य ज्ञानस्वरूपोऽपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणक आविर्भवतीत्युक्तम्; तमधिकृत्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहारा: श्रूयन्ते तत्र पर्येति जक्षत्क्रीडन्रममाण: स्त्रीभिर्वायानैर्वा ज्ञातिभिर्वा (छां.८.१२.३) इति ।

(विचारोपयोगी संशयः)

किमस्य ज्ञात्यादिप्राप्ति: प्रयत्नान्तरसापेक्षा, उत परमपुरुषस्येव सङ्कल्पमात्रादेव भवतीति विशये;

(युक्तितः पूर्वः पक्षः)

लोके राजादीनां सत्यसंकल्पत्वेन व्यवह्रियमाणानां कार्यनिष्पादने प्रयत्नान्तरसापेक्षत्वदर्शनादस्यापि तत्सापेक्षा –

(सूत्रतः सिद्धान्तः)

इति प्राप्त उच्यते -सङ्कल्पादेव – इति । कुत:? तच्छ्रुते: यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति (छा.८.२.१) इति हि सङ्कल्पादेव पित्रादीनां समुत्थानं श्रूयते। न च प्रयत्नान्तरसापेक्षत्वाभिधायि श्रुत्यन्तरं दृश्यते; येनास्य सङ्कल्पादेव इत्यवधारणस्य विज्ञानघन एव (बृ.४.४.१२) इतिवद्व्यवस्थापनं क्रियते॥८॥

(मुक्तस्याकर्मवश्यताया अनेनैव सिद्धिः)

५३२. अत एव चानन्याधिपति:

यतो मुक्तस्सत्यसङ्कल्प:; अत एवानन्याधिपतिश्च। अन्याधिपतित्वं हि विधिनिषेधयोग्यत्वम्। विधिनिषेधयोग्यत्वे हि प्रतिहतसङ्कल्पत्वं भवेत् । अतस्सत्यसङ्कल्पत्वश्रुत्यैवानन्याधिपतित्वं च  सिद्धम् । अत एव  स्वराड्भवति (छा.७.२५.२) इत्युच्यते ॥९॥

इति श्रीशारीरकमीमांसाभाष्ये सङ्कल्पाधिकरणम्॥४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.