आरण्यकपर्वम् अध्यायः 219-247

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

219-अध्यायः

मार्कण्डेय उवाच||

श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् |

सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् ||१||

ऋषिभिः सम्परित्यक्ता धर्मयुक्ता महाव्रताः |

द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ||२||

वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः |

अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः ||३||

अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् |

असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ||४||

अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो |

त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ||५||

स्कन्द उवाच||

मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः |

यच्चाभीप्सथ तत्सर्वं सम्भविष्यति वस्तथा ||६||

मार्कण्डेय उवाच||

एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत् |

उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः ||७||

अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा |

इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ||८||

तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् |

कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ||९||

धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः |

रोहिण्याद्योऽभवत्पूर्वमेवं सङ्ख्या समाभवत् ||१०||

एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः |

नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ||११||

विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः |

इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ||१२||

स्कन्द उवाच||

एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् |

स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ||१३||

मार्कण्डेय उवाच||

अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् |

वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ||१४||

इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ||१४||

स्कन्द उवाच||

मातरस्तु भवत्यो मे भवतीनामहं सुतः |

उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ||१५||

मातर ऊचुः||

यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः |

अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् ||१६||

भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ |

प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ||१७||

स्कन्द उवाच||

दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् |

अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ ||१८||

मातर ऊचुः||

इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः |

त्वया सह पृथग्भूता ये च तासामथेश्वराः ||१९||

स्कन्द उवाच||

प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् |

परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः ||२०||

मातर ऊचुः||

परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि |

त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो ||२१||

स्कन्द उवाच||

यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः |

प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ||२२||

अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् |

परमं तेन सहिता सुखं वत्स्यथ पूजिताः ||२३||

मार्कण्डेय उवाच||

ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः |

भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ||२४||

अपतत्स तदा भूमौ विसञ्ज्ञोऽथ क्षुधान्वितः |

स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ||२५||

स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः ||२५||

विनता तु महारौद्रा कथ्यते शकुनिग्रहः |

पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् ||२६||

कष्टा दारुणरूपेण घोररूपा निशाचरी |

पिशाची दारुणाकारा कथ्यते शीतपूतना ||२७||

गर्भान्सा मानुषीणां तु हरते घोरदर्शना ||२७||

अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः |

सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः ||२८||

दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् |

अत्यर्थं शिशुमांसेन सम्प्रहृष्टा दुरासदा ||२९||

कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसम्भवाः |

तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः ||३०||

तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः |

अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः ||३१||

गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप |

शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि ||३२||

सरमा नाम या माता शुनां देवी जनाधिप |

सापि गर्भान्समादत्ते मानुषीणां सदैव हि ||३३||

पादपानां च या माता करञ्जनिलया हि सा |

करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः ||३४||

इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः |

द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे ||३५||

कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा |

भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते ||३६||

गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति |

ततो विलीनगर्भा सा मानुषी भुवि दृश्यते ||३७||

या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा |

उपविष्टं ततो गर्भं कथयन्ति मनीषिणः ||३८||

लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता |

लोहितायनिरित्येवं कदम्बे सा हि पूज्यते ||३९||

पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि |

आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ||४०||

एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः |

यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः ||४१||

ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः |

सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः ||४२||

तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् |

बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः ||४३||

एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् |

आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः ||४४||

ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् |

तानहं सम्प्रवक्ष्यामि नमस्कृत्य महेश्वरम् ||४५||

यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा |

उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ||४६||

आसीनश्च शयानश्च यः पश्यति नरः पितॄन् |

उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ||४७||

अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् |

उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ||४८||

उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् |

उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ||४९||

गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि |

उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ||५०||

आविशन्ति च यं यक्षाः पुरुषं कालपर्यये |

उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ||५१||

अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित् |

उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः ||५२||

यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः |

उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ||५३||

वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् |

उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् ||५४||

कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः |

अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ||५५||

यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् |

अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः ||५६||

अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् |

आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः ||५७||

इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः |

न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ||५८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

220-अध्यायः

मार्कण्डेय उवाच||

यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम् |

अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः ||१||

इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् |

तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ||२||

स्वाहोवाच||

दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज |

बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ||३||

न च मां कामिनीं पुत्र सम्यग्जानाति पावकः |

इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना ||४||

स्कन्द उवाच||

हव्यं कव्यं च यत्किञ्चिद्द्विजा मन्त्रपुरस्कृतम् |

होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम् ||५||

अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः |

एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने ||६||

मार्कण्डेय उवाच||

एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता |

पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् ||७||

ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् |

अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् ||८||

रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया |

हितार्थं सर्वलोकानां जातस्त्वमपराजितः ||९||

उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना |

आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः ||१०||

सम्भूतं लोहितोदे तु शुक्रशेषमवापतत् |

सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि ||११||

आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् ||११||

त एते विविधाकारा गणा ज्ञेया मनीषिभिः |

तव पारिषदा घोरा य एते पिशिताशनाः ||१२||

एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् |

अपूजयदमेयात्मा पितरं पितृवत्सलः ||१३||

अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः |

व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् ||१४||

मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसम्भवम् |

नमस्कार्यं सदैवेह बालानां हितमिच्छता ||१५||

स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः |

वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः ||१६||

एवमेते पिशाचानामसङ्ख्येया गणाः स्मृताः |

घण्टायाः सपताकायाः शृणु मे सम्भवं नृप ||१७||

ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते |

गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता ||१८||

एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा |

पताका कार्त्तिकेयस्य विशाखस्य च लोहिता ||१९||

यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा |

तैरेव रमते देवो महासेनो महाबलः ||२०||

स संवृतः पिशाचानां गणैर्देवगणैस्तथा |

शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः ||२१||

तेन वीरेण शुशुभे स शैलः शुभकाननः |

आदित्येनेवांशुमता मन्दरश्चारुकन्दरः ||२२||

सन्तानकवनैः फुल्लैः करवीरवनैरपि |

पारिजातवनैश्चैव जपाशोकवनैस्तथा ||२३||

कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि |

दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः ||२४||

तत्र देवगणाः सर्वे सर्वे चैव महर्षयः |

मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः ||२५||

तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा |

हृष्टानां तत्र भूतानां श्रूयते निनदो महान् ||२६||

एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् |

प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् ||२७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

221-अध्यायः

मार्कण्डेय उवाच||

यदाभिषिक्तो भगवान्सेनापत्येन पावकिः |

तदा सम्प्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ||१||

रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः ||१||

सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे |

उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः ||२||

ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान् |

सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ||३||

तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह |

विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ||४||

अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह |

आस्थाय रुचिरं याति पुष्पकं नरवाहनः ||५||

ऐरावतं समास्थाय शक्रश्चापि सुरैः सह |

पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ||६||

जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलङ्कृतः |

यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ||७||

तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः |

गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह सङ्गताः ||८||

यमश्च मृत्युना सार्धं सर्वतः परिवारितः |

घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ||९||

यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः |

विजयो नाम रुद्रस्य याति शूलः स्वलङ्कृतः ||१०||

तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः |

परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः ||११||

पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः |

गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः ||१२||

पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् |

कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः ||१३||

तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः |

भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः ||१४||

एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः |

याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ||१५||

ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा |

नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः ||१६||

नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये |

स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ||१७||

सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः ||१७||

पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् |

छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् ||१८||

चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ ||१८||

शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः |

सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ||१९||

गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया |

सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ||२०||

तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः |

यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ||२१||

स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः |

व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा ||२२||

पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ||२२||

एभिः स सहितस्तत्र ययौ देवो यथासुखम् |

अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा ||२३||

रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् |

शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ||२४||

भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ||२४||

देवसेनापतिस्त्वेवं देवसेनाभिरावृतः |

अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ||२५||

अथाब्रवीन्महासेनं महादेवो बृहद्वचः |

सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ||२६||

स्कन्द उवाच||

सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो |

यदन्यदपि मे कार्यं देव तद्वद माचिरम् ||२७||

रुद्र उवाच||

कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि |

दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ||२८||

मार्कण्डेय उवाच||

इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः |

विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् ||२९||

सहसैव महाराज देवान्सर्वान्प्रमोहयत् ||२९||

जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् |

चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो ||३०||

ततस्तद्दारुणं दृष्ट्वा क्षुभितः शङ्करस्तदा |

उमा चैव महाभागा देवाश्च समहर्षयः ||३१||

ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम् |

नानाप्रहरणं घोरमदृश्यत महद्बलम् ||३२||

तद्धि घोरमसङ्ख्येयं गर्जच्च विविधा गिरः |

अभ्यद्रवद्रणे देवान्भगवन्तं च शङ्करम् ||३३||

तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः |

पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः ||३४||

निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः |

क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ||३५||

निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् |

दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ||३६||

असुरैर्वध्यमानं तत्पावकैरिव काननम् |

अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा ||३७||

ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः |

न नाथमध्यगच्छन्त वध्यमाना महारणे ||३८||

अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः |

आश्वासयन्नुवाचेदं बलवद्दानवार्दितम् ||३९||

भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत |

कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ||४०||

जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान् |

अभिद्रवत भद्रं वो मया सह महासुरान् ||४१||

शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः |

दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ||४२||

ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः |

प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह ||४३||

तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे |

शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् ||४४||

तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा |

निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः ||४५||

तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः |

अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः ||४६||

ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि |

त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम् ||४७||

अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः |

संहतानि च तूर्याणि तदा सर्वाण्यनेकशः ||४८||

एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम् |

देवानां दानवानां च मांसशोणितकर्दमम् ||४९||

अनयो देवलोकस्य सहसैव व्यदृश्यत |

तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः ||५०||

ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः |

बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ||५१||

अथ दैत्यबलाद्घोरान्निष्पपात महाबलः |

दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् ||५२||

ते तं घनैरिवादित्यं दृष्ट्वा सम्परिवारितम् |

समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ||५३||

अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् |

पतता तेन गिरिणा देवसैन्यस्य पार्थिव ||५४||

भीमरूपेण निहतमयुतं प्रापतद्भुवि ||५४||

अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् |

अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ||५५||

तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः |

व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः ||५६||

ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ |

अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् ||५७||

यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः |

रेसतू रोदसी गाढं मुमुहुश्च महर्षयः ||५८||

व्यनदंश्च महाकाया दैत्या जलधरोपमाः |

आसीच्च निश्चितं तेषां जितमस्माभिरित्युत ||५९||

तथाभूते तु भगवान्नावधीन्महिषं रणे |

सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ||६०||

महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् |

देवान्सन्त्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन् ||६१||

ततस्तस्मिन्भये घोरे देवानां समुपस्थिते |

आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् ||६२||

लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः |

लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः ||६३||

रथमादित्यसङ्काशमास्थितः कनकप्रभम् |

तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ||६४||

स चापि तां प्रज्वलितां महिषस्य विदारिणीम् |

मुमोच शक्तिं राजेन्द्र महासेनो महाबलः ||६५||

सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत् |

पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ||६६||

क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः |

स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ||६७||

प्रायः शरैर्विनिहता महासेनेन धीमता |

शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः ||६८||

स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसङ्घशः ||६८||

दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् |

क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ||६९||

तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः |

तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ||७०||

सम्पूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् |

शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान् ||७१||

नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम् |

अथाब्रवीन्महासेनं परिष्वज्य पुरंदरः ||७२||

ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः |

देवास्तृणमया यस्य बभूवुर्जयतां वर ||७३||

सोऽयं त्वया महाबाहो शमितो देवकण्टकः ||७३||

शतं महिषतुल्यानां दानवानां त्वया रणे |

निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः ||७४||

तावकैर्भक्षिताश्चान्ये दानवाः शतसङ्घशः |

अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ||७५||

एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति |

त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति ||७६||

वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज ||७६||

महासेनेत्येवमुक्त्वा निवृत्तः सह दैवतैः |

अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः ||७७||

गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः |

उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ||७८||

स हत्वा दानवगणान्पूज्यमानो महर्षिभिः |

एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ||७९||

स्कन्दस्य य इदं जन्म पठते सुसमाहितः |

स पुष्टिमिह सम्प्राप्य स्कन्दसालोक्यतामियात् ||८०||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

222-अध्यायः-द्रौपदिसत्यभामासंवादपर्व

वैशम्पायन उवाच||

उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु |

द्रौपदी सत्यभामा च विविशाते तदा समम् ||१||

जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ||१||

चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे |

कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम् ||२||

अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया |

सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ||३||

केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि |

लोकपालोपमान्वीरान्यूनः परमसंमतान् ||४||

कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे ||४||

तव वश्या हि सततं पाण्डवाः प्रियदर्शने |

मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे ||५||

व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा |

विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः ||६||

मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् |

येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ||७||

एवमुक्त्वा सत्यभामा विरराम यशस्विनी |

पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ||८||

असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि |

असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ||९||

अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते |

तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया ||१०||

यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् |

उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ||११||

उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् |

न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् ||१२||

अमित्रप्रहितांश्चापि गदान्परमदारुणान् |

मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः ||१३||

जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते |

तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ||१४||

जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा |

अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा ||१५||

पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत |

न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथञ्चन ||१६||

वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु |

तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ||१७||

अहङ्कारं विहायाहं कामक्रोधौ च सर्वदा |

सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् ||१८||

प्रणयं प्रतिसङ्गृह्य निधायात्मानमात्मनि |

शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी ||१९||

दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् |

दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि ||२०||

सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान् |

सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः ||२१||

देवो मनुष्यो गन्धर्वो युवा चापि स्वलङ्कृतः |

द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ||२२||

नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि |

न संविशामि नाश्नामि सदा कर्मकरेष्वपि ||२३||

क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् |

प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च ||२४||

प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी |

संयता गुप्तधान्या च सुसंमृष्टनिवेशना ||२५||

अतिरस्कृतसम्भाषा दुःस्त्रियो नानुसेवती |

अनुकूलवती नित्यं भवाम्यनलसा सदा ||२६||

अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः |

अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ||२७||

अतिहासातिरोषौ च क्रोधस्थानं च वर्जये |

निरताहं सदा सत्ये भर्तॄणामुपसेवने ||२८||

सर्वथा भर्तृरहितं न ममेष्टं कथञ्चन ||२८||

यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् |

सुमनोवर्णकापेता भवामि व्रतचारिणी ||२९||

यच्च भर्ता न पिबति यच्च भर्ता न खादति |

यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ||३०||

यथोपदेशं नियता वर्तमाना वराङ्गने |

स्वलङ्कृता सुप्रयता भर्तुः प्रियहिते रता ||३१||

ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा |

भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु ||३२||

मान्यानां मानसत्कारा ये चान्ये विदिता मया ||३२||

तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता |

विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता ||३३||

मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः |

आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम् ||३४||

पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः |

स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत् ||३५||

अहं पतीन्नातिशये नात्यश्ने नातिभूषये |

नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता ||३६||

अवधानेन सुभगे नित्योत्थानतयैव च |

भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च ||३७||

नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् |

स्वयं परिचराम्येका स्नानाच्छादनभोजनैः ||३८||

नैतामतिशये जातु वस्त्रभूषणभोजनैः |

नापि परिवदे चाहं तां पृथां पृथिवीसमाम् ||३९||

अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा |

भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ||४०||

अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः |

त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ||४१||

दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् |

ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ||४२||

तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः |

यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ||४३||

शतं दासीसहस्राणि कौन्तेयस्य महात्मनः |

कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ||४४||

महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः |

मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः ||४५||

तासां नाम च रूपं च भोजनाच्छादनानि च |

सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ||४६||

शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः |

पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ||४७||

शतमश्वसहस्राणि दश नागायुतानि च |

युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ||४८||

एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् |

येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च ||४९||

अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः |

आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ||५०||

सर्वं राज्ञः समुदयमायं च व्ययमेव च |

एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् ||५१||

मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः |

उपासनरताः सर्वे घटन्ते स्म शुभानने ||५२||

तमहं भारमासक्तमनाधृष्यं दुरात्मभिः |

सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै ||५३||

अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् |

एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ||५४||

अनिशायां निशायां च सहायाः क्षुत्पिपासयोः |

आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ||५५||

प्रथमं प्रतिबुध्यामि चरमं संविशामि च |

नित्यकालमहं सत्ये एतत्संवननं मम ||५६||

एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् |

असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ||५७||

तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा |

उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् ||५८||

अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे |

कामकारः सखीनां हि सोपहासं प्रभाषितुम् ||५९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

223-अध्यायः

द्रौपद्युवाच||

इमं तु ते मार्गमपेतदोषं; वक्ष्यामि चित्तग्रहणाय भर्तुः |

यस्मिन्यथावत्सखि वर्तमाना; भर्तारमाच्छेत्स्यसि कामिनीभ्यः ||१||

नैतादृशं दैवतमस्ति सत्ये; सर्वेषु लोकेषु सदैवतेषु |

यथा पतिस्तस्य हि सर्वकामा; लभ्याः प्रसादे कुपितश्च हन्यात् ||२||

तस्मादपत्यं विविधाश्च भोगाः; शय्यासनान्यद्भुतदर्शनानि |

वस्त्राणि माल्यानि तथैव गन्धाः; स्वर्गश्च लोको विषमा च कीर्तिः ||३||

सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि |

सा कृष्णमाराधय सौहृदेन; प्रेम्णा च नित्यं प्रतिकर्मणा च ||४||

तथाशनैश्चारुभिरग्र्यमाल्यै; र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः |

अस्याः प्रियोऽस्मीति यथा विदित्वा; त्वामेव संश्लिष्यति सर्वभावैः ||५||

श्रुत्वा स्वरं द्वारगतस्य भर्तुः; प्रत्युत्थिता तिष्ठ गृहस्य मध्ये |

दृष्ट्वा प्रविष्टं त्वरितासनेन; पाद्येन चैव प्रतिपूजय त्वम् ||६||

सम्प्रेषितायामथ चैव दास्या; मुत्थाय सर्वं स्वयमेव कुर्याः |

जानातु कृष्णस्तव भावमेतं; सर्वात्मना मां भजतीति सत्ये ||७||

त्वत्संनिधौ यत्कथयेत्पतिस्ते; यद्यप्यगुह्यं परिरक्षितव्यम् |

काचित्सपत्नी तव वासुदेवं; प्रत्यादिशेत्तेन भवेद्विरागः ||८||

प्रियांश्च रक्तांश्च हितांश्च भर्तु; स्तान्भोजयेथा विविधैरुपायैः |

द्वेष्यैरपक्षैरहितैश्च तस्य; भिद्यस्व नित्यं कुहकोद्धतैश्च ||९||

मदं प्रमादं पुरुषेषु हित्वा; संयच्छ भावं प्रतिगृह्य मौनम् |

प्रद्युम्नसाम्बावपि ते कुमारौ; नोपासितव्यौ रहिते कदाचित् ||१०||

महाकुलीनाभिरपापिकाभिः; स्त्रीभिः सतीभिस्तव सख्यमस्तु |

चण्डाश्च शौण्डाश्च महाशनाश्च; चौराश्च दुष्टाश्चपलाश्च वर्ज्याः ||११||

एतद्यशस्यं भगवेदनं च; स्वर्ग्यं तथा शत्रुनिबर्हणं च |

महार्हमाल्याभरणाङ्गरागा; भर्तारमाराधय पुण्यगन्धा ||१२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

224-अध्यायः

वैशम्पायन उवाच||

मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः |

कथाभिरनुकूलाभिः सहासित्वा जनार्दनः ||१||

ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः |

आरुरुक्षू रथं सत्यामाह्वयामास केशवः ||२||

सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् |

उवाच वचनं हृद्यं यथाभावसमाहितम् ||३||

कृष्णे मा भूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः |

भर्तृभिर्देवसङ्काशैर्जितां प्राप्स्यसि मेदिनीम् ||४||

न ह्येवं शीलसम्पन्ना नैवं पूजितलक्षणाः |

प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे ||५||

अवश्यं च त्वया भूमिरियं निहतकण्टका |

भर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया ||६||

धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य च |

युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे ||७||

यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताः |

ताः क्षिप्रं हतसङ्कल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः ||८||

तव दुःखोपपन्नाया यैराचरितमप्रियम् |

विद्धि सम्प्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् ||९||

पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः |

श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः ||१०||

सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ||१०||

सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव |

अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् ||११||

त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता |

प्रीयते भावनिर्द्वंद्वा तेभ्यश्च विगतज्वरा ||१२||

भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा |

भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः ||१३||

भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः |

रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः ||१४||

तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि ||१४||

एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम् |

गमनाय मनश्चक्रे वासुदेवरथं प्रति ||१५||

तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् |

आरुरोह रथं शौरेः सत्यभामा च भामिनी ||१६||

स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च |

उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परन्तपः ||१७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

225-अध्यायः-घोषयात्रापर्व

जनमेजय उवाच||

एवं वने वर्तमाना नराग्र्याः; शीतोष्णवातातपकर्शिताङ्गाः |

सरस्तदासाद्य वनं च पुण्यं; ततः परं किमकुर्वन्त पार्थाः ||१||

वैशम्पायन उवाच||

सरस्तदासाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम् |

वनानि रम्याण्यथ पर्वतांश्च; नदीप्रदेशांश्च तदा विचेरुः ||२||

तथा वने तान्वसतः प्रवीरा; न्स्वाध्यायवन्तश्च तपोधनाश्च |

अभ्याययुर्वेदविदः पुराणा; स्तान्पूजयामासुरथो नराग्र्याः ||३||

ततः कदाचित्कुशलः कथासु; विप्रोऽभ्यगच्छद्भुवि कौरवेयान् |

स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपमभ्यगच्छत् ||४||

अथोपविष्टः प्रतिसत्कृतश्च; वृद्धेन राज्ञा कुरुसत्तमेन |

प्रचोदितः सन्कथयां बभूव; धर्मानिलेन्द्रप्रभवान्यमौ च ||५||

कृशांश्च वातातपकर्शिताङ्गा; न्दुःखस्य चोग्रस्य मुखे प्रपन्नान् |

तां चाप्यनाथामिव वीरनाथां; कृष्णां परिक्लेशगुणेन युक्ताम् ||६||

ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः |

वने स्थितान्पार्थिवपुत्रपौत्रा; ञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् ||७||

प्रोवाच दैन्याभिहतान्तरात्मा; निःश्वासबाष्पोपहतः स पार्थान् |

वाचं कथञ्चित्स्थिरतामुपेत्य; तत्सर्वमात्मप्रभवं विचिन्त्य ||८||

कथं नु सत्यः शुचिरार्यवृत्तो; ज्येष्ठः सुतानां मम धर्मराजः |

अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कवकूटशायी ||९||

प्रबोध्यते मागधसूतपूगै; र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः |

पतत्रिसङ्घैः स जघन्यरात्रे; प्रबोध्यते नूनमिडातलस्थः ||१०||

कथं नु वातातपकर्शिताङ्गो; वृकोदरः कोपपरिप्लुताङ्गः |

शेते पृथिव्यामतथोचिताङ्गः; कृष्णासमक्षं वसुधातलस्थः ||११||

तथार्जुनः सुकुमारो मनस्वी; वशे स्थितो धर्मसुतस्य राज्ञः |

विदूयमानैरिव सर्वगात्रै; र्ध्रुवं न शेते वसतीरमर्षात् ||१२||

यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान् |

विनिःश्वसन्सर्प इवोग्रतेजा; ध्रुवं न शेते वसतीरमर्षात् ||१३||

तथा यमौ चाप्यसुखौ सुखार्हौ; समृद्धरूपावमरौ दिवीव |

प्रजागरस्थौ ध्रुवमप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ ||१४||

समीरणेनापि समो बलेन; समीरणस्यैव सुतो बलीयान् |

स धर्मपाशेन सितोग्रतेजा; ध्रुवं विनिःश्वस्य सहत्यमर्षम् ||१५||

स चापि भूमौ परिवर्तमानो; वधं सुतानां मम काङ्क्षमाणः |

सत्येन धर्मेण च वार्यमाणः; कालं प्रतीक्षत्यधिको रणेऽन्यैः ||१६||

अजातशत्रौ तु जिते निकृत्या; दुःशासनो यत्परुषाण्यवोचत् |

तानि प्रविष्टानि वृकोदराङ्गं; दहन्ति मर्माग्निरिवेन्धनानि ||१७||

न पापकं ध्यास्यति धर्मपुत्रो; धनञ्जयश्चाप्यनुवर्तते तम् |

अरण्यवासेन विवर्धते तु; भीमस्य कोपोऽग्निरिवानिलेन ||१८||

स तेन कोपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः |

विनिःश्वसत्युष्णमतीव घोरं; दहन्निवेमान्मम पुत्रपौत्रान् ||१९||

गाण्डीवधन्वा च वृकोदरश्च; संरम्भिणावन्तककालकल्पौ |

न शेषयेतां युधि शत्रुसेनां; शरान्किरन्तावशनिप्रकाशान् ||२०||

दुर्योधनः शकुनिः सूतपुत्रो; दुःशासनश्चापि सुमन्दचेताः |

मधु प्रपश्यन्ति न तु प्रपातं; वृकोदरं चैव धनञ्जयं च ||२१||

शुभाशुभं पुरुषः कर्म कृत्वा; प्रतीक्षते तस्य फलं स्म कर्ता |

स तेन युज्यत्यवशः फलेन; मोक्षः कथं स्यात्पुरुषस्य तस्मात् ||२२||

क्षेत्रे सुकृष्टे ह्युपिते च बीजे; देवे च वर्षत्यृतुकालयुक्तम् |

न स्यात्फलं तस्य कुतः प्रसिद्धि; रन्यत्र दैवादिति चिन्तयामि ||२३||

कृतं मताक्षेण यथा न साधु; साधुप्रवृत्तेन च पाण्डवेन |

मया च दुष्पुत्रवशानुगेन; यथा कुरूणामयमन्तकालः ||२४||

ध्रुवं प्रवास्यत्यसमीरितोऽपि; ध्रुवं प्रजास्यत्युत गर्भिणी या |

ध्रुवं दिनादौ रजनीप्रणाश; स्तथा क्षपादौ च दिनप्रणाशः ||२५||

क्रियेत कस्मान्न परे च कुर्यु; र्वित्तं न दद्युः पुरुषाः कथञ्चित् |

प्राप्यार्थकालं च भवेदनर्थः; कथं नु तत्स्यादिति तत्कुतः स्यात् ||२६||

कथं न भिद्येत न च स्रवेत; न च प्रसिच्येदिति रक्षितव्यम् |

अरक्ष्यमाणः शतधा विशीर्ये; द्ध्रुवं न नाशोऽस्ति कृतस्य लोके ||२७||

गतो ह्यरण्यादपि शक्रलोकं; धनञ्जयः पश्यत वीर्यमस्य |

अस्त्राणि दिव्यानि चतुर्विधानि; ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ||२८||

स्वर्गं हि गत्वा सशरीर एव; को मानुषः पुनरागन्तुमिच्छेत् |

अन्यत्र कालोपहताननेका; न्समीक्षमाणस्तु कुरून्मुमूर्षून् ||२९||

धनुर्ग्राहश्चार्जुनः सव्यसाची; धनुश्च तद्गाण्डिवं लोकसारम् |

अस्त्राणि दिव्यानि च तानि तस्य; त्रयस्य तेजः प्रसहेत को नु ||३०||

निशम्य तद्वचनं पार्थिवस्य; दुर्योधनो रहिते सौबलश्च |

अबोधयत्कर्णमुपेत्य सर्वं; स चाप्यहृष्टोऽभवदल्पचेताः ||३१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

226-अध्यायः

वैशम्पायन उवाच||

धृतराष्ट्रस्य तद्वाक्यं निशम्य सहसौबलः |

दुर्योधनमिदं काले कर्णो वचनमब्रवीत् ||१||

प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत |

भुङ्क्ष्वेमां पृथिवीमेको दिवं शम्बरहा यथा ||२||

प्राच्याश्च दाक्षिणात्याश्च प्रतीच्योदीच्यवासिनः |

कृताः करप्रदाः सर्वे राजानस्ते नराधिप ||३||

या हि सा दीप्यमानेव पाण्डवान्भजते पुरा |

साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ||४||

इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे |

अपश्याम श्रियं राजन्नचिरं शोककर्शिताः ||५||

सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात् |

त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ||६||

तथैव तव राजेन्द्र राजानः परवीरहन् |

शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः ||७||

तवाद्य पृथिवी राजन्निखिला सागराम्बरा |

सपर्वतवना देवी सग्रामनगराकरा ||८||

नानावनोद्देशवती पत्तनैरुपशोभिता ||८||

वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः |

पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ||९||

रुद्रैरिव यमो राजा मरुद्भिरिव वासवः |

कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव ||१०||

ये स्म ते नाद्रियन्तेऽऽज्ञा नोद्विजन्ते कदा च न |

पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः ||११||

श्रूयन्ते हि महाराज सरो द्वैतवनं प्रति |

वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः ||१२||

स प्रयाहि महाराज श्रिया परमया युतः |

प्रतपन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा ||१३||

स्थितो राज्ये च्युतान्राज्याच्छ्रिया हीनाञ्श्रिया वृतः |

असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप ||१४||

महाभिजनसम्पन्नं भद्रे महति संस्थितम् |

पाण्डवास्त्वाभिवीक्षन्तां ययातिमिव नाहुषम् ||१५||

यां श्रियं सुहृदश्चैव दुर्हृदश्च विशां पते |

पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्युत ||१६||

समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते |

जगतीस्थानिवाद्रिस्थः किं ततः परमं सुखम् ||१७||

न पुत्रधनलाभेन न राज्येनापि विन्दति |

प्रीतिं नृपतिशार्दूल याममित्राघदर्शनात् ||१८||

किं नु तस्य सुखं न स्यादाश्रमे यो धनञ्जयम् |

अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम् ||१९||

सुवाससो हि ते भार्या वल्कलाजिनवाससम् |

पश्यन्त्वसुखितां कृष्णां सा च निर्विद्यतां पुनः ||२०||

विनिन्दतां तथात्मानं जीवितं च धनच्युता ||२०||

न तथा हि सभामध्ये तस्या भवितुमर्हति |

वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलङ्कृताः ||२१||

एवमुक्त्वा तु राजानं कर्णः शकुनिना सह |

तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय ||२२||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

227-अध्यायः

वैशम्पायन उवाच||

कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा |

हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत् ||१||

ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम् |

न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः ||२||

परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः |

मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ||३||

अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् |

एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ||४||

न हि द्वैतवने किञ्चिद्विद्यतेऽन्यत्प्रयोजनम् |

उत्सादनमृते तेषां वनस्थानां मम द्विषाम् ||५||

जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते |

अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा ||६||

तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् |

विचिन्त्य नाधिगच्छामि गमनायेतराय वा ||७||

ममापि हि महान्हर्षो यदहं भीमफल्गुनौ |

क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ||८||

न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि |

दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ||९||

किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् |

द्रौपदीं कर्ण पश्येयं काषायवसनां वने ||१०||

यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः |

युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् ||११||

उपायं न तु पश्यामि येन गच्छेम तद्वनम् |

यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ||१२||

स सौबलेन सहितस्तथा दुःशासनेन च |

उपायं पश्य निपुणं येन गच्छेम तद्वनम् ||१३||

अहमप्यद्य निश्चित्य गमनायेतराय वा |

काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ||१४||

मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे |

उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ||१५||

ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति |

व्यवसायं करिष्येऽहमनुनीय पितामहम् ||१६||

तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति |

व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ||१७||

ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् |

उपायः परिदृष्टोऽयं तं निबोध जनेश्वर ||१८||

घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप |

घोषयात्रापदेशेन गमिष्यामो न संशयः ||१९||

उचितं हि सदा गन्तुं घोषयात्रां विशां पते |

एवं च त्वां पिता राजन्समनुज्ञातुमर्हति ||२०||

तथा कथयमानौ तौ घोषयात्राविनिश्चयम् |

गान्धारराजः शकुनिः प्रत्युवाच हसन्निव ||२१||

उपायोऽयं मया दृष्टो गमनाय निरामयः |

अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत ||२२||

घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप |

घोषयात्रापदेशेन गमिष्यामो न संशयः ||२३||

ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः |

तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम् ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

228-अध्यायः

वैशम्पायन उवाच||

धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय |

पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत ||१||

ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः |

समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ||२||

अनन्तरं च राधेयः शकुनिश्च विशां पते |

आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ||३||

रमणीयेषु देशेषु घोषाः सम्प्रति कौरव |

स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम् ||४||

मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते |

दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ||५||

धृतराष्ट्र उवाच||

मृगया शोभना तात गवां च समवेक्षणम् |

विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे ||६||

ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् |

अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ||७||

छद्मना निर्जितास्ते हि कर्शिताश्च महावने |

तपोनित्याश्च राधेय समर्थाश्च महारथाः ||८||

धर्मराजो न सङ्क्रुध्येद्भीमसेनस्त्वमर्षणः |

यज्ञसेनस्य दुहिता तेज एव तु केवलम् ||९||

यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः |

ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ||१०||

अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः |

सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा ||११||

अथ यूयं बहुत्वात्तानारभध्वं कथञ्चन |

अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् ||१२||

उषितो हि महाबाहुरिन्द्रलोके धनञ्जयः |

दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् ||१३||

अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा |

किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः ||१४||

अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ |

उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति ||१५||

अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे |

तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः ||१६||

तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः |

न स्वयं तत्र गमनं रोचये तव भारत ||१७||

शकुनिरुवाच||

धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि |

तेन द्वादश वर्षाणि वस्तव्यानीति भारत ||१८||

अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः |

युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति ||१९||

मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् |

स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् ||२०||

न चानार्यसमाचारः कश्चित्तत्र भविष्यति |

न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ||२१||

वैशम्पायन उवाच||

एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः |

दुर्योधनं सहामात्यमनुजज्ञे न कामतः ||२२||

अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा |

निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ||२३||

दुःशासनेन च तथा सौबलेन च देविना |

संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ||२४||

तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः |

पौराश्चानुययुः सर्वे सहदारा वनं च तत् ||२५||

अष्टौ रथसहस्राणि त्रीणि नागायुतानि च |

पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ||२६||

शकटापणवेश्याश्च वणिजो बन्दिनस्तथा |

नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ||२७||

ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः |

प्रावृषीव महावायोरुद्धतस्य विशां पते ||२८||

गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा |

प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ||२९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

229-अध्यायः

वैशम्पायन उवाच||

अथ दुर्योधनो राजा तत्र तत्र वने वसन् |

जगाम घोषानभितस्तत्र चक्रे निवेशनम् ||१||

रमणीये समाज्ञाते सोदके समहीरुहे |

देशे सर्वगुणोपेते चक्रुरावसथं नराः ||२||

तथैव तत्समीपस्थान्पृथगावसथान्बहून् |

कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः ||३||

ददर्श स तदा गावः शतशोऽथ सहस्रशः |

अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः ||४||

अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि |

बालवत्साश्च या गावः कालयामास ता अपि ||५||

अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् |

वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः ||६||

स च पौरजनः सर्वः सैनिकाश्च सहस्रशः |

यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः ||७||

ततो गोपाः प्रगातारः कुशला नृत्तवादिते |

धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलङ्कृताः ||८||

स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु |

तेभ्यो यथार्हमन्नानि पानानि विविधानि च ||९||

ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् |

गवयर्क्षवराहांश्च समन्तात्पर्यकालयन् ||१०||

स ताञ्शरैर्विनिर्भिन्दन्गजान्बध्नन्महावने |

रमणीयेषु देशेषु ग्राहयामास वै मृगान् ||११||

गोरसानुपयुञ्जान उपभोगांश्च भारत |

पश्यन्सुरमणीयानि पुष्पितानि वनानि च ||१२||

मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च |

अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः ||१३||

ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् ||१३||

यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः |

ईजे राजर्षियज्ञेन सद्यस्केन विशां पते ||१४||

दिव्येन विधिना राजा वन्येन कुरुसत्तमः ||१४||

कृत्वा निवेशमभितः सरसस्तस्य कौरवः |

द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः ||१५||

ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः |

आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत ||१६||

ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः |

चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः ||१७||

सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः |

प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् ||१८||

तत्र गन्धर्वराजो वै पूर्वमेव विशां पते |

कुबेरभवनाद्राजन्नाजगाम गणावृतः ||१९||

गणैरप्सरसां चैव त्रिदशानां तथात्मजैः |

विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः ||२०||

तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः |

प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः ||२१||

स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् |

प्रेषयामास कौरव्य उत्सारयत तानिति ||२२||

तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः |

सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन् ||२३||

राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली |

विजिहीर्षुरिहायाति तदर्थमपसर्पत ||२४||

एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशां पते |

प्रत्यब्रुवंस्तान्पुरुषानिदं सुपरुषं वचः ||२५||

न चेतयति वो राजा मन्दबुद्धिः सुयोधनः |

योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः ||२६||

यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः |

ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः ||२७||

गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः |

द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् ||२८||

एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः |

सम्प्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् ||२९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

230-अध्यायः

वैशम्पायन उवाच||

ततस्ते सहिताः सर्वे दुर्योधनमुपागमन् |

अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ||१||

गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् |

अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ||२||

शासतैनानधर्मज्ञान्मम विप्रियकारिणः |

यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः ||३||

दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः |

सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः ||४||

ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात् |

सिंहनादेन महता पूरयन्तो दिशो दश ||५||

ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः |

ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप ||६||

ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ||६||

यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः |

ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ||७||

गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति |

अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः ||८||

अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत |

प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ||९||

तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान् |

सर्वे ते प्राद्रवन्सङ्ख्ये धार्तराष्ट्रस्य पश्यतः ||१०||

तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् |

वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः ||११||

आपतन्तीं तु सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् |

महता शरवर्षेण राधेयः प्रत्यवारयत् ||१२||

क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः |

गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः ||१३||

पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः |

क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ||१४||

ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता |

भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः ||१५||

गन्धर्वभूता पृथिवी क्षणेन समपद्यत |

आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ||१६||

अथ दुर्योधनो राजा शकुनिश्चापि सौबलः |

दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः ||१७||

न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः ||१७||

भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः |

महता रथघोषेण हयचारेण चाप्युत ||१८||

वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन् ||१८||

ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह |

तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् ||१९||

ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः |

उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् ||२०||

गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः |

उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ||२१||

ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् |

तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया ||२२||

एकैको हि तदा योधो धार्तराष्ट्रस्य भारत |

पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह ||२३||

ततः सम्पीड्यमानास्ते बलेन महता तदा |

प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः ||२४||

भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः |

कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ||२५||

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः |

गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः ||२६||

सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः |

जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे ||२७||

असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः |

सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ||२८||

अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् |

ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ||२९||

अन्ये छत्रं वरूथं च बन्धुरं च तथापरे |

गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम् ||३०||

ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् |

विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ||३१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

231-अध्यायः

वैशम्पायन उवाच||

गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे |

सम्प्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ||१||

तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् |

दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः ||२||

तामापतन्तीं सम्प्रेक्ष्य गन्धर्वाणां महाचमूम् |

महता शरवर्षेण सोऽभ्यवर्षदरिंदमः ||३||

अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् |

दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ||४||

युगमीषां वरूथं च तथैव ध्वजसारथी |

अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम् ||५||

दुर्योधनं चित्रसेनो विरथं पतितं भुवि |

अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् ||६||

तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे |

पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ||७||

विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः |

विन्दानुविन्दावपरे राजदारांश्च सर्वशः ||८||

सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः |

पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ||९||

शकटापणवेश्याश्च यानयुग्यं च सर्वशः |

शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ ||१०||

प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः |

गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ||११||

दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा |

बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ||१२||

इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः |

आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन् ||१३||

तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् |

वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ||१४||

अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा |

अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ||१५||

दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः |

द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् ||१६||

तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् |

दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः ||१७||

येनास्माकं हृतो भार आसीनानां सुखावहः ||१७||

शीतवातातपसहांस्तपसा चैव कर्शितान् |

समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ||१८||

अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः |

ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम् ||१९||

अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम् |

अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः ||२०||

एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम् |

न कालः परुषस्यायमिति राजाभ्यभाषत ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

232-अध्यायः

युधिष्ठिर उवाच||

अस्मानभिगतांस्तात भयार्ताञ्शरणैषिणः |

कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् ||१||

भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर |

प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ||२||

यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् |

न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रमर्षणम् ||३||

जानाति ह्येष दुर्बुद्धिरस्मानिह चिरोषितान् |

स एष परिभूयास्मानकार्षीदिदमप्रियम् ||४||

दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे |

स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् ||५||

शरणं च प्रपन्नानां त्राणार्थं च कुलस्य नः |

उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम् ||६||

अर्जुनश्च यमौ चैव त्वं च भीमापराजितः |

मोक्षयध्वं धार्तराष्ट्रं ह्रियमाणं सुयोधनम् ||७||

एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः |

इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः ||८||

एतानास्थाय वै तात गन्धर्वान्योद्धुमाहवे |

सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः ||९||

य एव कश्चिद्राजन्यः शरणार्थमिहागतम् |

परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ||१०||

क इहान्यो भवेत्त्राणमभिधावेति चोदितः |

प्राञ्जलिं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ||११||

वरप्रदानं राज्यं च पुत्रजन्म च पाण्डव |

शत्रोश्च मोक्षणं क्लेशात्त्रीणि चैकं च तत्समम् ||१२||

किं ह्यभ्यधिकमेतस्माद्यदापन्नः सुयोधनः |

त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गति ||१३||

स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर |

विततोऽयं क्रतुर्वीर न हि मेऽत्र विचारणा ||१४||

साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् |

तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन ||१५||

न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ |

पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् ||१६||

अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् |

सर्वोपायैर्विमोच्यास्ते निगृह्य परिपन्थिनः ||१७||

एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर |

वैताने कर्मणि तते वर्तमाने च भारत ||१८||

वैशम्पायन उवाच||

अजातशत्रोर्वचनं तच्छ्रुत्वा तु धनञ्जयः |

प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ||१९||

अर्जुन उवाच||

यदि साम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् |

अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् ||२०||

वैशम्पायन उवाच||

अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः |

कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

233-अध्यायः

वैशम्पायन उवाच||

युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः |

प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः ||१||

अभेद्यानि ततः सर्वे समनह्यन्त भारत |

जाम्बूनदविचित्राणि कवचानि महारथाः ||२||

ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः |

पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इव पावकाः ||३||

तान्रथान्साधु सम्पन्नान्संयुक्ताञ्जवनैर्हयैः |

आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः ||४||

ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः |

प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान् ||५||

जितकाशिनश्च खचरास्त्वरिताश्च महारथाः |

क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत् ||६||

न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः |

दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे ||७||

तांस्तु विभ्राजतो दृष्ट्वा लोकपालानिवोद्यतान् |

व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः ||८||

राज्ञस्तु वचनं श्रुत्वा धर्मराजस्य धीमतः |

क्रमेण मृदुना युद्धमुपक्रामन्त भारत ||९||

न तु गन्धर्वराजस्य सैनिका मन्दचेतसः |

शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ||१०||

ततस्तान्युधि दुर्धर्षः सव्यसाची परन्तपः |

सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ||११||

नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम् |

परदाराभिमर्शश्च मानुषैश्च समागमः ||१२||

उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान् |

दारांश्चैषां विमुञ्चध्वं धर्मराजस्य शासनात् ||१३||

एवमुक्तास्तु गन्धर्वाः पाण्डवेन यशस्विना |

उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन् ||१४||

एकस्यैव वयं तात कुर्याम वचनं भुवि |

यस्य शासनमाज्ञाय चराम विगतज्वराः ||१५||

तेनैकेन यथादिष्टं तथा वर्ताम भारत |

न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात् ||१६||

एवमुक्तस्तु गन्धर्वैः कुन्तीपुत्रो धनञ्जयः |

गन्धर्वान्पुनरेवेदं वचनं प्रत्यभाषत ||१७||

यदि साम्ना न मोक्षध्वं गन्धर्वा धृतराष्ट्रजम् |

मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम् ||१८||

एवमुक्त्वा ततः पार्थः सव्यसाची धनञ्जयः |

ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति ||१९||

तथैव शरवर्षेण गन्धर्वास्ते बलोत्कटाः |

पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः ||२०||

ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम् |

बभूव भीमवेगानां पाण्डवानां च भारत ||२१||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

234-अध्यायः

वैशम्पायन उवाच||

ततो दिव्यास्त्रसम्पन्ना गन्धर्वा हेममालिनः |

विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ||१||

चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः |

रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ||२||

यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः |

गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ||३||

तान्समापततो राजन्गन्धर्वाञ्शतशो रणे |

प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ||४||

अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः |

न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ||५||

अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा |

लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ||६||

सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् |

आग्नेयेनार्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः ||७||

तथा भीमो महेष्वासः संयुगे बलिनां वरः |

गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ||८||

माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ |

परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ||९||

ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः |

उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ||१०||

तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनञ्जयः |

महता शरजालेन समन्तात्पर्यवारयत् ||११||

ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे |

ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ||१२||

गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् |

गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनञ्जयः ||१३||

शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा |

अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ||१४||

ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना |

भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ||१५||

तेषां तु शरवर्षाणि सव्यसाची परन्तपः |

अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ||१६||

स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः |

आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ||१७||

ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः |

दैतेया इव शक्रेण विषादमगमन्परम् ||१८||

ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः |

विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ||१९||

गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता |

चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् ||२०||

तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे |

गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ||२१||

स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना |

संवृत्य विद्ययात्मानं योधयामास पाण्डवम् ||२२||

अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः ||२२||

गन्धर्वराजो बलवान्माययान्तर्हितस्तदा |

अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः ||२३||

ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ||२३||

अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा |

शब्दवेध्यमुपाश्रित्य बहुरूपो धनञ्जयः ||२४||

स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना |

अथास्य दर्शयामास तदात्मानं प्रियः सखा ||२५||

चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् |

सञ्जहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ||२६||

दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनञ्जयम् |

सञ्जह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ||२७||

चित्रसेनश्च भीमश्च सव्यसाची यमावपि |

पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ||२८||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

235-अध्यायः

वैशम्पायन उवाच||

ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् |

मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ||१||

किं ते व्यवसितं वीर कौरवाणां विनिग्रहे |

किमर्थं च सदारोऽयं निगृहीतः सुयोधनः ||२||

चित्रसेन उवाच||

विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना |

दुर्योधनस्य पापस्य कर्णस्य च धनञ्जय ||३||

वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् |

इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ||४||

ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः |

गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय ||५||

धनञ्जयश्च ते रक्ष्यः सह भ्रातृभिराहवे |

स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः ||६||

वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम् |

अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् ||७||

अर्जुन उवाच||

उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः |

धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् ||८||

चित्रसेन उवाच||

पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति |

प्रलब्धा धर्मराजस्य कृष्णायाश्च धनञ्जय ||९||

नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः |

जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ||१०||

वैशम्पायन उवाच||

ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् |

अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् ||११||

अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा |

मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ||१२||

दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः |

दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ||१३||

उपकारो महांस्तात कृतोऽयं मम खेचराः |

कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ||१४||

आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः |

प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम् ||१५||

अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता |

सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ||१६||

देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् |

दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ||१७||

ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः |

कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ||१८||

सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः |

बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः ||१९||

ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा |

युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत् ||२०||

मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् |

न हि साहसकर्तारः सुखमेधन्ति भारत ||२१||

स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन |

गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ||२२||

पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा |

विदीर्यमाणो व्रीडेन जगाम नगरं प्रति ||२३||

तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः |

भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ||२४||

तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः |

वने द्वैतवने तस्मिन्विजहार मुदा युतः ||२५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

236-अध्यायः

जनमेजय उवाच||

शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः |

मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः ||१||

कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः |

सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ||२||

दुर्योधनस्य पापस्य नित्याहङ्कारवादिनः |

प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ||३||

तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः |

प्रवेशं विस्तरेण त्वं वैशम्पायन कीर्तय ||४||

वैशम्पायन उवाच||

धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः |

लज्जयाधोमुखः सीदन्नुपासर्पत्सुदुःखितः ||५||

स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः |

शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् ||६||

विमुच्य पथि यानानि देशे सुयवसोदके |

संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् ||७||

हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ||७||

अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे |

उपप्लुतं यथा सोमं राहुणा रात्रिसङ्क्षये ||८||

उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा ||८||

दिष्ट्या जीवसि गान्धारे दिष्ट्या नः सङ्गमः पुनः |

दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः ||९||

दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन |

विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान् ||१०||

अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव |

नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् ||११||

शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः |

इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत ||१२||

अरिष्टानक्षतांश्चापि सदारधनवाहनान् |

विमुक्तान्सम्प्रपश्यामि तस्माद्युद्धादमानुषात् ||१३||

नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत |

यत्कृतं ते महाराज सह भ्रातृभिराहवे ||१४||

एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा |

उवाचावाक्षिरा राजन्बाष्पगद्गदया गिरा ||१५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

237-अध्यायः

दुर्योधन उवाच||

अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः |

जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया ||१||

आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम |

मया सह महाबाहो कृतश्चोभयतः क्षयः ||२||

मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः |

तदा नो नसमं युद्धमभवत्सह खेचरैः ||३||

पराजयं च प्राप्ताः स्म रणे बन्धनमेव च |

सभृत्यामात्यपुत्राश्च सदारधनवाहनाः ||४||

उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः ||४||

अथ नः सैनिकाः केचिदमात्याश्च महारथान् |

उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ||५||

एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः |

सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः ||६||

तं मोक्षयत भद्रं वः सहदारं नराधिपम् |

परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः ||७||

एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा |

प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ||८||

अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः |

सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ||९||

यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि |

ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ ||१०||

मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ||१०||

अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् |

अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ||११||

ततः समन्तात्पश्यामि शरजालेन वेष्टितम् |

अमानुषाणि चास्त्राणि प्रयुञ्जानं धनञ्जयम् ||१२||

समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः |

धनञ्जयसखात्मानं दर्शयामास वै तदा ||१३||

चित्रसेनः पाण्डवेन समाश्लिष्य परन्तपः |

कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ||१४||

ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च |

एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ||१५||

अपूजयेतामन्योन्यं चित्रसेनधनञ्जयौ ||१५||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

238-अध्यायः

दुर्योधन उवाच||

चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा |

इदं वचनमक्लीबमब्रवीत्परवीरहा ||१||

भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम |

अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु ||२||

एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना |

उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ||३||

द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति ||३||

तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ |

भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः ||४||

युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः |

अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ||५||

स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः |

युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम् ||६||

ये मे निराकृता नित्यं रिपुर्येषामहं सदा |

तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे ||७||

प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे |

श्रेयस्तद्भविता मह्यमेवम्भूतं न जीवितम् ||८||

भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् |

प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः ||९||

यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः |

इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् ||१०||

भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति ||१०||

कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये |

दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ||११||

न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः |

शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ||१२||

स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः |

वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ||१३||

भीष्मो द्रोणः कृपो द्रौणिर्विदुरः सञ्जयस्तथा |

बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसंमताः ||१४||

ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः |

किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम् ||१५||

रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि |

आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ||१६||

दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च |

तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः ||१७||

अहो बत यथेदं मे कष्टं दुश्चरितं कृतम् |

स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम् ||१८||

तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम् |

चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ||१९||

शत्रुभिश्चावहसितो मानी पौरुषवर्जितः |

पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः ||२०||

वैशम्पायन उवाच||

एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् |

दुःशासन निबोधेदं वचनं मम भारत ||२१||

प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव |

प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् ||२२||

भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा |

बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम् ||२३||

ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः |

बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ||२४||

ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव |

गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ||२५||

नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् |

कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह ||२६||

तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत् |

अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ||२७||

सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः ||२७||

प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा |

दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् ||२८||

उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति |

विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत् ||२९||

रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ||२९||

वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत् |

शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ||३०||

न चाहं त्वदृते राजन्प्रशासेयं वसुन्धराम् |

पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह ||३१||

त्वमेव नः कुले राजा भविष्यसि शतं समाः ||३१||

एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह |

पादौ सङ्गृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ||३२||

तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ |

अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ||३३||

विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव |

न शोकः शोचमानस्य विनिवर्तेत कस्यचित् ||३४||

यदा च शोचतः शोको व्यसनं नापकर्षति |

सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः ||३५||

धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः ||३५||

कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् |

नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः ||३६||

पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ||३६||

नार्हस्येवङ्गते मन्युं कर्तुं प्राकृतवद्यथा |

विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ||३७||

उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ||३७||

राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम् |

किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि ||३८||

सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ||३८||

सेनाजीवैश्च कौरव्य तथा विषयवासिभिः |

अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ||३९||

प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम् |

निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः ||४०||

सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः |

तैः सङ्गम्य नृपार्थाय यतितव्यं यथातथम् ||४१||

यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः |

यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना ||४२||

न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम |

स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः ||४३||

शूराश्च बलवन्तश्च संयुगेष्वपलायिनः |

भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ||४४||

पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे |

सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ||४५||

उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि ||४५||

अवश्यमेव नृपते राज्ञो विषयवासिभिः |

प्रियाण्याचरितव्यानि तत्र का परिदेवना ||४६||

मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि |

स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ||४७||

नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ |

प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि ||४८||

वैशम्पायन उवाच||

एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा |

नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ||४९||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

239-अध्यायः

वैशम्पायन उवाच||

प्रायोपविष्टं राजानं दुर्योधनममर्षणम् |

उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा ||१||

सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया |

मयाहृतां श्रियं स्फीतां मोहात्समपहाय किम् ||२||

त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि ||२||

अद्य चाप्यवगच्छामि न वृद्धाः सेवितास्त्वया |

यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति ||३||

स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि ||३||

अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् |

व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रियः ||४||

सत्कृतस्य हि ते शोको विपरीते कथं भवेत् |

मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय ||५||

यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः |

तत्र शोचसि राजेन्द्र विपरीतमिदं तव ||६||

प्रसीद मा त्यजात्मानं तुष्टश्च सुकृतं स्मर |

प्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि ||७||

क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि |

सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान् ||८||

पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्नुहि ||८||

शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च |

पादयोः पतितं वीरं विक्लवं भ्रातृसौहृदात् ||९||

बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम् |

उत्थाप्य सम्परिष्वज्य प्रीत्याजिघ्रत मूर्धनि ||१०||

कर्णसौबलयोश्चापि संस्मृत्य वचनान्यसौ |

निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा ||११||

व्रीडयाभिपरीतात्मा नैराश्यमगमत्परम् ||११||

सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत् |

न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया ||१२||

नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत ||१२||

निश्चितेयं मम मतिः स्थिता प्रायोपवेशने |

गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम ||१३||

त एवमुक्ताः प्रत्यूचू राजानमरिमर्दनम् |

या गतिस्तव राजेन्द्र सास्माकमपि भारत ||१४||

कथं वा सम्प्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम् ||१४||

स सुहृद्भिरमात्यैश्च भ्रातृभिः स्वजनेन च |

बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत ||१५||

दर्भप्रस्तरमास्तीर्य निश्चयाद्धृतराष्ट्रजः |

संस्पृश्यापः शुचिर्भूत्वा भूतलं समुपाश्रितः ||१६||

कुशचीराम्बरधरः परं नियममास्थितः |

वाग्यतो राजशार्दूलः स स्वर्गगतिकाङ्क्षया ||१७||

मनसोपचितिं कृत्वा निरस्य च बहिष्क्रियाः ||१७||

अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः |

पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः ||१८||

ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै |

आह्वानाय तदा चक्रुः कर्म वैतानसम्भवम् ||१९||

बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः |

अथर्ववेदप्रोक्तैश्च याश्चोपनिषदि क्रियाः ||२०||

मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन् ||२०||

जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः |

ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः ||२१||

कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता |

कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत् ||२२||

आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना |

प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय ||२३||

तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा |

निमेषादगमच्चापि यत्र राजा सुयोधनः ||२४||

समादाय च राजानं प्रविवेश रसातलम् |

दानवानां मुहूर्ताच्च तमानीतं न्यवेदयत् ||२५||

तमानीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः |

प्रहृष्टमनसः सर्वे किञ्चिदुत्फुल्ललोचनाः ||२६||

साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन् ||२६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

240-अध्यायः

दानवा ऊचुः||

भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह |

शूरैः परिवृतो नित्यं तथैव च महात्मभिः ||१||

अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम् |

आत्मत्यागी ह्यवाग्याति वाच्यतां चायशस्करीम् ||२||

न हि कार्यविरुद्धेषु बह्वपायेषु कर्मसु |

मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ||३||

नियच्छैतां मतिं राजन्धर्मार्थसुखनाशिनीम् |

यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् ||४||

श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप |

निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि ||५||

पुरा त्वं तपसास्माभिर्लब्धो देवान्महेश्वरात् |

पूर्वकायश्च सर्वस्ते निर्मितो वज्रसञ्चयैः ||६||

अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ |

कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः ||७||

एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम |

देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ||८||

क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः |

दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् ||९||

तदलं ते विषादेन भयं तव न विद्यते |

साह्यार्थं च हि ते वीराः सम्भूता भुवि दानवाः ||१०||

भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः |

यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ||११||

नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् |

नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च ||१२||

युधि सम्प्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम |

निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि ||१३||

प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः |

हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः ||१४||

अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात् ||१४||

व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे |

सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः ||१५||

श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ||१५||

तेऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः |

वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ||१६||

दैत्यरक्षोगणाश्चापि सम्भूताः क्षत्रयोनिषु |

योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ||१७||

गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा ||१७||

यच्च तेऽन्तर्गतं वीर भयमर्जुनसम्भवम् |

तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै ||१८||

हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः |

तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ||१९||

स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति |

कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः ||२०||

ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः |

कुण्डले कवचं चैव कर्णस्यापहरिष्यति ||२१||

तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः |

नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति ||२२||

प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः ||२२||

असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप |

मा विषादं नयस्वास्मान्नैतत्त्वय्युपपद्यते ||२३||

विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव ||२३||

गच्छ वीर न ते बुद्धिरन्या कार्या कथञ्चन |

त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ||२४||

वैशम्पायन उवाच||

एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् |

समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ||२५||

स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत |

गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ ||२६||

तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः |

तमेव देशं यत्रासौ तदा प्रायमुपाविशत् ||२७||

प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च |

अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ||२८||

गतायामथ तस्यां तु राजा दुर्योधनस्तदा |

स्वप्नभूतमिदं सर्वमचिन्तयत भारत ||२९||

विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः ||२९||

कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः |

अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः ||३०||

एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः |

विनिर्जये पाण्डवानामभवद्भरतर्षभ ||३१||

कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना |

अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा ||३२||

संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः |

रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः ||३३||

भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः |

न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते ||३४||

न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः ||३४||

दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत् |

स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ||३५||

न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति |

मृतस्य भद्राणि कुतः कौरवेय कुतो जयः ||३६||

न कालोऽद्य विषादस्य भयस्य मरणस्य वा ||३६||

परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः |

उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् ||३७||

शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि ||३७||

अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम् |

सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ||३८||

गते त्रयोदशे वर्षे सत्येनायुधमालभे |

आनयिष्याम्यहं पार्थान्वशं तव जनाधिप ||३९||

एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा |

प्रणिपातेन चान्येषामुदतिष्ठत्सुयोधनः ||४०||

दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् ||४०||

ततो मनुजशार्दूलो योजयामास वाहिनीम् |

रथनागाश्वकलिलां पदातिजनसङ्कुलाम् ||४१||

गङ्गौघप्रतिमा राजन्प्रयाता सा महाचमूः |

श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः ||४२||

रथैर्नागैः पदातैश्च शुशुभेऽतीव सङ्कुला |

व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी ||४३||

जयाशीर्भिर्द्विजेन्द्रैस्तु स्तूयमानोऽधिराजवत् |

गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ||४४||

सुयोधनो ययावग्रे श्रिया परमया ज्वलन् |

कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ||४५||

दुःशासनादयश्चास्य भ्रातरः सर्व एव ते |

भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ||४६||

रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा |

प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ||४७||

कालेनाल्पेन राजंस्ते विविशुः स्वपुरं तदा ||४७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

241-अध्यायः

जनमेजय उवाच||

वसमानेषु पार्थेषु वने तस्मिन्महात्मसु |

धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम ||१||

कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः |

भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ||२||

वैशम्पायन उवाच||

एवं गतेषु पार्थेषु विसृष्टे च सुयोधने |

आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः ||३||

भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः ||३||

उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् |

गमनं मे न रुचितं तव तन्न कृतं च ते ||४||

ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् |

मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ||५||

प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते |

सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ||६||

क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज ||६||

दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् |

कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः ||७||

न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम |

धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ||८||

तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः |

सन्धिं सन्धिविदां श्रेष्ठ कुलस्यास्य विवृद्धये ||९||

एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः |

प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ||१०||

तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः |

अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् ||११||

तांस्तु सम्प्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः |

लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ||१२||

गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः |

पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः ||१३||

किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते |

कथं नु सुकृतं च स्यान्मन्त्रयामास भारत ||१४||

कर्ण उवाच||

दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव |

श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिंदम ||१५||

तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम |

तां पालय यथा शक्रो हतशत्रुर्महामनाः ||१६||

वैशम्पायन उवाच||

एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः |

न किञ्चिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ ||१७||

सहायश्चानुरक्तश्च मदर्थं च समुद्यतः |

अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ||१८||

राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा |

मम स्पृहा समुत्पन्ना तां सम्पादय सूतज ||१९||

एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् |

तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ||२०||

आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि |

सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ||२१||

ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः |

क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम ||२२||

बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः |

प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ||२३||

एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते |

पुरोहितं समानाय्य इदं वचनमब्रवीत् ||२४||

राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् |

आहर त्वं मम कृते यथान्यायं यथाक्रमम् ||२५||

स एवमुक्तो नृपतिमुवाच द्विजपुङ्गवः |

न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे ||२६||

आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ||२६||

दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव |

अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम ||२७||

अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो |

तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ||२८||

य इमे पृथिवीपालाः करदास्तव पार्थिव |

ते करान्सम्प्रयच्छन्तु सुवर्णं च कृताकृतम् ||२९||

तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम |

यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत ||३०||

तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः |

प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ||३१||

एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः |

एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् ||३२||

राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः |

अस्माकं रोचते चैव श्रेयश्च तव भारत ||३३||

अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव ||३३||

एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः |

कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत् ||३४||

रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः |

रोचते यदि युष्माकं तन्मा प्रब्रूत माचिरम् ||३५||

एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् |

संदिदेश ततो राजा व्यापारस्थान्यथाक्रमम् ||३६||

हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः |

यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ||३७||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

242-अध्यायः

वैशम्पायन उवाच||

ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह |

विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् ||१||

सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत |

सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् ||२||

एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते |

आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ||३||

ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः |

दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ||४||

प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः |

भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ||५||

निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् |

पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ||६||

ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः ||६||

तत्र कञ्चित्प्रयातं तु दूतं दुःशासनोऽब्रवीत् |

गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् ||७||

निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने ||७||

स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान् |

दुर्योधनो महाराज यजते नृपसत्तमः ||८||

स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः |

तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ||९||

अहं तु प्रेषितो राजन्कौरवेण महात्मना |

आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः ||१०||

मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ||१०||

ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् |

अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः ||११||

यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ||११||

वयमप्युपयास्यामो न त्विदानीं कथञ्चन |

समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ||१२||

श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् |

तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ||१३||

अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति |

वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः ||१४||

यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः |

आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ||१५||

शेषास्तु पाण्डवा राजन्नैवोचुः किञ्चिदप्रियम् |

दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ||१६||

अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः |

ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति ||१७||

ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् |

मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर ||१८||

धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः |

हर्षेण महता युक्तो विदुरं प्रत्यभाषत ||१९||

यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः |

तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् ||२०||

विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम |

यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् ||२१||

भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः |

वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ||२२||

कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् |

सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु ||२३||

विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः ||२३||

विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः |

विवेश हास्तिनपुरं सहितः कर्णसौबलैः ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

243-अध्यायः

वैशम्पायन उवाच||

प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् |

जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ||१||

लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा |

ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव ||२||

अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम् |

युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः ||३||

नैव तस्य क्रतोरेष कलामर्हति षोडशीम् ||३||

एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम् |

सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः ||४||

ययातिर्नहुषश्चापि मान्धाता भरतस्तथा |

क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ||५||

एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ |

प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ||६||

अभिवाद्य ततः पादौ मातापित्रोर्विशां पते |

भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः ||७||

अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलः |

निषसादासने मुख्ये भ्रातृभिः परिवारितः ||८||

तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः |

दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ||९||

हतेषु युधि पार्थेषु राजसूये तथा त्वया |

आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ||१०||

तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः |

सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु ||११||

निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ |

राजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि ||१२||

एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारत |

राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ||१३||

सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः |

कदा तु तं क्रतुवरं राजसूयं महाधनम् ||१४||

निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ||१४||

तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर |

पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ||१५||

अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः |

प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ||१६||

विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः ||१६||

दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुङ्गवान् |

प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः ||१७||

तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत ||१७||

पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः |

चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ||१८||

भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता |

प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति ||१९||

एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप |

अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् ||२०||

अनुस्मरंश्च सङ्क्लेशान्न शान्तिमुपयाति सः ||२०||

तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः |

बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ||२१||

धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुन्धराम् |

भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ||२२||

सङ्गम्य सूतपुत्रेण कर्णेनाहवशोभिना |

दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः ||२३||

पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ||२३||

भ्रातॄणां च प्रियं राजन्स चकार परन्तपः |

निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ||२४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

244-अध्यायः-मृगस्वप्नभयपर्व

जनमेजय उवाच||

दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः |

किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि ||१||

वैशम्पायन उवाच||

ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः |

स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम् ||२||

तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन् |

ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते ||३||

एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना |

प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम् ||४||

वयं मृगा द्वैतवने हतशिष्टाः स्म भारत |

नोत्सीदेम महाराज क्रियतां वासपर्ययः ||५||

भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः |

कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम् ||६||

बीजभूता वयं केचिदवशिष्टा महामते |

विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर ||७||

तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान् |

मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः ||८||

तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः |

तथ्यं भवन्तो ब्रुवते करिष्यामि च तत्तथा ||९||

इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः |

अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति ||१०||

उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः |

तनुभूताः स्म भद्रं ते दया नः क्रियतामिति ||११||

ते सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम् |

साष्टमासं हि नो वर्षं यदेनानुपयुञ्ज्महे ||१२||

पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम् |

मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति ||१३||

तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि ||१३||

ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः |

ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः ||१४||

इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा ||१४||

ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः |

ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम् ||१५||

विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा |

तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा ||१६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

245-अध्यायः-व्रीहिद्रौणिकपर्व

वैशम्पायन उवाच||

वने निवसतां तेषां पाण्डवानां महात्मनाम् |

वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ||१||

फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् |

प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः ||२||

युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् |

चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ||३||

न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः |

दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ||४||

संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः |

निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत् ||५||

अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी |

स च भीमो महातेजाः सर्वेषामुत्तमो बली ||६||

युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् ||६||

अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः |

वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः ||७||

कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः |

आजगाम महायोगी पाण्डवानवलोककः ||८||

तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः |

प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ||९||

तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः |

तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः ||१०||

तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः |

महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ||११||

युधिष्ठिर महाबाहो शृणु धर्मभृतां वर |

नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् ||१२||

सुखदुःखे हि पुरुषः पर्यायेणोपसेवते |

नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ||१३||

प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया |

उदयास्तमयज्ञो हि न शोचति न हृष्यति ||१४||

सुखमापतितं सेवेद्दुःखमापतितं सहेत् |

कालप्राप्तमुपासीत सस्यानामिव कर्षकः ||१५||

तपसो हि परं नास्ति तपसा विन्दते महत् |

नासाध्यं तपसः किञ्चिदिति बुध्यस्व भारत ||१६||

सत्यमार्जवमक्रोधः संविभागो दमः शमः |

अनसूयाविहिंसा च शौचमिन्द्रियसंयमः ||१७||

साधनानि महाराज नराणां पुण्यकर्मणाम् ||१७||

अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः |

कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ||१८||

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते |

तस्माच्छरीरं युञ्जीत तपसा नियमेन च ||१९||

यथाशक्ति प्रयच्छेच्च सम्पूज्याभिप्रणम्य च |

काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः ||२०||

सत्यवादी लभेतायुरनायासमथार्जवी |

अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ||२१||

दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति |

न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ||२२||

संविभक्ता च दाता च भोगवान्सुखवान्नरः |

भवत्यहिंसकश्चैव परमारोग्यमश्नुते ||२३||

मान्यान्मानयिता जन्म कुले महति विन्दति |

व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः ||२४||

शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा |

प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ||२५||

युधिष्ठिर उवाच||

भगवन्दानधर्माणां तपसो वा महामुने |

किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ||२६||

व्यास उवाच||

दानान्न दुष्करतरं पृथिव्यामस्ति किञ्चन |

अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ||२७||

परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम् |

प्रविशन्ति नरा वीराः समुद्रमटवीं तथा ||२८||

कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः |

पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ||२९||

तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः |

न दुष्करतरं दानात्तस्माद्दानं मतं मम ||३०||

विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् |

पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् ||३१||

अन्यायसमुपात्तेन दानधर्मो धनेन यः |

क्रियते न स कर्तारं त्रायते महतो भयात् ||३२||

पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर |

मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् ||३३||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ||३४||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

246-अध्यायः

युधिष्ठिर उवाच||

व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना |

कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ||१||

प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः |

सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ||२||

व्यास उवाच||

शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः |

आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ||३||

अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः |

सत्रमिष्टीकृतं नाम समुपास्ते महातपाः ||४||

सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः |

कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् ||५||

दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः |

देवतातिथिशेषेण कुरुते देहयापनम् ||६||

तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः |

प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि ||७||

स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः |

अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ||८||

व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः |

शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात् ||९||

तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् |

मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ||१०||

तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् |

दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह ||११||

बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव |

विकचः परुषा वाचो व्याहरन्विविधा मुनिः ||१२||

अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः |

अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम ||१३||

स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत |

पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ||१४||

प्रादात्स तपसोपात्तं क्षुधितायातिथिव्रती |

उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः ||१५||

ततस्तदन्नं रसवत्स एव क्षुधयान्वितः |

बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ||१६||

भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः |

अथानुलिलिपेऽङ्गानि जगाम च यथागतम् ||१७||

एवं द्वितीये सम्प्राप्ते पर्वकाले मनीषिणः |

आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः ||१८||

निराहारस्तु स मुनिरुञ्छमार्जयते पुनः |

न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ||१९||

न क्रोधो न च मात्सर्यं नावमानो न सम्भ्रमः |

सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ||२०||

तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् |

उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः ||२१||

न चास्य मानसं किञ्चिद्विकारं ददृशे मुनिः |

शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः ||२२||

तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा |

त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ||२३||

क्षुद्धर्मसञ्ज्ञां प्रणुदत्यादत्ते धैर्यमेव च |

विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ||२४||

आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् |

मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ||२५||

श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा |

तत्सर्वं भवता साधो यथावदुपपादितम् ||२६||

प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह |

इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः ||२७||

दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् |

जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम् ||२८||

अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः |

सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ||२९||

इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः |

देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ||३०||

हंससारसयुक्तेन किङ्किणीजालमालिना |

कामगेन विचित्रेण दिव्यगन्धवता तथा ||३१||

उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् |

समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने ||३२||

तमेवंवादिनमृषिर्देवदूतमुवाच ह |

इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम् ||३३||

के गुणास्तत्र वसतां किं तपः कश्च निश्चयः |

स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक ||३४||

सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः |

मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ||३५||

यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् |

श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ||३६||

श्रीमहाभारतम्

 || आरण्यकपर्वम् ||

247-अध्यायः

देवदूत उवाच||

महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम् |

सम्प्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा ||१||

उपरिष्टादसौ लोको योऽयं स्वरिति सञ्ज्ञितः |

ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने ||२||

नातप्ततपसः पुंसो नामहायज्ञयाजिनः |

नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल ||३||

धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः |

दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः ||४||

तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम् |

लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः ||५||

देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः |

यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा ||६||

एषां देवनिकायानां पृथक्पृथगनेकशः |

भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाः शुभाः ||७||

त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः |

मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल ||८||

नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम् |

न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा ||९||

बीभत्समशुभं वापि रोगा वा तत्र केचन |

मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः ||१०||

शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने |

न शोको न जरा तत्र नायासपरिदेवने ||११||

ईदृशः स मुने लोकः स्वकर्मफलहेतुकः |

सुकृतैस्तत्र पुरुषाः सम्भवन्त्यात्मकर्मभिः ||१२||

तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम् |

कर्मजान्येव मौद्गल्य न मातृपितृजान्युत ||१३||

न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च |

तेषां न च रजो वस्त्रं बाधते तत्र वै मुने ||१४||

न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः |

पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते ||१५||

ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः |

सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने ||१६||

तेषां तथाविधानां तु लोकानां मुनिपुङ्गव |

उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः ||१७||

पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः |

यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः ||१८||

ऋभवो नाम तत्रान्ये देवानामपि देवताः |

तेषां लोकाः परतरे तान्यजन्तीह देवताः ||१९||

स्वयम्प्रभास्ते भास्वन्तो लोकाः कामदुघाः परे |

न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः ||२०||

न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः |

तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ||२१||

न सुखे सुखकामाश्च देवदेवाः सनातनाः |

न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा ||२२||

जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च |

न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने ||२३||

देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा |

दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः ||२४||

त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः |

गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः ||२५||

सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा |

तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः ||२६||

एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा |

गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे ||२७||

कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि |

न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ||२८||

सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत् |

सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल ||२९||

असन्तोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः |

यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम् ||३०||

सञ्ज्ञामोहश्च पततां रजसा च प्रधर्षणम् |

प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम् ||३१||

आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः |

नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम् ||३२||

अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने |

शुभानुशययोगेन मनुष्येषूपजायते ||३३||

तत्रापि सुमहाभागः सुखभागभिजायते |

न चेत्सम्बुध्यते तत्र गच्छत्यधमतां ततः ||३४||

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते |

कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ||३५||

एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल |

तवानुकम्पया साधो साधु गच्छाम माचिरम् ||३६||

व्यास उवाच||

एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया |

विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह ||३७||

देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम् |

महादोषेण मे कार्यं न स्वर्गेण सुखेन वा ||३८||

पतनं तन्महद्दुःखं परितापः सुदारुणः |

स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये ||३९||

यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा |

तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम् ||४०||

इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम् |

शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम् ||४१||

तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः |

ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह ||४२||

ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम् |

जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम् ||४३||

तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि |

राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि ||४४||

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् |

पर्यायेणोपवर्तन्ते नरं नेमिमरा इव ||४५||

पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम |

वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः ||४६||

वैशम्पायन उवाच||

एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम् |

जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ||४७||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.