श्रीभाष्यम् 04-04-02 अविभागेनदृष्टत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये  अविभागेनदृष्टत्वाधिकरणम्

(अधिकरणार्थः – मुक्तस्य मोक्षदशायां स्वानुभवः, स्वात्मभूतपरमात्मापृथग्भावेनेति निरूपणम्)

५२७. अविभागेन दृष्टत्वात्

(विचारोपयोगी विषयगर्भः संशयः)

किमयं परं ज्योतिरुपसम्पन्न: सर्वबन्धविनिर्मुक्त: प्रत्यगात्मा स्वात्मानं परमात्मन: पृथग्भूतमनुभवति, उत तत्प्रकारतया तदविभक्तम् – इति विशये

(पूर्वः पक्षः)

सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपिश्चता (तै.आन.१.२)  यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्।  तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३)  इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: सर्गेऽपि नोपजायन्ते प्रलये व्यथिन्त (भ.गी.१४.२) इत्यादिश्रुतिस्मृतिभ्यां मुक्तस्य परेण साहित्यसाम्यसाधर्म्यावगमात् पृथग्भूतमनुभवति-

(सूत्रतः सिद्धान्तार्थः)

इति प्राप्त उच्यते – अविभागेन – इति । परस्माद्ब्रह्मण: स्वात्मानमविभागेनानुभवति मुक्त:। कुत:? दृष्टत्वात् – परब्रह्मोपसम्पत्त्या निवृत्ताविद्यातिरोधानस्य याथातथ्येन स्वात्मनो दृष्टत्वात् । स्वात्मन: स्वरूपं हि तत्त्वमसि (छा.६.८.७) अयमात्मा ब्रह्म (बृ.उ.६.४.५) ऐतदात्म्यमिदं सर्वं (छां.६.८.७) सर्वं खल्विदं ब्रह्म (छा.३-१४-१) इत्यादिसामानाधिकरण्यनिर्देशै:  आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा वेद यस्याऽत्मा शरीरं आत्मानमन्तरो यमयति आत्माऽन्तर्याम्यमृत: (बृ.५.७.२२) अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.आ.१.३.२१) इत्यादिभिश्च परमात्मात्मकं तच्छरीरतया तत्प्रकारभूतमिति प्रतिपादितम्;  अवस्थितेरिति काशकृत्स्न: (शारी.१.४.२२) इत्यत्र। अतोऽविभागेन  अहं ब्रह्मास्मि इत्येवानुभवति।

(साम्यादिशब्दतात्पर्यम्)

साम्यसाधर्म्यव्यपदेशो ब्रह्मप्रकारभूतस्यैव प्रत्यगात्मन: स्वरूपं तत्सममिति देवादिप्राकृतरूपप्रहाणेन ब्रह्मसमानशुद्धिं प्रतिपादयति। सहश्रुतिस्त्वेवंभूतस्य प्रत्यगात्मन: प्रकारिणा ब्रह्मणा सह तद्गुणानुभवं प्रतिपादयतीति न कश्चिद्विरोध:। ब्रह्मप्रकारतया तदविभागोक्तेर्हि  सङ्कल्पादेव तच्छ्रुते: (शारी.४.४.८) इत्यादि न विरुध्यते, अधिकन्तु भेदनिर्देशात् (शारी.२.१.२२)   अधिकोपदेशात् (शारी.३.४.८) इत्यादि च ॥४॥

इति श्रीशारीरकमीमांसाभाष्ये अविभागेनदृष्टत्वाधिकरणम्॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.