नवतिरुप्पदि माहात्मियम् Part 2
बृह्माण्डपुराणान्तर्गत नवतिरुपति माहात्मियम् (Continued) तिरुप्पेरै मकरायतकर्णपाशस्वामि माहात्मियम् एकोनविम्शोऽध्यायः ध्यानम् प्रख्याते मकराङ्गकुण्डलधराः प्रालम्बिकर्णाह्वयम्- तद्वल्यासह पार्वदीशवरदाच्चासीनरूपो हरिः। यो वै भद्रविमानमध्यविलसत् श्रीशङ्खतीर्थान्विके- तस्मिन् दक्षिणदिग्बृहद्वरपुरै ध्यायामि तम् प्राङ्मुखम्॥ भगवन् सर्वधर्मज्ञ पुराणार्थ विचक्षण। वक्तुमर्हसि भूयस्त्वम् क्षेत्राख्यानम् मधुद्विषः। इत्थपः सु पृष्ठः स विधातृनन्दनो भक्तः पुराणे पुरुषोत्तमोत्तमे। हरेःकथाम् मङ्गळनादहर्षितम् उवाचवाक्यम् जगतीपतिम् तदा। शृणुष्व राजन्! मधुकैटभारेः क्षेत्रस्य माहात्म्य मथापरम् च। सर्वार्थदम् साधु सुपूजितम् […]
नवतिरुप्पदि माहात्मियम् Part 1
श्रीवैकुण्ठनाथ विजयासन भूमिपाल-देवेशपङ्कजविलोचनचोरनाट्यान् । निक्षेपवित्त मकरायतकर्णपाशौ-नाथम् नमामि वकुळाभरणेनसार्धम् । बृह्माण्डपुराणान्तर्गत नवतिरुपति माहात्मियम् श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे ताम्रातटक्षेत्रप्रशम्सा प्रथमोऽध्यायः शुक्लाम्बरधरम्विष्णुम् शशिवर्णम् चतुर्भुजम् । प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये । व्यासायविष्णुरूपाय व्यासरूपायविष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः । श्रीशैलेशदयापात्रम् धीभक्त्यादि गुणार्णवम् । यतीन्द्रप्रवणम् वन्दे रम्यजामातरम् मुनिम् । नैमिशेपुण्यनिलये क्षेत्रे बहुगुणान्विते । सत्रम्कर्तुम् समायाताः ऋषयोब्रह्मवादिनः । भारद्वाजोगौतमश्च कण्वः कात्यायनोसितः । अङ्गिरा […]
श्रीमद् भूतपुरीमाहात्म्यम् Part 2
श्री: ।। श्रीयतिराजवल्ली समेत श्री आदिकेशव परब्रह्मणे नमः ।। ।। श्रीमते रामानुजाय नमः ।। श्रीमद् भूतपुरीमाहात्म्यम् (श्रीस्कान्द पुराणान्तर्गत स्कन्द अगस्त्यसम्वादः) अध्यायः१ सूतं प्रति महर्षिकृतप्रश्नप्रकारः हरितवृत्तान्तश्च । पुण्ये तु नैमिषारण्ये पुरा धर्मविदाम् वरम् । महर्षयस्सूतपुत्रम् पप्रच्छुरिदमादरात् ।। १ ।। मुनयः- सूत! सूत! महाप्राज्ञ! सर्वशास्त्रविशारद! । त्वमेव सकलम् वेत्सि नान्यस्त्वत्सदृशो भुवि ।। २ ।। मुनेर्भगवतस्साक्षाद् व्यासस्यामिततेजसः […]
हस्तिगिरि दर्शनम् Part 3
|| हस्त्यद्रि सम्बन्धि सन्दोहः || || हस्तिगिरि दर्शनम् Part 3|| HASTHIGIRI DARSANAM Part 3 (सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्) श्रीः श्रीमते रामानुजाय नमः श्रीब्राह्मपुराणान्तर्गतं श्रीहस्तिगिरिमाहात्म्यम् (Continued) अथ श्रीहस्तिगिरिमाहात्म्ये दशमोऽध्यायः भृगुः – वरदं पुण्यकोट्यन्तर्वरदं वेदिमध्यगम् । कियन्तं कालमेकाग्र्यः पूजयामास पद्मभूः ।। (१) नारदः – यावत् त्रेतायुगप्राप्तिः तावत् ब्रह्माप्यपूजयत् । जितेन्द्रियो जितक्रोधो यतवाक्कायमानसः ।। (२) दिव्यैर्भोगैर्दिवानक्तं स्तुतिभिर्वन्दनैरपि । ध्यानैः प्रदक्षिणैः स्तोत्रैस्तोषयामास केशवम् […]
हस्तिगिरि दर्शनम् Part 2
|| हस्त्यद्रि सम्बन्धि सन्दोहः || || हस्तिगिरि दर्शनम् Part 2|| HASTHIGIRI DARSANAM Part 2 (सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्) श्रीः श्रीमहादेवीनायिका–समेत–श्रीदेवाधिराज–परब्रह्मणे नमः श्रीमत्प्रणतार्तिहर–वरद–परब्रह्मणे नमः श्रीमते रामानुजाय नमः श्रीब्राह्मपुराणान्तर्गतं श्रीहस्तिगिरिमाहात्म्यम् स्वस्त्यस्तु । समस्तमङ्गलानि सन्तु । श्लोकैकदेश–श्रवण–पठनमात्रेण वक्तुः श्रोतृणां च धर्मादिनिखिल–पुरुषार्थसिद्धिप्रदे श्रीब्राह्म्ये पुराणे भृगु–नारद–संवादे श्रीहस्तिगिरिमाहात्म्ये प्रथमोऽध्यायः भृगुः – भगवन् मुनिशार्दूल वर्णाश्रमसमाश्रिताः । आख्याता बहवो धर्माः भवता मे सनातनाः ।। (१) […]
हस्तिगिरि दर्शनम् Part 1
|| हस्त्यद्रि सम्बन्धि सन्दोहः || || हस्तिगिरि दर्शनम् Part 1|| HASTHIGIRI DARSANAM Part 1 (सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्) श्रीदेवराज सुप्रभातम् कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ मातः प्रसन्नवरदप्रियवल्लभे त्वां फुल्लारविन्दविलसच्चरणैकसेव्याम् । कल्हारहस्तकलितात्ममुखानुकारां अग्रे वराभयकरां शरणं प्रपद्ये ।। १ द्विरदाद्रिसीम्नि वरदाख्यदैवतं परमं […]
श्रीमद् भूतपुरीमाहात्म्यम् Part 1
|| भूतपुरी दर्शनम् || Part 1 (सुप्रभात–मङ्गलाशासन–प्रपत्ति–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्) EMPERUMANAR (chithirai – thiruvadhirai) एम्बेरुमानार्, उडैयवर्, श्रीभाष्यकारः भगवद्रामानुजः दर्शनस्थापकाचार्यः–उभयवेदान्तप्रवर्तकाचार्यः उभयविभूतिसाम्राज्यप्रदायकाचार्यः–चतुस्सप्ततिपीठाढचः, पञ्चाचार्यपदाश्रयः मेषार्द्रासम्भवं विष्णोर् दर्शन-स्थापनोत्सवम्। तुण्डीरमण्डले शेष-मूर्तिम् रामानुजं भजे॥ அத்திகிரி அருளாளர் அடிபணிந்தோன் வாழியே அருட்கச்சி நம்பியுரை ஆறுபெற்றோன் வாழியே பத்தியுடன் பாடியத்தைப் பகர்ந்திட்டான் வாழியே பதின்மர்கலை உட்பொருளைப் பரிந்துகற்றான் வாழியே சுத்தமகிழ் மாறனடி தொழுதுய்ந்தோன் வாழியே தொல் பெரிய நம்பி சரண் தோன்றினான் வாழியே சித்திரையில் ஆதிரை நாள் சிறக்க வந்தோன் […]
यादवाद्रिदर्शनम् Part 9
श्रीरस्तु श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीनारदपुराणान्तर्गत-श्रीमद्यादवागिरिमाहात्म्यम् अथ नवमोऽध्यायः दत्तात्रेयकृत पाषण्डनिरसनम् मुनयः – आकर्णितो महाभाग वर्णितो भवता मुने । हरिभक्तापराधेषु परिहारोऽयमद्भुतः ।। (१) दत्तात्रेयो मुनिश्रेष्ठः कथं पापण्डदर्शनम् । निराचक्रे सहाम्नायैः पुरा नारायणाचले ।। (२) पुराणं वा कथं चक्रे तत्र पुण्यं पराशरः । उभयं चैतदाचक्ष्व महत्कौतूहलं हि नः ।। (३) नारदः – काणादशाक्यपाषण्डप्रमुखैर्दुष्टवादिभिः । नष्टं […]
यादवाद्रिदर्शनम् Part 8
श्रीरस्तु श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीनारदपुराणान्तर्गत-श्रीमद्यादवागिरिमाहात्म्यम् अथ षष्ठोऽध्यायः श्रीरामस्य नारायणमूर्तिलाभः मुनयः – उक्तं हि भवता सर्वं भगवन्मुनिपुङ्गव । अस्माकं कर्णयोरासीदमृतस्यन्दिसेचनम् ।। (१) तथाऽप्यस्माकमपरं वक्तुं त्वं किञ्चिदर्हसि । वासुदेवकथां वक्तुं त्वत्तः कोऽन्यो विशारदः ।। (२) नारदः – मुनयः पृच्छताशेषं यद्युष्माकं विवक्षितम् । अविवक्षितवक्तृत्वं विदुषां हि न युज्यते ।। (३) मुनयः – यद्रूपं ब्रह्मणे दत्तं […]
यादवाद्रिदर्शनम् Part 7
श्रीरस्तु श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीनारदपुराणान्तर्गत–श्रीमद्यादवागिरिमाहात्म्यम् प्रथमोऽध्यायः व्यासादीनां बदरीस्थ–नारायण–समीपगमनम् एकदा मुनयः सर्वेऽप्यैकान्त्येन व्यवस्थिताः । प्रापुर्नारायणं देवं नरनारायणाश्रमे ।। (१) व्यासो वसिष्ठः कपिलो मार्कण्डेयश्च काश्यपः । अत्रिर्दक्षो भरद्वाजः विश्वामित्रश्च शौनकः ।। (२) गौतमो जमदग्निश्च पुलस्त्यः कुम्भसम्भवः । वाल्मीकिर्वामदेवश्च वैशम्पायनभार्गवौ ।। (३) एते चान्ये च मुनयः सर्वे विष्णुपरायणाः । सर्वे वेदार्थतत्वानां निर्णेतारो युगे युगे […]