बृहदारण्यकोपनिषत् अष्टमोऽध्यायः
बृहदारण्यकोपनिषत् अष्टमोऽध्यायः प्रथमं ब्राह्मणम् [प्राणविद्या – ज्येष्ठ श्रेष्ठप्राणविद्या] यो ह वै ज्येष्ठञ्च श्रेष्ठञ्च वेद, ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्टश्च श्रेष्ठश्च । ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बृभूषति, य एवं वेद ।। १ ।। प्र. – प्राणविषयकविद्या प्रस्तूयते – यो ह वै………य एवं वेद । प्राणो हि इन्द्रियाणां मध्ये ज्येष्ठः । प्राणव्यापारानन्तरभावित्वात् इन्द्रियान्तरप्रवृत्तेः […]
बृहदारण्यकोपनिषत् सप्तमोऽध्यायः
बृहदारण्यकोपनिषत् अथ सप्तमोऽध्यायः प्रथमं ब्राह्मणम् [प्रणवप्रशंसा] ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १ ॥ प्र. –प्रणवोपासनां विधित्सन् प्रणवं परोक्षरूपेण स्तौति । पूर्णमदः….. पूर्णमेवावशिष्यते । अदः – परोक्षरूपः परलोकः इदम् – अयं च लोकः पूर्णं – वेदेन पूर्णमित्यर्थः । शब्दप्रभवत्वात् सर्वस्य लोकस्य स भूरिति व्याहरत् स भूमिमसृजत (तै.बा.२-२-४) इति लोकानां व्याहृतिप्रभवत्वाम्नानात् । कारणेन […]
बृहदारण्यकोपनिषत् षष्ठोध्यायः
।। श्रीः ।। बृहदारण्यकोपनिषत् षष्ठोऽध्यायः प्रथमं ब्राह्मणम् – अण्वन्तब्राह्मणम् [याज्ञवल्क्यस्य जनकं प्रति आव्रजनम्] जनको ह वैदेह आसाञ्चक्रे । अथ ह याज्ञवल्क्य आववाज । तँ होवाच याज्ञवल्क्य! किमर्थमचारी: पशूनिच्छन्, अण्वन्तानि इति । उभयमेव सम्राडिति होवाच ।। १ ।। प्र.- जनको ह वैदेह आसाञ्चक्रे । दर्शनकामेभ्यो दर्शनं दातुं वैदेहो जनकः सभायाम् आसाञ्चक्रे – स्थित इत्यर्थः । […]
बृहदारण्यकोपनिषत् पञ्चमोऽध्यायः
श्री: बृहदारण्यकोपनिषत् अथ पञ्चमोऽध्यायः । प्रथमं ब्राह्मणम् । [अश्वलब्राह्मणम्] जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपाञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदैहस्य विजिज्ञासा बभूव, क:स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवाँ सहस्रमवरुरोध । दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ।। १ ।। प्र. – अथ मधुकाण्डसिद्धमेव सर्वान्तर्यामित्वं मुखान्तरेण अस्मिन्नध्याये दृढी- क्रियते । तत्र […]
बृहदारण्यकोपनिषत् चतुर्थोऽध्यायः
बृहदारण्यकोपनिषत् चतुर्थोऽध्यायः प्रथमब्राह्मणम् – बालाकिविद्या [गार्ग्यजातशत्रुसंवादः] दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यम्, ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः, सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ।। १ ।। प्र. – तृतीयाऽध्याये तद्धेदं तर्ह्यव्याकृतमासीत् इत्युपक्षिप्तस्य ब्रह्मणो जगत्कारणत्वस्य प्रपञ्चनाय अयमध्याय आरभ्यते – दृप्तबालाकिर्हानुचानो गार्ग्य आस इति । दृप्त:-गविष्ठः, बलाकस्य अपत्यं बालाकिः । दृप्तश्चासौ बालाकश्चेति स […]
बृहदारण्यकोपनिषत् तृतीयोऽध्यायः
।। श्रीः ।। बृहदारण्यकोपनिषत् (शुक्लयजुर्वेदकाण्वशाखान्तर्गता) [उपक्रमशान्तिपाठः] हरिः ओम् पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ।। ओं शान्तिः शान्तिः शान्तिः ।। शुक्लयजुर्वेदीयानां एषः शान्तिपाठमन्त्रः । परब्रह्मणः समग्रस्वरूपस्वभावप्रतिपादकः इति यथासिद्धान्तं विपुलविशदं विवरणं अर्हति । तथा हि – पूरी आप्यायने (धा.पा.१८०४) इत्यस्मात् चौरादिकत्वेन स्वार्थणिजन्तात् धातोः क्तप्रत्यये सति वा दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्ताः (पा.सू.७-२-२७) इति पाणिनि सूत्रेण पूर्णशब्दोऽयं निपात्यते । इडागमाभावः निपातस्य […]