75 Sarga अरण्यकाण्डः

दिवं तु तस्यां यातायां शबर्या स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ।। 3.75.1 ।। अथ पम्पागमनं पञ्चसप्ततितमे दिवं त्वित्यादि । स्वेन तेजसा उपलक्षितायामिति शेषः ।। 3.75.1 ।। स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेकाग्रं लक्ष्मणं राघवो ऽब्रवीत् ।। 3.75.2 ।। एकाग्रम् एकचित्तम् ।। 3.75.2 ।। दृष्टो ऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो […]

74 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःसप्ततितमः सर्गः तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने । प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ।। 3.74.1 ।। एवमेतावत्पर्यन्तं भगवत्कैङ्कर्यतत्फले दर्शिते । अथाचार्याभिमाननिष्ठातत्फले दर्शयति चतुःसप्ततितमे तावित्यादि । प्रतीचीं दिशं गृह्य गृहीत्वा कबन्धेन दर्शितं पम्पाया मार्गमुद्दिश्य प्रतस्थतुः प्रतस्थाते ।। 3.74.1 ।। तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान् द्रुमान् । वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ।। 3.74.2 ।। […]

73 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिसप्ततितमः सर्गः निदर्शयित्वा रामाय सीतायाः प्रतिपादने । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ।। 3.73.1 ।। अथ कबन्धः सुग्रीवस्थानमार्गं दर्शयित्वा गत इत्याह त्रिसप्ततितमे निदर्शयित्वेत्यादि । सीतायाः प्रतिपादने प्रापणे निमित्ते । निदर्शयित्वा प्रदर्श्य “क्त्वा च च्छन्दसि” इति क्त्वाप्रत्ययः । पूर्वोक्तमुपायमिति शेषः ।। 3.73.1 ।। एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः । प्रतीचीं दिशमाश्रित्य प्रकाशन्ते […]

72 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्विसप्ततितमः सर्गः एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ । गिरिप्रदरमासाद्य पावकं विससर्जतुः ।। 3.72.1 ।। अथ संस्कृतः कबन्धः स्वरूपं प्रत्यापन्नो मित्रमुपदिशति द्विसप्ततितमे एवमुक्तावित्यादि । प्रदरं श्वभ्रम् । आसाद्य प्रापय्य कबन्धमिति शेषः ।। 3.72.1 ।। लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः । चितामादीपयामास सा प्रजज्वाल सर्वतः ।। 3.72.2 ।। महोल्काभिः निर्गतज्वालकाष्ठैः ।। 3.72.2 ।। तच्छरीरं […]

71 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकसप्ततितमः सर्गः पुरा राम महाबाहो महाबलपराक्रम । रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् । यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ।। 3.71.1 ।। अथ कबन्धः स्ववृत्तान्तकथनपूर्वकं स्वशापमोक्षाय स्वशरीरदहनमर्थयते एकसप्ततितमे पुरेत्यादिसार्धश्लोक एकान्वयः । अचिन्त्यम् अचिन्त्यवैभवम् ।। 3.71.1 ।। सो ऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् । ऋषीन्वनगतान् राम त्रासयामि ततस्ततः ।। 3.71.2 ।। सो […]

70 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्ततितमः सर्गः तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ।। 3.70.1 ।। अथ कबन्धस्य बाहुच्छेदेन पूर्वजन्मस्मृतिरुच्यते सप्ततितमे तौ त्वित्यादि । परिक्षिप्तौ परिवेष्टितौ ।। 3.70.1 ।। तिष्ठतः किन्नु मां दृष्ट्वा क्षुधार्तं क्षत्ित्रयर्षभौ । आहारार्थं तु सन्दिष्टौ दैवेन गतचेतसौ ।। 3.70.2 ।। तिष्ठत इति । क्षुधार्तं मां दृष्ट्वा भीतौ […]

69 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनसप्ततितमः सर्गः कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ । अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ।। 3.69.1 ।। अथायोमुखीविरूपकरणपूर्वकं कबन्धदर्शनमेकोनसप्ततितमे कृत्वैवमित्यादि । अवेक्षन्तौ अवेक्षमाणौ । पश्चिमां दक्षिणपश्चिमामित्यर्थः ।। 3.69.1 ।। तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ । अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ।। 3.69.2 ।। ताविति । दक्षिणां दिशमिति दक्षिणपश्चिमा ह्युभयथा व्यवहर्तुं शक्या । अविप्रहतम् अक्षुण्णम् । […]

68 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टषष्टितमः सर्गः रामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम् । सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ।। 3.68.1 ।। अथ भगवत्कार्यार्थं त्यक्तशरीरस्य गृध्रराजस्य मोक्षपदप्रापणमष्टषष्टितमे राम इत्यादि । रौद्रेण रावणेन । मित्रसम्पन्नं सर्वजनमित्रमित्यर्थः । यद्वा परनिपातः सम्पन्नमित्रम्, अत्यन्तरामविषयसौहार्दयुक्तमित्यर्थः ।। 3.68.1 ।। ममायं नूनमर्थेषु यतमानो विहङ्गमः । राक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्षति दुस्त्यजान् ।। 3.68.2 ।। अर्थेष्विति […]

67 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तषष्टितमः सर्गः पूर्वजो ऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् । सारग्राही महासारं प्रतिजग्राह राघवः ।। 3.67.1 ।। अथ लक्ष्मणवाक्यप्रतिष्ठापितधैर्यो रामो युद्धभूमेर्दक्षिणतः किञ्चिद्दूरे गृध्रराजं दृष्ट्वा रोदिति सप्तषष्टितमे पूर्वजो ऽपीत्यादि । राघवः पूर्वजो ऽपि लक्ष्मणेन कनिष्ठेन सुभाषितं युक्तियुक्ततयोक्तं वाक्यम् उक्तमात्रस्तु उक्तमात्र एव जग्राह । “बालादपि सुभाषितम्” इति स्मृतेः । स्वयमुपदेष्टा कथमन्योक्तं जग्राहेत्यत्राह सारग्राहीति । कथमस्य वाक्यस्य […]

66 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षट्षष्ठितमः सर्गः तं तथा शोकसन्तप्तं विलपन्तमनाथवत् । मोहेन महाताविष्टं परिद्यूनमचेतनम् ।। 3.66.1 ।। ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्णः । रामं सम्बोधयामास चरणै चाभिपीडयन् ।। 3.66.2 ।। एवं लक्ष्मणो राममाश्वास्य पुनर्वक्तव्यांशं ज्ञापयति षट्षष्टितमे तं तथेत्यादिश्लोकद्वयमेकान्वयम् । परिद्यूनं परिदेवनं प्राप्तम्, परिशोचन्तमित्यर्थः । “च्छ्वोः शूडनुनासिके च” इत्यूठ् । “दिवो ऽविजिगीषायाम्” इति निष्ठानत्वम् । अचेतनम् अस्वस्थचित्तम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.