शतदूषणी निष्प्रपञ्चीकरणनियोगभङ्गवादः(46)

शतदूषणी ।।अथ निष्प्रपञ्चीकरणनियोगभङ्गवादः षट्चत्वारिंशः ।।46।। आविभर्आवतिरोभावजन्मनाशविकल्पवत् । यस्यैतदक्षयं नित्यं जगतं विष्णुमाश्रये ।। ये पुनस्सर्वशब्दानां कार्यपरत्वं वदतां मतमपि कटाक्षयन्तस्सिद्धरूपे ब्रह्मणि स्वतो निरतिशय पुरुषार्थरूपे ज्ञानजननमात्रेण प्रयोजनपर्यवसाने वेदान्तानां संभवत्यपि प्रत्यक्षाद्यबाधितनिरतिशय पुरुषार्थरूपब्रह्मज्ञाने स्वतः प्रामाण्यमपि विस्मरन्तस्तथाविधपरिनिष्पन्नब्रह्मस्वरूपपशुद्ध्यर्थं तस्य निष्प्रपञ्चताकरणनियोगविषयतामाहुः, तेषां तथाविधनियोगविधिवाक्यासंभवात् सपरिकरनियोगा सिद्धेश्च निर्मूलः प्रलापः । तथा हि -न तावन्निष्प्रपञ्चं ब्रह्म कुर्यादिति विधिवाक्यमधीमहे । नच फलकरणदर्शनादिभिः कल्प्यते । नच स्मृत्याद्यनुसारेण तथाविधश्रुतिरनुमीयते […]

शतदूषणी शब्दावेद्यत्वनिरासवादः(45)

शतदूषणी ।।अथ शब्दावेद्यत्वनिरासवादः पञ्चचत्वारिंशः ।।45।। यन्नामनि परोरजांसि गृणतां यादृच्छिकैर्हेतुमिः दुर्लङ्घोऽप्युपयाति गोष्पदतुलां संसारवारां निधिः । दूरे नित्यमसीमभूमकतया वाचां यदाचक्षते तद्वन्देमहि सर्वशब्दविषयं त्रय्यन्तवेद्यं महः ।। यदूचिरे -निर्धूतनिखिलकल्पनाजाले स्वप्रकाशचिन्मात्रे ब्रह्मणि कस्यचिच्छब्दस्य वृत्तिस् संभवति । नहि निमित्तमन्तरेण शब्दाः प्रवर्तेरन्, न चावेद्ये वेदकानामवकाशः । न च सर्वेषामात्मसाक्षिकं प्रकाशमाने प्रकाशकापेक्षा । न चैवमुपदेशनैरर्थक्यम्, स्वत एव प्रकाशमानेऽपि स्वरूपे कल्पितोपप्लवप्रशमनमात्रार्थतया प्रतिपन्नार्थप्रतिष्ठापनार्थप्रत्यभिज्ञापकतया वोपदेशसाफल्यात् । […]

शतदूषणी निवृत्त्यनुपपत्तिवादः(44)

शतदूषणी ।।अथ निवृत्त्यनुपपत्तिवादः चतुश्चत्वारिंशः ।।44।। सत्त्वानीव विरुद्धजातिजनुषा सिद्धानि सिद्धाश्रमे वैरं यत्र मिथस्त्यजन्ति विधयस्सर्वैर्निषेधैस्सह । तं रङ्गेशयमङ्गसङ्गिकमलालक्ष्येश्वरप्रक्रियं शान्तावद्यमनन्तमङ्गलगुणं देवं प्रपद्येमहि ।। येयं ब्रह्मणः श्रवणमनननिदिध्यासनादिक्रमपरिणतविशदाद्वैतवाक्यार्थविज्ञानहेतुका निश्शेषाविद्यानिवृत्तिरुच्यते, सा किमध्यासरूपा, नवा? पूर्वत्र कथं निश्शेषाविद्यानिवृत्तिः,अध्यासरूपायां तस्यां सत्यां तन्मूलाविद्याया अपि विद्यमानत्वात्, उपादानमन्तरेणोपादेयस्थित्ययोगात् । आत्मोपादाना साऽस्त्विति चेन्न; आत्मनःपरिणामित्वप्रसङ्गात् । सत्योपादानायाश्च सत्यत्वेन सद्वितीयत्वप्रसङ्गात् । नच दोषमन्तरेणाध्यासो भवतामपीष्टः, तथा सत्यविद्याकल्पनस्यैव निर्मूलत्वप्रसङ्गात् । यदि सा […]

शतदूषणी निवर्तकानुपपत्तिवादः(43)

शतदूषणी अथ निवर्तकानुपपत्तिवादः त्रिचत्वारिंशः ।।43।। अनन्यानां पुंसामनवधिकभक्तिस्थितिजुषामविद्याध्वंसे यच्चरणवरिवस्यापरिणतेः । तदेकं सत्संवित्सुखमवधिदूरीकृतगुणं हताशेषावद्यं हयवदनमीडीमहि महः ।। प्रतिष्ठितोऽयमर्थः प्रमाणपरतन्त्राणां – यदुत कर्मयोगज्ञानयोगपरिशोधितान्तः करणस्य तत्तद्वर्णाश्रमोचितनित्यनैमित्तिकोप संहृतिनिषिद्धपरिहारनिष्ठस्य अनवरतविहितध्यानार्चनादि क्रमपरिणत निरतिशयप्रीतिरूपतापन्ननिदिध्यासन निरुद्धसुहृद्विषत्संक्रमणीयपूर्वोत्तरपुण्यपापस्य, फलोन्मुखकर्मपर्यवसाननिर्मुक्तस्थूलसूक्ष्माचित्संसर्गस्य तथाविधभजनाराधितपरमपुरुषप्रसादादेव सार्व यापरपर्याया निश्शेषाविद्यानिवृत्तिरिति । ये पुनरद्धैतविज्ञानादेव ब्रह्माज्ञाननिवृत्तिरिति जल्पन्ति, तान्प्रति ब्रूमः कथंभूतमिदमद्वैतज्ञानमिति । कि ब्रह्मस्वरूपभूताज्ज्ञानाद्भिन्नम्, उताभिन्नम्, यद्वा भिन्नाभिन्नम्, उतानुभयात्मकम्, उताशक्यवेदनकथम्बावं किञ्चिदिति । न प्रथमः, तद्वि निर्विषयम्, सविषयं […]

शतदूषणी मायाऽविद्याविभागभङ्गवादः(42)

शतदूषणी ।।अथ मायाविद्याविभागभङ्गवादः द्विचत्वारिंशः ।।42।। य एको दुर्लङ्घ्यत्रिगुणनिजमायानिगलितैर्विचित्रैः क्षेत्रज्ञैर्विहरति सोजासहचरः । जगत्सर्गक्षेमक्षपणपरिकर्मीणमहिमा दयालुर्देवोऽसौ तुरगवदनस्तारयतु नः ।। ये तु ब्रह्मणो दोषं परिजिहीर्षन्तः ब्रह्माज्ञानं मायशब्देनोपचरन्ति, तान्प्रति ब्रूमः, मायाविद्ययोः को विशेष इति । परव्यामोहनहेतुर्माया, स्वव्यामोहनहेतुरविद्येति चेत्, किं परेषामदर्शनेऽपि तद्धामोहनम्? उत तद्दर्शने? न प्रथमः, असंभवात्; न हि मायाविनः परानपश्यन्तस्तन्मोहनमिच्छन्ति, मोहयन्ति वा; मायाविशब्दस्य परव्यामोहनाभिसन्धिमत्पुरुषविशेषवाचित्वात् । अन्यथा मोहनहेतूनां मणिमन्त्रौषधीनामपि मायावित्वप्रसङ्गात् । […]

शतदूषणी अविद्यास्वरूपानुपपत्तिवादः(41)

शतदूषणी ।।अथ अविद्यास्वरूपानुपपत्तिवाद एकचत्वारिंशः ।।41।। अविद्याख्यावद्यं फलमपि तदीयं भगवतो विदूरे यस्येति श्रुतिशिरसि जोघुष्यत इदम् । यदज्ञानाद्बन्धो भवति न तु यद्वैभवविदां स मे देवः श्रीमांश्छमयतु सदा चेतसि तमः ।। यः पुनरयं स्वप्रकाशचिन्मात्रैकरसस्य ब्रह्मणो विश्वभ्रमहेतुरविद्याख्यो दोषः, स किं परमार्थः, उतापरमार्थः? आद्येऽपि ब्रह्मणो भिन्नोऽभिन्नो वा? भिन्नत्वे परमार्थद्वित्वप्रसङ्गः । अभिन्नत्वे च ब्रह्मण एव विश्वभ्रमहेतुदोषत्वमुक्तं स्यात् । तथाच ब्रह्मणो नित्यत्वेन […]

शतदूषणी जीवाज्ञानभङ्गवादः(40)

शतदूषणी ।। अथ जीवाज्ञानभङ्गवादः चत्वारिंशः ।।40।। अखिलचिदचिदन्तर्यामितां प्राप्य तिष्ठन् स्वयमखिलगुणाढ्यस्सूरिभिर्नित्यसेव्यः । निजचरणनिषेवावैभवेनापराधान् व्यपनयति नराणां व्यक्तमेनं भजामः ।। ये पुनः प्रसक्तं ब्रह्मणोऽविद्यादिरूपमसाध्यदोषं भिषज्यन्त इवाहुः – न ब्रह्मणि साक्षादज्ञान संसारादिगन्धः, अविद्यान्तः करणप्रतिबिम्बितस्य तस्य जीवत्वात्; जीवाश्रयत्वाच्चाज्ञानसंसारादेः । यद्यपि मूलबिम्बस्वरूपेण प्रतिबिम्बेनापि भवितव्यम्, तथापि यथा मणिकृपाणदर्पणादि प्रयुक्ताल्पत्वमलिनत्वतरलत्वादयो धर्माः प्रतिबिम्बैकवर्तिनो वस्तुतस्तदभिन्नेऽपि मुखे न सम्बध्यन्ते, नापि परस्परं संकीर्यन्ते, तथाऽत्रापि ब्रह्मप्रतिबिम्बभूतजीवगता दोषा ब्रह्मणि […]

शतदूषणी भावरूपाज्ञानभङ्गवादः(39)

शतदूषणी अथ भावरूपाज्ञानभङ्गवादः एकोनचत्वारिंशः । श्रुतिकिरीटनिरूपणनिर्भरप्रसरयैव धिया परिशोधिताम् । सुखिमलां पदवीमदवीयसीं भजत माधवभक्तिमयीमिमाम् ।। भावरूपं यदज्ञानं ये जनाः परिचक्षते । तच्चिते तत्तथाभूतं निश्चिन्वन्ति विपश्चितः ।। एवं ह्यज्ञानमुषिततत्त्वज्ञानैर्विज्ञातम् – प्रत्यक्षानुमानागमैर्भावरूपमज्ञानं प्रतीयते । तत्र प्रत्यक्षं तावदहमज्ञो मामन्यं च न जानामीत्यादिरूपं सर्वसम्मतम् । तत्किं भावरूपमज्ञानं विषयीकरोति उताभावरूपमिति विवेचनीयम् । न तावदभावरूपम्; अभावो हि प्रतियोगिनिरूपणाधीननिरूपणः; ततश्च ज्ञानभावप्रतीतिर्ज्ञानग्रहणमन्तरेण नोपपद्यते; ज्ञानं […]

शतदूषणी अखण्डवाक्यार्थखण्डनवादः(38)

शतदूषणी अथ अखण्डवाक्यार्थखण्डनवादः अष्टत्रिंशः । ज्ञानानन्दगुणोपेतं ज्ञानानन्दमयं महः । पायादपायाद्भवतो भवबन्धविधायकात् ।। सत्यज्ञानाजिभिर्वाक्यैरखण्डं बोध्यमिच्छताम् । अहङ्करोमि मूर्खाणामहङ्करणखण्डनम् ।। यत्तु जल्पन्ति – विगीतं वाक्यमखण्डार्थपरम्, समानाधिकरणवाक्यत्वात्, सोयं देवदेत्त इत्यादिवाक्यवदिति । अत्र किमिदमखण्डार्थपरत्वं? निवयवार्थपरत्वं वा? अच्छेद्यार्थपरत्वं वा? निर्विशेषणपरत्वं वा? विशेष्यमात्रपरत्वं वा? निर्भेदार्थपरत्वं वा? भावरूपविशेषणरहितपरत्वं वा? एकविशेष्यपरत्वं वा? अन्यद्वा किंचित्? इति । न प्रथमद्वितीयौ, सिद्धसाधनात्; दृष्टान्तस्य साध्यविकलत्वाच्च । न हि […]

शतदूषणी जीवेश्वरैक्यभङ्गवादः(37)

शतदूषणी अथ जीवेश्वरैक्यभङ्गवादः सप्तत्रिंशः । आत्मतत्वविदां पुंसां यद्दास्यं लास्यकारणम् । तद्वन्दे परमानन्दमिन्दिरामन्दिरं महः ।। यत्पुनर्महासाहसिका दृढतरनिरूढहेदात्ममोहमन्दधियः प्रत्यक्षादिविरोधमपि तिरस्कृत्य स्वात्मानमेवेश्वरमभिमन्यन्ते, तदपि भेदसामान्यस्य आत्मनानात्वस्य च समर्थनात् “”एको बहूना” मित्याद्युक्तैकानेकतादात्म्यायोगाच्च निरस्तप्रायमेव । विशेषतोपि पश्यामः । जीवस्येश्वरत्वं किं प्रत्यक्षबलादभ्युपगम्यते, उतो पपत्तिसामर्थ्यात्, यद्वा शास्त्रवैभवात्? अन्यतः कुतश्चित्र सम्भत्येव । नाद्यः, अनीश्वरतयैव स्वात्मन उपलम्भात् । अप्रतीत्तेश्वरस्य कथं तत्प्रतियोगिकानीश्वरत्वनिरूपणमिति चेन्न; – श्रुत्यादिभिः प्रमितेश्वरतत्वानां […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.