35 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चत्रिंशः सर्गः ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् । सचिवानभ्यनुज्ञाय कार्यं बुध्वा जगाम सः ।। 3.35.1 ।। यद्वाहनस्य माहात्म्यं सर्वेषां विस्मयावहम् । अवतीर्णं रघोर्वंशे तमहं विष्णुमाश्रये ।। तत इति । रोमहर्षणं भयोत्पादकत्वेन रोमाञ्चकरम् । सचिवमुखेन कार्यं बुद्धा तानभ्यनुज्ञाय विसृज्य ।। 3.35.1 ।। तत्कार्यमनुगम्याथ यथावदुपलभ्य च । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।। […]

34 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुस्त्रिंशः सर्गः ततः शूर्पणखां क्रुद्धां ब्रुवन्तीं परुषं वचः । अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः ।। 3.34.1 ।। परगोष्ठीप्रसिद्धानां गुणानामाकरो महान् । अनुजो यस्य सौमित्रिस्तमहं राममाश्रये ।। तत इति । सङ्क्रुद्धः शत्रुविषये ऽतीव क्रोधवान् ।। 3.34.1 ।। कश्च रामः कथंवीर्यः किंरूपः किम्पराक्रमः । किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ।। 3.34.2 ।। कथंवीर्यः कीदृशवीर्यः […]

33 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयस्त्रिंशः सर्गः ततः शूर्पणखा दीना रावणं लोकरावणम् । आमात्यमध्ये सङ्क्रुद्धा परुषं वाक्यमब्रवीत् ।। 3.33.1 ।। अमर्यादो भृशं मूर्खो वध्यो यस्य निशाचरः । तमहं नीतिसम्पन्नं रघुनाथं समाश्रये ।। तत इति । दीना रामपरिभूतत्वात् । स्वपरिभवदर्शने ऽपि भ्रातुर्निश्चलतया सङ्क्रुद्धा ।। 3.33.1 ।। प्रमत्तः कामभोगेषु स्वैरवृतो निरङ्कुशः । समुत्पन्नं भयं घोरं बोद्धव्यं नावबुद्ध्यसे ।। […]

32 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वात्रिशं सर्गः ततः शूर्पणखी दृष्ट्वा सहस्राणि चतुर्दश । हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ।। 3.32.1 ।। दूषणं च खरं चैव हतं त्रिशिरसा सह । दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ।। 3.32.2 ।। तपोबाहुबलोपेतं सर्वभूतभयङ्करम् । यो हनिष्यति दुर्बुद्धिं रावणं सो ऽस्तु मे मुदे ।। तत इति । शूर्पणखीत्यार्षो ङीषादिः । महानादमिति क्रियाविशेषणम् […]

31 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकत्रिंशः सर्गः त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेने रावणं वाक्यमब्रवीत् ।। 3.31.1 ।। एवं शरणागतिमन्त्रविवरणरूपे श्रीरामायणे इयता गन्थसन्दर्भेण उत्तरखण्डार्थो विवृतः । अनुष्ठानदशायां हि प्रथमखण्डार्थस्य प्राथम्यम्, व्युत्पत्तिदशायां तु उत्तरखण्डार्थस्य फलानुसारेणोपायप्रवृत्तेः, अतो द्वितीयखण्डार्थः प्रथमं विवृतः । तत्र बालकाण्डे प्रथमपदार्थभूतपुरुषकारयोगो दर्शितः, अयोध्याकाण्डे द्वितीयपदार्थभूतसौलभ्यादिगुणयोगः, आरण्यकाण्डे शूर्पणखागमनात्पूर्वभाविवृत्तान्तेन चतुर्थ्यर्थभूता किङ्खरवृत्तिरुक्ता, ततः खरवधान्तवृत्तान्तेन चरमपदार्थभूता विरोधिनिवृत्तिरिति । अथ […]

30 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिंशः सर्गः भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः । स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ।। 3.30.1 ।। एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ।। 3.30.2 ।। निरस्तनिखिलालम्बमहङ्कारमिव स्थितम् । खरं निहत्य साधूनां सुखावहमहं भजे ।। भित्त्वा त्वित्यादि । धर्मवत्सल इत्यनेन निरायुधवधो ऽनुचित इति श्रीरामो ऽमन्यतेति गम्यते । स्मयमानः […]

29 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनत्रिंशः सर्गः खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ।। 3.29.1 ।। अहङ्कारस्य हीनस्य व्यक्तां शक्तिमिव स्थिताम् । गदां खरस्य निर्भिद्य राजन्तं राममाश्रये ।। सर्वसाधनवैकल्येन खरस्यानुकूल्यमपि भवेदिति तच्चित्तपरीक्षार्थमाह खरं त्वित्यादिना । मृदुपूर्वं न्यायावलम्बनेनोक्तम् । परुषं मर्मोद्घाटनरूपत्वात् ।। 3.29.1 ।। गजाश्वरथसम्बाधे बले महति तिष्ठता । कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् […]

28 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टाविंशः सर्गः निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ।। 3.28.1 ।। महामोहसहायस्य दर्पस्याश्रयनिग्रहम् । व्यङ्क्तुं खरोपकरणं हन्तारं राममाश्रये ।। निहतमित्यादि । निहतं दूषणं दृष्ट्वा रामस्य विक्रमं च दृष्ट्वा । स्थितस्य खरस्य त्रासो ऽभवदिति योजना ।। 3.28.1 ।। स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः । हतमेकेन रामेण […]

27 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तविंशः सर्गः खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः । राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् ।। 3.27.1 ।। त्रिशिरःशिरसां छेददृष्टान्तेन स्वसेविनाम् । दुःखत्रयनिहन्तारं लक्ष्मणाग्रजमाश्रये ।। खरं त्विति । वाहिनीपतिः सेनापतिः । सन्निपत्य समीपमागत्येत्यर्थः ।। 3.27.1 ।। मां नियोजय विक्रान्त सन्निवर्तस्व साहसात् । पश्य रामं महाबाहुं संयुगे विनिपातितम् ।। 3.27.2 ।। साहसात् युद्धाभिमुख्यलक्षणात् । विनिपातितमिति मयेति […]

26 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षड्विंशः सर्गः दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः । सन्दिदेश महाबाहुर्भीमवेगान् दुरासदान् । राक्षसान् पञ्च साहस्रान् समरेष्वनिवर्तिनः ।। 3.26.1 ।। अथ दुषणप्रमुखसर्वसैन्यविनाशः षङ्विंशे दूषणस्त्वित्याद्यर्धत्रयमेकं वाक्यम् । निरीक्ष्य चेति खिन्नश्चेत्यर्थः । भीमवेगान् भयङ्करधावनान् अत एव दुरासदान् । पञ्चसहस्रानित्यनेन पञ्चसाहस्री पूर्वं हतेति व्यज्यते ।। 3.26.1 ।। ते शूलैः पट्टिशै खङ्गैः शिलावर्षेर्द्रुमैरपि । शरवर्षैरविच्छिन्नं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.