श्रीविष्णुपुराणम् Amsa 03 Ady 16
श्रीविष्णुपुराणम् षोडशोऽध्यायः और्व : – हविष्यमत्स्यमांसैस्तु शशस्य नकुलस्य च । सौकरच्छागलैणेपरौरवैर्यगवयेन च ॥ १ ॥ हविष्येति ॥ हविष्येणैकं मासं तृप्तिः, मत्स्येन द्वौ, मांसेन त्रीन् मासान् । अत्र मांसो हारिणादि, • त्रीन् मासान् हरिणेन तृप्तिरिति मनूक्तेः । छागल:-अजः, रुरुर्महान् कृष्णसारः ॥ १ ॥ औरभ्रगव्यैश्च तथा मासवृद्ध्या पितामहाः । प्रयान्ति तृप्तिं मांसैस्तु नित्यं वार्ध्रीणसामिपैः ॥ […]
श्रीविष्णुपुराणम् Amsa 03 Ady 15
श्रीविष्णुपुराणम् अथ पञ्चदशोऽध्यायः और्वः- ब्राह्मणान्भोजयेच्छ्राद्धे यद्गुणांस्तान्निबोध मे ॥ १ ॥ त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णष्षडङ्गवित् । वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः॥ २ ॥ ऋत्विक्स्वस्त्रीयदौहित्रजामातृश्वशुरास्तथा । मातुलोऽथ तपोनिष्ठः पश्चाग्न्यभिरतस्तथा । शिष्यास्संबन्धिनश्चैव मातापितृपरश्च यः ॥ ३ ॥ त्रिणाचिकेत इति ॥ द्वितीयकाठकस्थानुवाकविशेषास्त्रिणाचिकेत: , तदध्यायी तदर्थानुष्ठायी च त्रिणाचिकेतः । मधुवाता इति त्र्यचामध्यायी तद्व्रतस्त्रिमधुः। छान्दोग्योक्तमधुविद्या नेष्ठो वा । * ब्रह्ममेतुमामित्यनुवाकत्रयाच्यायी तद्व्रतश्च त्रिसुपर्णः । […]
श्रीविष्णुपुराणम् Amsa 03 Ady 14
श्रीविष्णुपुराणम् चतुर्थदशोऽध्यायः और्व:- ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशून् ॥ १ ॥ सरीसृपानृषिगणान्यच्चान्यद्भूतसंज्ञितम् । श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥२॥ मासिमास्यसिते पक्षे पञ्चदश्यां नरेश्वर । तथाऽष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे ॥ ३ ॥ श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् । श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयते तथा ॥ ४ ॥ विषुवे चापि संप्राप्ते ग्रहणे शशिसूर्ययोः । समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति […]
श्रीविष्णुपुराणम् Amsa 03 Ady 13
श्रीविष्णुपुराणम् त्रयोदशोऽध्यायः और्वः – सचेलस्य पितुः स्नानं जाते पुत्रे विधीयते । जातकर्म तथा कुर्याच्छ्राद्धमभ्युदयं च यत् ॥ १ ॥ युग्मान्देवांश्च पित्र्यांश्च सम्यक्सव्यक्रमाद्द्विजान् । पूजयेद्भोजयेच्चैव तन्मना नान्यमानसः ॥ २ ॥ युग्मानिति ॥ सव्यक्रमात्-प्रदक्षिणक्रमात् ॥ १,२ ॥ दध्यक्षतैस्सबदरैः प्राङ्मुखोदङ्मुखोऽपि वा । देवतीर्थेन वै पिण्डान्दद्यात्कायेन वा नृप ॥ ३ ॥ नान्दीमुखः पितृगणस्तेन श्राद्धेन पार्थिव । प्रीयते […]
श्रीविष्णुपुराणम् Amsa 03 Ady 12
श्रीविष्णुपुराणम् अथ द्वादशोऽध्यायः और्व:- देवगोब्राह्मणान्सिद्धान्वृद्धाचार्यांस्तथाऽर्चयेत् । द्विकालं च नमेत्सन्ध्यामग्नीनुपचरेत्तथा ॥१॥ सदाऽनुपहते वस्त्रे प्रशस्ताश्च महौषधीः । गारुडानि च रत्नानि बिभृयात्प्रयतो नरः ॥ २ ॥ सदेति ॥ ओषधी:-विष्णुक्रान्तादूर्वाद्याः । गारुडानि रत्नानि च-विषघ्नानि मरकतादीनि ॥ १,२ ॥ प्रस्निग्धामलकेशश्च सुगन्धश्चारुवेषधृक् । सितास्सुमनसो हृद्या विभृयाच्च नरस्सदा ॥३॥ प्रस्निग्धा इति । प्रस्निग्धाः-अलङ्कृताः अमला: केशा यस्य स ॥ ३॥ […]
श्रीविष्णुपुराणम् Amsa 03 Ady 11
श्रीविष्णुपुराणम् एकादशोऽध्यायः सगरः- गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने। लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते ॥ १ ॥ और्वः — श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् । सदाचारवता पुंसा जितौ लोकावुभावपि ॥ २ ॥ साधवः क्षीणदोषास्तु सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदाचारस्स उच्यते ॥ ३ ॥ सप्तर्षयोऽध मनवः प्रजानां पतयस्तथा । सदाचारस्य वक्तारः कर्तारश्च महीपते ॥ ४ ॥ ॥१-४॥ ब्राझे […]
श्रीविष्णुपुराणम् Amsa 03 Ady 10
श्रीविष्णुपुराणम् अथ दशमोऽध्यायः सगरः – कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा । पुंसः क्रियामहं श्रोतमिच्छामि द्विजसत्तम ॥१॥ नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः॥२॥ कथितमिति ॥ पुसः क्रियां— षोडशसंस्काररूपाम् । गर्भाधानपुंसवनसीमन्तोन्नयन– –विष्णुबलिजातकर्मनामकरणोपनिष्क्रमणान्नप्राशनचूडोपनयनवेदव्रतचतुष्टयसमावर्तनविवाहाः षोडशसंस्काराः ॥ १,२ ॥ और्वः — यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् । तदहं कथयिष्यामि शृणुष्वैकमना मम ॥३॥ यदेतदिति ॥ नित्यनैमित्तिकाश्रयमिति काम्यस्याप्युपलक्षणम् […]
श्रीविष्णुपुराणम् Amsa 02 Ady 16
श्रीविष्णुपुराणम् षोडशोऽध्यायः ब्राह्मण: – ऋभुर्वर्षसहस्रे तु समतीते नरेश्वर । निदाघज्ञानदानाय तदेव नगरं ययौ ॥१॥ नगरस्य बहिस्सोऽथ निदाघं ददृशे मुनिः । महाबलपरीवारे पुरं विशति पार्थिवे ॥२॥ दूरे स्थितं महामार्ग जनसम्मर्दवर्जकम् । क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम् ॥३॥ दृष्ट्वा निदाघं स ऋभुरुपगम्याभिवाद्य च । उवाच कस्मादेकान्ते स्थीयते भवता द्विज ॥४॥ निदाघः- भो विप्र जनसम्मर्दो महानेष नरेश्वरः । प्रविविक्षुः पुरं रम्यं तेनात्र […]
श्रीविष्णुपुराणम् Amsa 02 Ady 15
श्रीविष्णुपुराणम् पञ्चदशोऽध्यायः श्रीपराशरः – इत्युक्ते मौनिनं भूयश्चिन्तयानं महीपतिम् । प्रत्युवाचाथ विप्रोऽसावद्वैतान्तर्गतां कथाम् ॥१॥ ब्राह्मणः- श्रूयतां नृपशार्दूल यद्गीतमृभुणा पुरा । अवबोध जनयता निदाघस्य महात्मनः ॥२॥ ऋभुर्नामाऽभवत्पुत्रो ब्रह्मणः परमेष्ठिनः । विज्ञाततत्त्वसद्भावो निसर्गादेव भूपते ॥३॥ तस्य शिष्यो निदाघोऽभूत्पुलस्त्यतनयः पुरा । प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥४॥ इत्युक्त इति ॥ इत्युक्ते—एवमात्मनो वैषम्याभाव उक्ते । क्षुत्पिपासादिधर्मकत्वभ्रान्त्या आत्मनो […]
श्रीविष्णुपुराणम् Amsa 03 Ady 09
श्रीविष्णुपुराणम् नवमोऽध्यायः और्व उवाच:- बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥१॥ शौचाचारवता तत्र कार्यं शुश्रूषणं गुरोः । व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥२॥ उमे संध्ये रविं भूप तथैवाग्निं समाहितः । उपतिष्ठेत्तथा कुर्याद्गुरोरप्यभिवादनम् ॥ ३॥ शौचाचारवतेति ॥ व्रतानि–प्राजापत्यादीनि मधुमांसादिवर्जनादीनि च । कृतबुद्धिना-अवहितबुद्धिना ॥ २-३॥ स्थिते तिष्ठेद्व्रजेद्याते नीचैरासीत चासति । शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं […]