विषयवाक्यदीपिका इन्द्रप्राणाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। इन्द्रप्राणाधिकरणम् प्राणस्तथानुगमात् ।। (ब्र.सू.1.1.29)कौषीतकिब्राह्मणे प्रतर्दनविद्यायाम् ।।प्रतर्दनो हवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च ।।दिवोदासस्यापत्यं दैवोदासिः नाम्ना प्रतर्दनः युद्धसाधनबलेन शौर्येण च युतः इंद्रस्य प्रियं स्थानं स्वर्गमुपगत इत्यर्थः ।तँ हेन्द्र उवाच । प्रतर्दन वरं वृणीष्वेति ।।स्पष्टोऽर्थः ।।स होवाच प्रतर्दनः त्वमेव मे वरं वृणीष्व । यं […]

विषयवाक्यदीपिका ज्योतिरधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। ज्योतिरधिकरणम् ज्योतिश्चरणाभिधानात् (ब्र.सू.1. 1. 27 )छोंदोग्ये तृतीयाध्याये द्वादशखण्डस्योपक्रमे ।।चतुष्पात्त्वषाड्विध्याभ्यां ब्रह्मणो गायत्रीसादृश्यानुसंधानरूपा विद्याप्रस्तूयते “इन्द्रःशचीपतिः । बलेन पीडितः । दुःश्चयवनो वृषा । समित्सुसासहिः” । इति हि गायत्री चतुष्पदा । एकैकस्य पादस्य षडक्षरात्मकतया षडक्षरपादवत्त्वेन षड्विधा च । एवं ब्रह्मणोऽपि भूतशब्दितात्मवर्ग एकःपादः, कर्मार्जितभोगस्थानरूपः पृथिवीलोक एकः पादः, भोगोपकरणं शरीरमेकःपादः, […]

विषयवाक्यदीपिका प्राणाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। प्राणाधिकरणम् अतएवप्राणः (ब्र.सू.1.1.24)छांदोग्ये प्रथमे नवमे-मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ।।चक्रस्य सुतः उषस्तिनामा कश्चन ऋषिः अश्मवृष्टिकृतदुर्भिक्षदूषितेषु कुरुदेशेषु आटिक्या अनुपजातपयोधरादिव्यंजनयाभार्यया सह इभ्यानां गजारोहाणां ग्रामे प्रद्राणकः अनशनेन कुत्सितांगतिमापन्नः ब्रह्मविद्यानिष्पत्तये प्राणानामनवसादं कांक्षन्नुवास ।द्राकुत्सायांगताविति हि धातुः । चक्रस्य गोत्रापत्यमित्यर्थे अश्वादित्वात् “फञि” चाक्रायण इति रूपम् ।।1।।स हेभ्यं […]

विषयवाक्यदीपिका आकाशाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। आकाशाधिकरणम् आकाशस्तल्लिंगात् (ब्र.सू.1.1.23)छांदोग्ये प्रथमप्रपाठकेऽष्टमखण्डे ।त्रयो होद्गीथे कुशलाबभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ।।शालावत्सुतः शिलकनामा दाल्भ्यः दल्भगोऽत्राश्चिकितायनसुतः प्रवाहणो नामाजिवलसुतश्च त्रय एते उद्गीथविज्ञानेनिपुणाबभूवुरित्यर्थः । शालावच्छब्दादपत्यार्थेऽण्तदंतात्स्वार्थे “अभिजिद्विदभृच्छालावत्”(अष्टा.5.3.108) इत्यादिना यञ्प्रत्ययः ।दल्भशब्दाद्गोत्रापत्येगर्गादित्वाद्यञ् । चिकितायनशब्दादपत्यार्थे ऋषित्वादणिचैकितायनः जिवलशब्दात् “अतइञ्”(2) (अष्टा.4.1.95) जैवलिः ।।ते होचुरूद्गीथे वै कुशलाः स्मःहंतोद्गीथे क थां वदाम इति ।।वयमुद्गीथाविज्ञाने […]

विषयवाक्यदीपिका अन्तरधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अन्तरधिकरणम् अन्तस्तद्धर्मोपदेशात् ।1।1।21।। छांदोग्येप्रथमाध्यायेषष्ठखण्डे ।।अथ यएषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ।।आदित्यमण्डलस्यमध्ये हिरण्मयः कमनीयविग्रहः यः पुरुषोयोगिभिर्दृश्यत इत्यर्थः ।”दृश्यतेत्वग्रयाया बुद्ध्यासूक्ष्मया सूक्ष्मदर्शिभिः”इतिश्रुत्यैकार्थ्यात् । “हिरण्मय इति रूपसामान्याच्चन्द्रमुखवत्” इति वाक्यकारः । ततश्च हिरण्मयशब्दस्य न मुख्यार्थोग्राह्य इति वाक्यकाराभिप्रायः । ततश्च हिरण्मयत्वमुज्जवलत्वमित्यर्थः । अतो नीलतोयदाभस्यापि हिरण्मयत्वे नानुपपत्तिः । यद्वा “कच्चिन्नतद्धेमसमानवर्णम् । तस्याननम्” […]

विषयवाक्यदीपिका आनन्दमयाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। आनन्दमयाधिकरणम् आनन्दमयोऽभ्यासात् (ब्र.सू.1।1।13) परमतत्त्वहितपुरुषार्थप्रतिपादिकानन्दवल्ली प्रस्तूयते ।।ब्रह्मविदाप्नोति परम् ।।निरतिशयबृहत्वाश्रयवस्तूपासकः सर्वेभ्य उत्कृष्टं ब्रह्म प्राप्नोतीत्यर्थः । “आवृत्तिरसकृदुपदेशात् (ब्र.सू.4.1.1)” इत्यधिकरणोक्तन्यायेन वेदनोपासनादिशब्दानामेकार्थत्वात् । ब्रह्मविदित्यत्र विच्छब्दोप्युपासनपरःतत्क्रतुन्यायेन प्राप्यस्यैवोपास्यत्वात् ।”ब्रह्मविदाप्नोतिपरम्” इति परस्यब्रह्मणः प्राप्यत्वकथनात्तस्यैवोपास्यत्वमिति द्रष्टव्यम् । अत्र ब्रह्म तद्वेदनं प्राप्तिः प्राप्यं चेति चतुष्टयमुक्तम् । किं तद्ब्रह्म कीदृशं तद्वेदनं कीदृशी प्राप्तिः कीदृशं च प्राप्यमित्याकांक्षायां […]

विषयवाक्यदीपिका ईक्षत्यधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। ईक्षत्यधिकरणम् ईक्षतेर्नाशब्दम् । (ब्र.सू.1.1.5)प्रकृतिश्चप्रतिज्ञादृष्टान्तानुपरोधात् । (ब्र.सू.1.4.22) तदनन्यत्वमारम्भणशब्दादिभ्यः ।(ब्र.सू.2.1.15)संज्ञामूर्ति क्लप्तिस्तुत्रिवृत्कुर्वतउपदेशात् । (ब्र.सू.2.4.17) अनारब्धकार्ये एव तु पूर्वे तदवधेः।।(ब्र.सू.4.1.15)वाङ्मनसि दर्शनाच्छब्दाच्च ।। (ब्र.सू.4.2.1.) इत्यादिविषयवाक्यार्थावगत्यर्थं सद्विद्या व्याख्यायते ।। छांदोग्ये षष्ठाऽध्यायोपक्रमे स्पष्टा ।। श्वेतकेतुर्हारुणेय आस । हः प्रसिद्ध्यर्थः । अरुणपुत्रस्योद्दालकस्य पुत्रः श्वेतकेतुनामाबभूवेत्यर्थः । “तँ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न […]

विषयवाक्यदीपिका समन्वयाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। समन्वयाधिकरणम् तत्तु समन्वयात् ।। (ब्र.सू.1.1.4 ) सपर्यगाच्छुक्रमकायमव्रणम् अस्नाविरं शुद्धमपापविद्धम् ।कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदघाच्छा श्वतीभ्यस् समाभ्यः (ई.श.उ.मं) पर्यगात्-परितोव्याप्तवान् । शुक्रमित्यादौलिंगव्यत्त्ययश्छांदसः । शुक्रं-(तेजिष्ठः ) ।अकायं कर्मफलभोगार्थशरीररहितः । अव्रणं कायाभावादेव व्रणरहितः । अत एवअस्नाविरं-स्नायुशून्यः । शुद्धः-अविद्यारागद्वेषादिशून्यः । अपापविद्धश्च । कविः-क्रान्तदर्शी ।मनीषी-मनीषा स्रष्टव्यालोचनरूपज्ञानं तद्वान् । परिभूः-सर्वदेशव्यापनशीलः । स्वयम्भूः -उत्पादकशून्यः […]

विषयवाक्यदीपिका जन्माद्यधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अथ विषयवाक्यदीपिका ।(श्रीरङ्गरामानुजमुनिप्रणीता) अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया ।अञ्जनाचलश्रृङ्गारमञ्जलिर्मम गाहताम् ।।1।। व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान्गुरूनपि ।भाष्योदाहृतवेदान्तवाक्यार्थस्संप्रकाश्यते ।।2।। विस्तृतोपनिषद्भाष्यप्रवेशाक्षमचेतसाम् ।अनुग्रहेण साफल्यं कृतिरेषा प्रपत्स्यते ।।3।। जन्माद्यधिकरणम् जन्माद्यस्त यतः (ब्र.सू.1-1-2) भृगुवल्ल्यां श्रूयते “यतो वा इमानि भूतानि जायंते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व तद्ब्रह्मेति” ।जीवन्ति – येनात्मभूतेन जीवंतीत्यर्थः । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.