81 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकाशीतितमः सर्गः इन्द्रजिताऽन्तर्हितस्यापिस्वस्यवधनिर्धारणरूपरामभावविज्ञानेन भयालङ्काप्रवेशः ॥ १ ॥ तथा शत्रुवधाययजननिर्धारणेन तदन्तरायपरिहृतये रामव्यामोहनायस्वनिर्मितमायासीता- यारथारोपणपूर्वकं पश्चिमद्वारान्निर्गतेन हनुमदग्रे खङ्गेनमायासीताच्छेदनम् ॥ २ ॥   विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । सनिवृत्याहवात्तस्मात्संविवेश पुरं ततः ॥ १ ॥ अथ मायासीतावध एकाशीतितमे – विज्ञाय त्वित्यादि । अत्र तृतीयाक्षरभूतो यकारो गायत्र्या एकोनविंशतितमाक्षरं । अष्टादशसहस्रश्लोकागताः ॥ १ ॥   सोनुस्मृत्य वधं […]

80 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः मकराक्षक्षयश्रवणविषण्णरावणचोदितेनेन्द्रजिता हुतभुजिहवनपूर्वकं सायुधरथा -रोहणेनान्तरिक्षेऽन्तर्हितेनसता रामादिषुशरवर्षणम् ॥ १ ।। लक्ष्मणेन रामंप्रति ब्रह्मास्त्रप्रयोगेणसकलरक्षः कुलक्षपणप्रतिज्ञानपूर्वकमभ्यनुज्ञानयाचने रामेण सान्त्वनेनतंप्रतिषेधनपूर्वकं यत्रकुत्रगतस्यापितस्यवधप्रतिज्ञानपूर्वकमुपायपर्यालोचनम् ॥ २ ॥   मकराक्षं हतं श्रुत्वा रावणः समितिंजयः । क्रोधेन महताऽऽविष्टो दन्तान्कटकटापयन् ॥ १ ॥ कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ।। २ ।। जहि वीर महावीर्यौ भ्रातरौ […]

79 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनाशीतितमः सर्गः राममकराक्षयोर्वीरवादपुरस्सरंसमरारंभः ॥ १ ॥ रामेणमकराक्षक्षपणम् ॥ २ ॥   निर्गतं मकराक्षं ते दृष्ट्वा वानरयूथपाः । आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥ १ ॥ ततः प्रवृत्तं सुमहत्तद्युद्धं रोमहर्षणम् । निशाचरैः प्लवङ्गानां देवानां दानवैरिव ॥ २ ॥ वृक्षशूलनिपातैश्च शिलापरिघपातनैः । अन्योन्यं मर्दयन्ति स्स तदा कपिनिशाचराः ॥ ३ ॥ अथ मकराक्षवध एकोनाशीतौ […]

78 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टसप्ततितमः सर्गः रावणप्रेरणया समरायनिस्सरतिमकराक्षे राक्षसैस्तत्समयसमुद्भूतदुर्निमित्तनिरीक्षणेपि तदलक्षीकरणेनरणाय तदनुसरणम् ॥ १ ॥   निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् । रावणः परमामर्षी प्रजज्वालानलो यथा ॥ १ ॥ अथ मकराक्षनिर्गमोष्टसप्ततितमे, प्रथमपक्षे अयं दशम्यां प्रातः, द्वितीयपक्षे तु दशम्यां प्रातरारभ्य कम्पनवधप्रहस्तवधरावणमुकुटभङ्गकुम्भकर्णप्रबोधतद्वधाः, अथापराह्ने ब्रह्मास्त्र -बन्धः रात्रौ तन्मोक्षलङ्कादहनकुम्भनिकुम्भयूपाक्षशोणिताक्षप्रजङ्घ कम्पनमकराक्षवधा:- निकुम्भं चेत्यादि ॥ १ ॥   नैऋतः क्रोधशोकाभ्यां […]

77 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तसप्ततितमः सर्गः हनुमता निकुंभहननम् ॥ १ ॥   निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् । प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥ १॥ अथ निकुम्भवधः सप्तसप्ततितमे- निकुम्भ इत्यादि ॥ १ ॥   ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम् । आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥ २ ॥ हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् । यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥ ३ ॥ तमाविध्य […]

76 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्सप्ततितमः सर्गः अङ्गदेन कंपनप्रजङ्घयोर्वधः ॥ १ ॥ मैन्दद्विविदाभ्यां यूपाक्षशोणिताक्षयोर्वधः ॥ २ ॥ सुग्रीवेणकुंभवधः ॥ ३ ॥   प्रवृत्ते संकुले तस्मिन्घोरे वीरजनक्षये । अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥ १ ॥ अथ कुम्भवधः षट्सप्ततितमे – प्रवृत्त इत्यादि ॥ संकुले निरन्तरे ॥ १ ॥   आहूय सोङ्गदं कोपात्ताडयामास वेगितः । गदया कम्पनः पूर्वं स […]

75 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमः सर्गः सुग्रीवनियोगेन वानरैरात्रौलङ्कादहनम् ॥ १ ॥ ततोरावणाज्ञयाकुंभकर्णात्मजाभ्यां -कुंभनिकुंभाभ्यां यूपाक्षादिभिः सेनयाचसह वानरान्प्रतिरणायनिर्याणम् ॥ २ ॥ वानरराक्षस सैन्ययोर्महायुद्धम् ॥ ३ ॥   ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः । अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः ॥ १ ॥ एवं हनुमदानीतौषधिपर्वतगन्धमात्रेण समागतप्राणेषु सर्वेषु विशल्येषु समुत्थितेषु सुग्रीवः स्वातिसन्धानजनितकोपातिरेकेण सद्यो निःशेषं लङ्कानिर्दहनं हनुमते नियमयति – तत इत्यादि । अर्थ्यं अर्थादनपेतं […]

74 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःसप्ततितमः सर्गः विभीषणेनेन्द्रजिदस्त्रबद्धमुग्धसेनासमाश्वासनपूर्वकं हनुमतासहोल्कापाणिनासता सेनामध्येऽन्वेषणेनजांबवदन्तिकोपसर्पणम् ॥ १  ॥ विभीषणेनकुशलंपृष्टेनजांबवता तंप्रति मन्दस्वरेणहनुमत्कुशलप्रश्ने हनुमताजांबवन्तंप्रति सप्रणाममात्मनोऽभिमतकरणेनियोजन -प्रार्थना ॥ २ ॥ तेन तंप्रति सराघवहरिसेनासमुज्जीवनाय हिमवद्गिरिसंनिकृष्टमहौषधिपर्वता -न्मृतसंजीवन्यादिदिव्यौषधिसमानयनचोदना ॥ ३ ॥ हनुमताहिमवन्तमेत्य तत्रनानापुण्यस्थाना -वलोकनपूर्वकमोषधिगिरिमेत्य तदोषधिगवेषणम् ॥ ४ ॥ हनुमता स्वावलोकनेनौषधि -भिस्तिरोधाने क्रोधादोषधिगिरेरेवसमुत्पाटनेन वेगालङ्कांप्रत्यागमनम् ॥ ५ ॥ पर्वतपाणौहनुमति संनिकृष्टमात्रेणदिव्यौषधिगन्धाघ्राणनमात्रेणराघवाभ्यांसहविगतमोहै र्विशल्यैश्च वानरगणैस्तदोषधिगन्धमारुतसंस्पर्शमात्रेणसमुज्जीवितैर्हतपूर्ववानरैः सह हर्षासमु -द्धोषणम् ॥ ६ ॥ हनुमता […]

73 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकी आदिकाव्ये युद्धकाण्डे त्रिसप्ततितमः सर्गः देवान्तकादिवधश्रवणेनविषीदतिदशानने तंप्रतीन्द्रजिता रामादिवधप्रतिज्ञानेनसमा -श्वासनपूर्वकं रथारोहणेनरणायनिर्याणम् ॥ १ ॥ तथा रणाङ्गणेहुतवहेहवनपूर्वकं रथारोहणेना -न्तरिक्षेऽन्तर्हितेनसता नानाप्रहरणगणैः कपिकुलशकलीकरणपूर्वकं ब्रह्मास्त्रप्रयोगेण सकलवानरवाहिन्यासहरामलक्ष्मणयोर्मोहप्रापणम् ॥ २ ॥   ततो हतान्राक्षसपुङ्गवांस्तान्देवान्त कादित्रिशिरोतिकायान् । रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ॥ १ ॥ अथ ब्रह्मास्त्रबन्धस्त्रिसप्ततितमे – ततो हतानित्यादि ॥ १ ॥   ततो हतांस्तान्सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः । पुत्रक्षयं भ्रातृवधं […]

72 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विसप्ततितमः सर्गः अतिकायनिधनश्रवणविषण्णेनरावणेन धूम्राक्षप्रभृतिबन्धुजनस्मरणेनतच्छोचनपूर्वकं राक्षसान्प्रतिविशेषतो नगरादिरक्षणनियोजनपूर्वकं भवनप्रवेशः ॥ १ ॥   अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा । उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ॥ १ ॥ धूम्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः । अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ॥ २ ॥ एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः । जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥ ३ ॥ निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.