आरण्यकपर्वम् अध्यायः 276-299

श्रीमहाभारतम्  ||३ आरण्यकपर्वम् || 276-अध्यायः मार्कण्डेय उवाच|| एवमेतन्महाबाहो रामेणामिततेजसा | प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ||१|| मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परन्तप | बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये ||२|| न हि ते वृजिनं किञ्चिद्दृश्यते परमण्वपि | अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः ||३|| संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना | नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी ||४|| सहायवति सर्वार्थाः सन्तिष्ठन्तीह सर्वशः | […]

आरण्यकपर्वम् अध्यायः 248-275

श्रीमहाभारतम्  ||३ आरण्यकपर्वम् || 248-अध्यायः-द्रौपदीहरणपर्व वैशम्पायन उवाच|| तस्मिन्बहुमृगेऽरण्ये रममाणा महारथाः | काम्यके भरतश्रेष्ठा विजह्रुस्ते यथामराः ||१|| प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः | यथर्तुकालरम्याश्च वनराजीः सुपुष्पिताः ||२|| पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम् | विजह्रुरिन्द्रप्रतिमाः कञ्चित्कालमरिंदमाः ||३|| ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् | मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परन्तपाः ||४|| द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया | महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः ||५|| ततस्तु राजा सिन्धूनां वार्द्धक्षत्रिर्महायशाः | विवाहकामः […]

आरण्यकपर्वम् अध्यायः 219-247

श्रीमहाभारतम्  ||३ आरण्यकपर्वम् || 219-अध्यायः मार्कण्डेय उवाच|| श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् | सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् ||१|| ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः | द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ||२|| वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः | अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः ||३|| अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् | असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ||४|| अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो | त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ||५|| स्कन्द […]

आरण्यकपर्वम् अध्यायः 192-218

श्रीमहाभारतम्  ||३ आरण्यकपर्वम् || 192-अध्यायः धुन्धुमारोपाख्यानम् वैशम्पायन उवाच|| युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ | मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ||१|| विदितास्तव धर्मज्ञ देवदानवराक्षसाः | राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ||२|| न तेऽस्त्यविदितं किञ्चिदस्मिँल्लोके द्विजोत्तम ||२|| कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् | एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज ||३|| कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः | कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ||४|| एतदिच्छामि तत्त्वेन ज्ञातुं […]

आरण्यकपर्वम् अध्यायः 173-191

श्रीमहाभारतम्  ||३ आरण्यकपर्वम् || 173-अध्यायः-आजगरपर्व जनमेजय उवाच|| तस्मिन्कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद्वृत्रहन्तुः | अतः परं किमकुर्वन्त पार्थाः; समेत्य शूरेण धनञ्जयेन ||१|| वैशम्पायन उवाच|| वनेषु तेष्वेव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः | तस्मिंश्च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः ||२|| वेश्मानि तान्यप्रतिमानि पश्य; न्क्रीडाश्च नानाद्रुमसंनिकर्षाः | चचार धन्वी बहुधा नरेन्द्रः; सोऽस्त्रेषु यत्तः सततं किरीटी ||३|| अवाप्य वासं नरदेवपुत्राः; […]

आरण्यकपर्वम् अध्यायः 147-172

श्रीमहाभारतम्  ||३ आरण्यकपर्वम् || 147-अध्यायः वैशम्पायन उवाच|| एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः | भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः ||१|| को भवान्किंनिमित्तं वा वानरं वपुराश्रितः | ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति ||२|| कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः | पाण्डवो वायुतनयो भीमसेन इति श्रुतः ||३|| स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् | हनूमान्वायुतनयो वायुपुत्रमभाषत ||४|| वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् | […]

आरण्यकपर्वम् अध्यायः 110-146

श्रीमहाभारतम्  ||३ आरण्यकपर्वम् || 110-अध्यायः ऋश्यशृङ्गोपाख्यानम् लोमश उवाच|| एषा देवनदी पुण्या कौशिकी भरतर्षभ | विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते ||१|| आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः | ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः ||२|| तपसो यः प्रभावेन वर्षयामास वासवम् | अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा ||३|| मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः | विषये लोमपादस्य यश्चकाराद्भुतं महत् ||४|| […]

आरण्यकपर्वम् अध्यायः 82-109

श्रीमहाभारतम्  ||३ आरण्यकपर्वम् || 082-अध्यायः पुलस्त्य उवाच|| ततो गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम् | तत्र स्नात्वा नरो राजन्धर्मशीलः समाहितः ||१|| आसप्तमं कुलं राजन्पुनीते नात्र संशयः ||१|| ततो गच्छेत धर्मज्ञ कारापतनमुत्तमम् | अग्निष्टोममवाप्नोति मुनिलोकं च गच्छति ||२|| सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः | यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ||३|| सिद्धचारणगन्धर्वाः किंनराः समहोरगाः | तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते […]

आरण्यकपर्वम् अध्यायः 59-81

श्रीमहाभारतम्  ||३ आरण्यकपर्वम् || 059-अध्यायः नल उवाच|| यथा राज्यं पितुस्ते तत्तथा मम न संशयः | न तु तत्र गमिष्यामि विषमस्थः कथञ्चन ||१|| कथं समृद्धो गत्वाहं तव हर्षविवर्धनः | परिद्यूनो गमिष्यामि तव शोकविवर्धनः ||२|| बृहदश्व उवाच|| इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः | सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम् ||३|| तावेकवस्त्रसंवीतावटमानावितस्ततः | क्षुत्पिपासापरिश्रान्तौ सभां काञ्चिदुपेयतुः ||४|| तां सभामुपसम्प्राप्य […]

आरण्यकपर्वम् अध्यायः 32-58

श्रीमहाभारतम्  ||३ आरण्यकपर्वम् || 032-अध्यायः युधिष्ठिर उवाच|| वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः | उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ||१|| नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत | ददामि देयमित्येव यजे यष्टव्यमित्युत ||२|| अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् | गृहानावसता कृष्णे यथाशक्ति करोमि तत् ||३|| धर्मं चरामि सुश्रोणि न धर्मफलकारणात् | आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ||४|| […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.