आरण्यकपर्वम् अध्यायः 01-31
श्रीः श्रीमहाभारतम् ||३ आरण्यकपर्वम् || 001-अध्यायः जनमेजय उवाच|| एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः | धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ||१|| श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम् | किमकुर्वन्त कौरव्या मम पूर्वपितामहाः ||२|| कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः | वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ||३|| के चैनानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् | किमाहाराः किमाचाराः क्व च वासो महात्मनाम् ||४|| कथं द्वादश वर्षाणि वने तेषां महात्मनाम् […]