बृहदारण्यकोपनिषत् पञ्चमोऽध्यायः

श्री:

बृहदारण्यकोपनिषत्

अथ पञ्चमोऽध्यायः

प्रथमं ब्राह्मणम्

 

[अश्वलब्राह्मणम्]

 

जनको वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र कुरुपाञ्चालानां ब्राह्मणा अभिसमेता बभूवुः तस्य जनकस्य वैदैहस्य विजिज्ञासा बभूव, :स्विदेषां ब्राह्मणानामनूचानतम इति गवाँ सहस्रमवरुरोध दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ।। ।।

प्र. – अथ मधुकाण्डसिद्धमेव सर्वान्तर्यामित्वं मुखान्तरेण अस्मिन्नध्याये दृढी- क्रियते । तत्र पुष्कलधनदानं बहुविद्वत्समवायश्च विद्यार्जनोपाय इति प्रदर्शनाय आख्यायिका आरभ्यते – जनको वैदेहो बहुदक्षिणेन यज्ञेनेजे इत्यादि । इति वृत्तार्थस्मरणे । वैदेहःविदेहदेशाधिपतिः जनकः बहुदक्षिणेन यज्ञेन ईजेइष्टवान् । ईजे-असंयोगाल्लिट् कित् (पा.सू.१-२-५) इति ‘कित्त्वात्’ सम्प्रसारणम् । तत्र – – –बभूवुः तत्र – तस्मिन् यज्ञे ह बहुदक्षिणतया प्रसिद्धे विद्वद्भूयिष्ठकुरुपाञ्चालदेशेभ्यः ब्राह्मणा: अभिसमेताःसमागता: । एवं बहुषु ब्राह्मणेषु आगतेषु तस्य ह जनकस्य वैदेहस्य प्रसिद्धं यष्टुं प्रवृत्तस्य विजिज्ञासा – विचारः बभूव । किमिति? कःस्विदेषां ब्राह्मणानामनूचानतम इति । एषाम् – आगतानां ब्राह्मणानां मध्ये स्वित् इति वितर्के । कःस्वित् – को वा अनूचानतमः अतिशयेन ब्रह्मविद्यानुवचनकुशलः । इति जिज्ञासा ‘बभूव इति’ पूर्वत्रान्वयः । गवां सहस्रमवरुरोध सः – जनकः तज्जिज्ञासया ह प्रसिद्धं यथा तथा स्वगोष्ठे’ गवां सहस्रम् अवरुरोध – यूथीचकार । किश्च – दशदश बभूवुः पादःपलस्य चतुर्थाँशः । पादस्तुरीयो भागस्स्यात् (अ.को.२-९-८९) इत्युक्तेः । सुवर्णस्य दशदशपादाः सार्धपलद्वयमिति यावत् । प्रत्येकमेकैकस्या गोः श्रृङ्गयोर्निबद्धा बभूवुरित्यर्थः ।। १ ।।

[यजे जनकन गोसहस्रपणकथनम् , याज्ञवल्क्येन यागस्वीकरणम्]

 

तान् होवाच, ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः एता गा उदजतामिति । ते ब्राह्मणा दधृषुः । अथ याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैता; सोप्योदज सापश्रवा ३ इति ताहोदकालयत् ते ब्राह्मणाश्चुक्रुधु:, कथं नो ब्रह्मिष्ठो ब्रवीतेति । अथ जनकस्य वैदेहस्य होताऽश्वलो बभूव सहैनं पप्रच्छ, त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी इति ।  होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयँ स्म इति तै तत एव प्रष्टुं दध्रे होताऽश्वलः ।। ।।

प्रतान् हेवाच । स जनक एवं ब्रह्मिष्ठतमतया निर्धारितया देया इति ता गा: सदक्षिणाकाः निरुध्य तमर्थं -प्रसिद्धं तान् -ब्राह्मणान् प्रत्युवाच । किमिति। ब्राह्मणाः– – – उदजतामिति हे भगवन्तः – पूजावन्तः। हे ब्राह्मणाः वः -भवतां मध्ये यो ब्रह्मिष्ठः – अतिशयेन यो ब्रह्मवित्, स एता: गा: उदजतां – स्वगृहं प्रति कालयतु– नयतु इत्युवाच इत्यन्वयः । अज गतिक्षेपणयोः (धा.पा.३२०) इति हि धातुः । ते ब्राह्मणा दधृषु: – एवं वदत्यपि जनके ते ब्राह्मणा दधृषु: – न धृष्टा बभूवु: । आधृषाद्वा (ग.सू.२०२) इति णिजभावे रूपम् । तेषु – ब्राह्मणेषु बहुषु मध्ये न कोऽपि ता गाः नेतुं दध्रे । ह इत्याश्चर्ये । अथ – – –उवाच ।अथ एवमधृष्टान् तान् दृष्ट्वापि याज्ञवल्क्यः स्वमेव ब्रह्मचारिणं स्वशिष्यमित्थमुवाचैव इत्यर्थः । हेत्याश्चर्ये किमिति? एता: सोम्योदज सामश्रवा३ इति । साम शृणोतीति सामश्रवाः । हे सोम्य!। सोमार्ह ! हे सामश्रवः ! एताः गाः अस्मद्गृहान् प्रति उदज – कालय इति स्वशिष्यमुवाच इत्यर्थः । ता होदकालयत् । स सामश्रवाः ताः तद्गृहान् अनयत् इत्यर्थः । उदाचकारेति पाठेऽपि स एवार्थः । ते – – – – ब्रवीतेति । याज्ञवल्क्येन ब्रह्मिष्ठपणस्वीकरणेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञातेति सर्वे क्रुद्धा बभूवुः । कथं नः – अस्मान् अनादृत्य अहं ब्रह्मिष्ठः इति वदेदयं याज्ञवल्क्य इति चुक्रुशुश्च इत्यर्थः । चुक्रुशुरिति पाठेऽपि उक्त एवार्थ: । अथ – – – – बभूव इति । अथ – तदा विदेहराजस्य जनकस्य होता ऋत्विगश्चलो नामा आसीत् इत्यर्थः । हैनं– – – इति :– समवेतानां बहूनां अस्माकं मध्ये हे याज्ञवल्क्य! त्वमेव खलु प्रसिद्धं ब्रह्मिष्ठोऽसीति अश्वलनामा स होता ‘पप्रच्छ इत्यर्थः’ । असी३ इति भर्त्सने प्लुतिः । नुश्वधारणे ।  होवाच इति। :– याज्ञवल्क्यः तमश्वलं ह प्रसिद्धं प्रत्युवाच इत्यर्थः । किमिति इत्यत्राह – नमो वयं – – – स्म इति । वयं ब्रह्मिष्ठाय नमः कुर्मः । नास्माभिः ब्रह्मिष्ठत्वाभिमानात् गावो नीताः किन्तु गोकामा वयम् इत्यतो गोकामनयैव नीता इति सोपहासमुक्तवान् इत्यर्थः । तं – – – अश्वल इति । एवमुपहसितो होता अश्वल: तत एव सोपहासवचनादेव क्रुद्धस्सन् तं – याज्ञवल्क्यं पराजेतुं प्रश्न ‘प्रष्टुमवस्थितो’ बभूव इत्यर्थः । धृङ् • अवस्थाने (छा.पा.१४१३) इति हि धातुः ।। २ ।।

अश्वलस्य प्रथमः प्रश्न:

[कर्ममृत्युना अतिमुक्तिः]

याज्ञवल्क्येति होवाच, यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाऽभिपन्नम्, केन यजमानो मृत्योराप्तिमतिमुच्यत इति होत्रर्त्विजाऽग्निना वाचा वाग्वै यज्ञस्य होता तद्येयं वाक् सोऽयमग्निः, होता, मुक्तिः, साऽतिमुक्तिः ।। ।।

प्र. –याज्ञवल्क्येति होवाच इति । प्रथमं याज्ञवल्क्येति संबोध्य वक्ष्यमाणं प्रश्नमश्वल उवाचेत्यर्थः । तमेव प्रश्नमाह – यदिदं- अभिपन्नम् इत्यादि । यदिदं -प्रत्यक्षादिप्रसिद्धं जगत् चेतनाचेतनात्मक मृत्युना – मृत्युशब्दोपलक्षितेन जन्मजरामरणधर्मेण आप्तं – व्याप्तं, न केवलं व्याप्तम्, किन्तु मृत्युना अभिपन्नं – वशीकृतञ्चेत्येतत्सिद्ध-मित्यर्थः । यद्वा – आप्तम् इत्यस्य विवरणमभिपन्नमिति । इति प्रश्नोपयुक्तं सिद्धमर्थमनूद्य विवक्षितं प्रश्नमाह – केन – – –इति इति । एवं सति यजमान: – ब्रह्मविद्यार्थं कर्म कुर्वन् अधिकारी केनानुष्ठितेन साधनेन मृत्योः आप्तिं – व्याप्तिं ‘संसारबन्धमतिक्रम्य क्षिप्रं विद्यासिद्ध्या मुच्यत इत्यर्थः । तमेतं प्रश्नं याज्ञवल्क्यः प्रतिवक्ति । होत्रर्त्विजाऽग्निना वाचा इति । तदर्थमूढं तमाश्वलं प्रति पुनस्स्वयमेव तदेतद्व्याचष्टे – वाग्वै– – – –सातिमुक्तिः इति । कर्माङ्गभूते होतरि अग्नयभिन्नत्वेन वा अग्नयधिष्ठितत्वेन वा ध्याता या वाचो दृष्टौ कृतायां कर्मणो वीर्यवत्तरतया ब्रह्मोपासनद्वारा जीवद्दशायामेव विश्लिष्टा-श्लिष्टपूर्वोत्तरदुरितभरत्वलक्षणा मुक्तिर्भवति, शरीरवियोगानन्तरं प्रकृत्यतिक्रान्त-पदाधिरोहणलक्षणा अतिमुक्तिर्भवति इत्यर्थः । क्रमादुद्देश्यविधेयाभिप्राय: स मुक्तिस्सातिमुक्तिः इति लिङ्गभेदेनायं निर्देशो दृष्टव्यः । वाग्वै यज्ञस्य होता – यज्ञाङ्गभूत होतरि वाग्दृष्टि कर्तव्या इत्यर्थः । तद्येयं वाक् । या होतर्यध्यस्यमाना चागित्यर्थः । सोऽयमग्निस्य होता । सा वागेवाग्न्यधिष्ठितत्वादिना अग्न्यभेदेन ध्याता होतर्यध्यस्यमाना मुक्त्यादि साधनमित्यर्थः । स मुक्तिस्साऽतिमुक्तिरिति कारणे कार्योपचारः ।। ३ ।।

याज्ञवल्क्येति होवाच, यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नम्केन यजमानोऽहोरात्रयोराप्तिमति मुच्यते इति अध्वर्युणर्विजा चक्षुषाऽऽदित्येन । चक्षुर्वे यज्ञस्याध्वर्युः तद्यदिदं चक्षुः सोऽसावादित्यः, सोऽध्वर्युः, मुक्तिःसातिमुक्तिः ।। ।।

प्र– स एव पुन: पृच्छति। याज्ञवल्क्येति होवाच इत्यादिना। अहौरात्रयोरानिर्नाम कतिपयाहोरात्रैर्विनश्वरत्वम् ।उत्तरमाह-अध्वर्युणर्त्विजा इति। आदित्याधिष्टितत्वादिना आदित्याभेदारोपविषयभूतचक्षुर्दृष्टिविषय: कर्माङ्गभूतोऽध्वर्यु: मुक्त्यादिहेतुरित्यर्थ: ।शिष्टं पूर्ववत्।

[तिथ्यादिकालादप्यतिमुक्तिः]

 

याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तँ सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नम्, केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति उद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयं प्राणः  वायुः, उद्गाता, मुक्तिः साऽतिमुक्तिः ।। ।।

प्र. – पुनः पृच्छति । याज्ञवल्क्येति होवाच इति । पूर्वपक्षापरपक्षयोराप्तिर्नाम कतिपयपक्षैर्विनश्वरत्वम् । उत्तरमाह – वायुविकारत्वादिना वाय्वभिन्नमुख्यप्राणदृष्टिविषयभूत उद्गाता कर्माङ्गभूतः पूर्ववत् मुक्तयतिमुक्तिहेतुरित्यर्थः । शिष्टं पूर्ववत् ।। ५ ।।

याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव, केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति । ब्रह्मणर्त्विजा मनसा चन्द्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चन्द्रः, ब्रह्मा, मुक्तिः, सोऽतिमुक्तिः । इत्यतिमोक्षाः अथ सम्पदः ।। ।।

प्र. – पुनरेवाश्वल: पृच्छति । याज्ञवल्क्येति होवाच इत्यादिना । अनारम्बणं -रलयोरभेदः । अन्तरिक्षमिदम् अनालम्बनमिव दृश्यते तत् – अन्तरिक्षं स्वयमनालम्बन केनाऽऽक्रमेण – आक्रमणसाधनेन केन वा आक्रम्य यजमान: – ब्रह्मविद्यार्थकर्मानुष्ठाता स्वर्गं – निरतिशयसुखरूपतया स्वर्गाख्यमप्राकृतं मुक्तिस्थानं भगवल्लोकमाक्रमत इत्यर्थः । अत्र स्वर्गलोकशब्दस्य भगवल्लोकवाचित्वेन मुक्तिस्सातिमुक्तिः इत्युत्तरवाक्यस्वारस्य भवति ।

उत्तरमाह-ब्रह्मणर्त्विजा इति । चन्द्राभिन्नत्वेन वा तदभिन्नत्वेन वा तदभिमानिकत्वेन वा ध्यातमनोदृष्ट्योपासीतो ब्रह्मा भगवल्लोकाक्रमणसाधनम् इत्यर्थः । इत्यतिमोक्षा इति । इति अनेन प्रकारेण अतिमोक्षा:-प्रकृतिमण्डलातिक्रमेण-रूपमोक्षप्रश्नास्समाप्ता इत्यर्थः । अथ सम्पद इति । उच्यन्त इति शेषः । येनाग्रिहोत्रादीनां फलत्वकर्मणामन्तवत्फलाय सम्पादनं, सा सम्पत् ।।

 

[फलप्रापकाः सम्पदः]

 

याज्ञवल्क्येति होवाच, कतिभिरयमद्यभिौताऽस्मिन् यज्ञे करिष्यतीति । तिसृभिरिति कतमास्तास्तिस्र इति पुरोनुवाक्या याज्या शस्यैव च तृतीया किं ताभिः जयतीति यत्किञ्चेदं प्राणभृदिति ।। ।।

प्र – तमेव सम्पद्विषयमश्वलप्रश्नमाह – याज्ञवल्क्येति होवाच इत्यादि । अयं होता अद्य यज्ञकाले कतिभिः ऋग्भिः कतिसङ्खाभिः ऋग्भिः अस्मिन्यज्ञे करिष्यति । हौत्रमिति शेषः । याज्ञवल्क्य ‘उत्तरमाह’ – तिसृभिरिति इति । ऋग्भिरि-त्यनुषङ्गः । पुनः प्रश्नमवलस्याह- कतमास्तास्तिस्र इति इति । सङ्ख्येयऋग्विशेषविषयोऽयं प्रश्नः । पूर्वस्तु ऋङिनष्ठसङ्ख्याविषय इति भेदः । कास्ता ऋच इत्यर्थः । उत्तरमाह-याज्ञवल्क्यःपुरोनुवाक्या याज्या शस्यैव तृतीया इति । यागकालात् प्राक् प्रयुज्यमाना ऋचः पुरोनुवाक्या: । यागसाधनभूता ऋचो याज्या: । शस्रार्थाः ऋच: शस्याः । सर्वत्र जात्यभिप्रायेणैकवचनं द्रष्टव्यम् । तिसृष्येय हौत्रीणामृचामन्तर्भाव:, न चतुर्थः प्रकार इति भावः । एवमग्रेऽपि । कि ताभिर्जयतीति पुनरश्वलप्रश्नः । प्रयुज्यमानाभिः ताभिः ऋग्भिः किं फलं यजमानः प्राप्नोति इत्यर्थः । याज्ञवल्क्य उत्तरमाह यत्किञ्चेदं प्राणभृत् इति । प्राणिजातं यत्किञ्चिदस्ति तत्सर्वं जयतीति शेषः ॥ ७॥

याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्होष्यतीति तिस्र इति कतमास्तास्तिस्र इति या हुता उज्ज्वलन्ति; या हुता अतिनेदन्ते; या हुता अधिशेरते किं ताभिर्जयतीति या हुता उज्ज्वलन्ति, देवलोकमेव ताभिर्जयति । दीप्यत इव हि देवलोकः या हुता अतिनेदन्ते, पितृलोकमेव ताभिर्जयति । एवमिव हि पितृलोकः या हुता अधिशेरते, मनुष्यलोकमेव ताभिर्जयति अथ इव हि मनुष्यलोकः ।। ।।

प्र. – पुनरश्वल: प्रश्नमाह – याज्ञवल्क्येति होवाच – इति । कति – कतिसङ्ख्याकाः आहुतीर्होष्यतीत्यर्थः । शिष्टं पूर्ववत् । अत्र याज्ञवल्क्यस्योत्तरम् । तिस्र इति । पुनः प्रश्न: कतमाः तास्तिस्र इति । उत्तरम् । या हुताः– – अधिशेरत इति।याआहुतयो हुतास्सत्यः उज्ज्वलन्ति ताः ऊर्ध्वं ज्वलन्त्यः समिदाज्याहुतयः एका कोटिरित्यर्थः । या आहुतयो हुताः अतिनेदन्तेअतीव कुत्सितशब्दं कुर्वन्ति । नेदशब्दकुत्सायां (धा.पा.) शीत्कारशब्दं कुर्वन्ति इत्यर्थः । तादृश्यो मांसाद्याहुतयो द्वितीया कोटिः । यास्त्वाहुतयो हुता: अधिशेरतेअधि – अधोगत्वा अग्नौ शेरते, ताः पयः सोमाद्या आहुतयः तृतीया कोटिरित्यर्थः । अन्यत् पूर्ववत् । पुनः प्रश्नः । किं ताभिर्जयत इति । उत्तरं- या हुता इत्यादि । याः हुतास्सत्य: उज्ज्वलन्ति, ताभिराहुतिभिः समिदादिभिः देवलोकं जयतीत्यर्थः । तत्र हेतुमाह – दीप्यत इव हि देवलोकः इति । हि – यस्मात् अत्रत्यानां देवलोको दीप्यते इव भासते । अत उज्ज्वलानां समिदाज्याहुतीनाम् उज्ज्वलदेवलोक-साधनत्वमुपपद्यत इति भावः । या हुता इत्यादि । या हुताः आहुतयः अतिनेदन्ते . कुत्सितशब्दं कुर्वन्ति, पितृलोकमेव ताभिर्जयतीति । अत्र हेतुमाह – एवमिव हि पितृलोक इति । एवमिव हि – यस्मात् कुत्सितशब्दयुक्त एव इत्यर्थः । कुत्सितशब्द-कर्तृत्वसामान्यात् कुत्सितशब्दयुक्ताभिः आहुतिभिः कुत्सितशब्दयुक्तं पितृलोकं जयतीत्यर्थः । पितृलोकसंबद्धायां हि संयमन्यां पुर्यां वैवस्वतेन यात्यमानानां हा हतोऽस्मीति शब्दो भवति । अतः पितृलोकस्य कुत्सितशब्दयुक्तत्वमस्तीति द्रष्टव्यम् । या हुता इत्यादि । या आहुतयो हुता: अग्नौ अधिशेरते इत्युक्ताः, तृतीयकोट्यन्तर्भूताभिस्ताभि: मनुष्यलोकमेव जयति इति । अत्र हेतुमाह – अध इव हि मनुष्यलोक इति । ऊर्ध्वलोकापेक्षया मनुष्यलोकः अध इव हि वर्तते । अत तत्सामान्यात् ताभिरधश्शयानाभि: मनुष्यलोकं जयति इत्यर्थः ।। ८ ।।

याज्ञवल्क्येति होवाचकतिभिरयमद्य ब्रह्म यज्ञं दक्षिणतो देवताभिर्गोपायतीति एकयेति कतमा सैकेति मन एवेति अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव तेन लोकं जयति ।। ।।

 

प्र. – पुनः स एव पृच्छति – याज्ञवल्क्येति– – – गोपायतीति । विहारस्य दक्षिणत उपविष्टो ब्रह्मा कतिभिः कतिसङ्ख्याकाभिः देवताभिः ‘उपासिताभिः यज्ञ गोपायतीति प्रश्नार्थः । उत्तरमाहयाज्ञवल्क्यः – एकयेति कतमा सैकेति पुनः प्रश्नः । सा देवता का? इत्यर्थः । उत्तरं – मन एवेति । तेन किं जयतीति पुनः प्रश्नोऽध्याहर्तव्यः । उत्तरमाह- अनन्तं वै मनः इति । तत्रफलं विवक्षु: प्ररथमं मनस उपास्तिप्रकारमाह – अनन्तं वै मन इति । मनः आनन्त्यगुणविशिष्टतया उपास्यमित्यर्थः । तदानत्ये हेतुमाह – अनन्ता विश्वेदेवा इति। विश्वे – सर्वे इत्यर्थः। देवशब्द : इन्द्रियपर: । ‘मनसः अधीनानां सर्वेषामिन्द्रियाणामानन्त्यात्  मनस आनत्यमिति भावः । एवमुपासनप्रकारमुक्त्वा फलमाह – अनन्तमेव तेनलोकं जयति इति । एवमानन्त्यगुणविशिष्टतयोपासितेन [ब्रह्मणा] मनसा अनन्तं भगवल्लोकं मुक्तिस्थानं भगवदुपासनद्वारा जयतीत्यर्थः । एवमुत्तरस्वाभाव्यात् यज्ञं गोपायतीति प्रश्नस्यापि विद्यार्थस्य कर्मणः क्षिप्रब्रह्मविद्यो-त्पादकत्वशक्याधानमेव्यर्थ इति द्रष्टव्यम् ।। ।।

[उद्गातृकर्म तत्फलं ]

 

याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन् यज्ञेस्तोत्रियाः स्तोष्यतीति। तिस्र इति कतमास्तास्तिस्र इति पुरोनुवाक्या याज्या शस्यैव तृतीया। कतमास्ता या अध्यात्ममिति प्राण एव पुरोनुवाक्या, अपानो याज्या, व्यानशस्या किं ताभिर्जयतीति पृथिवीलोकमेव पुरोनुवाक्वया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो होताश्वल: उपरराम ।। १० ।।

 

।। इति पञ्चमाध्याये प्रथमब्राह्मणम् ।।

प्र. – पुनः स एव पृच्छति । याज्ञवल्क्येति होवाच– – –स्तोष्यतीति । अयमुद्गाता अद्य- यागकाले अस्मिन् यज्ञे स्तोत्रियाः – स्तोत्रसाधनभूताः ऋचः’ कतिसङ्ख्याकाः स्तोष्यतीत्यर्थः । अत्र याज्ञवल्क्य उत्तरं पठति – तिस्रः इति । पुनः प्रश्नः कतमास्तास्तित्र इति । उत्तरं – पुरोनुवाक्या -तृतीया इति । उक्तोऽस्यार्थः पूर्वमेव। पुनः पृच्छति कतमास्ता; या अध्यात्ममिति । ता: – पुरोनुवाक़्याद्यास्तिस्र: अध्यात्मं कतमा भवन्ति । आसु किंरूपाध्यात्मदृष्टिः कर्तव्या इत्यर्थः । उत्तरं प्राण एव – – शस्येति । पुरोनुवाक्याज्याशस्यासु क्रमात् अध्यात्मं प्राणापानव्यानदृष्टिं कृत्वा उद्गाता ताः प्रयुञ्जीत इत्यर्थः । पुनः पृच्छति – किन्ताभिर्जयतीति । प्राणादिदृष्टिविशिष्ट-पुरोनुवाक्यादिभिः प्रयुज्यमानाभिः कान् लोकान् जयतीत्यर्थः । उत्तरमाह – पृथिवीलोकमेव शस्यया इति । स्पष्टोर्थः । ततो होताश्वल उपरराम इति । एवं स्वकृतप्रश्नानाम् उत्तरे दत्ते प्रष्टव्यान्तराभावात् होता अश्वल: उपरराम – तृष्णीं बभूव इत्यर्थः ।। १०।।

।। इति पञ्चमाध्याये प्रथमब्राह्मण प्रकाशिका ।।

पञ्चमाध्याये द्वितीयं ब्राह्मणम्

 

जारत्कारवब्राह्मणम्

 

[ग्रहातिग्रहविषये प्रश्न: उत्तरञ्च]

 

अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति होवाच, कति ग्रहाःकत्यतिग्रहा इति अष्टाग्रहा अष्टावतिग्रहा इति एते अष्टौ ग्रहा अष्टावतिग्रहाकतमे इति ।। ।।

प्र. – अथ है नं – – –पप्रच्छ इति । अथ – अश्वलपराभवानन्तरम् एनं -याज्ञवल्क्यं जारत्कारव:-जरत्कारगोत्रजः ऋतुभागपुत्रः आर्थभागः विजिगीषयैव पप्रच्छ इत्यर्थः । हे याज्ञवल्क्येति सम्बोधनेन तं स्वाभिमुखं कृत्वा, ग्रहाः कति, अतिग्रहा: कति? इति प्रश्नद्वयं पृष्टवान् इत्यर्थः । उत्तरमाह याज्ञवल्क्य: अष्टौग्रहा अष्टौ अतिग्रहा इति । पुनः प्रश्नः एते– –  ते इति । ये ग्रहाः अतिग्रहाश्च अष्टौ अष्टाविति त्वयोक्ताः, त एते के? इत्यर्थः ।। १ ।।

[प्राणस्य प्रहातिमहत्वकथनम् ]

 

प्राणो ये ग्रहः, सोऽपानेनातिग्रहेण गृहीतः अपानेन हि गन्धान् जिघ्रति ।।।।

प्र. – अत्र याज्ञवल्क्यस्य उत्तरं प्राणो वै इत्यादि । अत्र प्राणशब्देन नस्यत्वसामान्यात् घ्राणेन्द्रियं गौण्या वृत्त्याऽभिधीयते । गृह्णाति – आत्मानं स्ववशं करोतीति ग्रहः – इन्द्रियम् । पचाद्यच् । अपान: गन्धः । अपानेन – निश्वासवायुना उपनीयमानत्वात् गन्धोऽपानशब्देन लक्ष्यते । सःघ्राणेन्द्रियात्मको ग्रह: तेन विषयरूपेणातिग्रहेण गन्धात्मना गृहीतः – व्याप्तो भवति । अतिशयेन स्वस्वविषयिणं इन्द्रियादिकं गृह्णाति – स्ववशीकरोतीति अतिग्रहः विषयः । गन्धस्य घ्राणवशीकरण-प्रकारमुपपादयति – अपानेन हि गन्धान् जिघ्रतीति । अत्र घ्राणेन इत्यध्याहर्तव्यम्। अपानेन निश्वासेन उपनीतान् गन्धान् घ्राणेन जिघ्रतीत्यर्थः यद्वा – अपानशब्दो प्राणपरो द्रष्टव्यः । उत्तरसन्दर्भेकरूप्यात् । अतो गन्धग्राहकत्वात् घ्राणं गन्धाधीनमिति भावः । ततश्च, इन्द्रियेभ्यः परा ह्यर्था: (क.उ.३-१०) इत्युक्तरीत्या ग्रहशब्दितेभ्योऽपीन्द्रियेभ्योऽतिग्रहशब्दितानां, विषयाणां प्रबलतया तद्वशीकरणे विषयेन्द्रियवियोजनरूप एव यत्नः कर्तव्यो मुमुक्षुणा इति भावः।। २ ।।

[वागादीनां ग्रहातिग्रहत्व कथनम्]

 

वाग्वै ग्रहः, नाम्नाऽतिग्रहेण गृहीतः वाचा हि नामान्यभिवदति ।। ।।

जिह्वा वै ग्रहः, रसेनातिग्रहेण गृहीतः जिह्वया हि रसान् विजानाति ।। ।।

चक्षुर्वै ग्रहः; स्वरूपेणातिग्रहेण गृहीतः चक्षुषा हि रूपाणि पश्यति।। ।।

श्रोत्रं वै ग्रहः, शब्देनातिग्रहेण गृहीतः श्रोत्रेण हि श्ब्दाच्छृणोति ।। ।।

मनो वै ग्रहः, कामेनातिग्रहेण गृहीतः मनसा हि कामान् कामयते ।। ।।

हस्तौ वै ग्रहः, कर्मणाऽतिग्रहेण गृहीतः हस्ताभ्याँ हि कर्म करोति ।। ।।

त्वग्वै ग्रहः, स्पर्शेनातिग्रहेण गृहीतः त्वया हि स्पर्शान् वेदवते इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ।।।।

प्र. – वाग्वै ग्रहः इत्यादि । सर्वं पूर्ववत् । एवं घ्राणवाग्जिह्वाचक्षुश्श्रोत्रमनो-हस्तत्वग्रूपान् ग्रहान् तद्विषयरूपानतिग्रहांश्च उक्त्वा उपसंहरति इत्येते अष्टौ ग्रहा अष्टावतिग्रहाः इति । स्पष्टोऽर्थः । विषयेन्द्रियमध्ये एतेषामेव प्रबलत्वात् अवश्य-निग्रह्यत्वाभिप्रायेण अष्टानामेव उक्तिरिति द्रष्टव्यम् ।। ३-९ ।।

[मृत्यु जयोपायः]

 

याज्ञवल्क्येति होवाच, यदिदँ सर्वं मृत्योरन्नम्, का स्वित् सा देवता यस्या मृत्योरन्नमिति अग्निर्वै मृत्युः सोऽपामन्नम् अप पुनर्मृत्युं जयति, य एवं वेद ।। १० ।।

प्र– एवं ग्रहातिग्रहप्रश्नस्य उत्तरे दत्ते आर्तभाग: एवान्यत् पृच्छति-याज्ञवल्क्येति होवाच इत्यादि । यस्य मृत्यो:। इदं सर्वं दृश्यमानमन्नम् – अदनीयम्। सोऽपि मृत्यु:। यस्या: देवताया अन्नं भवति, सा का देवतेति प्रश्नार्थः । याज्ञवल्क्य उत्तरमाह • अग्निर्वैमृत्यु: सोऽपामन्नम् इति । अग्निना हि सर्वं दृश्यते । अतः सर्वं तस्यान्नमिति स मृत्युः । सोऽप्यद्भिर्नाश्यते । अतोऽपामग्र्यन्नकत्वमिति भावः । अपामग्र्यन्नकत्व ‘चिन्तनस्य फलमाह – अपपुनर्मृत्युं जयति एवं वेद इति । अपामपग्र्यकत्वं चिन्तयन् अपमृत्युं जयति इत्यर्थः । अत्र कास्वित् सा देवतेति प्रश्नानुरोधात् अप्छब्दस्य अपामित्यस्य अप्तन्त्वाभिमानिनारायणपरत्वेऽपि न दोषः । केवलासु अप्सु देवताशब्दस्या-स्वारस्यात् अस्मिन् पक्षे अग्निर्वै मृत्युरित्यत्र अग्निशब्दस्य कालाग्निरुद्रपरत्वं द्रष्टव्यम् । अग्निर्वैरुद्र:’ इति प्रसिद्धेश्च । एतदेवाभिप्रेत्य व्यासार्यै: – आर्तभागप्रश्नस्य विद्वद्विषर्यैत्वेऽपि इति ग्रन्थेनास्य प्रकरणस्य परमात्मविषयत्वमपि अन्यारुह्योक्त्या सूचितम् ।। १० ।।

[आत्मन: प्राणोत्क्रमणाभाव:]

 

याज्ञवल्क्येति होवाच, यन्नायं पुरुषो म्रियते, उदस्मात् प्राणा क्रामन्त्याहो नेति नेति होवाच याज्ञवल्क्यः, अत्रैव समवनीयन्ते उच्छ्वयत्याध्यायत्याध्मातो मृतश्शेते ।। ११ ।।

प्र. – पुनस्स एव पृच्छति – याज्ञवल्क्येति– – –नेति।यन्न-यदा अयं पुरुषः – जीवः म्रियते; तदा किम् अस्मात् – म्रियमाणाज्जीवात् प्राणा उत्क्रामन्ति -जीवं विहाय यथायथं गच्छन्ति; आहो – उत न यथायथं गच्छन्ति, किन्तु तत्संयुक्ता एव सन्तः तेन सहैव उत्क्रामन्तीति प्रश्नार्थः । न यथायथं गच्छन्तीत्युत्तरमाह – नेति होवाच याज्ञवल्क्य इति । तर्हि किं भवन्तीत्यत्राह अत्रैव समवनीयन्ते– – शेते । इति। अत्रैव– अस्मिन् आत्मन्येव समवनीयन्ते-संयुज्यन्ते।समित्येकीकारे। एकीभूततया संयुक्ता भवन्तीत्यर्थः । न तं विहाय उत्क्रामन्ति किन्तु सहैव उत्क्रामन्तीत्यर्थः ।  उच्छ्वयति सः – पुरुषो मृतः उत्क्रान्त प्राणस्सन् श्वयथुं प्राप्नोतीत्यर्थः । आध्मायति बाह्यवायुना पूर्यते । आध्मातः – एवं बाह्यवायुना पूरितस्सन् शेते इत्यर्थः । यद्यपि उच्छूनत्व आध्मातत्वादिः देहधर्मः । न त्वस्मादिति निर्दिष्टम्रियमाण जीवधर्मः । तथापि देहात्मनोः अभेदोपचारेण स इति परामृश्य तथा निर्देशो द्रष्टव्यः । न च स उच्छ्वयत्याध्मायत्याध्मातो मृतश्शेते इति उच्छूनत्वादिविस्पष्टदेहधर्मश्रवणेन देहापादनकोत्क्रमणप्रतिषेधविषयकत्वोप-पत्तापभेदोपचारम् आश्रित्य जीवापादानकोद्गमननिषेधपरत्वं कुत आश्रयणीयम् इति वाच्यम् । योऽकामो निष्काम आप्तकाम आत्मकामो न तस्मात् प्राणा उत्क्रामन्ति (बृ.उ.६-४-६) इत्यत्र शारीरापादनकोद्गमनप्रतिषेधवादिनः न तस्मादित्यस्य परैरपि अभेदोप- चारस्य अवश्याश्रयणीयत्वेन दोषसाम्यात् । प्रतिषेधादिति चेन्न शारीरात् (ब्र.सू.४-२-१२) इति सूत्रभाष्यादौ अस्यार्थस्य प्रपञ्चितत्वात् नात्रास्माकं वक्तव्यमवशिष्यते ।। ११ ।।

याज्ञवल्क्येति होवाच, यत्रायं पुरुषो म्रियते, किमेनं जहातीति । नामेति अनन्तँ वै नाम; अनन्ता विश्वे देवाः अनन्तमेव तेन लोकं जयति ।। १२ ।।

प्र. – पुनरार्तभाग एव पृच्छति – याज्ञवल्क्यति– – जहाति इति। पूर्वत्र प्राणा म्रियमाणं न जहातीत्युक्तम् । इदानीं तु प्राणेभ्योऽन्यच्च किं वा म्रियमाणं न जहातीति प्रश्नः । याज्ञवल्क्य उत्तरमाह – नामेति । नामधेयं न त्यजति इत्यर्थः । तदत्याग एव प्रदर्श्यते प्रसिद्ध्या अनन्तं वै नाम इति । देहे नष्टेऽपि युधिष्ठिरादोनां नामानुवृत्तिदर्शनात् अनन्तं नाम । नाम्रो नाशो नास्ति इत्यर्थः । नामाभिमानिदेवता अप्यनन्ता इत्याह – अनन्ता विश्वे देवा इति । विश्वे देवा नामाभिमानिन इति द्रष्टव्यम् । नामानन्त्यज्ञानस्य फलमाह – अनन्तमेव तेन लोकं जयति इति । तेन – अनुवृत्तेन नाम्रा अनन्तं – शाश्वतं पुण्यलोकं जयति इत्यर्थः । अत एव हि लोके नामानुवृत्यर्थ यतन्त इति भावः ।। १२ ।।

 

याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्य अग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिश:श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लामानि वनस्पतीन् केशाः, अप्सु लोहितञ्च रेतश्च निधीयते, क्वायं तदा पुरुषो भवतीति । आहर सोम्य हस्तमार्तभाग! आवामेवैतस्य वेदिष्यावो नावेतत् जन इति तो होत्क्रप्य मन्त्रयाचक्राते तो यदृचुतः कर्म वै तदूचुतुः अथ यत् प्रशशँसतुः, कर्मह वै तत् प्रशशँसतुः, पुण्यो वै पुण्येन कर्मणा भवति; पापपापेनेति ततो जारत्कारव आर्तभाग उपरराम ।। १३ ।।

 

।। इति पञ्चमाध्याये द्वितीय ब्राह्मणम् ।।

प्र. – पुनरप्यार्तभागः पृच्छति – याज्ञवल्क्येति — – वागप्येति इत्यादि । अत्र वागादीन्द्रियाणामाकल्पस्थायित्वात् , आहङ्कारिकत्याच्च मरणदशायाम् अनुपादानभूते अग्न्यादौ तेषां लयासम्भवाच्च अग्निं वागप्येति इति वाचः अग्नावप्ययो नाम वागिन्द्रियाभि-मानिदेवभूतस्याग्नेः वागिन्द्रियाधिष्ठानानुकूलव्यापारमन्तरेण अवस्थितिरेव । मरणदशायां म्रियमाणजीवसम्बन्धि वागिन्द्रियं तदभिमानी अग्निर्नव्यापारयतीति यावत् । सूत्रितञ्च भगवता बादरायणेन – अग्नयादिगतिश्रुतेरिति चेन्न भाक्तत्वात् (ब्र.सू.३-१-४) इति । एवमुत्तरत्रापि वातं प्राण इत्यादौ द्रष्टव्यम् । अप्ययश्च भाक्तो यथायोग्यं द्रष्टव्यः ।

आकाशमात्मा इति । आत्मा – देहान्तर्गताकाश इत्यर्थः । ओषधिर्लोमानि वनस्पतीन् केशा इति । लोमकेशाभिमानिदेवता ‘ओषधिवनस्पत्यभिमादेवतामप्येति लोमकेशाभि-मानित्वं विहाय केवलमोषधिवनस्पत्यभिमानिनी भवति इत्यर्थः । अप्सु लोहितं रेतश्च विधीयते इति । निधीयते – प्रक्षिप्यते इत्यर्थः । कार्य तदा पुरुषो भवति इति । म्रियमाणसम्बन्धिषु सर्वेषु उक्तरीत्या तत्तदाधाराश्रितेषु सत्सु अयं शारीरः पुरुषः तदा किमाश्रितो भवति इति प्रश्नः ।

एवं पृष्टो याज्ञवल्क्यः एतदुत्तरस्य सुगोप्यस्य प्रकृतजल्पमार्गेण सर्वजन समक्षमप्रकटनोयत्वात् आर्तभागं वादमार्गेण बोधयिष्यन्नाह . आहर सोम्य– – –सजने इति । हे सोम्य – सोमार्ह । हे आर्तभाग! इति सम्बोध्य, हस्तं त्वदीयमाहर इत्युक्त्वा प्रसारितमार्तभाग हस्तं गृहीत्वा पुनः प्राह – आवामेव एतस्य प्रश्नस्योत्तरं वेदिष्याव: – ज्ञास्यावः इत्यर्थः । यद्यपि याज्ञवल्क्य एव विचारको निर्णेता च-  अथापि द्विवचनं वीतरागकथात्वद्योतनार्थम् । नौ – आवयोः एतत् – प्रकृतप्रश्नोत्तरं सजने -जनसमुदाये न भवतीत्यर्थः । एवं याज्ञवल्क्योक्तमातभागोऽप्यङ्गीचकार । तौ होत्क्रम्य मन्त्रयाञ्चक्राते इति । अथ तौ – आर्तभागयाज्ञवल्क्यौ तस्माद्देशात् उत्क्रम्य – विजनं गत्वा मन्त्रयाञ्चक्राते – विचारमकुरुताम् इत्यर्थः । तौ – – – प्रशशंसतु इति । तौ -आर्तभागयाज्ञवल्क्यौ मिळित्या विचार्य निश्चित्य कार्यकारणसंघातात्मक-शरीरान्तरपरिग्रहहेतुतया शारीर पुरुषस्याधारभूतं यदुक्तवन्तौ, तत् कर्मैव । अथ यत् प्रशशंसतुः । तादृशशरीरान्तरपरिग्रहहेतुषु यत् स्तुतवन्तौ तत्कर्मैव इत्यर्थः । यद्यपि ईश्वरकालादीनि कारणान्तराणि सन्ति – तथापि तेषां साधारणकारणत्वात् शारीरस्य ‘शरीरपरिग्रह हेतुनां मध्ये कर्मैव असाधारणं कारणं पुरुषस्य आश्रयभूतमिति स्तुतवन्तौ इत्यर्थः । तदेव प्रदर्शयति – पुण्यो वै – – – पापेन इति । वै शब्दोऽवधारणे । पुण्येन कर्मणैव पुण्यो भवति – पुण्यशरीरयुक्तो भवति । पापेन कर्मणैव पापो भवति । पापशरीर युक्तो भवति इत्यर्थः । तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा (छां.उ.५-१०-७) इति श्रुत्यन्तरादिति भावः । ततो उपरराम इति । पूर्ववत् स्पष्टोऽर्थः ।। १३ ।।

।। इति पञ्चमाध्याये द्वितीयब्राह्मण प्रकाशिका ।।

पञ्चमाध्याये तृतीयं ब्राह्मणम्

 

भुज्युब्राह्मणम्

 

[पारिक्षिताः कुत्रगताःइति मृत्युप्रश्नः]

 

अथ हैनं भुज्यु र्लाह्यायनिःपप्रच्छ याज्ञवल्क्येति होवाचमद्रेषु चरकाः पर्यव्रजाम ते पतञ्जलस्य काप्यस्य गृहानैम तस्यासीद्दुहिता गन्धर्वगृहीता । तमपृच्छाम् कोऽसीति सोऽब्रवीत् सुधन्वाङ्गीरस इति तं यदा लोकानामन्तानपृच्छाम, अतैनं ब्रूम क्व परिक्षिता अभवन्निति क्व पारिक्षिता अभवन् त्वा पृच्छामि, याज्ञवल्क्य! क्व पारिक्षिता अभवन्निति ।। ।।

प्र. – अथ हैनं भुज्युर्लाह्यायनि: पप्रच्छ इति । अथ -आर्तभागोपरामानन्तरं भुज्युः – नामतः लाह्यायनिःगोत्रत: लाह्यस्य गोत्रापत्यम् गर्गादिभ्यो यञ् (पा.सू. ४-१-१०५) तस्यापत्यम् (पा.सू.४-१-९२) यञिञोश्च (पा.सू.४-१-१०१) इति फक् । ततः गोत्राद्यूनि (पा.सू.४-१-९४) इति नियमात् अत इञ् । स एवं याज्ञवल्क्यं पप्रच्छेत्यर्थः । याज्ञवल्क्येति होवाच इति । पूर्ववदर्थः । मद्रेषु चरका: पर्यव्रजामेति । मद्रानाम जनपदाः । तेषु चरकाः अध्ययनार्थं व्रत’चरणात् चरकाः’ । यद्वा – मद्रेषु चरन्तीत्यर्थे चरेष्टः (पा.सू.३-२-१६) इति ट प्रत्यये, स्वार्थे कः । पर्यव्रजामपर्यटितवन्तः इत्यर्थः । अस्मदो द्वयोश्च (पा.सू.१-२-५९) इत्येकस्मिन् बहुवचनम् ।

सब्रह्मचार्यपेक्षया वा । ते पतञ्जलस्य काप्यस्य गृहानैमते – वयं नाम्ना पतञ्जलस्य, गोत्रेण काप्यस्य गृहान् ऐम-गतवन्त:।इणो लङ्।तस्यासीत् दुहिता गन्धर्वगृहीता। तस्य-काप्यस्य दुहिता – पुत्री गन्धर्वेण – अमानुषेण सत्त्वेन आविष्टा स्थिता तमपृच्छाम तं – गन्धर्वम् अपृच्छाम । लङ्  । किमिति । कोऽसीति । सोऽब्रवीत्सुधन्वाङ्गीरस इति । सःगन्धर्व नामतोऽहं सुधन्वा, गोत्रत आङ्गिरस: इत्यब्रवीत् । तं – गन्धर्वं वयं लोकानां – पुण्यलोकविशेषाणाम् अन्तानपृच्छाम-निश्चयान् पृष्टवन्तः इति यत्, तत् त्वां पृच्छामि । जानामि चेत्, वद इति शेषः । अथ हैनं….. अभवन् इति । ब्रूम इत्यडभावश्छान्दसः । अथ – अनन्तरसमन्यदपि एनं गन्धर्वं ब्रूम – अपृच्छाम । किन्तत् । पारिक्षिता: – परिक्षित्पुत्राः क्व – कस्मिन् लोके अभवन्निति । सम्भ्रमे द्विरुक्तिः । त्वा पृच्छामि याज्ञवल्क्य क्व – – – अभवन् इति । सः – ततो गन्धर्वादवगत तत्स्वरूपः अहं त्वां पृच्छामि तमेत प्रश्नं पारिक्षिता: क्वाभवन् इति इत्यर्थः। ।। १ ।।

[गन्धर्वाभिहितरीत्या याज्ञवल्क्येन प्रत्युत्तरम्]

 

होवाच उवाच वै स्म सोऽगच्छन् वै ते तत् यत्र अश्वमेधयाजिनो गच्छन्तीति क्वन्वश्वमेधयाजिनो गच्छन्तीति द्वात्रिंशतं वै देवरथाह्वयान्ययं लोकः। तं समन्तं पृथिवी द्विस्तावत् पर्येति ताँ समन्तं पृथिवीं द्विस्तावत् समुद्रः पर्येति तद्यावती क्षुरस्य धारा, यावद्वा मक्षिकायाः पर्त्रम्, तावानन्तरेणाकाशः तानिन्द्रसुपर्णो भूत्वा वायवे प्रायच्छत् ; तान् वापरात्यनि धित्वा तत्रागमयत् यत्राश्वमेधवाजिनोऽभवन्निति एवमिव वै वायुमेव प्रशशँस तस्मात् वायुरेव व्यष्टिर्वायुस्समष्टिः अपपुनर्मृत्युं जयति एवं वेद ततो भुज्युर्लाह्यायनिरुपरराम ।। ।।

प्र. – होवाच सः – याज्ञवल्क्य उवाच ह उत्तरम् किमिति । उवाच वै – – गच्छन्ति इति । यत्र – यस्मिन् लोके अश्वमेधयाजिनो गच्छन्ति, तत् – तं लोकं ते पारिक्षिता अगच्छन्निति गन्धर्व: युष्मभ्यम् – उवाच वै स्म – उक्तवान् किल इत्यर्थः । एवमुत्तरे दले याज्ञवल्क्यं पुनः स एव पप्रच्छ । क्व न्वश्वमेधयाजिनो गच्छन्ति इति । अश्वमेध याजिनः कं लोकं गच्छन्तीत्यर्थः । एवं पुनः पृष्टो याज्ञवल्क्यस्तु एतस्यैव द्वितीय प्रश्नस्योत्तरे’ दत्तेऽपि, लोकानामन्तानमपृच्छाम इति – प्रथमप्रश्नस्य प्रतिवचनम् अन्तरेण अयं न शाम्यतीति मत्वा प्रथमप्रश्नस्यारयाचोक्तरमाह द्वात्रिंशतं वै देवरथाह्यान्ययं लोक इत्यादिना । देवरथः – सूर्यरथः । तस्य गत्या अह्रा यावद्देशपरिमाणं परिच्छिद्यते, तत् देवरथाह्यम् । द्वात्रिंशद्गुणित देवरथाह्यदेश परिमितः अयं लोकः लोकालोकगिरिपरिवृतदेश इत्यर्थः । द्वात्रिंशतं – द्वात्रिंशत् इत्यर्थः । तं समन्तं पृथिवी द्विस्तावत् पर्येति तं – लोकालोककृतं लोकं समन्तं – समन्ततः द्विगुणा पृथिवी पर्येति । तां समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति तां – महापृथिवीं समन्ताद्विगुणः समुद्रः पर्यति, यं घनोदकमाचक्षते पौराणिकाः । तत्राश्वमेधलोकमार्गविवरपरिमाणमुच्यते तद्यावती क्षुरस्य धारा इत्यादि । क्षुरस्य धारा यावती – यावदतिसूक्ष्मपरिमाणा, मक्षिकायाः पत्त्रं पतत्रं घनेन यावत्परिमाणम्, अतिसूक्ष्मम् तावान् इत्यर्थः । तत्तत्राण्डकटाहे क्षुरधारया मक्षिकापत्रेण वा सदृशः अन्तरेणाकाशः – मध्ये रन्ध्रमित्यर्थः । तत्र सूक्ष्मरन्ध्रमार्गे पारिक्षितानां गतिप्रकारमाह – तानिन्द्रस्सुपर्णो भूत्वा वायवे प्रायच्छत् इति । तान् – पारिक्षितान् इन्द्रः सुपर्णो भूत्वा समीचीनचाहनं भूत्वा वायचे प्रायच्छत् – दत्तवान् इत्यर्थः । कश्चित्प्रदेशमिन्द्र एवोद्वा तान् अनन्तरं वायवे दत्तवान् इत्यर्थः । तान्अभवन् इति । वायुस्तु तान् पारिक्षितान् आत्मनि धित्वाश्वशरीरे स्थापयित्वा, यत्र – ब्रह्मलोकेऽश्वमेधयाजिनो गच्छन्ति, तत्रागमयत् इत्यर्थः ।

ततश्वेन्द्रस्यापि प्रवेशायोग्यरन्ध्रमार्गद्वारा वायुः पारिक्षितान् चतुर्मुखलोकम् अगमयत् इत्यर्थः । एवं याज्ञवल्क्य उक्त्वा स्वोक्तस्य संवादं दर्शयति । एवमिव वै वायुमेव प्रशशंस इति । एवमेव खलु, सः – भवद्भि: पृष्टो गन्धर्वः वायुमेव स्तुतवान् इत्यर्थः । इवशब्द एवार्थे; वैशब्दः – किलार्थत्माद्वायुरेव व्यष्टिर्वायुः समष्टिरिति । तस्मात् – गन्धर्वेण स्तुतत्वात् स वायुः समष्ट्यात्मकापञ्चीकृतभूतव्यष्ट्यात्मकब्रह्मलोकतदधस्तनलोकसञ्चारितया सूत्रात्मप्राणरूपेण सर्वनिर्वाहकतया व्यष्टिसमष्टिरूप’ इत्यर्थः । व्यष्टिसमष्ट्यात्मतया वायुचिन्तनस्य फलमाह – अप पुनर्मृत्युं जयति एवं वेद इति । यो वेद, स पुन: अपमृत्युं जयतीति सम्बन्धः । ततो भुज्युर्लाह्यायनतिः उपरराम । पूर्ववदर्थः ।। २ ।।

।। इति पञ्चमाध्याये तृतीयब्राह्मण प्रकाशिका ।।

पञ्चमाध्याये चतुर्थं ब्राह्मणम्

 

उपस्तब्राह्मणम्

 

[उपस्तेन ब्रह्मात्मस्वरूपप्रश्नः]

 

अथ है नमुपस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच, यः साक्षादपरोक्षब्र्दह्मा आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति एष आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः यः प्राणेन प्राणिति आत्मा सर्वान्तरो योऽपानेनापानिति आत्मा सर्वान्तरो यो व्यानेन व्यानिति त आत्मा सर्वान्तरो उदानेन उदानिति आत्मा सर्वान्तरः, एष आत्मा सर्वान्तरः ।। ।।

प्र. – एकास्य याज्ञवल्क्यस्य कर्मकाण्डे । अविचाल्यं वैदुष्यं मत्था जनकसभिका: ब्राह्मणा: ब्रह्मकाण्डे वा अख्य अप्रतिभां सम्पादयिष्याम इति मन्यमानाः प्रष्टुं, प्रावर्तन । तदेवाह – अथ – – – पप्रच्छ इत्यादिना । नाम्ना उषस्तः । चक्रम्य गोत्रापत्यं नडादिभ्य: फक्  (पा.सू. ४.१.५९) चाक्रायणः । शिष्टं स्पष्टम् । याज्ञवल्क्येति होवाच इति । पूर्ववदर्थः । प्रश्नमेवाह । यस्साक्षादपरोक्ष्यत् ब्रहा आत्मा सर्वान्तरस्तं मे व्याचक्ष्व इति । अपरोक्षात् – अपरोक्षमित्यर्थः । सुपां सुलुक्  (पा.सू.८.१.३९) इत्यादिना अदादेशः । अपरोक्षवं नाम सर्वदेशकालसन्निहितत्वम् । देशकाल सत्रिकर्षं ह्यापरोक्ष्यदर्शनात् । यदपरोक्षं साक्षाद्ब्रह्मा-अव्यवधानेन ब्रह्म -अगौणं मुख्यं ब्रह्मेति यावत् । सर्वान्तर आत्मा च आत्मा वा अरे द्रष्टव्य: श्रोतव्य: इत्यादिना दर्शनादिकर्मत्वेन उक्तश्च यः, तादृशं वस्तु मे व्याचक्ष्यति प्रश्नः । व्याचक्ष्व-विविच्य आचक्ष्व – प्रदर्शय इत्यर्थः । उत्तरत्र न दृष्टे द्रष्टारं पश्ये: इति द्रष्टव्यत्वादेरन्यत्र निषेधात् द्रष्टव्यत्वादिकमपि प्रश्नविषय इति द्रष्टव्यम् । याज्ञवल्क्य उत्तरमाह – एष आत्मा सर्वान्तर इति । ते य आत्मा स एव सर्वान्तर इत्यर्थः । पृच्छति उषस्त: कतमो याज्ञवल्क्य सर्वान्तर इति । यदुक्तम् ते आत्मा सर्वान्तर इति, तदस्तु किन्तु कतम आत्मा सर्वान्तर इति तव अभिप्राय इति न जाने । किं देहेन्द्रियप्राणजीवादिषु कश्चिन्मे आत्मा सर्वान्तरः, उत ततोऽन्य इत्यर्थः । यद्यपि ते आत्मेति व्यतिरेकनिर्देशेन प्रत्यक्षदृष्टाभिमुखशरीरव्यतिरेकः सिद्ध्यति । तथापि इन्द्रियाद्यन्यतमत्व सन्देहो नापाकृत इति भावः । अत्र याज्ञवल्क्य उत्तरमाह यः प्राणेन प्राणिति आत्मा सर्वान्तर इत्यादि । अत्र एष त आत्मा सर्वान्तर इत्यत्र उक्त इति शेषः । प्राणित्यपानितिव्यानितीत्यादौ रुदश्च पञ्चभ्यः (पा.सू.७-३-९८) इतीट् । प्राणादिभिः प्राणनादिव्यापारकर्ता यः, ते आत्मा । स एव सर्वान्तर आत्मा इत्यर्थः । अत्र प्राणेन इत्यादिना प्राणस्य करणतया निर्देशात् प्राण व्यतिरेकः सिद्धः । सुषुप्तौ बाह्याभ्यन्तर इन्द्रियोपरतावपि प्राणनादिव्यापारदर्शनात् तद्व्यतिरेकोपि सिद्धः । सुषुप्तौ जीवस्याप्युपरत- व्यापारतया प्राणेन प्राणितृत्वाभावात् तद्व्यतिरेकोपि सिद्ध्यतीत्याशयः ।। १ ।।

[आत्मलक्षणकथनम्]

 

होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसो गौरसावश्व इति, एवमेवैतव्द्यपदिष्टं भवति; यदेव साक्षादपरोक्षाद्ब्रह्म आत्मा सर्वान्तर: तं मे व्याचक्ष्वेति । एष आत्या सर्वान्तरः। कतमो याज्ञवल्क्य सर्वान्तरः दृष्टेर्द्रष्टारं श्येर्न श्रुतेः श्रोतारं शृणुया: मतेर्मन्तारं मन्वीथाः, विज्ञात:विज्ञातारं विजानीयाः, एष त आत्मा सर्वान्तरः। अतोऽन्यदार्तम् ततो होषस्तश्चाक्रायण उपरराम ।। ।।

प्र. – होवाचोषस्तश्चाक्रायण इति । जीवव्यतिरेको नोक्त इति मत्वा आशयम-विद्वानुषस्तः पुनराह इत्यर्थः । किमिति । यथा विब्रूयादसौ– – –भवति इत्यादि । यथा हि गां प्रदर्श्य, असौ गौरसावश्व इति गव्यश्वाभेदोपदेशो विरुद्धः, एवमेव,’ ‘यत् साक्षादपरोक्षाद्ब्रह्म आत्मा सर्वान्तरस्तं मे व्याचक्ष्व इति मामकप्रश्ने, एष त आत्मा सर्वान्तरः, : प्राणेन प्राणिति इति प्राणनादि कर्तुर्मदात्मनो जीवस्य सर्वान्तरत्वकथनं विरुद्धवचनमेवः, ‘जीवस्याणुत्वेन प्रतिदेहभिन्नत्वेन च सर्वान्तरत्वासम्भवात् विब्रूयात्विरुद्धं ब्रूयादित्यर्थः । अत: कतमो याज्ञवल्क्य सर्वान्तरः? स तावत् अविरुद्धतया वक्तव्य इत्यर्थः। उत्तरमाह- दृष्टे: – – – श्रृणुया: इत्यादि। अत्र ‘दृष्टेर्द्रष्टारमित्यादिः। पाकं पचतीतिवन्निर्देशः। द्रष्टारं – कर्तारमित्यर्थः । एवं श्रोतारमित्यादावपि । तेन द्रष्टुत्वादे: काल्पनिकत्वनिवृत्तिः। तथा च दर्शनश्रवणमनननिदिध्यासनानां यः कर्ता जीवः, न द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । दर्शनादिकर्तुर्जीवादन्य एव दर्शनादिकर्मभूतः सर्वान्तर आत्मा । इन्द्रियाधीनदर्शनादीनां कर्तारं जीवं प्राणनादिकर्तृत्वेन’ न पश्ये:, न मन्वीथा इत्यादिर्वाक्यार्थः । एष आत्मा इत्यादि । आत्मेति – मयोक्त एष एव । अतोऽन्यदार्तम् इति । अतःएष त आत्मेति मदुक्तात् परमात्मनः अन्यत् – व्यतिरिक्तं त्वदभिमतमौपाधिकप्राणितृत्वादिमत् जीवजातम् आर्तं – दुःखीत्यर्थः। अतः स न परमात्मेति भावः । अत एव नित्यमुक्तानां कदापि अस्पृष्टदुःखत्वात् अतोऽन्यदार्तमित्युक्तिः कथमिति शङ्का प्रत्युक्ता । तेषामिहाप्रसक्तत्वात् । अन्यशब्दस्य संनिहितप्राणितृत्वादिमत्संसारि- जीवपरत्वात् । यद्वा, आर्तं – जीवाख्यं त्वदभीष्टं न निर्विकारं वस्तु । तस्य कर्मकृतस्वभाव-विकारवत्वादिति भावः । ततो होषस्तश्चाक्रायण उपरराम । पूर्ववत् ।। २ ।।

।। इति पञ्चमाध्याये चतुर्थब्राह्मण प्रकाशिका ।।

पञ्चमाध्याये पञ्चमं ब्राह्मणम्

 

कहोलग्राहाणम्

 

[एषणात्रयव्युत्थानवर्णनम्, बाल्यपाण्डित्यमौनविधानम् ]

 

अथ हैनं कहोल: कौषीतकेय: पप्रच्छ याज्ञवल्क्येति होवाच, यदेव साक्षादपरोक्षाद्ब्रह्म आत्मा सर्वान्तर:, तं मे व्याचक्ष्वेति एष आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरः योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाय अथ भिक्षाचर्यं चरन्ति या होव पुत्रैषणा; सा वित्तैषणाया वित्तैषणा, सा लोकैषणा; उभे ह्येते एषणे, एव भवतः तस्मात् ब्राह्मणपाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यञ्च पाण्डित्यञ्च निर्विद्याथ मुनिः । अमौनञ्च मौनञ्च निर्विद्याथ ब्राह्मणः। ब्राह्मण: केन स्यात् येन स्यात् तेनेदृश एव अतोऽन्यदार्तम् ततो कहोळः कौषीतकेय उपरराम ।। ।।

प्र.-अथ हैनं कहोळः कौषीतकेय: पप्रच्छ इति । कहोळ:- नामतः । कुषीतकस्यापत्यं कौषीतकेयः। विकीर्णकुषीतकात् काश्यपे (पा.सू.४-१-१२४) इति ढक्। अन्यत् पूर्ववत् । याज्ञवल्क्येति होवाच इति । पूर्ववत् । यदेव साक्षादपरोक्षाद्ब्रह्म इत्यादिः प्रश्नः । तत्र याज्ञवल्क्योत्तरम् एष आत्मा सर्वान्तर इति । पुनः प्रश्नः । कतमो याज्ञवल्क्य सर्वान्तरः इति। पूर्ववदर्थः । यद्यपि प्रश्नोऽयमुषस्तेन कृत एव, दत्तोत्तरश्च । निरुपाधिकसर्वप्राणिप्राणनहेतुत्व निरङ्कुशसर्वान्तरत्वाद्यैरस्य जीवव्यावृत्तिरपि सिद्धा । दृष्टेद्रष्टारम् इत्यादिना दर्शनश्रवणादिकर्तुर्जीवस्य द्रष्टव्यत्वादिनिषेधमुखेन मुख्यब्रह्मत्वमपि प्रतिषिद्धम् । तथापि प्राणितृत्वस्य जाग्रदादिदशाविशेषे जीवेऽपि सम्भवात्, यत्किञ्चित् देहाद्यपेक्षया आन्तरे जीवे आपेक्षिकसर्वान्तरत्वसम्भवात् । दृष्टेर्द्रष्टारम् इत्यत्रापि दृष्टिव्यतिरिक्तद्रष्टुनिषेधपरत्वसम्भवेन ज्ञानस्वरूपस्यैव सतो जीवस्य ज्ञानगुणकत्व- प्रतिपादकत्वसम्भवात् उक्तधर्माणां परमात्मैकान्तिकत्वं निश्चेतुमसमर्थस्य कहोळस्य दृढतरेण व्यावर्तकधर्मेण जीवव्यावृत्तिनिश्चिचीषया पुनःप्रश्नः उपपन्न इति द्रष्टव्यम् ।

अत एव व्यतिहारो विशिंषन्ति हीतरवत् (ब्र.सू.३-३-३७) इति सूत्रे व्यावर्तकधर्मभूयस्तया व्यावृत्ति ‘बुद्ध्यतिशयां र्थमेकविषयकप्रश्नद्वयम् इत्युक्तं व्यासार्यैः ।। तदभिप्रायं जानन् याज्ञवल्क्यो दृढतरजीवव्यावृत्तिसिद्धये व्यावर्तकधर्मान्तरमाह-योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति इति अशनाया – बुभुक्षा पातुमिच्छा पिपासा। शोकः इष्टानिष्टवियोगसंयोगजः मोहः – कामादिजनितः, अज्ञानं वा । जरामृत्यू प्रसिद्धौ । जीवस्य कर्माधीनदेहसंसर्गितया अशनायाद्यतीतत्वाभावात् तद्व्यावृत्तिः सिद्ध्यतीति भावः । यद्यपि मुक्तानां नित्यानाञ्च अशनायाद्यतीत्वमस्ति तथापि तेषामशनाया-द्यतीतत्वस्य परमात्मसङ्कल्पायत्तत्वादनन्यसङ्कल्पाधीनाशनायाद्यतीतत्वमुपाध्यनुक्तिसिद्धं परमात्मन एव । किञ्च, प्रकृते बद्धजीवव्यावृत्तेरेव स त आत्मेति निर्दिष्टस्योपदेष्टव्यतया नित्यमुक्तव्यावर्तक धर्मानुक्तावपि न दोष इति द्रष्टव्यम् ।

अथ व्यावर्तकधर्मान्तरमप्याह – एतं वै तमात्मानं इत्यादि । तमेवैतं – सर्वान्तरं अशनायाद्यतीतमेव परमात्मानम् आर्तं विदित्वा, ब्राह्मणा इत्यनेन क्षत्रियादिव्यावृत्तिः । पुत्रैषणायाश्च । इषेर्ण्यन्तात् स्त्रियां ण्यासश्रन्धो युच् (पा.सू.३-३-१०७) इति युच् । क्तिनोऽपवादः । अण्यन्तात्तु इच्छेति निपातः । इषे; स्वार्थे णिच् छान्दसः । पुत्रैषणा इत्यनेन तृतीयाध्याये जाया मे स्यात् प्रजायेय इति योक्ता, सा गृह्यते । वित्तैषणायाश्च इत्यनेन वित्तं मे स्यात् अथ कर्म कुर्वीय इति योक्ता, सा गृह्यते । लोकैषणायाश्च इत्यनेन जाया प्रजावित्तकर्मसाध्यसकललोकेच्छा गृह्यते – उक्तैषणात्रयात् व्युत्थाय – एषणात्रयं हित्वा-यथाविधि संन्यस्येति यावत् अथ – अनन्तरं देहयात्रार्थं भिक्षाचर्यं चरन्तिभिक्षाटनं कुर्वन्ति इत्यर्थः । इदं चोपलक्षणं सर्वसन्न्यासाश्रमधर्मानुष्ठानस्य । अत्र अप्राप्तत्वात् पारिव्राज्यं विधीयते । यो ह्येव पुत्रैषणा वित्तैषणा या वित्तैषणा सा लोकेषणेति । अवर्जनीयात् – परस्परसम्बन्धादन्योन्याविनाभूता एतास्तिस्रोऽपीति भावः । उभे ह्येते एषणे एव भवतः इति । सर्वथा तिस्र एताः साध्यसाधनविषय-केषणाद्वयमेव भूत्वा पर्यवस्यन्ति इति भावः । तस्माद्ब्राह्मणः– – –मुनिः इति ।

यस्मात् वैराग्यमावश्यकं तस्मात् ब्राह्मणः -अधीतवेद इत्यर्थः । ब्रह्म वेदमधीते इति ब्राह्मणः । जातिपरो वा । पाण्डित्यं निर्विद्य – ऊहापोहक्षमा धीः – पण्डा साऽस्यसञ्जाता इति पण्डितः । तस्य कर्म (धर्मः) पाण्डित्यम् । औपदेशिकाधिगमरूपं विवेकनिर्वेद-विरक्ति ‘फलकम् तत्पाण्डित्यं निर्विद्य – लब्ध्वा बाल्येन – स्वमाहात्म्यानाविष्करण-लक्षणबालस्वभावेन युक्तस्सन् ब्रह्मणि तिष्ठासेत् – तन्निष्ठां लभेत । उपासीतेति यावत्। तथैव व्याख्यातं च व्यासार्यैः । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः । बाल्यपाण्डित्ये पूर्वोक्ते निर्विद्य – लब्ध्वा अथ मुनिस्स्यात् । आलम्बनसंशीलनलक्षणमननशीलस्स्यादित्यर्थः । ध्यानविच्छेददशायामप्यत्यन्तविषयोन्मुखत्वराहित्याय शुभाश्रयवस्तुसंशीलनं कर्तव्यमित्यर्थः ।

अमौनं मौनं निर्विद्याथ ब्राह्मण इति। अमौनं – मौनादन्यत् मौनात्पूर्वनिर्दिष्टं बाल्यपाण्डित्यलक्षणं द्वयम् । मौनं – आलम्बनसंशीलनात्मकं, अमौनं मौनं चेत्येतदुभयं निर्विद्याथ ब्राह्मण: ब्रह्मवित् भवति। लब्धनिदिध्यासनो भवतीत्यर्थः । पुनः कहोळः पृच्छति ब्राह्मणः केन स्यादिति ब्राह्मण: – त्वदुक्तो लब्धनिदिध्यासनो ब्रह्मविदुक्तोपायादन्येन केन स्यादिति प्रश्नार्थः। याज्ञवल्क्यस्योत्तरम् । येन स्यात्तेनेदृश एव इति । येन – ‘मौनपर्यन्तेन’ साधनेन ब्राह्मणस्यादित्युक्तम् । तेनैवेदृशस्स्यात् न केनाप्यन्येनोपायेन इत्यर्थः। अतोऽन्यदार्तम् इति । अत: अस्मात्परमात्मनः यदन्यत् -प्राणिजातं तत् आर्तं – दुःखीत्यर्थः । ततश्च यस्स्वयमशनायाद्यतीत एव सन्-आर्तिरूपा- त्संसारात् विरक्तस्य तस्माद्ब्राह्मण इत्याद्युक्त साधनसाध्यनिदिध्यासनं कुर्वतो जीवस्य संसारमोक्षं करोति । स एव मया स त आत्मेत्युक्तः । न तु त्वदभिमतो बद्धजीव इति भावः । अत एव नित्यमुक्तव्यावृत्तिश्च सिद्धेति दृढतरजीवव्यावृत्तिसिद्धिरिति द्रष्टव्यम्। ततो कहोळः कौषीतकेय उपरराम इति। स्पष्टोऽर्थः ।।

अत्र – बाल्येन तिष्ठासेदित्यत्र बाल्यशब्दस्वभावकर्मसाधारणत्वेऽपि वयोविशेष-लक्षणबालभावस्य इच्छया सम्पादितुमशक्यत्वेनविधेयत्वात् कर्मव विधेयम् । तत्र कामचारकामवादकामभक्षत्वादिकं यद्वालस्य कर्म, यच्च डम्भादिराहित्यलक्षणं स्वमाहात्म्या-नाविष्करणरूपं ‘कर्म’ तत्सर्वं बाल्यशब्देन विधेयम् । अविशेषात् । न च निषिद्धस्य कामचारादेर्विधानमयुक्तमिति वाच्यम् । वामदेव्योपासनाङ्गतया प्रार्थयमानसर्वयोषिद-परिहारलक्षणनिषिद्ध कर्मविधानवत् विद्याङ्गतया निषिद्धस्यापि कामचारादेर्विधान-सम्भवादिति पूर्वपक्षे प्राप्ते उच्यते – अनाविष्कुर्वन्नन्वयात् (ब्र.सू.३-४-४९)। स्वमाहात्म्यमनाविष्कुर्वन्नेव विद्वान् वर्तेत । स्वमाहात्म्यानाविष्करणलक्षणबाल्यस्यैव विद्यायामन्वयसम्भवात् । नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्त मानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ।। (क.उ.३-२-२४) इति विशिष्य विद्यायामपि प्रतिषिद्धस्य कामचारादेः विद्याङ्गतयाऽन्वयासम्भवात् इत्यङ्गपादे स्थितम् । तत्रैव तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्वाल्यं पाण्डित्यं च निर्विद्याथमुनिः इत्यत्र मुनिशब्देन पाण्डित्यशब्दविहितं ज्ञानमेवानूद्यते, न ततोऽर्थान्तरं ज्ञानं विधीयते – प्रमाणाभावादिति पूर्वपक्षे प्राप्ते उच्यते –

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् (ब्र.सू.३-४-४६) विधीयते इति कर्मसाधनो विधिशब्दः । सहकार्यन्तरं, च तद्विधिश्च सहकार्यन्तरविधिः। तद्वतः -विद्यावत: तृतीयं-बाल्य-पाण्डित्यापेक्षया तृतीयं मौनं विद्यायास्सहकार्यन्तरं विधीयते इत्यर्थः । न च मुनिशब्दार्थस्य पाण्डित्यशब्देनैव प्राप्तत्वात् विधेयत्वानुपपत्तिरिति वाच्यम् । पक्षेण प्रकृष्ट मननशीले व्यासादौ मुनिशब्दप्रयोगात् प्रकृष्टं मननमेव मुनिशब्दार्थः । तच्च पाण्डित्यशब्दितादौपदेशिकार्थाधिगमात् । श्रवणप्रतिष्ठार्थान्मननाच्चुर्थान्तरभूतमालम्बन संशीलनात्मकमिति तस्याप्राप्तत्वेन विधानार्हत्वात् विधेयत्वं युज्यते । पक्षः – परिग्रहः । पक्ष परिग्रहे (धा.पा.१५५१) इति धातुः । आदर इति यावत् । तत्कृतप्रकर्षयुक्तं यत् मननं मौनम् । तदेव मुनिशब्देन विधीयते। सादरमननमालम्बनसंशीलनं विधीयते इत्यर्थः, विध्यादिवत् । अत्रापि विधिशब्दः कर्मसाधनः । विधिश्चासावादिश्चेति समासः। विधेयादिवदित्यर्थः । प्रस्तुतमननापेक्षया आदिर्यो विधेयः। प्राक्तनो यो विधेयः । पाण्डित्यबाल्यलक्षणः । ततश्चायमर्थः, विद्याङ्गतया यथा वाल्यपाण्डित्ये विधीयते, एवमेवमुनिशमेनापि आलम्बनर्सशीलनलक्षणं सादरं मननं तृतीयं सहकारि विधीयते इत्यर्थः । यद्वा- विध्यादिवदित्यत्र विधिशब्देन विधेयं यज्ञदानाद्युच्यते। आदिपदग्राह्यं रागप्राप्तं श्रवणं मननं च । सहकार्यन्तरविधिरित्यत्र च सहकार्यन्तरेति पृथक्पदं लुप्तविभक्तिकम् । ततश्चायमर्थ:-तृतीयं मौनं यत्-तद्यजनश्रवणमननवत् बाल्यपाण्डित्यापेक्षया सहकार्यन्तरं सत् अर्थान्तरं सद्विध्यर्हमित्यर्थः । पाण्डित्याभिन्नत्वे हि अनुवाच्यता स्यादित्यर्थः ।

ननु – बाल्यपाण्डित्यमौनशमादि नानाश्रमधर्मभूतयज्ञाद्यङ्गिकाया विद्यायाः सर्वेषु आश्रमेषु सम्भवात्, छान्दोग्ये अभिसमावृत्य कुटुम्बे शुचौ  देशे इत्यारभ्य खल्वेवं वर्तयन् यावदापयुषं  ब्रह्मलोकमिभसम्पद्यते पुनरावर्तते (छा.उ. ८-१५-१) इति गार्हस्थ्यधर्मेण उपसंहारः कथमित्यत्राह · कृत्स्नभावात्तु गृहिणोपसंहारः (ब्र.सू.३-४-४७) तु शब्द: पक्षं व्यावर्तयति । कृत्स्नेषु आश्रमेषु ब्रह्मविद्यायास्सन्द्भावात् छान्दोग्ये गृहस्थेन उपसंहारः उपलक्षणार्थः । यथा छान्दोग्ये गृहस्थधर्मकीर्तनमितराश्रमधर्मापलक्षणार्थम् । एवं बृहदारण्यके, भिक्षाचर्यं चरन्ति इति सन्न्यासिधर्मकीर्तनम् आश्रमधर्मान्तरोप-लक्षणार्थमित्याह – मौनवदितरेषामप्युपदेशात् (ब्र.सू.३-४-४८)। अत्र मौनशब्देन मौनसमभिव्याहृतसन्न्यासिधर्मभूतभिक्षाचरणादिकं लक्ष्यते। मौनवत् – सन्न्यासिधर्मवत् इतरोऽप्याश्रमधर्मो विद्याङ्गमित्यर्थः । इतरेषामप्याश्रमिणां ब्रह्मसंस्थोऽमृतत्वमेति इति ब्रह्मविद्याया मोक्षस्य चोपदेशात् इति स्थितम् । उषस्तकहोळब्राह्मणद्वयञ्चेदं गुणोपसंहारपादे अन्तरा भूतग्रामवत् स्वात्मानोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् (ब्र.सू.३-३-३५) इत्यत्र चिन्तितम् । तत्र हि एतद्ब्राह्मणद्वयप्रतिपाद्यविद्ययोः भेदोऽस्ति, नेति विशये पूर्वपक्षी प्रत्यवतिष्ठते, अन्तरा भूतग्रामवत् स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेत् इति। अन्तरशब्दाद्भावप्रधानात् सुपां सुलक् इति तृतीयेकवचनस्य आकारादेशे अन्तरेति रूपम् । अन्तरा – अन्तरत्वेनेत्यर्थः । अन्तराशब्दो मध्यवचनोऽप्यस्ति। तयोरेकशेषेण सूत्रेऽयमन्तरेति निर्देशः । ततश्चायमर्थ:-मध्ये उषस्तब्राह्मणे, एष आत्मा सर्वान्तरः इति सर्वान्तरत्वेन निर्देश: भूतग्रामवत् स्वात्मनः, भूतग्रामवान् यः स्वात्मा – भूतग्रामशब्दिताचेतनान्तर्यामी यः प्रत्यगात्मा तद्विषयकः, यः प्राणेन प्राणिति इति प्राणितृत्वादिजीवधर्मस्य वाक्यशेषे कीर्तनात् । कहोळब्राह्मणं तु अशनायाद्यतीतत्वरूपपरमात्मलिङ्गात् परमात्मविषयकमेव । यदि ब्राह्मण द्वयमपि परमात्मविषयं स्यात् तर्ह्युषस्तेन पृष्टे प्रत्युक्ते च परमात्मस्वरूपे कहोळस्य पुनःप्रश्न: प्रतिवचनञ्चासङ्गतं स्यात् । अतो वेद्यभेदाद्विद्याभेद इति पूर्वपक्षे प्राप्ते – नोपदेशवत् । न वेद्य भेदो युज्यते । यत् साक्षादपरोक्षाद्ब्रह्म आत्मा सर्वान्तरः इति मुख्यब्रह्मत्व-लक्षणसाक्षाद्ब्रह्मत्व ‘सर्वदेशसर्वकाल’सन्निहितत्व लक्षणापरोक्षत्वसर्वान्तर्यामित्वरूप सर्वान्तरत्वरूपपरमात्मलिङ्गविशिष्टविषयत्वेन प्रश्नद्वयस्याप्येकविषयत्वावश्यम्भावात् । यः प्राणेन प्राणिति इति वाक्यशेषश्रुतस्यापि निरुपाधिकसर्वप्राणिप्राणनहेतुत्वस्य परमात्मलिङ्गत्वात्, उत्तरत्र दृष्टेर्द्रष्टारं पश्ये: इत्यादिना इन्द्रियाधीन दर्शनादीनां कर्तारं प्रत्यगात्मानं प्राणनस्य कर्तृत्वेनोक्त इति न मन्वीथा इति प्रत्यगात्मव्यावृत्तेः प्रतिपादितत्वाञ्च उषस्तप्रश्नप्रतिवचनमपि परमात्मविषयमेव । अत एव कहोळप्रश्ने, यदेव साक्षादपरोक्षाद्ब्रह्म इति एवकारेण पूर्वपृष्टाधिकविषयत्वं व्यावर्तितम् । नन्वेवं सति पुनः प्रश्नवैयर्थ्यमिति चेन्न-उपदेशवत् । यथा सद्विद्यायाम् उत तमादेशमप्राक्ष्यः (छां.उ.६-१-२) इति प्रक्रान्ते सदुपदेशे भगवांस्त्वेव मे तद्ब्रवीतु (छां.उ.६-५-७) भूय एव मा भगवान् विज्ञापयतु (छां.उ.६-५-४) इति प्रश्नस्य, एषोऽणिमैतदात्म्यमिदं सर्वम् (छां.उ.६-८-७) इति प्रतिवचनस्य च भूयो भूय आवृत्तिः सतो ब्रह्मणः तत्तन्माहात्म्य-विशेषप्रतिपादनाय दृश्यते, तद्वत् एकस्यैव सर्वान्तरभूतस्य कृत्स्नप्राणिप्राणनहेतोः परस्य ब्रह्मणः अशनायाद्यतीतत्वादिरूपब्रह्मलिङ्गान्तरप्रतिपादनाय कहोळस्य पुनः प्रश्नोपपत्तेः ।

व्यतिहारो विशिंषन्ति हीतरवत् (ब्र.सू.३-३-३७) हि – यस्माद्धेतोः एकमेव परमात्मानं याज्ञवल्क्यवचनानि सर्वप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वादिधर्मः विशिषन्ति, तस्माद्धेतोः वेद्यैक्यात् विद्यै क्येन व्यतिहारः – ब्राह्मणद्वयश्रुतानां गुणानामितरेतरत्रोपसंहारः कर्तव्यः । इतरवत् – यथा सद्विद्यायां वेद्यैक्य प्रयुक्तविद्यैक्यबलात् भूय एव मा भगवान् विज्ञापयतु इति, तथा सोम्येति होवाच इति प्रश्नप्रतिवचनभेदेऽपि सर्वप्रतिवचनगतानांसर्वेषां धर्माणां सर्वत्रोपसंहारः, तद्वत्।

ननु सद्विद्यायामपि प्रश्नप्रतिवचनभेदात् भेद एवास्त्वित्यत्राह – सैव हि सत्यादयः (ब्र.सू.३-३-३७) सैव हि – सच्छब्दाभिहिता देवतैव हि, तत् सत्यं स आत्मा इति श्रुता। सत्यत्वादयश्च धर्मः उद्दालको हारुणि: श्वेतकेतुं पुत्रमुवाच (छां.उ.६-८-१) इत्यारभ्य प्रवृत्तेषु नवस्वपि खण्डेषु अनुगताः दृश्यमानाः वेद्यैक्यमवगमयन्ति। अतो न दृष्टान्त- सिद्धिशङ्का कार्या इति स्थितम् । प्रकृतमनुसरामः ।। १ ।।

।। इति पञ्चमाध्याये पञ्चमब्राह्मण प्रकाशिका ।।

बृहदारण्यकोपनिषत्

पञ्चमोऽध्यायः

Part 2

पञ्चमाध्याये षष्ठब्राह्मणम्

 

गार्गीब्राह्मणम्ओतप्रोतब्राह्मणम्

 

[गार्ग्याः बाद्याधाराणा प्रश्नाः उत्तराणि ]

 

अथ हेन गार्गी बाचक्रवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदँ र्वमप्स्वोतञ्च प्रोतञ्च, कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति अन्तरिक्षलोकेषु गार्गाति कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति गन्धर्वलोकेषु गार्गीति कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेति आदित्यलोकेषु वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति गार्गीति कस्मिन्नु खल्चादित्यलोका ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति। कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति इन्द्रलोकेषु गार्गीति कस्मिन्नु खलु इन्द्रलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति। होवाच गार्गि! माऽतिप्राक्षीः, मा ते मूर्धा व्यपप्तत् । अनति प्रश्न्यां वे देवतामतिपृच्छसि गार्गि! माऽतिप्राक्षीरिति।। ततो गार्गी वाचक्रव्युपरराम ।। ।।

प्र. – अथ पप्रच्छ इति । गर्गस्य गोत्रापत्यं गार्ग्यः । गर्गादिभ्यो यञ् (पा.सू.४-१-१०५) स्त्रीत्वविवक्षायाम् यञश्च (पा.सू.४-१-१६) इति ञीप् । यस्येति च (पा.सू.६-४-१५८) इत्यकारलोपः। हलस्तद्धितस्य (पा.सू.६-४-१५०) इति यकारलोप: गर्गगोत्रजा स्त्रीत्यर्थः । वाचक्नवी । वचक्नुर्नाम ऋषिः । तस्यापत्यं स्त्री । अणि, ङीपि, आदिवृद्धौ, ओर्गुणे, अवादेशे, यस्येति इत्यकारलोपे वाचक्नवी । वचक्नुपुत्रीत्यर्थः । अन्यत् स्पष्टम् । याज्ञवल्क्येति होवाच । पूर्ववत् । यदिदं सर्वमप्स्वोतञ्च प्रोतञ्च । यदिदं – दृश्यमानं पार्थिवं सर्वं धातुजातं कारणभूतासु अप्सु ओतञ्च प्रोतञ्च – दीर्घतन्तुषु पटवदोतम् तिर्यक्तन्तुषु पटवत् प्रोतञ्चास्ति । अप्सु प्रोतत्वाभावे पार्थिवो धातुः सक्तुमुष्टिवत् विशीर्येत इति भावः । ताः आपः कस्मिन्नु खल्वोताः प्रोताश्चेति प्रश्नः । तत्र याज्ञवल्क्यस्य उत्तरं वायौ गार्गीति । हे गार्गि! त्वदुक्ता आपः वायौ ओताश्च प्रोताश्चेत्यर्थः । एवमुत्तरत्रापि प्रश्नप्रतिवचनरूपतया वाक्यानि नेयानि । प्रजापतिलोक: दक्षादिलोकः । ब्रह्मलोकः चतुर्मुखलोकः । न चात्रबादेः स्वयोनिभूतवाय्वादौ ओतत्वादिसम्भवेऽपि, अधःस्थितानाम् अन्तरिक्षलोकादीनाम् उपरितनेषु गन्धर्वलोकादिषु ओतत्वप्रोतत्वे अनुपपन्ने इति शङ्कयम् – पर्वतानामुपरिस्थितानां क्षितिधारकत्ववत्, ऊर्ध्वस्थितस्य ध्रुवस्य ज्योतिश्चक्रधारकत्ववच्च एतदुपपत्तेः इति दृष्टव्यम् । होवाच । – याज्ञवल्क्य उवाच ह इत्यर्थः । किमिति इत्यत आह – गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तत् । हे गार्गि । ब्रह्मलोकमप्यतिक्रम्य तत ऊर्ध्वस्य तदाधारस्य प्रश्नं मा कुरु; ते मूर्ध्नः पतनं मा भूदित्यर्थः । पुनः पृच्छसि चेत्, पतिष्यतीति भावः । अपप्तत् । लुङि लृदित्वादङ् । पतःपुम् (पा.सू.७-४-१९) इति पुमागमः । तत् कुत इत्यत्राह – अनतिप्रश्नयां – – माऽतिप्राक्षीः । प्रश्नमर्हतीति प्रश्न्या, नियमाद्युपेतप्रश्नमर्यादामतिक्रम्य वर्तमानः प्रश्नः अतिप्रश्नः । आक्षेप इति यावत् । अतिप्रश्नमर्हतीत्यतिप्रश्न्या आक्षेपार्हा इत्यर्थः । सा न भवतीति अनतिप्रश्न्या । आक्षेपमुखेन ज्ञातुमयोग्यां परदेवतामाक्षेपमुखेन ‘ज्ञातुमिच्छसि इत्यतो यद्येवं पुनः पृच्छसि ततस्ते मूर्धा पतिष्यति इत्यर्थः । स्वरूपसत्ता न ते सिद्धयेदिति भावः । यद्यपि ब्रह्मलोकाधारविषयः प्रश्नो न परदेवताविषयः, अपि तु

अव्याकृताकाशविषयः – तथापि तदनन्तरप्रश्नः परदेवताविषयो भविष्यतीति दूरदृष्ट्या ब्रह्मलोकाधारप्रश्नमेव प्रतिचिक्षेपेति द्रष्टव्यम् –ततो गार्गी वाचक्नवी उपरराम । पूर्ववदर्थः । ततश्चेयं वाचक्नवी परदेवतां स्वयं जानन्त्यपि ऋषेः भीता इत्यूह्यम् ।। १ ।।

।। इति पञ्चमाध्याये षष्ठब्राह्मण प्रकाशिका ।।

पञ्चमाध्याये सप्तमं ब्राह्मणम्

 

अन्तर्यामिब्राह्मणम्

 

[उहालकस्य सूत्रान्तर्याम्युभयविषयकः प्रश्नः]

 

अथ हैनमुद्दालक आरुणि: पप्रच्छ याज्ञवल्क्येति होवाच, मद्रेष्ववसाम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयानाः तस्यासीद्भार्या गन्धर्वगृहीता । तमपृच्छाम, कोऽसीति सोऽब्रवीत्, कबन्ध आथर्वण इति ।। ।।

प्र.- अथ हैनम्उहालक आरुणिःपप्रच्छ । नाम्ना उद्दालक: अरुणस्यापत्यम् आरुणिः । शिष्टं स्पष्टम् । याज्ञवल्क्येति होवाच । पूर्ववदर्थः । मद्रेषु – – – –यज्ञमधीयानाः । वयं मद्रेषु देशेषु, गोत्रतः काप्यस्य, नाम्ना पतञ्जलस्य गृहेषु गृहा: पुंसि भूम्नयेव (अ.को.२-२-५) इति एकस्मिन् बहुवचनम् – यज्ञं – कल्पसूत्रम् अधीयानाः अवसाम – ‘उषितवन्त इत्यर्थः । तस्यासीत् भार्या गन्धर्वगृहीता । तस्य– काप्यस्य पतञ्जलस्य तमपृच्छामतं – ग्रहीतारं गन्धर्वं वयं पृष्टवन्तः । किमिति । त्वं कोऽसीति । सोऽब्रवीत् गन्धर्वः । किमिति अहं कबन्ध आथर्वण इति । नाम्ना कबन्धः, अथर्वणः पुत्रश्च इत्यर्थः । इतरत् स्पष्टम् ।। १ ।।

सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य! तत् सूत्रम्येनायञ्च लोकः परश्च लोकः सर्वाणि भूतानि संदृब्धानि भवन्तीति सोऽब्रवीत् पतञ्जलः काप्यो नाहं तद् भगवन् वेदेति

प्र. – सोऽब्रवीत् याशिकांश्च इति सः – गन्धर्वः याज्ञिकान् । यज्ञाध्येतृृन् तान्, तमध्यापकं काप्यञ्चाब्रवीत् इत्यर्थः । तदेवाह – वेत्थ नु – –भवन्तीति । येन सूत्रेण अयञ्च लोक: – भूलोकादिः परश्च लोक: ऊर्ध्वलोकाः, चतुर्दशभुवनानि, तत्स्थानि च सर्वाणि भूतानि संदृब्धानि – येन सूत्रैण, सूत्रेण पुष्पाणीव, ग्रथनेन विष्टब्धानि इत्यर्थः। तत् – ‘एतादृशं त्वं वेत्थ किम् ? इति प्रश्नः । सोऽब्रवीत् पतञ्जल; काप्यो नाहं तद्भगवन् वेदेति । स्पष्टोऽर्थः ।। २ ।।

 

सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य! तमन्तर्यामिणम् इमञ्च लोकं परञ्च लोकँ सर्वाणि भूतानि योऽन्तरो यमयतीति सोऽब्रवीत् पतञ्जलः काप्यो नाहं तं भगवन् वेदेति ।। ।।

प्र. – एवं सूत्रं पृष्ट्वा अन्तर्यामिणं पप्रच्छेत्याह – सोऽब्रवीत्याज्ञिकांश्च इति । पूर्ववदर्थः । प्रश्नमेवाह – वेत्थ नुवेद इति । य इमञ्च लोकं परञ्च लोकमन्तरो यमयति सर्वाणि च भूतानि योऽन्तरो यमयतीति यच्छब्दद्वयान्वयः । शिष्टस्य स्पष्टोऽर्थः ।। ३ ।।

सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, यो वै तत् काप्य! सूत्रं विद्यात् तञ्चान्तर्यामिणमिति ब्रह्मवित् लोकवित् देववित् वेदवित् भूतवित्  आत्मवित् सर्वविदिति तेभ्योऽब्रवीत् तदहं वेद तच्चेत् त्वं याज्ञवल्क्यसूत्रमविद्वाँस्तञ्चान्तर्यामिणं ब्रह्मगवीरुदजसे, मूर्धा ते विपतिष्यतीति ।। ।।

प्र.- सोऽब्रवीत् – – – याज्ञिकाश्च इति । पूर्ववत् । यो वैअन्तर्यामिणमितिइति शब्दः प्रकारवचनः । हे काप्य! तत् सूत्रम्; तञ्चान्तर्यामिणमस्मत्पृष्टम् इति अस्मदवगतप्रकारेण यो विद्यादित्यर्थः । ब्रह्मवित्सर्वविदिति एव परब्रह्मवित् स एव तन्नियम्यलोकदेववेदभूतवित् । स एव आत्मवित् – परमात्मवित् । परब्रह्मणः परमात्मत्वप्रकारं स एव जानाति इत्यर्थः । स एव च सर्ववित् इत्येवं तेभ्योऽब्रवीत् तेभ्यः – काप्ययाज्ञिकेभ्यः स गन्धर्वोऽब्रवीत् इत्यर्थः । अज्ञातज्ञानार्थोऽयं प्रश्नः, न वादिपराभवार्थः । अज्ञातान्तर्यामिकथनञ्च सनियमकप्रश्नसाध्यम् । अतो नैवं प्रष्टव्यम् इत्याशङ्कां वारयति । तदहं वेद – तत्सर्वम् अहं जाने इत्यर्थः । ततो नाज्ञातज्ञानार्थोऽयं मम प्रश्नः इति भावः । तच्चेत्वं – – – विपतिष्यतीति तत्सूत्रं तञ्चान्तर्यामिणमविदित्वा त्वं हे याज्ञवल्क्य ! ब्रह्मगवी: – ब्रह्मविद्यापणबन्धभूताः गाः गोरतद्धितलुकि (पा.सू.५-४-९२) इति टचि टिड्ढाणञ् (पा.सू.४-१-१५) इत्यादिना ङीष् उदजसे चेत् – कालयसि चेत्, ते मूर्धा पतिष्यतीति याज्ञवल्क्यम् उद्दालक: शशाप इत्यर्थः ।। ४ ।।

वेद वा अहं गौतम! तत् सूत्रं तञ्चान्तर्यामिणमिति यो वा इदं कश्चित् ब्रूयात् वेद वेदेति; यथा वेत्थ, तथा ब्रूहीति ।। ।।

प्र  अत्र, वेद वा अहं गौतम! तत् सूत्रं तञ्चान्तर्यामिणमिति याज्ञवल्क्यस्य प्रतिवचनम् । हे गौतम! तत् सूत्रं तञ्चान्तर्यामिणं त्वया पृष्टमहं वेदैव इत्यर्थः । एवमुक्त उद्दालक उवाच यो वा – – – ब्रूहीति यः कश्चिद्वै सर्वज्ञ दम्भोऽपि कश्चित् लोके अहमिदं वेद इदं वेदेति केवलं वाचा ब्रूयादपि । तेन किं फलमित्यर्थः । अतस्त्वं यथा वेत्थ तथा ब्रूहि । येन प्रकारेण वेत्थ, तेन प्रकारेण ब्रूहि । किम्, अहं वेदेति केवलविकत्थनवचसा वञ्चयसीत्यर्थः ।। ५।।

[वायुः सूत्रमिति प्रत्युत्तरम्]

 

होवाचवायुर्वै गौतम! तत् सूत्रम् वायुना वै गौतम! सूत्रेणायञ्च लोकः परश्च लोकः सर्वाणि भूतानि सन्दृब्धानि भवन्ति तस्माद्वै गौतमपुरुषं प्रेतमाहुः, व्यस्रँसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीति एवमेवैतत् याज्ञवल्क्य! अन्तर्यामिणं ब्रूहीति ।। ।।

प्र  – होवाच वायुर्वै गौतम तत्सूत्रम् हे गौतम! तत् – सूत्रं त्वया पृष्टं वायुरेव इत्यर्थः । वैशब्दोऽवधारणे । वायोरेव सर्वलोकभूताधारत्वं सूत्रलक्षणमस्तीत्याह –वायुना – – – भवन्ति । उक्तेऽर्थे गमकमाह – तस्माद्वै गौतम – – भवन्तीति। यस्मात् सर्वाणि वायुना ग्रथितानि, तस्मादेव हेतोः उत्क्रान्तप्राणस्य पुरुषस्याङ्गानि उत्सूत्रमाल्यानीव विस्रस्तानि भवन्ति । अत एव जनाः मृतस्याङ्गानि व्यस्रंसिषत इत्याहुः । अतो वायुना संदृब्धानि सर्वलोकभूतानीति स याज्ञवल्क्य उवाच इति सम्बन्धः । व्यस्त्रंसिषत – लुङ् । उक्तमर्थम् उद्दालकः, अङ्गीकरोति । एवमेवैतद्याज्ञवल्क्यभवतु एतदेवम् । इतरब्रूहीत्याह – अन्तर्यामिणं ब्रूहीति । स्पष्टोऽर्थः ।। ६ ।।

 

[अन्तर्यामिण: सूत्रनियन्तृत्वम्]

 

यः पृथिव्यां तिष्ठन्, पृथिव्या अन्तरो यं पृथिवी वेद, यस्य पृथिवी शरीरम्, यः पृथिवीमन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। ।।

प्र. – याज्ञवल्क्य आह – यः पृथिव्यां – – – अन्तर्याम्यमृत: ।पृतिव्यां स्थितः तदन्तर्गतः तदवेद्यः तच्छरीरकश्च सन् , योऽन्तः प्रविश्य प्रतिनिवृत्तिलक्षणनियमनं करोतिः एषोऽन्तर्यामी ते अमृत आत्मा – निरुपाधिकामृतत्वशाली आत्मा इत्यर्थः । अत्र ते आत्मेति व्यतिरेकनिर्देशात् अन्तर्यामिण: जीवव्यतिरेकः सिद्धः, अमृतत्वविशेषणाच्च सिद्धयति । तद्धि विशेषणं जीवव्यावृत्त्यर्थम् । अन्तर्यामी ते आत्मा इत्युक्ते, आत्मशब्दस्य स्वरूपवचनत्वशङ्ख्या जीवव्यावृत्तिर्न प्राप्नोतीति हि अमृत इत्युक्तम् । जीवस्यामृतत्वसिद्धेः परमात्मा प्रसादाधीनत्वान्न तत् तस्य निरुपाधिकमिति निरुपाधिकामृतत्वशाली आत्मा परमात्मेव । अत्र अमृतत्वस्य उपाध्यनुक्तया निरुपाधिकत्वसिद्धिर्द्रष्टव्या ।

अत्र प्रश्चानुरूप्येण, इमं लोकं परञ्च लोकं सर्वाणि भूतानि योऽन्तरे यमयति एष आत्मा अन्तर्यामी इति एकेनैव निर्देशन सर्वान्तर्यामिणः उद्दालकं प्रति, ते आत्मा इत्यात्मत्वप्रतिपादनसंभवात् यः पृथिव्यां तिष्ठन् योऽप्सु तिष्ठन् इत्यादि-पर्यायोपदेशबाहुल्यं किमर्थमिति चेन्न – पृथिव्यादिके एकेकवस्तुनि प्रत्येकं परिपूर्णत्वेन नियन्तृतया स्थितिज्ञापनार्थत्वेन सार्थक्यात् । परिपूर्णत्वञ्च अणुमात्रेऽपि वस्तुनि स्थितस्य निरवधिकषाङ्गुण्य विशिष्टतया प्रतिपत्तियोग्यत्वमिति व्यासार्यैर्वाक्यान्वयाधिकरणे वर्णितम्।

इदं हि ‘पूर्णत्व’नैकेन पूर्वोक्तरीत्या निर्देशन सिद्ध्यति । ननु, सर्वाणि भूतानि योऽन्तरो यमयति, तं मे ब्रूहि इति, सर्वभूतानामप्यन्तर्यामी एकोऽस्ति, वक्तव्य इति पृष्टवन्तमुद्दालकं, प्रति पृथिव्यन्तर्याम्येव ते अन्तर्यामी, जालान्तर्याम्येव ते अन्तर्याम् इति पृथिव्याद्यन्तर्यामिणश्च उद्दालकान्तर्यामिणश्चाभेदबोधनमसङ्गतम् अन्तर्याम्यैक्यस्य प्रागेव निक्षितत्वात् । अतः स त आत्मा इत्यत्र आत्मशब्दो नान्तर्यामिवचनः, अपितु स्वरूपवचन इत्येव युक्तमिति चेन्न आत्मशब्दस्य शेषित्वाधारत्वाद्यर्थ-कतयाऽप्युपपत्तेः ते आत्मेति व्यधिकरणनिर्देशस्वारस्यभङ्गायोगात् । पतिं विश्वस्य  इत्यादिवाक्यैर्विश्वशेषिणः कस्यचिदवगतत्वात् तेन वाक्येन प्रतिपन्नस्ते आत्मा-ते शेषी पृथिव्यादीनाम् अन्तर्यामीति प्रघट्टार्थः ।। ७ ।।

योऽप्सु तिष्ठन्नद्भयोऽन्तरो यमापो विदुर्यस्यापश्शरीरं, योऽपोऽन्तरो वामयति, एष आत्माऽन्तर्याम्यमृतः ।। ।।

योऽग्नौ तिष्ठम्नग्रेरन्तरो यमग्निर्न वेद, यस्याग्निश्शरीरं, योऽग्निमन्तरो यमयतिएषा आत्माऽन्तर्याम्यमृतः ।।  ।।

योऽन्तरिक्षे तिष्ठन्तरिक्षादन्तरो यमन्तरिक्षं वेद, यस्यान्तरिक्षं शरीरम्योऽन्तरिक्षमन्तरो यमयति, एष आत्मान्तर्याप्यमृतः ।। १० ।।

यो वायौ तिष्ठन् वायोरन्तरो यं वायुर्न वेद, यस्य वायुः शरीरम् , यो वायुमन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। ११ ।।

यो दिवि तिष्ठन् दिवोऽन्तरो यं द्यौर्न वेद, यस्य द्यौश्शरीरम्, यो दिवमन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। १२ ।।

आदित्येतिष्ठन्नादित्यादन्तरो यमादित्यो वेद, यस्यादित्यश्शरीरम् , य आदित्यमन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। १३ ।।

यो दिग्क्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो विदुर्यस्य दिशश्शरीरम्। यो दिशोऽन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। १४ ।।

याचन्द्रतारके तिष्ठँश्चन्द्रतारकादन्तरो यं चन्द्रतारकँ वेद, यस्य चन्द्रतारकँ शरीरम्, यश्चन्द्रतारकमन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। १५ ।।

आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो वेद, यस्याकाशश्शरीरम्, य आकाशमन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। १६ ।।

यस्तमसि तिष्ठँस्तमसोऽन्तरो यं तमो वेद, यस्य तमश्शरीरम्, यस्तमोऽन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। १७ ।।

यस्तेजसि तिष्ठँस्तेजसोऽन्तरो यं तेजो वेद, यस्य तेजश्शरीरम्, यस्तेजोऽन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः इत्यधिदैवतम् अथाधिभूतम् ।। १८ ।।

प्र.– एवमप्सु अग्नौ अन्तरिक्षे वायो दिवि आदित्ये दिक्षु चन्द्रतारके आकाशे तमसि तेजसि च अन्तर्यामिणमुक्त्वा आह – इत्यधिदैवतम् । उपदिष्टमन्तर्यामिस्वरूपमिति शेषः । अथाधिभूतम् – अन्तर्यामिस्वरूपम् ‘उच्यते’ इति शेषः ।। ८-१८ ।।

 

यस्सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यँ सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरम्, यः सर्वाणि भूतान्यन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः इत्यविभूतम् अथाध्यात्मम् ।। १९ ।।

प्र. – सर्वेषु भूतेषु चान्तर्यामिणमुक्त्वाह – इत्यधिभूतम् । अन्तर्यामिस्वरूपमुक्तमिति शेषः । अथाध्यात्मम् । अन्तर्यामिस्वरूपमुच्यत इति शेषः ।। १९ ।।

यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो वेद, यस्य प्राणश्शरीरम्, प्राणमन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। २० ।।

यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद, यस्य वाक् शरीरम्, यो वाचमन्तरो यमयति, एष आत्मान्तर्याम्यमृतः ।। २१ ।।

यश्चक्षुषि तिष्ठन् चक्षुषोऽन्तरो यं चक्षुर्न वेद, यस्य चक्षुश्शरीरम्, यश्चक्षुरन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। २२ ।।

यश्श्रोत्रे तिष्ठन् श्रोत्रादन्तरो यँ श्रोत्रं वेद, यस्य श्रोत्रँ शरीरम्, यश्श्रोत्रमन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। २३ ।।

यो मनसि तिष्ठन् मनसोऽन्तरो यं मनो वेद यस्य मनश्शरीरम्, यो मनोऽन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। २४ ।।

यस्त्वचि तिष्ठँस्त्वचोऽन्तरो यँ त्वङ् वेद, यस्य त्वक् शरीरम् यस्त्वचमन्तरो यमयति, एष आत्माऽन्तर्याम्यमृतः ।। २५ ।।

यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं वेद, यस्य विज्ञानं शरीरम्यो विज्ञानमन्तरो यममति, एष आत्माऽन्तर्याम्यमृतः ।। २६ ।।

प्र. – एवं प्राणे वाचि चक्षुषि क्षोत्रे मनसि त्वचि च उक्त्वा आह यो विज्ञाने अमृतः । अत्र विज्ञानशब्दो जीवात्मपरः । समानप्रकरणे माध्यन्दिनशाखायामत्रत्य विज्ञानशब्दस्थाने, आत्मनि तिष्ठन् इति आत्मशब्देन निर्देशदर्शनात्, ज्ञानस्वरूपस्य तस्य तच्छब्दवाच्यत्वयोगाच्चेति द्रष्टव्यम् ।। २०-२६ ।।

 

यो रेतसि तिष्ठन् रेतसोऽन्तरो यँ रेतो वेद, यस्य रेतश्शरीरम्, यो रेतोऽन्तरो यमयत्येष आत्माऽन्तर्याम्यमृतः अदृष्टो द्रष्टा, अश्रुतश्श्रोत, अमतो मन्ता, अविज्ञाता विज्ञाता, नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्त श्रोतानान्योऽतोऽस्ति मन्ता, नान्योऽतोऽस्ति विज्ञाता; एष आत्माऽन्तर्याम्यमृतः । अतोऽन्यदार्तम् ततो होद्दालक आरुणिरुपरराम ।। २७ ।।

प्र. – एवं रेतस्यन्तर्यामिणमुक्त्वाऽऽह – अदृष्टो द्रष्टा – – –  विज्ञाता इति । अत्र द्रष्टृत्वं रूपसाक्षात्कारवत्वम् । न तु चक्षुर्जन्यज्ञानवत्वम्। तस्य परमात्मन्यसम्भवात् । श्रोतृत्वं शब्दसाक्षात्कारवत्त्वम् । मन्तृत्वं मन्तव्यविषयसाक्षात्कर्तृत्वम् । विज्ञातृत्वं विज्ञानशब्दितनिदिध्यासनविषयसाक्षात्कर्तृत्वम् । द्रष्टुत्वादिकं जीवस्यापि अस्तीति अदृष्टत्वादिना द्रष्टृत्वादिकं विशेषितम् । तादृशञ्च तन्न जीवस्यास्तीति भावः । अत्र च द्रष्टृत्वादौ उपाध्यनुक्तेः निरुपाधिकद्रष्टृत्वमर्थसिद्धमिति द्रष्टव्यम् । नान्यो – – – विज्ञाता । एष आत्माऽन्तर्याम्यमृतः अतोऽन्यदार्तम् । अन्यशब्दादेः सर्वनाम्न: पूर्वनिर्दिष्ट सदृशान्यपरत्वस्य, समानेषु पूर्वत्वात् (पू.मी.सू.७-१-९२) इति ‘साप्तमिकाधिकरणे व्यवस्थितत्वात् अत्राप्यन्यशब्देन पूर्वनिर्दिष्टादृष्टत्वादिविशेषितनिरुपाधिकरूपादि साक्षात्कारादिमतो निषेध उपपद्यते । जीवस्य करणायत्तज्ञानत्वात् अन्यस्तत्सदृशोऽदृष्टो द्रष्टा नास्तीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । शिष्टं स्पष्टम् । ततो होद्दालको आरुणिरुपरराम । पूर्ववत् । इदञ्च ब्राह्मणमधिकृत्य समन्वयाध्याये द्वितीयपादे चिन्तितम् । यः पृथिव्यां तिष्ठन् इत्यारभ्यान्तर्यामिब्राह्मणे अधिदैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मञ्च अन्तरवस्थितत्वेनोक्तोऽयमन्तर्यामी जीव एव स्यात् । वाक्यशेषे, द्रष्टा श्रोता इति करणायत्तज्ञानवत्त्वोक्तेः । न च दर्शनश्रवणादिशब्दा: रूपशब्दादिसाक्षात्कारपराः । तादृशसाक्षात्कारवत्वञ्च परमात्मनोऽपि सम्भवतीति वाच्यम् – तथा हि सति, नान्योऽतोऽस्ति द्रष्टा इति तदतिरिक्तद्रष्टुनिषेधानुपपत्तेः । जीवस्यैव तदतिरिक्तस्य रूपादिसाक्षात्कारवतः सत्त्वात् । द्रष्ट्रादिशब्दाना करणायत्तज्ञानवत्त्वार्थकतया जीवपरत्वे तु जीवव्यतिरिक्तस्य करणायत्तज्ञानवतो निषेध उपपद्यते; ईश्वरस्य करणायत्तज्ञानवत्त्वाभावादिति पूर्वपक्षे प्राप्ते उच्यते अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् (ब्र.सू.१-२-१९) अधिदेवाधिलोकादिषु श्रूयमाणोऽन्तर्यामी परमात्मैव; सर्वभूतान्तरत्वामृतत्वादेः परमात्मधर्मस्य श्रवणात् । अधिलोकादयो माध्यन्दिने द्रष्टव्याः । अन्यशब्दस्य पूर्वोक्तन्यायेन पूर्वनिर्दिष्टा-दृष्टत्वादिविशेषितनिरुपाधिकरूपादि साक्षात्कर्त्रन्तरपरत्वेन वाक्यशेषोऽप्युपपद्यते ।

स्मार्तमतद्धर्माभिलापाच्छारीरश्च (ब्र.सू.१-२-२०) यथा स्मार्तं प्रधानम् , अदृष्टो द्रष्टा इति श्रुतस्यादृष्टत्वविशिष्टद्रष्टृत्वस्य, ‘सर्वान्तर्यामित्वादेश्च’ तदसम्भावितधर्मस्य श्रवणात् न प्रतिपाद्यम् – एवं न जीवोऽप्यत्र प्रतिपाद्यते ।। उभयेऽपि हि भेदेनेनैनमधीयते (ब्र.सू.१-२-२१) । काण्व माध्यन्दिनाश्च उभयेऽपि अन्तर्यामिणं जीवभिन्नमेव आमनन्ति । माध्यन्दिनाहि, आत्मनि तिष्ठन्नात्मनोऽन्तरो इति, काण्वाश्चात्मपर्यायस्थाने, यो विज्ञाने तिष्ठन् इति आत्मापदस्थाने विज्ञानपदमधीयते । अतो न जीवोऽन्तर्यामीति स्थितम् । ननु अत्मनो ज्ञानाश्रयस्य कथं विज्ञानशब्दवाच्यत्वमिति चेन्न – अस्यार्थस्य वियत्पादे चिन्तितत्वात् । तथा हि यो विज्ञाने तिष्ठन्, विज्ञानं यज तनुते (तै.आन.५-१) ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थत: (वि.पु.१-२-६) इति श्रुतिस्मृतिभिः ज्ञानस्वरूपत्वेनैव आत्मनः प्रतीतेः न ज्ञाता आत्मा । अथवा यो वेदेदं जिघ्राणीति आत्मा, एष हि द्रष्टा श्रोता इत्यादिश्रवणात् अहं जानामिअज्ञासिषम् इत्याद्यनुभवाञ्च आगन्तुकज्ञानाश्रय एव; न स्वयं ज्ञानरूप: । ज्ञानरूपत्ववचनानि तु लाक्षणिकानि इत्येवं पूर्वपक्षे प्राप्ते । उच्यते – ज्ञोऽत एव (ब्र.सू २-३-१९) । अत एव एष हि द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः इति विज्ञानात्मनः एव जीवस्य द्रष्टृत्वादिश्रुतेरेव ज्ञानात्मकोऽपि सन् स्वाभाविकज्ञानाश्रयश्च भवतीत्यर्थः ।

ननु विभोरात्मनः स्वाभाविकज्ञानाश्रयत्वे तज्ज्ञानस्य सर्वपदार्थसम्बन्धात् सार्वज्यं सर्वदा स्यात् इत्याशङ्क्याह – उत्क्रान्तिगत्यागतीनाम् (ब्र.सू.२-३-२०) विभुत्वे स्यादियं शङ्काऽपि, तेन प्रद्योतेनैष आत्मा निष्कामति (बृ.उ.६-४-२)। ये वै के चास्माल्लोकात् प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति (कै.उ.१-२) तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे (बृ.उ.६-४-६) इति जीवस्य उत्क्रान्तिगत्यागतीनां श्रवणात् जीवो न विभुः । अतो न सर्वदा सार्वज्ञ्यापत्तिरित्यर्थः । ननु शरीरादुत्क्रमणं नाम शरीरविषयकाभिमानराहित्यम् ।

तच्च विभोरप्यात्मनः सम्भवतीत्यत्राह स्वात्मना चोत्तरयोः (ब्र.सू.२-३-२१) । च शब्दोऽवधारणे । विभुत्वपक्षे उत्क्रमस्य कथञ्चित्सम्भवेऽपि उत्तरयोः गमनागमनयोः स्वात्मना – स्वरूपेणैव सम्पाद्यत्वात् विभुत्वे तदसम्भवः । किञ्च भूतकरणग्रामा-संपरिष्वक्तस्यैव, एतास्तेजोमात्रास्समभ्याददानो हृदयमेवान्ववक्रामति, शुक्रमादाय पुनरेति स्थानम् इति शरीर एव स्वात्मनैव गत्यागतिश्रवणात् विभुत्वे च तयोरसम्भवात् न विभुरात्मा । नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् (ब्र.सू.२-३-२२) योऽयं विज्ञानमयः प्राणेषु इति जीवं प्रस्तुत्य एष महानज आत्मा इति महत्वश्रुतेर्नाणुर्जीव इति चेत् – न यस्यानुवित: प्रतिबुद्ध आत्मा इति जीवेतरं परमात्मानमधिकृत्य तस्यैव तत्र महत्त्वप्रति-पादनात् । स्वशब्दोऽन्मानाभ्याञ्च (ब्र.सू.२-३-२३) एषोऽणुरात्मा चेतसा वेदितव्यः (मुं.उ.३-१-९) इति अणुत्वलक्षणस्य स्वस्य वाचकशब्दश्रवणात्, वालाग्रशतभागस्य शतधा कल्पितस्य भागो जीवस्सविज्ञेयः (श्वे.उ.५-९) इति अणुसदृशं वस्तूद्धृत्य तन्मानत्वस्य जीवे आमननाच्चाणुरेव ।

ननु अणुत्वे सति एकदेशस्थस्य कथं सकलदेहव्यापिवेदनोपलम्भ इत्यत्र मतान्तरेण परिहारमाह – अविरोधश्चन्दनवत् (ब्र.सू.२-३-२४) । यथा हरिचन्दनबिन्दुः शरीरैकदेशस्थोऽपि सकलदेहव्यापिनम् आह्वादं करोति, एवं जीवोऽपि भविष्यति । अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमादि हि (ब्र.सू.२-३-२५) हरिचन्दनबिन्द्वादेः हृदयादिरूपदेशविशेषावस्थिति-विशेषादस्तु तथाभावः, आत्मनो न देशविशेषावस्थितिरस्तीति कथं तथात्वमिति चेन्न-हृदि ह्ययमात्मा इति जीवस्यापि शरीरप्रदेशविशेषावस्थित्यभ्युपगमात् । अथ स्वमतेन परिहारमाह गुणाद्वाऽऽलोकवत् (ब्र.सू.२-३-२६) वा शब्दो मतान्तरव्यावृत्त्यर्थः । लोके यथा एकदेशस्थानामपि मणिद्युमणिप्रभृतीनां प्रभा व्यापिनी, एवमेकदेशस्थितस्यापि जीवस्य प्रभास्थानीयधर्मभूतज्ञानव्याध्या सर्वाङ्गीणसुखदुःखाद्यनुभवसम्भवात् नानुपपत्तिः । ननु आत्मव्यतिरिक्तं ज्ञानं नास्तीत्यत्राह – व्यतिरेको गन्धवत् तथा दर्शयति (ब्र.सू.२-३-२९) । यथा गन्धस्य पृथिवी व्यतिरेकः प्रत्यक्षसिद्धः, तथा, अहं जानामीति ज्ञानस्यात्मव्यतिरेकः प्रत्यक्षसिद्धः । जानात्येवायं पुरुष: इति श्रुतिश्च तथा दर्शयति । पृथगुपदेशात् (ब्र.सू.२-३-२८) विज्ञानात्मनोः, पृथक्कृत्य हि विज्ञातुः विज्ञातेर्विपरिलोपो विद्यते (बृ.उ.६-३-३०) इति तत्तद्वाचकशब्दैरेव पृथक्कृत्य, उपदेशदर्शनात् आत्मधर्मभूतं ज्ञानम् अस्त्येव । ननु ज्ञानस्यात्मापेक्षया पृथक्त्वे, यो विज्ञाने तिष्ठन् इत्यादिश्रुतीनां का गतिरित्यत्राह – तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् (ब्र.सू.२-३-२९) । तुशब्दः चोद्यं “व्यावर्तयति । जीवे विज्ञानगुणस्यैव सारभूतगुणत्वात् विज्ञानमिति जीवो व्यपदिश्यते । यथा प्राज्ञस्प परमात्मनः आनन्दगुणसारत्वात्, यदेष आकाश आनन्दो स्यात् इत्यानन्दशब्देन व्यपदेशः । यावदात्मभावित्वाञ्च दोषस्तद्दर्शनात् (ब्र.सू.२-३-३०) यथा गोत्वादीनां यावद्गोव्यक्तिभावित्वात् गोत्ववाचिभि: गवादिशब्दैः व्यक्तिनिर्देशो दृश्यते, एवमेव ज्ञानरूपधर्मस्य यावदात्मभावित्वात् तद्वाचिना ज्ञानशब्देन धर्मिणो व्यपदेशो न दोषाय इत्यर्थः । अत्र चकारात् ज्ञानवत् आत्मनोऽपि स्वप्रकाशत्वेन, ज्ञानमिति व्यपदेशो न दोषायेति समुच्चिनोति ।

ननु सुषुप्त्यादिषु ज्ञानाभावात् न ज्ञानस्य यावदात्मभाविधर्मत्वम् । तत्राह पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् (ब्र.सू.२-३-३१) । यथा सर्वदा विद्यमानस्य पुंस्त्वव्यञ्जकधातोः यौवनेऽभिव्यक्तिरेवं सर्वदा विद्यमानस्यापि विज्ञानस्येन्द्रियसम्प्र-योगदशायाम् अभिव्यक्तिः । अतश्च ज्ञानस्वरूपोऽणुरात्मा ज्ञाता च । ननु विज्ञानरूप एवात्मा विभुरस्तु, तत्राह – नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमोवाऽन्यथा (ब्र.सू.२-३-३२) ।

किं सर्वगत आत्मा उपलब्धेरेव वा अनुपलब्धेरेव वा हेतुः, उत उभयत्र । आद्यपक्षद्वयपक्षे उपलब्धेरेव वा अनुपलब्धेरेव वा इत्यन्यतरनियमः स्यात् । तृतीयपक्षे सर्वदा उपलब्ध्यनुपलब्धी स्याताम् । ततश्च उपलम्भानुपलम्भौ पर्यायेण दृश्यमानौ नोपपद्येयाताम् । अणोर्ज्ञानस्वरूपस्यैव आत्मनः इन्द्रियसम्प्रयोगादिकारणमहिम्ना कादाचित्की धर्मभूतज्ञानाभिव्यक्तिरिति सिद्धान्तपक्षेतु नानुपपत्तिरिति स्थितम् ।

तथा च तत्रैव पादे – कर्ता शास्त्रार्थवत्त्वात् (ब्र.सू.२-३-३३) इति प्रतिपादितं जीवानां कर्तृत्वं न परमात्मायत्तम् । तथात्वे हि प्रवृत्तिनिवृत्त्योः सालभञ्जिकावत् अस्वतन्त्रं जीवं नियोजयतोः विधिनिषेधशास्त्रयोः आनर्थक्यं स्यादिति पूर्वपक्षे प्राप्ते – उच्यते-परात्तु तच्छ्रुतेः । (ब्र.सू.२-३-४०) । तु शब्दः पक्षं व्यावर्तयति । तच्च कर्तृत्वं परात्। परमात्मायत्तमित्यर्थः। आत्मानमन्तरो यमयति इति तत्कर्तृत्वस्य परायत्तत्वश्रवणात् । नन्वेवं विधिनिषेधशास्त्रानर्थक्यम् । तत्राह कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः (ब्र.सू.२-३-४१) । परमात्मा जीवकृतं पूर्वप्रयत्नमपेक्ष्य तदनुमतिदानेन प्रवर्तयति । एवं सति विधिप्रतिषेधावैयर्थ्यानुग्राहकत्वादिकं सिद्ध्यति । स भगवान् पुरुषोत्तमः अवाप्तसमस्तकामः सर्वज्ञः सर्वेश्वरः सत्यसङ्कल्पः स्वमाहात्म्यानुगुण-लीलाप्रवृत्तः, एतानि कर्माणि समीचीनानि, एतान्यसमीचीनानि इति कर्मद्वैविध्यं संविधाय, तदुपादानोचितदेहेन्द्रियादिकं तन्नियमनशक्तिञ्च सर्वेषां क्षेत्रज्ञानां सामान्येन प्रदिश्य, स्वशासना-वबोधि शास्त्रञ्च प्रदर्श्य, अन्तरात्मतया अनुप्रविश्य अनुमन्तृतया च नियच्छंस्तिष्ठति । ते च क्षेत्रज्ञाः तदाहितशक्तयः तत्प्रदिष्टकरणकळेबरादिकाः तदाधाराः स्वयमेव स्वेच्छानुगुण्येन पुण्यापुण्यरूपे कर्मणी उपाददते । ततश्च पुण्यरूपकर्मकारिणं स्वशासनानुवर्तिनं ज्ञात्वा धर्मार्थकाममोक्षै: वर्धयति । शासनातिवर्तिनञ्च तद्विपर्यपेण योजयति । अतः स्वातन्त्र्य-दयाळुत्वादिवैकल्यचोद्यस्य नावकाशः । दया हि नाम स्वार्थनिरपेक्षापरदुःस्वा सहिष्णुता । सा स्वशासनातिवृत्तिव्यवसायिन्यपि वर्तमाना न गुणायावकल्पते । प्रत्युत अपुंस्त्व- मेवाऽऽवहति । तन्निग्रह एव तत्र गुण: । अन्यथा शत्रुनिग्रहादीनाम् अगुणत्वप्रसङ्गात् । स्वशासनातिवृत्तिव्यवसायनिवृत्तिमात्रेण नाद्यनन्तकल्पोपचितदुर्विषहानन्तापराधानङ्गीकारेण निरतिशय सुखसंवृद्धये’ स्वयमेव प्रयतते । यथोक्तम् –तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्

ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। (भ.गी.१०-१०) इति । ननु कूपे पतन्तं बालकं दृष्ट्वा उपेक्षमाणस्य अनुमतिं कृतवतो वा पुंसो नैर्घृण्यादिप्रसक्तिवत् स्वाहितकर्मप्रवृत्तपुरुषविषये उपेक्षकत्वे वा, अनुमन्तृत्वे वा, प्रयोजकत्वे वा सर्वेश्वरस्य तस्य निर्दयत्वादिकम् अवश्यम्भावीति चेत् – शास्त्रप्रवर्तनमुखेन सामान्येन अहितप्रवृत्तिनिवारणस्य कृतत्वात् नोपेक्षणम् । तत्तत्प्रवृत्तिकाले विशेषतो निवारकत्वाभावलक्षणम् । उपेक्षकत्वं तु स्वतन्त्रस्य न पर्यनुयोज्यम् । एतादृशस्वातन्त्र्यमेव दोष इति चेत् – तत्र किं प्रमाणम् न प्रत्यक्षम्; तस्येश्वरविषये अप्रमाणत्वात् । नाप्यनुमानम् । तत्र हि किम् ईश्वराख्यं धर्मिणं शास्त्रेकसमधिगम्यमभ्युपेत्य तत्स्वातन्त्र्यस्य दोषत्वम् अनुमीयते, उतानभ्युपगम्य? अनभ्युपगमे हेतोः आश्रयासिद्धिः । अभ्युपगमे धर्मिग्राहकेण शास्त्रेण तस्य गुणत्वेन प्रतिपन्नत्वात् कालात्ययापदिष्टत्वम् ।

चिकीर्षापूर्वककृतिमत्त्वेन सालभञ्जिकाविलक्षणतया जीवस्य कर्तृत्वात् न शास्त्रानर्थक्यम्: प्रवर्तकज्ञानचिकीर्षोत्पादकत्वेन साफल्यात् । कालादिवत् साधारणकृतिहेतोरीश्वरस्य न वैषम्यादिप्रसक्तिश्च । उत्तञ्च भगवता पराशरेण –

निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । (वि.पु.१-४-५१) इति । निमित्तमात्रं -साधारणमात्रमित्यर्थः गीतञ्च भगवताऽपि ।

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् । (भ.गी.४-१३) इति । साधारणकर्तारं विद्धि । असाधारणकर्तारं न विद्धीति हि तस्यार्थः । उक्तञ्च व्यासार्यै: –

वैयर्थ्यं यावता स्यात् विधानप्रतिषेधयोः

नियन्तृत्वश्रुतेस्तावान् सङ्कोचो त्वतः परः ।। इति ।।

नन्वेवं साधारणकारणैरेव सर्वकार्योत्पत्तिसम्भवे ईश्वश्वरस्य प्रयोजकत्वानुमन्तृत्वादिकं कुतोऽभ्युपगन्तव्यम् इति चेत् – कल्पनायामेव ईदृशचोद्यावकाशः । अन्त:प्रविष्टःशास्ता जनानां सर्वात्मा (तै.आर.३-११-१०) एष ह्येव साधु कर्म कारयति (कौँउ. ३.३-८) इत्यादि, प्रमाणप्रतिपन्नार्थे ईदृशचोद्यानवकाशादिति स्थितम् ।

तथा प्राणपादे – जीवस्य यत् स्वभोगसाधनशरीराद्यधिष्ठातृत्वम्, न तत् परमात्मायत्तमिति पूर्वपक्षे पाप्ते उच्यते – ज्योतिराद्यधिष्ठानं तु तदामननात् (ब्र.सू.२-४-१३) प्राणवता जीवेन सह । ज्योतिरादीनाम् अग्नयादिदेवतानां यत् प्राणविषयमधिष्ठानम् – जीवेन अग्न्यादिदेवताभिश्च क्रियमाणं प्राणकर्मकाधिष्ठानं यत्, तत्, तदामननात् तस्य परमात्मन आमननात् सङ्कल्पादेव भवति; योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयति, आत्मनि तिष्ठन् इत्यादिशब्दात् । तस्य च नित्यत्वात् (ब्र.सू.२-४-१४) सर्वेषां परमात्मनाऽधिष्ठितत्वस्य यावत्स्वरूपभावित्वाच्चेति स्थितम् । प्रकृतमनुसरामः ।। २७ ।।

।। इति पञ्चमाध्याये सप्तमब्राह्मण प्रकाशिका ।।

पञ्चमाध्याये अष्टमं ब्राह्मणम्

वाचक्नवीब्राह्मणम्

[गार्ग्या: ब्राह्मणान् प्रति प्रश्नानुज्ञा प्रार्थना]

 

अथ वाचक्नवी उवाचब्राह्मणा भगवन्तो हन्त! अहमिमं द्वौ प्रश्न प्रक्ष्यामि तौ चेन्मेवक्ष्यति, वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेतिपृच्छ गार्गीति ।। ।।

प्र. अथ ह वाचक्नव्युवाच इत्यादि । अन्तर्यामिब्राह्मणे प्रसिद्ध उद्दालके याज्ञवल्क्येन पराजिते, सर्वेषां ब्राह्मणानामेवमेव पराजयो भविष्यतीति मन्यमाना गार्गी, मातिप्राक्षीर्मा ते मूर्धा व्यपप्तत् इति याज्ञवल्क्यस्य स क्रोधोक्तया भीत्या पूर्वमुपरताऽपि ब्राह्मणानुज्ञां प्राप्य पुनः प्रष्टुकामा अनुज्ञादानाय ब्राह्मणानुवाच इत्यर्थः । ब्राह्मणा भगवन्तो हन्ताहम् इत्यादि । हन्त! हे भगवन्तो ब्राह्मणाः । इमं – याज्ञवल्क्यमहं प्रश्नद्वयं प्रक्ष्यामि । तस्य चेदुत्तरं मे प्रश्नद्वयस्य याज्ञवल्क्यो वक्ष्यति, तदा इमं याज्ञवल्क्यं युष्माकं मध्ये ब्रह्मोद्यं – ब्रह्मवादं प्रति जेता कोऽपि जातु ना स्तीत्यर्थः । ब्रह्मोद्यम् । वदरसुपि क्यप् (पा.सू.३-१-२०६) इति क्यप् । तौ चेन्मे विवक्षिष्यति मूर्धाऽस्य विपतिष्यतीति मे – मम तौ पश्नौ अयं याज्ञवल्क्यो न प्रतिवक्ष्यति यदि, तर्हि माम्, मा ते मूर्धा व्यपप्तत् इत्यन्यायेन अब्रह्मवादिनीमिव पूर्वं शप्तवतोऽस्य याज्ञवल्क्यस्य अब्रह्मिष्ठस्य मूर्धा विपतिष्यति ब्रह्मिष्ठपणग्रहणदिति अस्मिन्नर्थे ब्राह्मणा अनुगृह्णन्तु इत्यर्थः । एवमुक्ता ब्राह्मणा आदृत्यानुमतिमदुः । पृच्छ गार्गीति । स्पष्टोऽर्थः ।। १ ।।

 

सा होवाच अहं वै याज्ञवल्क्य! यथा काश्यो वा वैदेहो वोप्रपुत्र ज्ज्यं धनुरधिज्यं कृत्वा ्वौ बाणवन्त सपत्नातिव्याधिन हस्ते कृत्वा उपोत्तिठे देवमेवाहं त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् मे ्रूहीति पृच्छ गार्गीति ।। ।।

प्रसा होवाच तदेव याज्ञवल्क्यं प्रति ब्राह्मणानुमतया वाचक्नव्योक्तमाह अहं वै – – – ब्रूही इति । हे याज्ञवल्क्य । अहं – प्रसिद्धं यथा तथा काशीदेशभवः विदेहदेशेभवो वा उग्रपुत्रः – शूरवंश्यः यथा ज्ज्यम्  – उत्सृष्टज्यं धनुः पुनरपि सज्यं कृत्वा द्वौ बाणवन्त – बाणशब्देन शराग्रे यो वंशखण्डः, सोऽभिधीयते । तद्वन्तौ – – – सपत्नातिव्याधिनौ । सपत्नात्यन्तव्ययनशीलौ च शरौ हस्ते गृहीत्वा उपोत्तिष्ठेत् । सपत्नसमीपं गच्छति, एवमेय अहं द्वाभ्यां प्रश्नाभ्यां त्यामुपस्थिताऽस्मि उपोदस्थाम् । स्याधातोर्लुङ् । गतिस्थाधुपाभूम्य: (पा.सू.२-४-७७) इति सिचोलुक् । ती मे प्रश्नौ ब्रूहीत्यर्थ: । एवमुक्त आह – याज्ञवल्क्यः पृच्छ गारगीति । स्पष्टोऽर्थः ।। २ ।।

[सूत्रं कस्मिन् ओतं प्रोतं इति प्रश्नः]

 

सा होवाच यदूरध्वं याज्ञवल्क्य दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवञ्च भविष्यच्चेत्याचक्षतेः कस्मिंस्तदोतञ्च प्रोतञ्चेति ।।

प्र. – सा होवाच इति । सा गार्गी पप्रच्छ । तदेवाह यदूर्ध्वं – – –प्रोतञ्च इति । हे याज्ञवल्क्य! दिवो यदूर्ध्व – धुलोकात् यत् ऊर्ध्वं वस्तु जातम्, यदर्वाक् पृथिव्याः – पृथिव्याश्चाधस्तनं यद्वस्तुजातम्, अनयोर्द्यावापृथिव्योरन्तराळवर्ति यत्, ये चे मे द्यावापृथिव्यौ, कालत्रयपरिच्छिन्नञ्च यद्वस्तुजातम्, व्यवहारविषयं एतत् सर्वं कुत्र वा, दीर्घतिर्यक् तन्तुष्विव पटः, ओतं प्रोतञ, तत् ब्रूहीति प्रश्नार्थः । यदवाक्पृथिव्याः इति पाठेऽप्ययमेवार्थः ॥३॥

[सूत्रमाकाशे ओतं प्रोतम् इति उत्तरम्‘]

 

होवाच यदूर्ध्वं गार्गि! दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षते, आकाशे तदोतञ्च प्रोतञ्चेति ।। ।।

प्र.- होवच इति । याज्ञवल्क्योऽत्रोत्तरमाह वक्ष्यमाणम् । यदूर्ध्व – —प्रोतञचेति । हे गार्गि! यदूर्ध्वमित्यादि त्वदुक्तं, सर्वमाकाशे ओतञ्च प्रोतञ्च इत्यर्थः । आकाशशब्देन चात्र न वायुमदम्बरं गृह्यते । तस्य सर्वविकाराश्रयत्वाभावात् । किन्त्व-व्याकृताकाशः । एतच्च, अक्षरमम्बरान्तधृतेः (ब्र.सू.१-३-९) इत्यत्र स्थितम् । शिष्टं पूर्ववत् ।। ४ ।।

सा होवाच नमस्तेऽस्तु याज्ञवल्क्य! यो एतं व्यवोच: अपरस्मै धारयस्वेति पृच्छ गार्गीति ।। ।।

प्र . – सा होवाच नमस्ते इत्यादि । अथ गार्ग्युवाच । किमिति? हे याज्ञवलय! यस्त्वं मे एतं प्रश्नं विविच्य उक्तवानसि, तस्मै ते नमोऽस्तु । इति तदुक्तमुत्तरमङ्गीकृत्याह –अपरस्मै – द्वितीयप्रश्नाय धारयस्व – चित्तं सावधानं कुरु इत्यर्थः । होवाच पृच्छ गारति सः – याज्ञवल्क्यः हे गार्गि! पृच्छ – इत्यनुमेने इत्यर्थः ।। ५ ।।

[‘आकाशः कस्मिन्, ओतः प्रोतइति प्रश्नः]

 

सा होवाच यदूर्ध्वं याज्ञवल्क्य! दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षतेकस्मिंस्तदोतञ्च प्रोतञ्चेति आकाश एव तदोतं प्रोतं चेति

प्र.- सा होवाच – सा गार्गी पप्रच्छ । किमिति? यदूर्ध्वं याज्ञवल्क्य इत्यादि । आकाश एव तदोतञ्च प्रोतञ्चेति । य आकाशस्त्वयोक्त इति शेषः । यदूर्ध्वं दिव इत्यादि अस्मदुक्त-सर्ववस्तुजातम् आकाशा एव तदोतञ्च प्रोतञ्चेति । त्वया य आकाश उक्तः, आकाश: कस्मिननु खलु ओतश्च प्रोतश्चेति । सोऽव्याकृताकाशः किमाश्रित इत्यर्थः ।। ६ ।।

[अक्षरस्य प्रशासितुः प्रतिपादनेन प्रत्युत्तरम्]

 

होवाचएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वहस्वम् अदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वानाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखमात्रमनन्तरमबाह्यम् तदश्नाति किञ्चन न तदश्नाति कश्चन ।। ।।

प्र. – होवाच अत्र याज्ञवल्क्य उत्तरमाह । किमित्यत्राह – एतद्वै – – –अबाह्यम् । हे गार्गि ! तदेतत् वै सर्वासूपनिषत्सु, यस्य तमश्शरीरम् यस्याव्यक्तं शरीरम् इत्यादिषु प्रसिद्धम् । अक्षरम् – अश्नुते व्याप्नोतीति वा, न क्षरतीति वा अक्षरं ब्रहा अव्याकृताकाशस्यापि आधारतया ब्राह्मणाः-ब्रह्मविद: अभिवदन्ति। अत्र ब्राह्मणाभिवदनकथनेन, नाहं किञ्चिद्विप्रतिपन्नं वक्ष्यामीति हृदयम् । तदेव ब्रह्म विशिनष्टि अस्थूलम् – स्थूलभिन्नम् । तर्हि किम् अणु इत्यत्राह-अनणु इति । तर्हि किं हस्वमित्यत आह – अहस्वम् इति । किं तर्हि दीर्घमित्यत्राह – अदीर्घम् इति । एवमुत्तरत्रापि द्रष्टव्यम् । अमात्रम् – मात्रा: इन्द्रियाणि; यद्वा, मात्रा -परिच्छेद: । तद्रहितमित्यर्थ: अनन्तरमबाह्यम् स्वाव्याप्तदेशशून्यमित्यर्थः । तदश्नाति किञ्चन तत्-अक्षरं कर्तृ किञ्चिदपि नाश्नाति । अवाप्तकामतया भक्ष्यनिरपेक्षमित्यर्थः । तत स्वयं कस्यापि भक्ष्यमित्याह – तदश्नाति कश्चन तत् – ब्रह्म कर्म । शिष्टं स्पष्टम् ।। ७ ।।

एतस्य वा अक्षरस्य प्रशासने गार्गि! सूर्याचन्द्रमसो विधृतो तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यो विधृते तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि! निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवसंवत्सरा इति विधृतास्तिष्ठन्ति एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो नद्यस्स्यन्दन्त श्वेतेभ्य: पर्वतेभ्य: प्रतीच्योऽन्या यां याञ्च दिशमनु एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रर्शंसन्ति, यजमानं देवा दवीं पितरोऽन्वायत्ताः ।। ।।

प्र. – एतस्य वा – – – तिष्ठतः इति । वै शब्दोऽवधारणे । प्रशासने – आज्ञाचक्रे सूर्याचन्द्रमसौ – देवताद्वन्द्वे (पा.सू.६-२-१४१) इति पूर्वपदस्याऽऽनङ् । विधृतौ विशेषेण धृतौ सन्तौ तिष्ठत इत्यर्थः । प्रकृष्टं शासनं प्रशासनम् । क्वचिदप्यप्रतिहतत्वमेव शासनस्य प्रकर्षः । ततश्च सर्वविषयकं शासनमिति फलति । प्रशासितारं सर्वेषाम् इति प्रमाणानु-सारात् । ततश्च सर्वविषयकशासनाधीनसूर्याचन्द्रद्यावापृथिव्याद’धारकत्वं’ फलितम् । ततश्च प्रधानजीवयोः स्वरूपेण यत्किञ्चिद्धारकत्वेऽपि प्रशासनशब्दितसर्वविषयक-शासनाधीनसर्वधारकत्वासंभवात् नात्र जीवो वा प्रधानं वा प्रतिपाद्यते । इदञ्च, सा च प्रशासनात् इति सूत्रे स्पष्टम् । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्य विधृते तिष्ठतः स्पष्टम् । एतस्य – – – संवत्सरा इति विधृतास्तिष्ठन्ति । इति शब्दः प्रकारवचनः । संवत्सरा इत्येवंजातीयकाः कालविशेषा इत्यर्थः । एतस्यप्राच्यो नद्यःदिशमनु । अत्र प्रशासने इति सतिसप्तमी । प्राच्यः – प्रक्प्रवाहाः प्रसिद्धा गङ्गाद्या नद्यः श्वेतेभ्य: – हिमवदादिभ्यः पर्वतेभ्यः लोकोपकाराय स्यन्दन्ते । तत्प्रशासनाभावे ताः स्यन्दनाय न प्रभवन्तीति भावः । प्रतीच्यः – उ प्रत्युङ्मुखाः, अन्याः – उदीच्यश्च नद्यः तथा यां यां च दिशमनुप्रस्थिता मताः (गताः?) सर्वा एता एतस्य प्रशासने सति प्रस्यन्दन्ते इत्यर्थः ।

एतस्य – – – अन्वायत्ताः । एतस्यैवाक्षरस्य प्रशासने निमित्ते ददतःतत्प्रशासनरूपया तदाज्ञया दानं कुर्वतो इत्यर्थः । आज्ञाकैङ्कर्यबुद्ध्या दानं कुर्वतो जनान् अन्वायत्ता: – अनुवशास्सन्तः मनुष्याः प्रशंसन्ति इत्यर्थः । प्रशासन इत्येतत् यजमानं देवा इत्यत्र, दर्वी पितर इत्यत्रापि सम्बद्ध्यते ।

अन्वायत्ता इति पदं देवमनुष्यपितृसाधारणम् । द्वितीयान्तपदानां प्रशंसन्ति इत्यनेनान्वयः। तथा च परमात्माज्ञया यागं कुर्वाणम् अन्वायत्तास्सन्तो देवाः प्रशंसन्ति । परमात्माज्ञया प्रवृत्तं दर्वीहोममन्वायत्तास्सन्तः पितरः प्रशंसन्तीत्यर्थः । एवमेव व्याख्यातं व्यासार्यै: ।। ८ ।।

यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मात् लोकात् प्रति, कृपणः अथ एतदक्षरं गारगि विदित्वाऽस्माल्लोकात् प्रैति, स ब्राह्मणः ।। ।।

प्र.-  यो वा एतदक्षरम् इत्यादि । उक्ताक्षरपरब्रह्मज्ञानमन्तरेण क्रियमाणं होमयज्ञबहुकालसाध्य तप आदिकं सर्वमप्यस्य कर्तुः अन्तवदेव – नश्वरफलसाधनं भवतीत्यर्थः । योवा– – – कृपण: । तद्ज्ञानमन्तरेण लोकादस्माल्लोकान्तरं गतस्यापि शोच्यता भवतीत्यर्थः । कृपणः – शोच्यः । ‘तदज्ञानात्। संसारो भवतीति यावत् ।यो वा एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति ब्रह्मज्ञानवान् म्रियते, सः ब्राह्मण: ब्रह्मवित् ब्रह्मणः अनुभविता । मुक्त इति यावत् । ‘तथा’ च भगवता भाष्यकृता, यो वा एतदक्षरं गार्गि इत्येतत् व्याकुर्वता, यदज्ञानात् संसारप्राप्तिः, यद्ज्ञानाञ्चामृतत्वप्राप्तिः, तदक्षर परं ब्रह्म इति भाषितम् ।। ९ ।।

तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्र श्रुतँश्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्ट नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ।। १० ।।

प्र. – तद्वा एतदक्षरम् इत्यादि । अयोगिभिरदृश्यं सत् द्रष्टृ – रूपादि साक्षात्कर्तृ । एवमश्रुतममतमविज्ञातमित्यत्राप्ययोगिभिरिति योज्यम् । योगिविषये, द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्युक्तेः । श्रोतृ – शब्दसाक्षात्कर्तृ । मन्तृ – मन्तव्यसाक्षात्कर्तृ । विज्ञातृ – अध्यवसेयसाक्षात्कर्तृ । नान्यदतोऽस्तीति । अत्रापि अन्तर्यामिब्राह्मण-व्याख्यानोक्तरीत्या अन्यशब्दस्य तत्सदृशपरत्वमेव । यथा, चोळ एव भूपतिः, नान्यः, इत्युक्तेः तत्सदृशभूपतिनिषेधपरत्वम्, एवमिहापि अदृष्टत्वादिविशेषितनिरुपाधिक-द्रष्टृत्वाश्रयस्य परमात्मनः सदृशं किमपि नास्तीत्येवार्थः । यद्वा-यथा एतदक्षरम् अन्यैरदृष्टं सत् स्वव्यतिरिक्त, समस्तद्रष्टृस्वव्यतिरिक्तसमस्ताधारभूतञ्च, एवमनेनाक्षरेण अदृष्टम् एतस्याक्षरस्य आधारभूतमेतस्य द्रष्टृ नास्तीत्यर्थः । पूर्वव्याख्यायां समनिषेधः, अस्यां व्याख्यायामधिकनिषेधः फलति । न च, नेह नानाऽस्ति इतिवत् नान्यदतोऽस्ति इत्यादि वाक्यस्यापि अब्रह्मात्मकवस्तुनिषेधपरत्वोपपत्ती समाभ्यधिक निषेधपरतया’ व्याख्यानं किमर्थमिति वाच्यम् । तद्वदत्रैक्यविधिशेषत्वाभावेन समाभ्यधिकनिषेधपरत्वस्यैव युक्तत्वात् । उपसंहरति – एतस्मिन्न खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति । स्पष्टोऽर्थः । इतिशब्दः प्रतिवचनसमाप्तौ ।। १० ।।

[गार्ग्या याज्ञवल्क्य प्रशंसा]

 

सा होवाच ब्राह्मणा भगवन्तः। तदेव बहमन्येधवं यदस्मान्नमस्कारेण मुच्येध्वम् ।  वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति ततो वाचक्व्युपरराम ।। ११।।

प्र.– एवं याज्ञवल्क्येन प्रत्युक्ता वाचक्नवी तदुक्तम् अभ्युपगम्य ब्राह्मणान् दृष्ट्वा आहेत्याह- सा होवाच । उक्तमेवाह – ब्राह्मणाः – – –मुच्येध्वम् । हे भगवन्तः ब्राह्मणाः! यूयं तदेव बहुमन्येध्वम् । किं तत्? यदस्मात् – याज्ञवल्क्यात् नमस्कारेण मुच्येध्वं – नमस्कारं कृत्वा मुच्यध्वमिति यत् – मुक्ता भवत इति यदित्यर्थः । तदेव बहुमन्येध्वमित्यन्वयः । न कदाचिदप्यस्य याज्ञवल्क्यस्य पराजयः शङ्कनीयः । अतो नमस्कारं कृत्वा अस्मान्मुक्ता भवत इत्यर्थः । मन्येध्वं मुच्येध्वमिति लिङ्मध्यमबहुवचनम्  जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति । युष्माकं मध्ये इमं – याज्ञवल्कयं कश्चिदपि ब्रह्मोद्यं – ब्रह्मवादं प्रति जेता नैवास्ति इत्यर्थः । ततो वाचकनवी उपरराम । एवं ब्राह्मणान् प्रति उक्त्वा तूष्णीं बभूव इत्यर्थः ।।

[अक्षराधिकरणविचारः]

इदञ्च ब्राह्मणं समन्वयाध्याये तृतीयपादे चिन्तितम् । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति इत्यत्र अक्षरशब्दितं प्रधानमेव । अक्षरात् परतः परः (मुं.उ.२-१-२) इत्यादौ अक्षरशब्दस्य प्रधाने प्रयोगात्; अस्थूलम् इत्यादिनिषेधानाञ्च स्थूलत्वादिप्रसक्तिमति अचेतने सामञ्जस्यात् कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च इत्याकाशाधारत्वेन प्रश्नस्य आकाशोपादानतया तदाधारभूतप्रधानविषयत्वौचित्याच्चेत्येवं प्राप्ते-

उच्यते – अक्षरमम्बरान्तधृतेः (ब्र.सू.१-३-९) अक्षरं परं ब्रह्म । अम्बरान्तधृतेः । अम्बरस्य आकाशस्य अन्तः – पारभूतं प्रधानम् तद्धारकत्वात् इत्यर्थः । अयं भाव: –कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च इत्यत्राकाशो न वायुप्रकृतिभूताकाशः, अपि तु अव्याकृताकाशः । यदूर्ध्वं गार्गि! दिवो यदर्वाक् पृथिव्याः यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवञ्च भविष्यचचेत्याचक्षते आकाश एव तदोतञ्च प्रोतञ्च इति कालत्रयवर्ति-विकाराधारतया उच्यमानत्वस्य भूताकाशे असम्भवेनाव्याकृताकाश एव सम्भवात् । तस्याप्याधारतया निर्दिश्यमानमक्षरं परमेव ब्रह्म भवितुमर्हति । ननु जीवस्याप्यचेतनाधारत्वसंभवात् जीव एवाक्षरशब्दित: किं न स्यादित्यत्रोत्तरम् –सा प्रशासनात् (ब्र.सू.१-३-१०) । सा च अम्बरान्तधृतिः, एतस्य वा अक्षरस्य प्रशासने गार्गी सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादिना प्रशासनाधीनाऽत्र श्रूयते । प्रकृष्टं शासनं प्रशासनम् । शासनस्य प्रकर्षश्च असङ्कुचितसर्वविषयत्वम् । ततश्चासङ्कुचित-चिदचिच्छासनं परमात्मधर्मः । अन्यभावव्यावृत्तेश्च (ब्र.सू.१-३-११) तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट इत्यादिना उपदिश्यमानैः इतरादृष्टत्वे सति सर्वद्रष्टृत्वादिरूपैर्धर्मै: परमात्मान्यप्रकृतिजीवभाव’व्यावृत्तेश्च परमात्मैवेति स्थितम् ।

[आनन्दाद्यधिकरणविचारः]

 

तथा गुणोपसंहारपादे – एतद्वै तदक्षरं गार्गि! ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वम् इत्यादिनिर्दिष्टाः अक्षरसम्बन्धिनः अस्थूलत्वादयः प्रपञ्चप्रत्यनीकतारूपाः सर्वकर्मत्व सर्वकामत्वादिवत् सर्वासु परविद्यासु नोपसंहर्तव्याः । उपसंहारे प्रमाणाभावात् । ननु स्वरूपनिरूपकाणां सत्यत्वज्ञानत्वादिधर्माणां सर्वपरविद्योसंहारस्य, आनन्दादयः प्रधानस्य (ब.सू.३-३-११) इत्यधिकरणसिद्धत्वात्, तद्वदेव अस्थूलत्वादिकं किं न स्यादिति चेन्न-सत्यत्वादिकमन्तरेण ब्रह्मस्वरूपस्यैव प्रत्येतुमशक्यतया सत्यत्वादेः सर्वविद्योपसंहारेऽपि अस्थूलत्वादीनाम् अभावरूपाणाम्, लब्धरूपे क्वचित् किञ्चित् तादृगेव निषिध्यते इति न्यायेन ब्रह्मप्रतीत्यनन्तरभाविप्रतीतिकानां ब्रह्मस्वरूपप्रतीत्युपयोगित्वाभावेन सर्वपर-विद्योपसंहारे प्रमाणाभावादिति प्राप्ते -उच्यते –अक्षरधियां त्चवरोध: सामान्यतद्भावाभ्यामपसदवत् तदुक्तम् (ब्र.सू.३-३-३३)। अक्षरब्रह्मसम्बन्धिनीनाम् अस्थूलत्वादि धियां सर्वासु परविद्यास्ववरोधः -सङ्ग्रहणं कर्तव्यम् । कुतः? सामान्यतद्भावभावाभ्याम् । सर्वेषूपासनेषु उपास्यस्याक्षरब्रह्मणः समानत्वात्, अस्थूलत्वादीनां ब्रह्मप्रतिपत्तौ अन्तर्भावाच्च इत्यर्थः । यथा सत्यत्वादिक-मन्तरेण ब्रह्मस्वरूपं प्रतिपत्तुमशक्यम् , तथा अस्थूलत्वादिकमन्तरेण जीवव्यावृत्तं ब्रह्मस्वरूपं सत्यज्ञानादिवाक्यैनं प्रतिपत्तुं शक्यम् । सत्यत्वादेः प्रत्यगात्मसाधारणत्वेन प्रत्यगात्म-व्यावृत्तत्वाभावात् । स्थूलत्वादिहेयानर्हत्वं तु न जीवसाधारणम् । ततश्च अस्थूलत्वादीनां निषेधरूपतया सत्यादिवाक्यजन्यब्रह्मप्रतीत्युपजीवकत्वेऽपि स्वेतरसमस्तव्यावृत्तब्रह्मस्वरूप-प्रतीतेः अस्थूलत्वादिकमन्तरेणासम्भवात् अस्थूलत्वादिकं सकलपरविद्योपसंहार्यमेव । इयदामननात् (ब्र.सू.३-३-३४)। आभिमुख्येन मननं आमननम् । ध्यानमिति यावत् । आमननात् ध्यानाद्धेतोः ध्यानार्थमियदेवापेक्षितम् ; न सर्वकर्मत्वसर्वकामत्वा-दिकमपि । तेन विनापि इतरव्यावृत्तब्रह्मस्वरूपस्य प्रत्येतुं शक्यतया न सर्वकर्मत्वादेः सर्वपरविद्योपसंहारः । अपितु यत्र प्रकरणे आम्नातम्, तत्रैव व्यवतिष्ठते । अस्थूलत्वादिकं तु सामर्थ्यरूपलिङ्गवशात् सर्वविद्यानुयायि। अत एव हि, संभृतिद्युव्याप्त्यपि चातः (ब्र.सू.३-३-२३) इत्यधिकरणे व्याप्त्यादेः सामर्थ्यवशात् अल्पायतनविद्यासु न निवेश इत्युक्तम् । तत्र हि-

[संभृत्यधिकरणविचारः]

ब्रह्म ज्येष्ठा वीर्या संभृतानि ब्रह्माग्र ज्येष्ठं दिवमाततान ब्रह्म भूतानां प्रथमो हि जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः इति राणायनीयानां खिलेषु मन्त्रः श्रूयते । अस्य मन्त्रस्यायमर्थः- ब्रह्म – ब्रह्मणा इत्यर्थः । व्यत्ययश्छान्दसः । ज्येष्ठा – ज्येष्ठानि । शेः, शेश्छन्दसि (पा.सू.३-१.७०) इति लोपे (सुपां सुलुक  – पा.सू.७-१-३९ इति लुकि) न लोपे च रूपम् । वीर्या – वीर्याणि । संभृतानि – धृतानि । तथा च ब्रह्मणा बहूनि श्रेष्ठानि वीर्याणि धृतानि इत्यर्थः । ब्रह्माग्रे ज्येष्ठं दिवमाततान – तच्च ज्येष्ठं ब्रह्म अग्रे – इन्द्रादिजन्मनः प्रागेव दिवम् – स्वर्गम् आततान – व्याप्तवत् । किञ्च, ब्रह्म देवानां प्रथमो हि जज्ञे । ब्रह्म देवानामुत्पत्तेः प्रागपि विद्यमानमित्यर्थः । तेनार्हति ब्रह्मणा स्पर्धितुं कः । तादृशेन ब्रह्मणा कः स्पर्धितुं क्षमेत इत्यर्थः । अत्र परिच्छेदातीते ब्रह्मणि धुव्यापकत्वादिकथनस्य स्वरूपोपदेशार्थत्वाभावेन उपासनार्थत्वस्य सिद्धतया स्वप्रकरणे उपासनाद्यश्रवणेन अनारभ्याधीतस्य द्युव्यापनादेः प्रकरणान्तर श्रुतविद्यार्थत्वे वक्तव्ये नियामकाभावात् अस्थूलत्वादिवत् सत्यत्वादिवच्च सर्वविद्यार्थत्वे प्राप्ते उच्यते – संभृतिद्युव्याप्त्यपि चातः (ब.सू. ३-३-२३) । संभृतिद्युव्याप्तीति समाहारद्वन्द्वत्वादेकवद्भावः । संभरणं द्युव्यापनञ्च तत्तत् स्थानवशात् व्यवतिष्ठते । अल्पस्थानासु दहरशण्डिल्यादिविद्यासु अल्पत्व द्युव्यापकत्वयोः विरोधात् लिङ्गवशात् अल्पायतनानवरुद्धविद्यास्वेव व्यवतिष्ठते । न चैवमल्पायतनासु दहरशाण्डिल्यादिविद्यासु आनन्त्यस्यापि उपसंहारासम्भवेन सत्यत्व-ज्ञानत्वानन्तत्वादेः सर्वविद्यानुयायित्वस्य, आनन्दादयः प्रधानस्य इत्यधिकरणसिद्धस्य विरोधः स्यादिति वाच्यम् – स्वाभाविकानन्त्यस्य औपाधिकाल्पायतनत्वस्य चानुसन्धाने विरोधाभावात् । इह द्युपरिच्छिन्नत्वरूप द्युव्यापकत्वस्य च हृदयाद्यल्पायतनावच्छिन्नत्वस्य चौपाधिकतया परस्परविरुद्धौपाधिकपरिमाणद्वयानुसन्धानविरोधात् । इति हि तत्र स्थितम् । प्रकृतमनुसरामः ।। ११ ।।

।। इति पञ्चमाध्याये अष्टमब्राह्मण प्रकशिका ।।

पञ्चमाध्याये नवमब्राह्मणम्

शाकलब्राह्मणम्

[शाकल्येन देवताविषयकप्रश्न:]

अथ हैनं विदग्धः शाकल्यः पप्रच्छ, कति देवा याज्ञवल्क्येति हैतयैव निविदा प्रतिपेदे, यावन्तो वैश्वदेवस्य निविद्युच्यन्ते, प्रयश्च त्री शतात्रयश्च त्रीच सहस्रति ओमिति होवाच, कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिंशदिति । ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति डिति ओमिति होवाचकत्येवदेवा याज्ञवल्क्येति त्रय इति ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति । द्वाविति ओमिति होवाच, देवा याज्ञवल्क्येति अध्यर् इति ओमिति होवाचकत्येव देवा याज्ञवल्क्येति एक इति ओमिति होवाच कतमे त्रयश्च त्री च शता त्रयश्च त्री सहस्रति ।। ।।

प्र. – अथ हैनं….पप्रच्छ इति । शकलस्यापत्यं शाकल्यः । विदग्धः समर्थम्मन्यः इति यावत् । प्रश्नमेवाह – कति देवा याज्ञवल्क्येति । किं संख्याका देवा इत्यर्थः ।  हैतयैव निविदा प्रतिपेदे सःएवं पृष्टो याज्ञवल्कयः एतया – वक्ष्यमाणयैव निविदा देवतासङ्ख्या प्रतिपेदे – प्रत्यपादयत् । उक्तवानिति यावत् । तदेव व्याकरोति यावन्तो…..निविद्युच्यन्ते इति । वैश्वदेवस्य शास्रस्य निविदि – निविन्नाम वैश्वदेवशस्रे शस्यमानः देवतासङ्ख्यावाचकपदयुक्तमन्त्रविशेषः । तस्यां निविदि यावन्तो देवाः श्रूयन्ते, तावन्तो देवा इत्यर्थः । कियन्त तत्रोच्यन्ते इत्यत्राह – त्रयश्च त्री शता सहस्रेति त्रयश्च त्री शता – त्रयश्च त्रीणि शतानि इत्यर्थः । उभयत्र सूपां सुलुक् (पा.सू.७-१-३९) इत्यादिना पूर्वसवर्णादेशः । त्र्यधिका त्रिशतीत्यर्थः । एवमुत्तरत्रापि । त्रयश्च त्री सहस्रा । त्र्यधिका त्रिसहस्रीति यावत् । उक्तमङ्गीकरोति शाकल्यः ओमिति । उवाच । ‘विदग्ध’ इति शेषः । पुनरपि सूक्ष्मदृष्ट्या पृच्छति कत्येव देवा याज्ञवल्क्येति । उत्तरमाह – त्रयस्त्रिंशदिति । शाकल्योऽङ्गी करोति ओमिति । पुनरपि सूक्ष्मदृष्ट्या पृच्छति कत्येव । याज्ञवल्क्य उत्तरमाह षडिति । अभ्युपगच्छति ।। ओमिति । एवमुत्तरत्रापि द्रष्टव्यम् । अध्यर्ध इति । एक इति शेषः। अर्धाधिक एक इत्यर्थः । शिष्टं स्पष्टम् । एवं देवता सङ्कोच विकासविषयां संख्यां पृष्ट्वा संख्येयस्वरूपं पृच्छति शाकल्यः; कतमे तेसहस्रेति । पूर्ववदर्थ: ।। १ ।।

[देवतासंख्याविवरणम्]

 

होवाच महिमान एवषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिशदिति अष्ट : एकादशरुद्राः, द्वादशादित्यास्त एकस्त्रिंशत् इन्द्रश्च प्रजापतिश्च त्रयस्त्रिंशाविति ।। ।।

प्र. – होवाच इति । अत्र याज्ञवल्क्य उत्तरमाहेत्यर्थः । तदेवाह – महिमान – –देवा इति एषां – त्रयस्त्रिंशतो देवानामेते षडधिकत्रिशताधिकत्रिसहस्रभेदाः महिमान एव – गुणभूता इत्यर्थः । तथैव व्यासार्यै: विरोधः कर्मणि (ब्र.सू.१-३-२६) इति सूत्रे उक्तम् । तस्मात् त्रयस्त्रिंशदेव देवा इत्यर्थः । पृच्छति कतमे ते त्रयस्त्रिंशदिति

उत्तरम् । अष्टौ सवः । स्पष्टम् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति त्रयस्त्रिंशतः पूरणौ इत्यर्थः । इन्द्रो द्वात्रिंशः । प्रजापतिः त्रयस्त्रिंश इत्यर्थः ।। २ ।।

[वसूनां विवरणम्]

 

कतमे वसव इति? अग्निश्च पृथिवी वायुश्चान्तरिक्षं आदित्यश्च द्यश्च चन्द्रमाश्च नक्षत्राणि एते सव एतेषु हीदं सर्वं वसु हितमिति तस्माद्वसव इति ।। ।।

प्र. – पुनः पृच्छति कतमे वसव इति । अष्टौ वसव इत्युक्ता वसवः के इत्यर्थः । उत्तरम् । अग्निश्च पृथिवी – – – वसवः । स्पष्टम् । उक्तानां वसुत्वमुपपादयति –एतेषु – –  इति । यस्मात् एतेषु – अग्नयादिषु सर्वमिदं वसुशब्दवाच्यं धनं हितंनिहितम् , ते तस्मात् ‘वसवः’ इत्युच्यन्त इत्यर्थः । अस्मिन् प्रकरणे अग्निपृथिव्यादिशब्दाः तत्तदभिमानिदेवता परा इति द्रष्टव्यम् ।। ३ ।।

 

[रुद्रदेवतासङ्ख्या]

 

कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदस्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथरोदयन्ति तद्यद्रोदयन्ति तस्माद्बुद्रा इति ।। ।।

प्र. – पृच्छन्ति कतमे रुद्रा इति । एकादश रुद्रा इत्युक्ता के इत्यर्थः । उत्तरं –दशमे पुरुषे प्राणा आत्मैकादशः । ज्ञानकर्मेन्दियाणि दश पुरुषस्थानानि – दशमे दशेमे इत्यर्थः । दशेमे पुरुषे इति पाठे स्पष्टोऽर्थः । एकादशं तु आत्मा-मन इत्यर्थः ।

ते प्राणाः यदा अस्मात् र्त्यात् – मरणधर्मकात् शरीरादुत्क्रामन्ति, अथ तदा म्रियमाणं पुरुषं रोदयन्तीति ‘रुद्रा’ इत्यर्थः ।। ४ ।।

[आदित्य विशेषकथनम्]

 

कतम आदित्या इति द्वादश मासाः संवत्सरस्य एत आदित्या एते हीद सर्वमाददाना यन्ति ते यदिदँ सर्वमाददाना यन्ति तस्मादादित्या इति ।। ।।

प्र. – पृच्छति कतम आदित्या इति । द्वादशादित्या इत्युक्ताः के इत्यर्थः । उत्तरं द्वादश वै– – –  इति । स्पष्टम् । तेषामादित्यत्वमुपपादयति । एते हीदं– –  –ति। एते हि मासा इदम् – उत्पत्तिमतां जीवितं सर्वमाददानाः अपहरन्तो यन्ति गच्छन्ति । तस्मादादित्या इत्यार्थः ।। ५ ।।

[इन्द्रादिस्वरूपविशेषकथनम्]

 

कतम इन्द्रःकतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजा पतिरितिकतमस्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति ।। ।।

प्रकतम इन्द्रः कतम प्रजापतिः इति प्रश्नः । स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिः इत्युत्तरम् । कतमः स्तनयित्नुः इति पुनः प्रश्नः । अशनिः इत्युत्तरम् । कतमो यज्ञ इति प्रश्नः । अत्रोत्तरम् पशव इति। यज्ञ साधनत्वात् पशव एव यज्ञ इत्युच्यन्ते इत्यर्थः ।। ६ ।।

[षटदेवतास्वरूपकथनम्]

 

कतमे षडिति अग्निश्च पृथिवी वायुश्चान्तरिक्षञ्च आदित्यश्च द्यश्च । एते षट् एते ही सर्वगँ षडिति ।। ।।

प्रकतमे षडिति प्रश्नः । षडित्युक्ता देवा के इत्यर्थः । एवमग्रेऽपि । उत्तरम् । अग्निश्च पृथिवी वायुश्चान्तरिक्षं आदित्यश्च द्यश्च एते घडेते हीदं सर्वं षडिति । उक्तमिदं सर्वम् एते षट् । एते अग्नयादयः । अत एव एते षडित्यर्थः ।। ७ ।।

[देवतात्रयस्वरूपकथनम्]

 

कतमे ते त्रयो देवा इति इम एव त्रयो लोकाः एषु हि इमे सर्वे देवा इति कतम देवाविति अन्नञ्चै प्राणश्चेति कतमोऽध्यर् इति योऽयं पवत इति ।।।।

प्र. – कतमे ते त्रयो देवा इति प्रश्नः । उत्तरम् इमे एब त्रयो लोकाः देवा इति । सर्वदेवाश्रयत्वात् त्रय एव लोका देवा इत्यर्थः । प्रश्न: कतम ्वौ देव इति । उत्तरम् अन्नञ्चैव प्राणश्चेति । कतमोऽध्यर्ध इति प्रश्नः । उत्तरं योऽयं त इति । वायुरेब इत्यर्थः ।। ८ ।।

[ध्यर्धस्वरूपविवरणम]

 

तवाहुर्यदयमेक वेव पवते अथ कथमध्यर्ध इति यदिदमस्मिन्निदै सर्वमध्यारध्यात् तेनाध्यर्ध इति कतम एको देव इति प्राण इति ब्रह्म त्पवित्याचक्षते ।। ।।

प्र. – तदाहुर्यदयमेक – – – इति यत् – यस्मादयं वायुरेक एव पवते, तत् कथमिवाध्यर्ध इति शङ्कायाम् एवमुत्तरमाहुरित्यर्थः । तदेवोत्तरमाह यदिदमस्मिन् – –इति अध्यार्ध्नोत्ऋधु वृद्ध (धा.पा.१२४६) अधिकवृद्धिं यस्मिन् वायाविदं जगत् प्राप्तम् । तेनायं वायुरध्यर्ध इत्युच्यत इत्यर्थः । कतम एको दे इति प्रश्न: । उत्तरं प्राण इति । ननु प्राणः पवमान पर्यायः । स च अध्यर्ध इत्युक्तः कथमेक इत्युच्यत इत्यत्राह – स ब्रह्म त्यदित्याचक्षते । अत्र प्राणशब्देन, त्यत् – अन्यत् सर्व विलक्षणं ब्रह्मेति यदाहु:, तदेवोच्यत इत्यर्थः । ततश्च ब्रह्मणो महिमानः सर्वे देवा इति पर्यवसितोऽर्यः ।। १ ।।

[एकस्यैव प्राणस्य अष्टविधभेदः]

 

पृथिव्येव यस्यायतनमग्निर्लोको मनोज्योतिः यो वै तं पुरुषं विद्यात सर्वस्यात्मनः परायणम्। वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषँ सर्वस्य आत्मन: परायणम्, यमात्थ एवायँ शारीरः पुरुषः एषः यदैव शाकल्य तस्य का देवतेति अमृतमिति होवाच ।। १० ।।

प्र. – शाकल्यः पृच्छति – पृथिव्येव – – – याज्ञवल्क्य । यस्य पृथिव्येव आयतनम् – आधारः । शरीरमिति यावत् । यस्याग्निलोकः । लोक्यते अनेनेति लोकः । दर्शनसाधनम् इत्यर्थः । अग्निना हि पश्यति । मनोज्योतिः । मन एव ज्योतिः सङ्कल्प-विकल्पादिकार्यकारि यस्य सः मनोज्योतिः । पृथिव्यायतनकत्वेनाग्निदर्शनसाधनकत्वेन मनसा सङ्कल्पयितृत्वेन च सर्वात्मनां सर्वजीवानां परायणः परमप्राप्यभूतः पुरुषशब्दितः परमात्मा वेद्य इति सिद्धम् । तत्र कीदृशविशेषणविशिष्टः परमात्मा पृथिव्यायतनकत्वेन अग्निदर्शनसाधनकत्वेन मनसा सङ्कल्पयितृत्वेन च ध्यातव्य इति प्रश्नस्य फलितार्थः । ईदृशः परमात्मा पृथिव्यायतनकत्वादिना ज्ञातव्य इति यो ज्ञाता, स एव ज्ञाता हे याज्ञवल्क्य। नान्य इत्यर्थः । एवमुक्तो याज्ञवल्क्य आह – वे वा  – – – यमात्थ वैशब्द एवार्थः । अहं सर्वस्यात्मनः परायणं पृथिव्याद्यायतनकत्वादिना उपास्यं यं त्वं वदसि, तमहं जानाम्येव इत्यर्थः । कोऽसावित्यत्राह – एवायं शारीरः पुरुषः एषः । शारीरः – जीवः । तदन्तर्यामीति यावत् । यद्वा शारीरःजगच्छरीरकः । ततश्च जगच्छरीरकत्वविशिष्टः सर्वात्मपरायणभूतः पुरुषशब्दितः परमात्मा पृथिव्यायतनकत्वादिना ध्यातव्य इत्यर्थः । एवं तस्योत्तरमुक्त्वा अस्मिन् विषये ज्ञेयं विशेषणान्तरं याज्ञवल्क्यः स्वयं पृच्छति – शाकल्यः तस्य का देवतेति । तस्य पृथिव्यायतनत्वादिवेदितुः उपास्य देवता का, पुनरपि किङ्गणविशिष्टा किंरूपविशिष्टा ध्यातव्या । तत् शाकल्य! त्वं वद इत्यर्थः । उत्तरमाह शाकल्यः अमृतमिति । अमृतमिति संज्ञया अमृतत्व-गुणेन वा विशिष्टा ध्यातव्या इत्यर्थः । आत्माऽन्तर्याम्यमृत: इति अन्तर्यामिण: अमृतत्वावेदनादिति द्रष्टव्यम् । यद्वा याज्ञवल्क्य आह – वदैव शाकल्य इति । हे शाकल्य!  – पृच्छैव । यत् प्रष्टव्यम्, तत् सर्वं पृच्छ इत्यर्थः । तस्य का देवता इति शाकल्यप्रश्नः । अमृतमिति याज्ञवल्क्यस्योत्तरम् । एवमुत्तरत्रापि द्रष्टव्यम् ।। १० ।।

 

काम एव यस्यायतनं हृदयं लोको मनोज्योतिः यो वै तं पुरुषं विद्यात् सर्बस्यात्मनः परायणम्, वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुष सर्वस्यात्मनः परायणम्, यमात्थ एवायं काममयः पुरुषः एषः व शाकल्य तस्य का देवतेति स्रि इति होवाच ११

प्र. – काम एव यस्यायतनम् काममय इति । काम शरीरक इत्यर्थः । स्रिय इति होवाच इति । स्रिसंज्ञकतया ध्यातव्य इत्यर्थः ।। ११ ।।

रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिरयो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणं मात्थ एवासावादित्ये पुरुषः एष शाकल्य तस्य का देवतेति सत्यमिति होवाच ।। १२ ।।

प्ररूपाण्येव यस्यायतनम् – –  सत्यमिति होवाच इति । तद्यत् सत्यमसौ  आदित्यो एष एतस्मिन् मण्डले पुरुषः इति श्रुतेरिति भावः ।। १२ ।।

 

आकाश एव यस्यायतनं श्रोत्रं लोको मनोज्योतिः यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुष सर्वस्य आत्मनः परायणम्, यमात्थ एवायं श्रोत्रः प्रातिश्रुत्कः पुरुषः एषः वद शाकल्य तस्य का देवतेति दि इति होवाच ।। ।।

प्रआकाश एव यस्यायतनम् श्रोत्रः प्रातिश्रुत्कः इति प्रातिश्रुत्कः -प्रतिध्वनिविशिष्टः । श्रोत्रः – श्रोत्रेण अनुभूयमानः । श्रोत्रानुभूयमानत्वञ्च परमात्मनः प्रतिध्वनिद्वारा द्रष्टव्यम् । दि इति होवाच इति । दिक्च्छरीरकः दिङ्नामको वा उपास्य इत्यर्थः ।। १३ ।।

तम एव यस्यायतनं हृदयं लोको मनोज्योतिः यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, वै वेदितास्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्य आत्मनः परायणम्, यमात्थ एवायं छायामयः पुरुषः, एषः । वद शाकल्य तस्य का देवतेति मृत्युरिति होवाच ।। १४ ।।

प्र. तम एव यस्यायतनम् छायामय: – छायाशरीरकः इत्यर्थः । मृत्युरिति होवाच इति । मृत्युसंज्ञिक इत्यर्थः । बालाक्यजातशत्रुसंवादे छायापुरुषे मृत्युरिति वा अहमेवमुपास इति दर्शनादिति भावः ।। १४ ।।

रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिः यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम् वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणम्, यमात्थ एवायमादर्शे पुरुषः एषः  शाकल्य तस्य का देवतेति असुरिति होवाच ।। १५ ।।

प्र.- रूपाण्येव यस्यायतनम् – पूर्वमादित्यपुरुषे रूपसामान्यमुक्तम् इह तु तद्विशेष इति भिदा । असुरिति होवाच इति । बालाकिब्राह्मणे प्रातिश्रुत्कपुरुषे असुत्वमुक्तम् इह तु आदर्शपुरुषे असुत्वम् । तत्र आदर्शपुरुषे रोचिष्णुत्वमुक्तम् ; विधाभेदसम्भवादिति द्रष्टव्यम् । इयांस्तु विशेषः – बालाकिब्राह्मणे ब्रह्मलिङ्गाभावात् तत्रत्यपुरुषशब्दो न ब्रह्मपर्यन्तः । इह तु सर्वात्मत्वपरायणत्वादिरुपब्रह्मलिङ्गात् ब्रह्मपर्यन्तः इति विवेकः ।

केचित्तु बालाकि ब्राह्मण इव अत्रत्यपुरुषशब्दानामपि ब्रह्मपर्यन्तत्वं नाभ्युपगच्छन्ति । उभयथापि न विरोध: ।। १५ ।।

आप एव यस्यायतनँ हृदयं लोको मनो ज्योतिः। यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ एवायमप्सु पुरुषः एषः वद शाकल्य तस्य का देवतेति वरुण इति होवाच ।। १६ ।।

प्र. – आप एव यस्यायतनम् । य एवायम् अप्सु पुरुषः – अप्छरीरक इत्यर्थः । वरुण इति होवाच इति । वरुण नामक इत्यर्थः ।। १६ ।।

 

रेत एव यस्यायतनं हृदयं लोको मनोज्योतिः यो तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणम्, यमात्थ एवायं पुत्रमयः पुरुषः, एषः  शाकल्य तस्य का देवतेति प्रजापतिरिति होवाच ।। १७ ।।

प्र. – रेत एव यस्यायतनम् – स्पष्टम् । उक्ताष्टपुरुषेषु मनोज्योतिष्ट्वं सर्वत्राऽनुगतम्; आयतनानां लोकानां धर्माणाञ्च भेदः ।। १७ ।।

शाकल्येति होवाच याज्ञवल्क्यः। त्वाँ स्विदिमे ब्राह्मणाः अङ्गारावक्षयणकृता३ इति ।। १८ ।।

प्र.-  शाकल्येति होवाच याज्ञवल्क्यः । एवं प्रतिवादकुपितो याज्ञवल्क्यः शाकल्येति सम्बोध्य तमुवाच इत्यर्थः । तदेवाह – त्वां स्विदिमे इति । स्विदिति वितर्के ।  इमे नूनं ब्राह्मणाः स्वयं मत्प्रतिवादे भीतास्सन्तः, अङ्गारावक्षयणम् – अङ्गाराः अवक्षीयन्ते – गृहयन्ते येन पात्रेण तदङ्गारातक्षयणम् – तन्नूनं त्वाम् अकृत – कृतवन्तः ब्राह्मणाः त्वं तु न बुध्यसे आत्मानं मया दह्यमानमित्यभिप्रायः ।। १८ ।।

[सदेव सप्रतिष्ठदिकप्रश्नः]

 

याज्ञवल्क्येति होवाच शाकल्य यदिदं कुरुपाञ्चालानां ब्राह्मणानत्यवादीकिं ब्रह्म विद्वानिति? दिशो वेद सदेवाः सप्रतिष्ठा इति यदिशो वेत्थ सदेवाः सप्रतिष्ठाः ।। १९ ।।

प्र.-याज्ञवल्क्येति होवाच शाकल्यःउवाच -अत्रोत्तरमाह इत्यर्थ:। किमिति? यदिदं – –  –सप्रतिष्ठाः । कुरुपाञ्चालान् इमान् सर्वान् विदुषः – अत्यवादी: अत्युक्तवानसि अधिक्षिप्तवानसि किल, स्वयं भीताः त्वामङ्गवारावक्षयणं कृतवन्त इति । किं ब्रह्मविद्वान् इति । कीदृशब्रह्मविधावानिति हेतोरेवमधिक्षिपसि ब्राह्मणान् । अहं तु दिशः तदधिष्ठातृदेवताश्च तत्प्रतिष्ठाश्च इति – एवम्प्रकारेण जाने । त्वमप्यहमिव दिशो देवताः तत्प्रतिष्ठाश्च यदि वेत्सि तर्हि, पृच्छामि वदेत्यर्थः ।। १९ ।।

[प्राचीदिकस्थदेवता तत्प्रतिष्ठा ]

 

किन्देवतोऽस्यां प्राच्यां दिश्यसीति आदित्यदेवत इति आदित्यः कस्मिन् प्रतिष्ठित इति चक्षुषीति कस्मिन्नु चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदय इति होवाच; यस्मात् हृदयेन हि रूपाणि सर्वोलोको जानाति तस्मात् हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति एवमेवैतद्याज्ञवल्क्य ।। २० ।।

प्र. – इत्युक्त्वा, तर्हि पृच्छेत्युक्तः शाकल्यः पृच्छति – किन्देवतोऽस्यां प्राच्या दिश्यसीति । अस्यां प्राच्यां दिशि किन्देवतः त्वमसि? का देवता यस्य सः किन्देवतः । प्राग्दिगधिष्ठातृत्वेन का देवतामुपास्स इत्यर्थः । याज्ञवल्क्य उत्तरमाह – आदित्यदेवत इति । आदित्यो देवता यस्य सः आदित्यदेवतः । प्राच्यां दिशि अधिष्ठातृत्वेनादित्यमहमुपासे इत्यर्थः । शाकल्यः पृच्छति – आदित्यः कस्मिन् प्रतिष्ठित इति । उत्तरं चक्षुषीति । प्रतिष्ठित इत्यनुषङ्गः । पुनः पृच्छति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति । उत्तरं रूपेष्विति । तत्रोपपत्तिमाह – चक्षुषा हि रूपाणि पश्यति हि – यस्मात् चक्षुषा रूपाणि पश्यति, अतः चक्षुःस्वविषये प्रतिष्ठितमित्यर्थः पृच्छति – कस्मिन्नु रूपाणि प्रतिष्ठितानीति । उत्तरं हृदय इति होवाच । तत्रोपपत्तिमाह – हृदयेन हि– –  हि यस्माल्लोको हृदयेनैव रूपाणि जानाति, तस्मात्, हृदये हयेव रूपाणि प्रतिष्ठितानि भवन्ति । अन्तःकरण एव वासनात्मना प्रतिष्ठितानि भवन्तीत्यर्थः । उक्तमङ्गीकरोति एवमेवैत-द्याज्ञवल्क्य ।। २० ।।

[दक्षिणदिक्स्थदेवता तत्प्रतिष्ठा ]

 

किन्देवतोऽस्यां दक्षिणायां दिश्यसीति यमदेवत इति यमः कस्मिन् प्रतिष्ठित इति यज्ञ इति कस्मिन्नु यज्ञः प्रतिष्ठित इति? दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायाँ ह्येवदक्षिणा प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच; हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति एवमेवतद्याज्ञवल्क्य ।। २१ ।।

प्र. – अथान्यत् पृच्छति किन्देवतो – – – दिश्यसीति पूर्ववदर्थः । उत्तरमाह – यमदेवत इति । पृच्छति यमः कस्मिन् प्रतिष्ठित इति । उत्तरं दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठिता इति प्रश्नः । श्रद्धायामित्युत्तरम् तत्रोपपत्तिमाह – यदा ह्येव – –  प्रतिष्ठितेति । यदा श्रद्धा जायते, तदैव दक्षिणां ददाति । अतः श्रद्धायामेव दक्षिणा प्रतिष्ठिता इत्यर्थः । पृच्छति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच । उत्तरमिति शेषः । तत्रोपपत्तिमाह हृदयेन हि – हृदयेन हि – यस्मात् श्रद्धां जानाति करोति; अतो हृद्येव श्रद्धा प्रतिष्ठिता भवतीत्यर्थः । एवमेवैतद्याज्ञवल्क्यः । पूर्ववत् ।। २१ ।।

[प्रतीचीदिक्स्थदेवता तत्प्रतिष्ठा ]

 

किं देवतोऽस्यां प्रतीच्या दिश्यसीति वरुण देवत इति वरुणः कस्मिन् प्रतिष्ठित इति? अप्स्विति कस्मिन्नु आप: प्रतिष्ठता इति? रेतसीति कस्मिनु रेत: प्रतिष्ठितमिति? हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेत: प्रतिष्ठितं भवतीति एवमेवैतद्याज्ञवल्क्य ।। २२ ।।

प्र.- अन्यत् पृच्छति – किन्देवतोऽस्यां प्रतीच्यां दिश्यस्तीति । उत्तरं वरुण देवत इति । वरुणः कस्मिन्, प्रतीष्ठित इति प्रश्न: । अप्सु इत्युत्तरम् । कस्मिन्न्वापः प्रतिष्ठिता इति प्रश्नः । रेतसीत्युत्तरम् । कस्मिन्नु रेत: प्रतिष्ठितम् इति प्रश्नः । हृदय इत्युत्तरम् । तत्रोपपत्तिमाह – तस्मादपिनिर्मित इति । यस्माज्जातं पितुः प्रतिरूपं पितृसदृश संस्यानं पुत्रं जनाः पितुर्हृदयान्निर्गत इव वर्तते; पितुहृदयान्निमित इव वर्तते अयं कुमार इत्याहुः – अतो हृदय एव पुत्रपरिणामि रेत: प्रतिष्ठितमित्यर्थः । उत्तमङ्गीकरोति शाकल्यः एवमेवैतद्याज्ञवल्क्य ।। २२ ।।

[उदीचीदिकस्थदेवता प्रतिष्ठा ]

 

किन्देवतोऽस्यामुदीच्या दिश्यसीति? सोमदेवत इति सोमः कस्मिन् प्रतिष्ठित इति दीक्षायामिति। कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति, सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमितिहृदय इति होवाच, हृदयेन हि सत्यं जानाति, हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ।। २३ ।।

प्र. – अन्यत् पृच्छति किन्दबतोऽस्यामुदीच्या दिश्यसीति सोमदेवत इत्युत्तरम् । सोमः कस्मिन् प्रतिष्ठित इति प्रश्नः । दीक्षायामित्युत्तरम् । कसमिन्नु दीक्षा प्रतिष्ठिता इति प्रश्नः । सत्यं इत्युत्तरम् । तत्रोपपत्तिमाह – तस्यादपि दीक्षितम् यस्मात् दीक्षितं सत्यं वदेति दीक्षा सिद्ध्यै तद्याजकाः शिक्षमाणा आतु, तस्मात् सत्ये ह्येव दीक्षा प्रतिष्ठिता इत्यर्थ: । कस्मिन्नु सत्यं प्रतिष्ठितमिति प्रश्नः । उत्तर हृदय इति । तदुपपादयति हृदयेन हि । अङ्गीकरोति एवमेवैतद्याज्ञवल्क्य ।। २३ ॥

[ऊर्ध्वस्थदेवता तत्प्रतिष्ठा ]

 

किन्देवतोऽस्यां ध्रुबायां दिश्यसीत्यगनिदेवत इति योऽग्नि: कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक् प्रतिष्ठितेति हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति ।। २४ ।।

प्र. – पृच्छति – किन्देवतोऽस्यां ध्रुवायां दिश्यसीति । स्वलौकापेक्षया भूमेध्रुवत्वात् भूमिरूपा अधो दिक् ध्रुवा इत्युच्यते । उत्तरम् अग्निदेवत इति । सोऽग्निः कस्मिन् प्रतिष्ठित इति प्रश्नः । उत्तरं वाचीतिकस्मिन्नु वाक् प्रतिष्ठितेति प्रश्नः हृदय इत्युत्तरम् । पुनः पृच्छति कस्मिन्नु हृदयं प्रतिष्ठितमिति । एवं सर्वं दिग्देवताना प्रतिष्ठाभूतं हृदयं क्व प्रतिष्ठितमित्यर्थः ।। २४ ।।

[हृदयाधिष्ठानकथनम्]

 

अहल्लिकेति होवाच याज्ञवल्क्यो यत्रतदन्यत्रास्मन्मन्यास यद्धयेतदन्यत्रास्मत् स्यात्, श्वानो दद्युः वयाँसि वैनद्विमन्थीरननिति ।। २५ ।।

प्र.-अहल्लिकेति होवाच याज्ञवल्क्यः । अहल्लिकेत्युक्त्वा याज्ञवलक्य उत्तरमाहेत्यर्थः । अहल्लिक’ इति शाकल्यस्य नामान्तरमिति कचित् । अहल्लिकः षण्डः । कोपादेवं शाकल्यं याज्ञवल्क्यो ब्रूते इति केचित् । यत्रतदन्यत्र  – – – विमधीरन् इति । अस्मत् – अस्माच्छरीरात् इत्यर्थः । यद्वा – अस्मिदिति पञ्चमी बहुवचनान्तोऽस्मच्छब्दो द्रष्टव्यः । अस्मत् – अस्मत्तः इत्यर्थः। अस्माच्छरीरादन्यत्र यत्र नाप्येतद्धदयं प्रतिष्ठितमिति किल मन्यासै– मन्यसे । यद्येतत् हृदयम् अस्मत् – अस्मत्तोऽन्यत्र गच्छेत् तदा एनत् – इदं शरीरं श्वानो वा अद्युः – भक्षयेयुः; वयांसि – पक्षिणो वा विमधीरन् – लोडयेयुः । तस्मात् शरीरस्य मध्ये हृदयं प्रतिष्ठितमित्यर्थः । अभेदोपचाराच्छरीरमेवास्मत् इत्युक्तमिति द्रष्टव्यम् ।। २५ ।।

[हदयशरीरयोरधिष्ठानकथनम्]

 

कस्मिन्नु त्वं चात्मा प्रतिष्ठित स्थ इति प्राण इति कस्मिन्नु प्राणप्रतिष्ठित इति अपान इति कस्मिन्नु अपान: प्रतिष्ठित इति व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इति उदान इति कस्मिन्नु दानः प्रतिष्ठित इति । समान इति ।  एष नेति नेतित्यात्मा अंगृह्यो हि गृह्यते; अशीरयो हि शीर्यतेअसङ्गो हि सज़्ज्यते; असितो व्यथते, रिष्यति एतान्याष्टावायतनान्यष्ट लोका अष्टौ देवा अष्टौ पुरुषाः; यस्तान् पुरुषानिरूह्य प्रत्यूह्यात्यक्रामत्, तं त्वपनिषदं पुरुषं पृच्छामि; तं चेन्मे विवक्ष्यसि, मूर्धा ते विपतिष्यतीति तँ  मेने शाकल्य तस्य मूर्धा विपपात अपि हास्य परिमोषिणोऽस्थीन्यपजह्नुरन्यन्मन्यमानाः ।। २६ ।।

प्र. – पुनः पृच्छति कस्मिन्नु ….स्थ इति । हृदयप्रतिष्ठाधारभूतस्त्वं – अस्मदिति त्वयोक्तं शरीरञ्च – आत्मा आत्मशब्देनात्र हृदयमुच्यते । त्वच्छरीरं त्वद्धृदयञ्च -कस्मिन् प्रतिष्ठितौ इत्यर्थः । स्थः इति अस्तेर्मध्यमपुरुषद्विवचनम् । उत्तरं प्राण इति । प्राणाधीनप्रतिष्ठात्त्वाच्छरीरमनसोरिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् । कस्मिननु प्राणप्रतिष्ठित इति प्रश्नः । अपान इत्युत्तरम् । कस्मिन्नु अपानः प्रतिष्ठित इति प्रश्नः । व्यान इत्युत्तरम् । कस्मिन्नु व्यानः प्रतिष्ठित इति प्रश्नः । उदान इत्युत्तरम् । कस्मिनुदानप्रतिष्ठित इति प्रश्नः । समान इत्युत्तरम् ।

एवं प्रश्नप्रतिवचनपरम्परायां परिसमाप्तायां तूष्णीम्भूते शाकल्ये समानप्रतिष्ठा-धारप्रश्चस्य ते न कृतत्वाभावात् तमसौ न वेत्तीति निश्चित्य याज्ञवल्क्यः समानप्रतिष्ठाधारं स्वयं शाकल्यं पृच्छति तमेव समानप्रतिष्ठाधारं विशिनष्टि एष नेति नेत्यात्मा स एषः – उक्तसमानप्रतिष्ठाधारभूतः । अथात आदेशो नेति नेति इति निर्दिष्टो य आत्मा,  एषः – समान प्रतिष्ठाधारभूत इत्यर्थः । अगृह्यो हि गृह्यते । इन्द्रियग्रहणायोग्यत्वात् इन्द्रियेण न गृह्यते । अशीरयो हि शीर्यते । विशरणयोग्यावयवशून्यत्वात् न शीर्यते । असङ्गो हि सज्यते । निर्लेपत्वात् पापफलं नानुभवतीत्यर्थः । असितो व्यथते  रिष्यति । असितः षिञ् बन्धने (धा.पा.१२४९)। कर्मबन्धशून्यत्वादेव सर्वदेहान्तर्गतोऽपि न व्यथते शोचति, रिष्यति न हिंस्यते वेत्यर्थः । एतादृर्शं समानप्रतिष्ठाधारभूतं याज्ञवल्क्यो मनसि निधाय, एतं शाकल्यो न वेत्तीति निश्चित्य पृच्छति । एतान्यष्टो – – पुरुषाः । यानि प्रागुक्तानि पृथिव्यादीन्यष्टावायतनानि, अग्नयाद्या अष्टौ लोकाः, अमृताधा अष्टौ देवाः, शरीराद्या अष्टौ देवाः, शारीराधा अष्टौ पुरुषा:; स य:-प्रसिद्धः पुरुषः एतान् पुरुषान् निरुह्य प्रत्यूह्य अत्यक्रामत् – अत्र पुरुषान् इत्युपलक्षणम् । आयतनलोकदेवादीनित्यपि द्रष्टव्यम्। एतान् निरूह्य प्रत्यूह्य सम्यनिर्धारणार्थो निरूहः । प्रतिव्यक्तयूहः प्रत्यूहः । आयतनदेवलोकपुरुषान् – प्रतिव्यक्ति तर्केण तत्तत्स्वरूपं निर्धार्यः तान् सर्वान् योऽत्यक्रामत् । यः पुरुषः अत्यक्रामत्सकलकार्यवर्गविलक्षणत्वेन निश्चित इत्यर्थः । यद्यपि अतिक्रमणकर्तृत्वमौपनिषदात्मगतम्। निरूहप्रत्यूहकर्तृत्वं तु पुरुषगतम्, तथापि ण्यर्थगर्भतया य ऊहयित्वा अत्यक्रामत् इत्युक्तौ न विरोध इति द्रष्टव्यम् । ऊहविषयस्य परमात्मन: ऊहयितृत्वसंभवात् । अतिक्रमणं नाम, इदं वा परमिदं वा परमिति संशयविषयतातिक्रमणात्। तञ्च परमात्मकर्तृकं सम्भवतीति द्रष्टव्यम् – तं त्वोपनिषदं पुरुषं पृच्छामि तं – सर्वविलक्षणम् औपनिषदम् – उपनिषदेकसमधिगम्यं त्वा पृच्छामि ; तं चेन्मे न विवक्ष्यसि, तर्हि मूर्धा ते विपतिष्यतीति याज्ञवल्क्यः शाकल्यं शशाप इत्यर्थः । सूत्रितञ्च परमपुरुषस्यैपनिषदत्वं भगवता बादरायणेनः शास्त्रयोनित्वात् (ब्र.सू.१-१-२) इति ।

तत्र ह्यधिकरणे – अङ्कुरादिकं सकर्तृकं कार्यत्वात् इत्यनुमानसिद्धेश्वरानुवादितया न वेदान्तवाक्यं तत्र प्रमाणम् । अतो वेदान्तन्यायग्रथनात्मकमीमांसाशास्त्रम् अनारम्भणीयम्। न च ईश्वरमनुमानसिद्धमनूद्य वेदान्तै: जगदुपादानत्वादिकं बोध्यताम् । अत: शास्रमारभ्यताम् इति वाच्यम् – कार्यत्वस्य उपादानभिन्नकर्तृकत्वेन व्याप्ततया अभिन्ननिमित्तोपादानत्व-प्रतिपादकवेदान्तवाक्यस्य घर्मिग्राहकानुमानजातीयनिमित्तोपादानभेदवाह्यनुमानबाधितत्वात्।

अतो न वेदान्तवाक्यं ब्रह्मणि प्रमाणमिति प्राप्ते उच्यते – शास्त्रयोनित्वात् (ब्र.सू.१-१-२) आस्त्रं योनिः प्रमाणं यस्य तत् शास्रयोनिः, तत्वात्। शास्रैकसमधिगम्यत्वात् वेदान्तानां प्रामाण्यमस्तीत्यर्थः । कार्यत्वेन हेतुना सकर्तृकत्वसाधने, तेनैव हेतुना गुणत्रयवश्यकर्तृकत्व-शरीरजन्यत्वादेरपि प्रसङ्गात् । प्रासादादिविपुलकार्यस्य अनेककर्तृकत्वदर्शनेन क्षित्यादि-कार्यस्यापि तथात्वप्रसङ्गाच्च । ईश्वरस्य नित्यकृत्यभ्युपगमे तदद्वारा हेतुभूतयोनिच्छयो: ईश्वरे असिद्धिप्रसङ्गेन ज्ञानेच्छाप्रयत्नलक्षणगुणत्रयाश्रयेश्वरासिद्धिप्रसङ्गात् । अतः शास्रैक-समधिगम्येश्वरस्वरूपोपादानत्वप्रतिपादकवेदान्तभागस्य नानुपपत्तिः।

[शिष्टापरिग्रहाधिकरणविचारः]

 

अत एव सांख्यपक्षस्याप्रतिष्ठिततर्कमूलत्वेन यथा आभासत्वम्, एवं कणभक्षा-क्षपादक्षपणकबौद्धपक्षाणां परमाणुकारणत्वपक्षपातिनां शुष्कतर्कमूलत्वात् वैदिक-परिग्रहशून्यत्वाच्च नादरणीयत्वमिति स्मृतिपादे, एतेन शिष्टापरिग्रहा अपि व्याख्याता(ब्र.सू.२.१.१३) इत्यधिकरणे निर्णीतम् । शिष्टाः – परिशिष्टाः । ते च ते अपरिग्रहाश्च शिष्टपरिग्रहाः । अवशिष्टाः – वैदिकपरिग्रहशून्या: कणभुगादिपक्षाः एतेन सांख्यपक्षदूषणेनैव दुष्टत्वेन व्याख्याता इति सूत्रार्थः ।

[महदीर्घाधिकरणविचारः]

तथा तर्कपादेऽपि परमाणुकारणवादो दूषितः । तथाहि काणादपक्षस्य युक्तियुक्ततया आदरणीयत्वमस्त्विति पूर्वपक्षे प्राप्ते उच्यते – महद्दीर्घवद्वाह्रस्वपरिमण्डलाभ्याम् (ब्र.सू.२-२-१०) पारिमाण्डल्यपरिमाणाश्रयेण परस्परसंयुक्तपरमाणुद्वयेनाणुह्रस्वं व्द्यणुकमुत्पाद्यते, परस्परसंयुक्तेनाणुह्रस्वव्द्यणुकत्रयेण महद्दीर्घं त्र्यणुकमुत्पद्यते इत्यसमञ्जसप्रक्रियावत् इतरापि तत्प्रक्रिया असमञ्जसैव । किं तत्रासमजंस्यमिति चेत् न, निष्प्रदेशे परमाणौ प्रादेशिकसंयोगा-सम्भवात् । संयोगस्याव्याप्यवृत्तित्वनियमात् । परस्परासंयुक्तप्रदेशाभावे ततोऽधिक-परमाणकार्यानुत्पत्तिप्रसङ्गात् । उभयथापि कर्मातस्तदभावः (ब्र.सू.२.२.११)। परमाणुनिष्पाद्यं कर्म अदृष्टकारितमिति हि तै रश्युपगम्यते । तत्र न परमाणुसमवेतमदृष्टं क्रियाहेतुः, अचेतनस्यादृष्टानाधारत्वात् । नाप्यात्मगतं परमाणुक्रियाहेतुः, व्यधिकरणत्वात् । अतः, अदृष्टकारिताद्यकर्मणा परमाणुद्वयसंयोगः इति तत्प्रक्रिया न युक्ता । समावायाभ्युपगमाच्च साम्यादनवस्थिते: (ब्र.सू.२-२-१२) जातिगुणादिविशिष्ट-प्रतीतिनिर्वाहकतया समावायाभ्युपगमे, तन्तुषु पटः समवेतः इति समवायिविशिष्ट प्रतीति-निर्वाहकता साम्येन सम्बन्धान्तरस्यावश्यकत्वात्। तत्रापि मम्बन्धान्तराभ्युपगमे अनवस्था च स्यात् । नित्यमेव भावात् (ब्र.सू.२-२-१३) समावायलक्षणसम्बन्धस्य नित्यं सत्त्वात् सम्बन्धिनोरपि नित्यसत्त्वावश्यम्भावेन जगतो नित्यत्वमेव स्यात् । रूपादिमत्त्वाच विपर्ययो दर्शनात् (ब्र.सू.२.२-१४)। रूपादिमत्त्वाच्च परमाणोः त्वदभिमतनित्यत्वनिरवयवत्वादिव्यतिरेकः प्रसज्येत । लोके रूपादिमताम् अनित्यत्वादि-दर्शनात् । ननु एतद्दोषशान्तये रूपादिशून्या एव परमाणवः सन्तु । तत्राह – उभयथा च दोषात् (ब्र.सू २-२-१५)। कारणगुणपूर्वकत्वात् त्वन्मते कार्यगुणानाम्, द्वयणुकादीनामपि रूपादिशून्यात्वप्रसङ्गः ।

अपरिग्रहाचचात्यात्यन्तमनपेक्षा (ब्र.सू.२.२.१६) । वैदिकपरिग्रहशून्यत्वाच्च तत्पक्षस्य, निःश्रेयसाथिभिः तत्पक्षेऽनपेक्षैव कार्या इति स्थितम् । वैशेषिकादयोऽर्धवैनाशिका इति हि शिष्टगोष्ठी प्रसिद्धिः । ते हि – जाठराग्निना पच्यमानानां भुक्तपीताहाहौषधरसद्रव्यरूपाणामतयवानां प्रतिक्षणमुपचयापचयावैषम्यात् अवयवि शरीरमपि प्रतिक्षणमुपचयापचयवदन्यदन्यद्रवति । यद्यपि शरीरस्य प्रतिकलमुप-चयापयदर्शनं नास्ति – तथापि वर्षदारानिपातै: तटाकजलस्येव, घटीयन्क्षेपणैः कूपजलस्येव चान्ते तद्दर्शनात् यौक्तिकं प्रतिक्षणं किञ्चित् किञ्चिदुपचयापचयवत्त्वज्ञानमस्त्येव । चन्द्रतारकादीनां मुहूर्तादिकालव्यवधानेन बहुदेशान्तरप्राप्तिदर्शनात् प्रतिक्षणं स्वल्पदेशान्तरप्राप्तिज्ञानवत् इत्यभ्युपगच्छन्ति । एवं प्रतिक्षणमवष्टम्भाविभिः खननपूरणादिभिः भूगोळकस्य, नदीजलसंसर्गशीकरोत्पतनैः समुद्रस्य चोपचयापचयवतः क्षणिकत्वमरयुपगच्छन्ति । अतस्ते अर्धवैनाशिकाः । बोद्धास्तु सर्वस्य प्रपञ्चस्य च क्षणिकत्वमभ्युपगच्छन्तः सर्ववैनाशिका इति हि वैदिकानां व्यवहारः । अतो वैनाशिकत्व परमाणुकारणवादित्वसाम्यादेव काणादमत-प्रतिक्षेपानन्तरं बौद्धमतमपि प्रतिक्षिप्तं तत्पादे – समुदाय उभयहेतुकेऽपि तदप्राप्तिः (ब्र.सू.२-२-१७) इत्यादिना ।

तत्र हि स्वरस्नेहोष्णेरण स्वभावैः परमाणुभिः पृथिव्यादिभूतलक्षण: संघात उत्पद्यते । पृथिव्यादिभिश्च भूतैः शरीरेन्द्रियविषयसंघातलक्षणः समुदाय उत्पद्यते इति हि तेषां प्रक्रिया । तत्राणुहेतुके पृथिव्यादिभूतात्मकसमुदाये, भूतहेतुके च शरीरेन्द्रियविषय-लक्षणभौतिकसमुदाये च सति जगदात्मकसमुदयोत्पत्तिर्नोपपद्यते । सर्वेषां क्षेमकत्वाभ्युपगमे यावत्संघातभावापत्ति अवस्थानासम्भवात् । इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न संघातभावानिमित्तत्वात् (ब्र.सू.२-२-१८)।

यद्यपि सर्वे पदार्याः क्षणिकाः तथापि अविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा । ते च अविद्यादयः अविद्या, संस्कारः, विज्ञानम्, नामरूपम्, षडायतनम्, स्पर्शः, वेदना तृष्णा, उपादानम्, भव: जातिः, जरा, मरणम्, शोकः, परिवेदना, दुःखम्, दौर्मनस्यम्, इत्येवञ्जातीयकाः इतरेतरहेतुका: सुगतसमये अभ्युपगम्यन्ते । अविद्या क्षणिककार्यदुःखशून्येषु स्थायिनित्यसुखवस्तु बुद्धिः । ततो रागद्वेषमोहधर्मा धर्मासंस्काराः । संस्कार वशाज्जीवस्य गर्भाशयद्रव्ये वृत्तिलाभोविज्ञानम् । विज्ञानसंसर्गात् गर्भ द्रव्यस्य कललपेश्याद्याकारेणाभिव्यक्ति: नामरूपम् । तदभिव्यक्तिक्रमेण षडिन्द्रियायतनशरीरनिवृत्ति: षडायतनम् । निवृत्तशरीरेन्द्रियस्य गर्भगतविषयेन्द्रियसंसर्गजं ज्ञानं स्पर्शः । तन्निमित्ते सुखदुःखेवेदना । सुखदुःखप्राप्तिपरिहारार्था विषयोपादानेच्छा तृष्णा । तया विषयेषु प्रवृत्तिरुपादानम् । ततः क्रमेण गर्भात् निष्क्रमणं भवः । निर्गतस्य मनुष्यत्वादिजात्यभिमानो जातिः । क्रमभाविनी जरामरणे प्रसिद्धे । म्रियमाणस्य पुत्रकळत्राद्यभिषङ्गादन्तर्दाहः शोकः । तदुत्थः प्रलापः परिदेवना । मरणक्लेशो दुःखम् । मानसदुःखं दौर्मनस्यम्, एतेषामितरेतरहेतुत्वस्यानुभवसिद्धत्वादुपपद्यते लोकयात्रा इति चेन्न – संघातभावानिमित्तत्वात् अस्थिरेषु स्थिरत्वबुद्धिरूपाविद्याश्रयस्य कस्यचित् स्थिरस्य चेतनस्य अभावेनाविद्यया भूतो रागोत्पत्तेरसम्भवेन संघातहेत्वभावस्तदवस्थ एव ।

उत्तरोत्पादे पूर्वनिरोधात् (ब्र.सू.२-२-१९) बौद्धमते वस्तुत: कालो नास्ति । उदयन्नेव स्वरसभङ्गुरो घटादिः क्षणपरिकल्पनामात्रनिमित्तं भवति । स च घटादिः स्वोदयविनाशपरिकल्पितक्षणवत्त्वात् क्षणिकोऽपि भवति । वस्तुतः स्वव्यतिरिक्तक्षणाभावात् स्वयमेव क्षणो भवतीति हि तेषां प्रक्रिया । ततश्च पूर्वघटक्षणस्योत्तरघटक्षणोत्पत्तिकालेऽसतः तद्धेतुत्वं न सम्भवति । असतोऽपि हेतुत्वे अतिप्रसङ्गात् ।।

असति प्रतिज्ञोपरोधघो गपद्यमन्यथा (ब्र.सू.२-२-२०) असत्यपि कारणे कार्यस्योत्पत्तौ अधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययश्चत्वारः चित्तचैत्तोत्पत्ति हेतवः इति बौद्धानां प्रतिज्ञाया उपरोधप्रसङ्गः । अधिपतिः इन्द्रियम् । तद्धि ज्ञानस्य रूपादिषु पञ्चसु एकैक मात्रविषयत्वनियामकम् । नियामकश्च लोकोऽधिपतिरुच्यते । सहकारि आलोकादिकम् । आलम्बनं घटादिविषयः । समनन्तर प्रत्ययः पूर्वज्ञानम् । एतैः चतुर्विधैर्हेतुभिःचित्तशब्दितस्य ज्ञानस्य चैत्तशब्दितानां चित्ताभिन्नसुखादीनाञ्च उत्पत्तिरिति हि तेषां प्रतिज्ञा । सा प्रतिज्ञा हीयेत, यदि पूर्वोत्तरक्षणवर्तित्वं न स्यात् । तत्र यदि पूर्वक्षणवर्तित्वं न स्यात्, तदा कारणत्वं हीयेत । उत्तरक्षणवर्तित्वाभावे च वर्तमानत्वग्राहिप्रत्यक्षविषयत्वं न स्यात् । अतः क्षणद्वयवर्तित्वमभ्युपेतव्यमिति क्षणिकत्वविरोधः । यद्येतद्दोषपरिजिहीर्षया कारणघटक्षणस्यापि कार्यघटक्षणोत्पत्तिदशायां सत्त्वमभ्युपगम्यते, तदा घटक्षणद्वय योगपद्यप्रसङ्ग इत्यर्थः ।

प्रतिसंख्या प्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् (ब्र.सू.२-२-२१) बौद्धाः सर्वस्य वस्तुनो निरन्वयो विनाश इति वदन्ति । स च द्विविधः; स्थूलः सूक्ष्मश्च । मुद्गरपाताद्यनन्तरं सर्वारूपलभ्यमानो घटादीनां विनाशः स्थूलः । सः प्रति सङ्ख्यानिरोध इत्युच्यते । प्रतिसंख्या – विषयसत्त्वप्रतिकूला तदसत्त्वग्राहिणी लौकिकानां बुद्धिः; तद्विषयो, निरोध इत्यवयवार्थान्वयात् । तद्विपरीतोनिरोधः अप्रति सङ्ख्यानिरोधः । स च सूक्ष्मो लौकिकबुद्ध्ययोग्यो बौद्धै: युक्त्या साध्यमानः प्रतिक्षणविनाशः । तयोरुभयोरप्राप्तिः असम्भवः । कुतः? अविच्छेदात् । पिण्डघटकपालादिरूपेण स्थितस्य द्रव्यस्य स्वरूपविच्छेदाभावात् । न च द्रव्यानुवृत्तौ विनष्टो घट इत्यादिप्रतीतेः निर्विषयत्वापत्तिः, अवस्थान्तरापत्ति-विषयत्वसम्भवात् ।

उभयथा दोषात् (ब्र.सू.२-२-२२) बौद्धाः किल एवं वर्णयन्ति । पृतिसङ्ख्यानिरोधः अप्रतिसंख्यानिरोधः; आकाशं च इत्येत त्रितयं वस्तुनिरुपाख्यं तुच्छम् । अन्यन्तु क्षणिकत्वमुत्पाद्यमिति मन्यन्ते । तत्र पूर्वोत्पन्नस्य घटक्षणस्य तदानीमेव निरुद्धत्वप्राप्त्या तुच्छात् निरोधादेवकार्यघटक्षणस्य उत्पत्तिरिति यदभ्युपगम्यते, तत्र तुच्छात् उत्पत्त्यसम्भवः तावदेको दोषः । तुच्छादुत्पत्त्यभ्युपगमे हि तुच्छस्य निर्विशेषत्वेन कारणविशेषकृतः कार्यविशेष इति व्यवस्थाया अभावात् घटक्षणानन्तरं सर्वजगत उत्पत्तिः स्यात् । तथा तुच्छादुत्पद्यमानं कार्यमपि तुच्छमेवोत्पद्येत; न तु सद्रूपम्; कारणानुसारित्वात् कार्यस्य इत्यपरो दोष इत्यर्थः ।

आकाशे चाविशेषात् (ब्र.सू.२-२-२३) घटोऽयम् पटोऽयम् इति प्रत्यक्षप्रतीतिवत् ; कूपोऽ , रन्ध्रमेतत्, खग इह पतति इत्यादि प्रत्यक्षस्याविशेषेण, आकाशं निरुपाख्यतुच्छम्, घटादिकं क्षणिकतुच्छमित्यत्र प्रमाणाभावात् । न च, इह श्येनः पतति इत्यादिप्रतीतेरालोक एव विषयोऽस्त्विति वाच्यम् – इहालोकः, इहान्धकार इत्यालोकान्धकाराधारत्वेन प्रतीतस्य आलोकरूपत्वाभावात् ।

अनुस्मृतेश्च (ब्र.सू.२-२-२४) तदेवेदमिति प्रत्यभिज्ञावशात् स्थिरत्वस्यैवाभ्युप-गन्तव्यत्वेन क्षणिकत्वासंभवादित्यर्थः ।

नासतोऽदृष्टत्वात् (ब्र.सू.२-२-२५) यदुच्यते सौत्रान्तिकैः ज्ञानगतैर्नीलाद्याकारैः बाह्यार्थगता: तेऽनुमीयन्ते । अतो ज्ञानकाले विषयस्य क्षणिकतया असत्त्वेपि न दोषः । यद्यपि नीलादिज्ञानमपरोक्षतया अनुभूयते; इन्द्रियव्यापारान्वयव्यतिरेकानुविधायि च भवति; तथापि यदिन्द्रियसन्निकृष्टेन येनार्येन यत् ज्ञानं जायते; न तत् ज्ञानं तद्विषयकम्। किन्तु स्वयमप्यर्थवत् नीलाद्याकारं भवतीति तत् ज्ञानं स्वप्रकाशकतया स्वात्मानं विषयीकुर्वत् स्वगतं नीलाद्याकारमपि विषयीकरोति । अतो न नीलादिज्ञानस्य आपरोक्ष्यानुभवविरोधः; न वा इन्द्रियव्यापारानुविधानविरोधः । नीलाद्यर्थिनो बहिः प्रवृत्तिस्तु नापरोक्षज्ञानात् । किन्तु तदनन्तरभाविनः आनुमानिकज्ञानात् । यथा वायुनिषेवणार्थिनां शाखाचलनं दृष्ट्वा वृक्षमूले प्रवृत्तिः । न चैवमर्थस्य क्षणिकतया ज्ञानकालेऽनवस्थानात् ज्ञानाविषयत्वं स्यादिति वाच्यम् – ज्ञानोत्पत्तिहेतुत्वमेव हि ज्ञानाविषयत्वम्; न ज्ञानकालेऽवस्थानम् । न चैतावता चक्षुरादेः ज्ञानविषयत्वप्रसङ्गः । स्वाकारसमर्पणेन ज्ञानहेतोरेव ज्ञानविषयत्वाभ्युगमात् । ज्ञाने स्वाकारं समर्प्य नष्टोऽप्यर्थो ज्ञानगतेन नीलाद्याकारेण अनुमीयते । न च पूर्वपूर्वज्ञानेनोत्तरोत्तरज्ञानाकारसिद्धिः । नीलज्ञानसन्ततौ पीतज्ञानानुत्पत्तिप्रसङ्गात् । अतोऽर्थकृतमेव ज्ञानवैचित्र्यमिति । तत्रोच्यत – नासतः । योऽयं विज्ञाने नीलाद्याकार: उपलभ्यते, स विनष्टस्य असतोऽर्थस्याकारो भवितुं नार्हति । कुतः? अदृष्टत्वात् । न खलु धर्मिणि विनष्टे धर्मस्य आकारान्तरे सङ्क्रमणं दृष्टम् । प्रतिबिम्बादिकमपि स्थिरस्यैव भवति । तत्रापि न धर्ममात्रस्य । अतो अर्थ वैचित्र्य कृतं ज्ञानवैचित्र्यमर्थस्य ज्ञानकालेऽवस्थानादेव भवति । जपाकुसुमादेः स्फटिकादौ स्वाकारार्पणहेतुत्वेऽपि असतः तदर्शने न असतो विषयस्य ज्ञाने स्वाकारार्पणाक्षमत्वात् ।

उदासीनानामपि चैवं सिद्धिः (ब्र.सू.२-२-२०) तत्काले असत एवोत्पादकत्वे उदासीनानाम् – अनुद्युञ्जानानां पुरुषाणाम् उद्युञ्जानपुरुषवत् सर्वकार्यसिद्धिः स्यात् । उद्युञ्जानानुद्युञ्जानयोस्तत्कालासत्त्वाविशेषादिति स्थितम् । एतत्पक्षोक्तदोषः अर्धवैनाशिक-मतेऽपि समान इति तन्मनं सर्वथा नादर्तव्यमेवेति स्थितम् । तथा सर्वज्ञपशुपतिप्रणीतत्वात् पाशुपतं मतम् आदरणीयमिति पूर्वपक्षे प्राप्ते उच्यते पत्युरसामञ्जस्यात् (ब्र.सू.२-२-३५) पत्युः पशुपतेः मतमनादरणीयम् । वेदविरुद्धमुद्रिकाषट्कधारणसुराकुम्भस्थापन-शवभस्मस्नानादिधर्माणां निमित्तमात्रेश्वरस्य चाभ्युपगमेन तन्मतस्यासमंजसत्वात् । अधिष्ठानानुपपत्तेश्च (ब्र.सू.२-२-३६) अवैदिकस्य तदभिमताशरीरेश्वरस्य प्रधानाधधिष्ठानृत्वानुपपत्तेश्च । करणवचचेन्न भोगादिभ्यः (ब्र.सू.२-२-३७) यथा जीवस्य करणकलेबरान्तरनरपेक्ष्यम्; एवं प्रधानाधधिष्ठानेऽपि शरीरनैरपेक्ष्यमस्त्विति चेन्न – भोगादिभ्यः पुण्यपापरूपकर्मफलभोगार्थं पुण्यपापरूपादृष्टकारितं हि तदधिष्ठानम् । तद्वत् पशुपतेरपि पुण्यपापरूपादृष्टतत्फलभोगादि सर्व प्रसज्येत । ततो नाधिष्ठानसम्भवः । अन्तवत्त्वमसर्वज्ञता वा (ब्र.सू.२-२-३०) वा शब्दश्चार्थे । पशुपतेः पुण्यपापरूपादृष्टवत्त्वे जीववत् अन्तवत्त्वं सृष्टिसंहाराद्यास्पदत्वमसर्वज्ञता च स्यादित्यनादरणीयमेवेदं मतमिति स्थितम् । [एतत्पक्षोक्तदूषणाना मप्यानुमाविकेश्वरवादि-नामर्धवेनाशिकानो मतेऽपि समानत्वात् तन्मतं सर्वथा नादर्तव्यमिति स्थितम् ।] तथा, एतेन योग: प्रत्युक्तः (ब्र.सू.२-१-३) इत्यधिकरणे केवलनिमित्तेश्वरवादि-हैरण्यगर्भमतमपि कपिलमतवदेव वेदविरुद्धत्वात् अप्रामाणिकमिति वदता सूत्रकारेण भगवता बादरायणेन सकलजगदाधारभूतस्य सकलजगदेककारणस्य परब्रह्मणो नारायणस्य पुरुषोन्तमस्यौपनिषदत्वमेव स्थिरीक्तम् ।।

तं मेने शाकल्यः तम् – एतं तर्कागोचरं प्रमाणान्तरागग्यमौपनिषदात्मानं शाकल्यो नाज्ञासीत् इत्यर्थः । तस्य मूर्धाविपपात । विविध शीर्णः पतितः । अपिहास्य – – –मन्यमानाः एवं शापवशात् मूर्धनि पतिते तस्य कोपोग्निना शरीरञ्च दग्धमभवत् । संस्कारार्थं शिष्यैर्गृहान्नीयमानानि अस्थीन्यपि, अन्यत् धनं मन्यमानाः परिमोषिणः – तस्कराः अपजहुः – अपहृतवन्तः । यद्वा – परिमोषिमः । मुषितशरीरस्य नष्टशरीरस्येति यावत्, तस्य – शाकल्यस्यास्थीन्येव अन्यन्मन्यमानाः शरीरं मन्यमानाः और्ध्वदैहिकक्रियार्थं तत्पुत्राद्याल अपहुतवन्त इत्यर्थः ।। २६ ।।

[याज्ञवल्क्येन सर्वान् प्रति प्रश्नारम्भः]

 

अथ होवाच ब्राह्मणाः भगवन्तो यो वः कामयते मा पृच्छतु। सर्वे वा मा पृच्छतुः यो वः कामयते तं वः पृच्छामिः सर्वान् वा वः पृच्छामीति ते ह ब्राह्मणा दधृषुः ।। २७ ।।

प्र.-अथ होवाच – – –पृच्छाम् इति । अथ – शाकल्यमरणानन्तरं याज्ञवल्क्यो ब्राह्मणान् प्रत्याह किमिति? हे पुजावन्तो ब्राह्मणाः! युष्माकं मध्ये यः प्रष्टुकामः स मां स्वाभीष्टं पृच्छतु । सर्वे वा मिळित्वा मां पृच्छत । अथवा : युष्माकं मध्ये यः प्रत्युत्तरं दित्सति, तमहं प्रश्नं पृच्छामि । यदि सर्वेषां समूह्य प्रत्युत्तरदित्सा, तर्हि मिळितान् वा सर्वान् युष्मान् पृच्छामीति याज्ञवल्क्य उक्तवानित्यर्थः । ते ब्राह्मणा  दधृषुः । ते ब्राह्मणाः याज्ञवल्क्येन सह जल्पकथायां न प्रगल्भा बभूवुः ।। २७ ।।

 

[दृष्टान्तमुखेन पुनः प्रश्नकथनम्]

 

तान् है तैः श्लोकैः पप्रच्छ– 

यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ।। त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात्तदातृण्णात् प्रति रसो वृक्षादिवाहतात् ।। मांगं सान्यस्य शराणि किनाट स्रा तत् स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता । यद्वृक्षो वृक्णो रोहति मूलाननवतरः पुनः । मर्त्यः स्विन्मृत्युना वृकण: कस्मान्मूलात् प्ररोहति ।।

रेतस इति मां वोचत जीवतस्तत् प्रजायते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्यसम्भवः ।। यत् समूलमावृहेयुर्वृक्षं पुनराभवेत् । मर्त्यस्स्विन्मृत्युना वृक्ण: कस्मान्मूलात् प्ररोहति जात एव जायते को न्वेनं जनयेत् पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ।। तिष्ठमानस्य तद्विद इति ।। २८ ।।

 

।। इति पञ्चमाध्याये नवमं ब्राह्मणम् ।।

 

समाप्तश्च पञ्चमोऽध्यायः

प्रतान् है तै: श्लोक: ्रपच्छ । याज्ञवल्क्य इति शेषः । ब्राह्मणान् । श्लोकानेव पठति । यथा वनस्पति:- फल्युष्पोपेतो वृक्षः : तादृश एव पुरुषः । मृषासत्यम् इत्यर्थः । वानस्पत्य: फलै पुष्पै: (अ.को.२-४-६) इति हि निघण्टुः । तत्साधर्म्यमेवाह स्– – –  बहिः तस्य– पुरुषाख्यवृक्षस्य लोमान्येव पर्णानि । अस्य पुरुषस्य या त्वक् सा बहिर्भूता उत्पादिका । वृक्षानुपमर्देनैव उत्पाट्यत इति उत्पाटिका विञ्चादेरिव बहिस्त्वक् । रुधिरावारकाच्चर्मणो वा बहिर्भूता सा बहिस्त्वक् । त्वच – – उत्पट:  इत्यादि । उत्क्रम्य पटति गछातीत्युत्पटः क्षीरादिसारः । अस्यपुरुषवृक्षस्य त्वच एव हि रुधिरं प्रस्यन्दि भवति । वृक्षस्य च त्वच एव क्षीरादिसारः स्यन्दि भवति । अतः साधर्म्यमित्यर्थः । तस्मात् — –आहतात् । तत् वृक्षसाधर्म्यादेव हेतोः आतृण्णात् –तृदिर् हिंसायाम् (धा.पा.१४४७) । छिन्नात्, तस्मात् पुरुषरूपात् वृक्षात्: वृक्षादाहतात् रस इव, रुधिरं निर्गच्छतीत्यर्थः । मांसान्यस्य शकराणिअस्य -पुरुषस्य मासानि वृक्षस्य कराणीव – शकलानीव इत्यर्थः । किनाटंस्राव तस्थिरम् । स्रावेत्येतत् नान्तं नपुंसकम् । सिरेति यावत् । तदेव बृक्षस्य स्थिरं किनाटम् । किनाटं नाम दार्वस्थि भागादुद्गतवल्कः । वृक्षस्य तत् स्थिरं वल्कलान्तर्गतस्थिरांशः । अस्थीन्यन्तरतो दारूणि अस्य पुरुषस्य अस्थीन्येव अन्तरतो दारूणि – अन्तःस्थदावंश इत्यर्थः, मज्जा मज्जोपमा कृता । दारुणि या मज्जा सा अस्य पुरुषस्य मज्जोपमा कृता भवति ।

तथा च वृक्ष मज्जास्थाने पुरुषस्य प्रसिद्धमज्जा भवतीत्यर्थः । यदवृक्षो  – –  प्ररोहति । एवं वृक्षस्य शरीरस्य च साम्ये सत्यपि वृक्षो वृक्णस्सन् छिन्नस्सन् मूलान्नवतरः अत्यन्तं नवस्सन् पुनः प्ररोहति । मर्त्यस्तु मृत्युना वृक्णस्सन्, कस्मान्मूलात् प्ररोहति इति प्रश्नः । रेतस इति– – –प्रजायते । रेतस एव मूलात् पुनर्मर्त्यः प्ररोहतीति मा वोचत । कुतः? जीवत एव हि तत् – रेतः प्रजायते ।

अयं तु मृत इति नात्र रेतो मूलं वक्तुं शक्यम् । न हि वृक्षस्य भिन्नावशिष्टमूलमिवास्य रेतोमयं स्वकं मूलमवशिष्यते; यतः पुनः प्ररोहतीति कल्प्येत । धानारुह – – –सम्भवः । किञ्च वृक्षे । धानारुहो भवति । धाना – बीजम् । धानाभ्यो रोहतीति तथोक्तः । बीजरुहोऽपि वृक्षो भवति; न केवलं काण्डरुह एव । इवशब्दोऽप्यर्थः । वृक्षः अञ्जसा – साक्षात् प्रेत्य – मृत्वा धानतोऽपि सम्भवेत् । यत्समूलमावृहेयुः वृक्षं न पुनराभवत् । यत् – यदि समूलं मूलेन धानया वा सह आवृहेयुः – उत्पाटयेयुः, तदा स वृक्षो न पुनरागत्य भवेत् । अतो मूलं बीजञ्च वृक्षस्य रोहे कारणं दृष्टमित्यर्थः ।

मर्त्यस्वित् – – – – प्ररोहति । अत हेतोः पृच्छामि, वृक्ष सधर्मा अयं मर्त्यो वृक्णः कस्मात् प्ररोहति मूलादिति । ननु यस्तु मृत्युहतः स हत एव; अन्य एव तु कश्चिज्जायते, अतो वृक्णस्य मर्त्यस्य पुनः जनिहेतुप्रश्नोऽनुपपन्न इत्यत्राह – जात एव – – पुन:। यदि नष्टस्य पुनर्जननं न स्यात् । तर्हि कृतहानाकृताभ्यागमप्रसङ्गः । अतो मृतस्य पुनर्जननं सिद्धम् । अतो वः पृच्छामि को न्वेनं पुनर्जनयेदितीत्यर्थः । तथा च जगतो मूलं किमिति प्रश्नार्थः ।।

यतो जगतो मूलं तैर्जनकसभ्यैर्ब्राह्मणैः न ज्ञातम्; अतो याज्ञवल्क्येन ब्राह्मणाः जिताः । समाप्ता आख्यायिका । यत् जगतो मूलं याज्ञवल्कयेन पृष्टम्, तत् श्रुतिः स्वयमेवाह – विज्ञानमानन्दं  – – – तद्विदःरातिः – रातेः । षष्ट्यर्थे प्रथमा । धनस्य इत्यर्थः । रातेः – धनस्य दातुः कर्मकृतो यजमानस्य इति यावत् परायणं -परमागतिः । तत्तत्कर्मानुगुणफलप्रदम् इत्यर्थः । तिष्ठमानस्य – ब्रह्म संस्थस्य तद्विदः ब्रह्मविदः परायणम् – परमप्राप्यं विज्ञानानन्दरूपं ब्रह्मैव याज्ञवल्क्येन पृष्टं जगन्मूलम् इत्यर्थः ।। २८ ।।

।। इति पञ्चमाध्याय नवमब्राह्मण प्रकाशिका ।।

 

समाप्तश्च पञ्चमोऽध्यायः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.