विषयवाक्यदीपिका आकाशाधिकरणम्

॥ श्रीरस्तु ॥

॥ श्रीमते रामानुजाय नमः॥

।। विषयवाक्यदीपिका ।।

।।श्रीरङ्गरामानुजमुनिप्रणीता।।

आकाशाधिकरणम्

आकाशस्तल्लिंगात् (ब्र.सू.1.1.23)छांदोग्ये प्रथमप्रपाठकेऽष्टमखण्डे ।त्रयो होद्गीथे कुशलाबभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ।।शालावत्सुतः शिलकनामा दाल्भ्यः दल्भगोऽत्राश्चिकितायनसुतः प्रवाहणो नामाजिवलसुतश्च त्रय एते उद्गीथविज्ञानेनिपुणाबभूवुरित्यर्थः । शालावच्छब्दादपत्यार्थेऽण्तदंतात्स्वार्थे “अभिजिद्विदभृच्छालावत्”(अष्टा.5.3.108) इत्यादिना यञ्प्रत्ययः ।दल्भशब्दाद्गोत्रापत्येगर्गादित्वाद्यञ् । चिकितायनशब्दादपत्यार्थे ऋषित्वादणिचैकितायनः जिवलशब्दात् “अतइञ्”(2) (अष्टा.4.1.95) जैवलिः ।।ते होचुरूद्गीथे वै कुशलाः स्मःहंतोद्गीथे क थां वदाम इति ।।वयमुद्गीथाविज्ञाने कुशलाभवामः अतो विद्यावैशद्याय वादकथां परस्परं प्रवर्तयाम इत्यूचुरित्यर्थः ।।2।।तथेति ह समुपविविशुः ।।एकत्रोपविष्टवंत इत्यर्थः ।स ह प्रवाहणो जैवलिरुवाच ।।प्रवाहणः क्षत्रियः तौ ब्राह्मणौ प्रागल्भ्यादुवाचेत्यर्थः ।भगवंतावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति ।।भगवंतौ पूजावंतौ ब्राह्मणौ अग्रे वादकथां कुरुताम् तत्प्रकारं श्रोष्यामीति ।स ह शिलकश्शालावत्यश्चेकितायनं दाल्भ्यमुवाच हंत त्वा पृच्छानीति । पृच्छेति होवाच ।स्पष्टोऽर्थः ।।का साम्नो गतिरिति ।।गतिरयनं प्राप्यमित्यर्थः ।स्वर इति होवाच ।।स्वरात्मकत्वात्साम्न इति भावः ।स्वरस्य का गतिरिति ।। प्राण इति होवाच ।।प्राणनिर्वर्त्यत्वास्वरस्येति भावः । एवमुत्तरत्राप्यौचित्यमनुसन्धेयम् ।।प्राणस्य कागतिरित्यन्नमिति होवाच । अन्नस्य कागगतिरित्याप इति होवाच ।।4।। अपां कागतिरित्यसौ लोक इति होवाच ।।द्युलोकादेव वृष्टिप्रभवादिति भावः ।।अमुष्य लोकस्य का गतिरिति न वै परं स्वर्गं लोकमतिनयेदिति होवाच ।।स्वर्गंलोकमतीत्यपरमाश्रयांतरं साम न नयेत् इति स्वर्गलोकव्यतिरिक्तमाश्रयांतरं साम न प्रापयेदित्यर्थः । न वदेदिति यावत् ।स्वर्गं वयं लोकं सामाभिसंस्थापयामः स्वर्गसंस्तवँ हि सामेति ।।अतो वयमपि सामाभिसाम प्रति आश्रयत्वेन स्वर्गं लोकं सम्यक्संस्थापयामः “स्वर्गो वै लोकः सामवेद” इति श्रुत्या स्वर्गत्वेन साम्नः स्तूयमानत्वादत्यिर्थः ।।5।।तं ह शिलकः शालावत्य उवाच अप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हिब्रूयान्मूर्द्धा ते विपतीष्यतीति मूर्द्धा ते विपतोदिति ।।हे दाल्भ्य अप्रतिष्ठितं स्वर्गंलोकं सामगतिपरंपराविश्रांतिभूमिं वदतस्तवमतेसाम अप्रतिष्ठितमेव स्यात् एवस्मिन्समये यः कश्चिदागत्य वादकथायामयुक्तमर्थं प्रति जानानस्य ते मूर्धा व्यपतिष्यतीति यदि ब्रूयात्तदाविपतेदेव न संशयः । मया तु सौहार्दात्तथा नोक्तमतो जीवसीति शिलक उक्तवानित्यर्थः ।।6।।हंता ह मे तद्भगवत्तो वेदानीति विद्धीति होवाच ।।तर्ह्यहं सामगतिपरंपराविश्रांतिभूमिं त्वत्तो जानीयामिति प्रार्थितः तथेत्युक्तवानित्यर्थः ।अमुष्य लोकस्य का गतिरित्यं लोक इति होवाच ।।यागदानहोमादिभिर्भूलोकस्य स्वर्गोपजीव्यत्वादितिभावः ।अस्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयं लोकँ सामाभिसंस्थापयामःप्रतिष्ठासंस्त वँ हि सामेति ।।पृथिवीलोकस्य कागतिरिति दाल्भ्येन पृष्टः शिलकः प्रतिष्ठां पृथिवीलोकमतिक्रम्य सामगतिपरंपराविश्रांतिभूमिमन्यन्न कश्चिदपि वदेत् । अतो वयमपि तथैव वदामः “इयं वै रथंतरम्’ इति श्रुत्या साम्नः प्रतिष्ठालोकत्वेन स्तूयमानत्वात् । स्वर्गस्य ज्योतिश्चक्रलग्नतया बंभ्रम्यमाणत्वेन प्रतिष्ठात्वाभावेपि पृथिव्यास्तु स्थिरत्वात्प्रतिष्ठात्वमित्युक्तवानित्यर्थः ।।7।।तँ ह प्रवाहणे जैवलिरुवाच अंतवद्वै किल ते शालावत्य साम ।।अंतवतीं पृथिवीं सामगतिपरंपराविश्रांतिभूमितया प्रतिजानानस्य ते मते सामान्तवदेव स्यादित्यर्थः ।यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्द्धा ते विपतेदिति हंता हमेतद्भगवत्तो वेदानीति विद्धीति होवाच ।।पूर्ववदर्थः ।।अस्य लोकस्य का गतिरित्याकाश इति होवाच ।।अस्य पृथिवीलोकस्य कागतिरिति शालावत्येन पृष्टः प्रवाहणः आकाश इत्युक्तवानित्यर्थः ।अत्राकाशते आकाशयतीति वा व्युत्पत्त्या आकाशशब्दो ब्रह्मपरः । “आकाशो ह वै नामरूपयोर्निर्वहिता” (छां.8.14.2) इत्यादावाकाशशब्दस्य ब्रह्मण्यपि प्रसिद्धत्वात् । न तु भूताकाशपर इतिद्रष्टव्यम् । तदेवगतित्वं प्रपञ्चयति ।।सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यंस्तंयन्ति ।।चिदचिदात्मकः प्रपञ्चः आकाशादेवोत्पद्यते तत्रै व लीयते इत्यर्थः ।।आकाशो ह्येवैतेभ्यो ज्यायान् ।ज्यायस्त्वं नाम सर्वैः कल्याणगुणैः सर्वेभ्यो निरतिशयनिरूपाधिकोत्कर्षः ।आकाशः परायणम् ।परायणत्वं परमगतित्वम् । परमप्राप्यत्वमिति यावत् ।स एष परोवरीयानुद्गीथः ।परः उत्कृष्टः । वरीयान् वरीयसामपि वर इत्यर्थः । अत्र परः शब्दः सकारान्तोद्रष्टव्यः । एवंरूप आकाश उद्गीथः परमात्मदृष्टिविशिष्ट उद्गीथ इत्यर्थः । उद्गीथे एतादृशाकाशदृष्टिः कर्तव्येति यावत् ।स एषोऽनन्तः ।।उद्गीथे अध्यस्यमानः अयमाकाशोऽनन्तः अपरिच्छिन्न इत्यर्थः । ततश्चानन्तस्याकाशशब्दितस्य परमात्मन एव सामगतिपरंपराविश्रांतिभूमित्वान्मत्पक्षे अन्तवद्वै किल ते सामेत्युक्तोऽन्तवत्त्वदोषो न प्रसरतीति भावः ।।परोवरीयो हास्य भवति । परोवरीयसो ह लोकाञ्चयति । एतमेवं विद्वान्परोवरीयां समुद्गीथमुपास्ते ।यःपरोवरीयांसमेतमाकाशशब्दितं परमात्मानं विद्वान् आकाशत्वेनोद्गीथमुपास्ते तस्य परोवरीयस्त्वगुणकं जीवनं भवति परोवरीयस्त्वगुणकसकललोकावाप्तिश्च भवति । प्रवाहण उद्गीथं संवादयति ।तँ हैनमतिधन्वा शौनक उदरशांडिल्यायोक्त्वोवाच ।।अतिधन्वनामा शुनकसुतः उदरशांडिल्यायर्षये । उदरशब्देन संततिर्लक्ष्यते । संततिशांडिल्यायेत्यर्थः । एतमुद्गीथमुक्त्वा अन्यदप्युवाचेत्यर्थः । किं तदित्यत्राह ।यावन्त एनं प्रजायामुद्गीथं वेदिष्यंते परोवरीयो ह्येभ्यस्तावदस्मिल्लोंके जीवनं भविष्यति तथामुष्मिल्लोंके लोक इति ।।लोकेलोकइति वीप्सायां द्विर्वचनम् । यावन्तः पुरुषाः उद्गीथमुपासिष्यंते तेषामुत्कृष्टमिह लोके जीवनं भविष्यति तथा सर्वस्मिन्नपि परलोके भविष्यतीति । वेदिष्यंते इत्येतद्व्त्ययेनात्मनेपदम । इतीति । अतिधन्वा उवाचेति पूर्वेणान्वयः । अत इदानींतनानामपि तद्विदां तत्फलमस्तीत्याह ।।स य एतमेवं विद्वानपास्ते ।। परोवरीय एव हास्यास्मिल्लोंके जीवनं भवति ।तथामुष्मिलोके लोक इति ।।लोके लोक इति द्विरुक्तिर्विद्यासमाप्त्यर्था ।।4।।।। इति नवम खण्डः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.