बृहदारण्यकोपनिषत् षष्ठोध्यायः

।। श्रीः ।।

बृहदारण्यकोपनिषत्

 

षष्ठोऽध्यायः

 

प्रथमं ब्राह्मणम्अण्वन्तब्राह्मणम्

 

[याज्ञवल्क्यस्य जनकं प्रति आव्रजनम्]

 

जनको वैदेह आसाञ्चक्रे अथ याज्ञवल्क्य आववाज तँ होवाच याज्ञवल्क्य! किमर्थमचारी: पशूनिच्छन्, अण्वन्तानि इति उभयमेव सम्राडिति होवाच ।। ।।

प्र.- जनको वैदेह आसाञ्चक्रे । दर्शनकामेभ्यो दर्शनं दातुं वैदेहो जनकः सभायाम् आसाञ्चक्रे – स्थित इत्यर्थः । अथ – अस्मिन्नवसरे याज्ञवल्क्य आवव्राज -आगतः । तँ होवाच जनक इति शेषः । तं – याज्ञवल्क्यमित्यर्थः । उक्तिमेवाह याज्ञवल्क्य…… अण्वन्तनिति । हे याज्ञवल्क्य ! किमर्थम् अचारी: – आगतोऽसि । किं पुनरपि पशूनिच्छन्, आहोस्वित् अण्वन्तानिति । अन्त: निश्चयः । अणोः – सूक्ष्मस्य वस्तुनः प्रत्यगात्मादेः अन्तान् – निश्चयान् कर्तुमित्यर्थः । याज्ञवल्क्यस्योत्तरमाह उभयमेव सम्राडिति होवाच । त्वदनुग्रहार्थमेवागतोऽस्मि । तत्प्रसङ्गे यदि पशवश्च पुनः स्युः, तदपि न प्रतिषेधामः, हे सम्राडिति होवाच याज्ञवल्क्य इति शेषः । सम्राट – हे ‘सार्वभौम इत्यर्थः ।। १ ।।

[वाग्वै ब्रह्मेति शालिनिमतम्]

यत् ते कश्चिदब्रवीत्, तच्छृणवामेति । अब्रवीन्मे जित्वा शैलिनि:, वाग्वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्, तथा तच्छैलिनोऽब्रवीत् वाग्वै ब्रह्मेति; अवदतो हि किं स्यादिति; अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत् सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य!। वागेवायतनमाकाशः प्रतिष्ठा; प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव समाडिति होवाच; वाचा वै सम्राड्  बन्धुः प्रज्ञायते; ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनु-व्याख्यानानि व्याख्यानानीष्टँ हुतमाशितं पायितमयञ्च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट् प्रज्ञायन्ते; वाग्वै सम्राट् परमं ब्रह्म । नैनं वाग् जहाति; सर्वाण्येनं भूतान्यभिक्षरन्ति, देवो भूत्वा देवान् अप्येति, य एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः, पिता मेऽमन्यत ‘नानुशिष्य’ हरतेति ।। २ ।।

प्र. -एवमुक्त्वा विशेषोपदेशाय ‘प्रवृत्तौ’ याज्ञवल्क्यो जनकं पुनराह – यत् ते कश्चिदब्रवीत्, तच्छृणवामेति । यत् ते – तुभ्यं कश्चिदाचार्यों अब्रवीत् – अनेकाचार्योप -सेवी हि भवान् – तत् शृणवाम । श्रुत्वा उपदेष्टव्यांशुमुपदेक्ष्याम इति भावः । जनक आह – अब्रवीन्मे जित्वा शैलिनि: वाग्वै ब्रह्मेति । नामतो जित्वा शिलिनस्यापत्यं शैलिनि: वागेव ब्रह्मेति । ब्रह्मप्रतीकतया वाग्देवता उपास्या इति मे उक्तवान् इत्यर्थः । इतर आह – यथा मातृमान्…… प्रतिष्ठाम् माता यस्य विद्यते अनुशासनकर्तृतया, स मातृमान्पिता यस्य तथा विद्यते, स पितृमान्आचार्यो यस्य तथा विद्यते, स आचार्यवान् । उपनयनात् प्राक् मातापितरौ अनुशिष्टः । ऊर्ध्वमाचार्योऽनुशास्ति । तैरेवं यथाकालं शिक्षतो हि सम्यक् ज्ञातवान् भवति । तथा च मात्रा पित्रा आचार्येण चानुशिष्टो यथा ब्रवीति, तथा शैलिन उक्तवान् वाग्वै ब्रह्मेति । सम्यक् उक्तवान् इत्यर्थः । तत्रोपपत्तिमाह – अवदतो हि किं स्यादिति अवदतः – वाग्व्यापाररहितस्य । न हि मूकस्य ऐहिकामुष्मिकं वा किञ्चित् सिद्ध्येत् । तस्मात् युक्तं वाग्वै ब्रह्मेति शैलिनिनोक्तम् सर्वपुरुषार्थसाधनत्वात् वाचि ब्रह्मदृष्टिः कर्तव्या इति इत्यर्थः । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । परन्तु तस्यायतनं प्रतिष्ठाञ्च ते स किमब्रवीत् । आयतनं – शरीरम् । प्रतिष्ठा त्रिष्वपि कालेष्वाश्रयः । एतद्द्वयमपि शैलिनि: ‘उक्तवान् किमित्यर्थः ।

जनक आह मेऽब्रवीदिति । इतर आह – एकपाद्वा एतत्सम्राडिति । एकः पादः यस्य, तत् एकपात् । एतत् ब्रह्म । वाग्रूपं ब्रह्म उपास्यमानमपि एकपात् त्रिभिः पादैः शून्यं न फलाय भवतीत्यर्थः । जनक आह – वै…… याज्ञवल्क्य! हे याज्ञवल्क्य! स त्वं विद्वान्नः अस्मभ्यं ब्रूहि । आयतनादीति शेषः ।

स चाह वागेव…… उपासीत । वागधिष्ठात्र्यां देवतायाम् अध्यस्यमानस्य ब्रह्मणो वागेव आयतनम् – शरीरम् । अव्याकृताकाशः प्रतिष्ठा; आकाश:’ – परमं व्योम वा प्रतिष्ठा – कालत्रयेप्याश्रयः । एनत् – ब्रह्म प्रज्ञा इत्युपासीत इत्यर्थः । जनकः पृच्छति का प्रज्ञता याज्ञवल्क्य! अवमभिप्रायः – यथा प्रतिष्ठांशः वाचो भिन्न:; एवं प्रज्ञापि किं वाचो भिन्ना उत नेति प्रश्नः । प्रतिष्ठावन्न भिन्ना; किन्तु आयतनवत् प्रज्ञापि वाचः अभिन्ना इत्युत्तरमाह – वाग्वै सम्राडिति होवाच । हे सम्राट् ! वागेव प्रज्ञा । न तु ततोऽतिरिच्यते इत्यर्थः । तदुपपादयति वाचा वै सम्राट्  बन्धु: प्रज्ञायते । अयं बन्धुरिति वाचैव हि प्रज्ञायते । तथा ऋग्वेदो……. ब्रह्म इतिहासः – रामायणादिः । पुराणं – विष्णुपुराणादि । विद्याः – चतुष्षष्ठिकलाः । उपनिषदः – प्रसिद्धाः । श्लोकाः – मनुस्मृत्यादिरूपाः । सूत्राणि – ब्रह्मसूत्रादीनि । अनुव्याख्यानानि भाष्यव्याख्यानादीनि । व्याख्यानानि – भाष्यादीनि । इष्टं – यागनिमित्तं धर्मजातम् । हुतं – होमनिमित्तं धर्मजातम् । आशितम् – अत्रदाननिमित्तकम् । पायितं-पानीयदाननिमित्तकम् । अयं लोकः ‘इह लोकिकं’ फलम् । परश्च लोकः स्वर्गभोक्षादि । सर्वाणि भूतानि – शत्रुमित्रोदासीनरूपाणि । एवमेतत् सर्वं, हे सम्राट्! वाचैव प्रज्ञायते । अत: वाग्वै सम्राट्  परमं ब्रह्म । वाग्देवतायां ब्रह्मोपासनं प्रज्ञानामकत्वेन कर्तव्यमित्यर्थः । तदुपासनायाः फलमाह-नैनं…… उपास्ते एवं विद्वान् -उक्तायतनादिज्ञानवान् एतत् वाग्रूपं ब्रह्मोपास्ते, एनं – ब्रह्मविदं वाक् अधीता ब्रह्मविद्या न जहाति । विद्यायाः विस्मरणं नास्तीति यावत् । यथा वत्साय गावोऽभिक्षरन्ति, एवं बलिदानादिभिः सर्वाणि भूतानि अभिक्षरन्ति – स्निह्यन्ति इत्यर्थः । देवो भूत्वाउपास्यमानवागधिष्ठातृदेवो भूत्वा, तद्देवतासायुज्यं प्राप्येति यावत् देवान् अप्येतिआजानसिद्धदेवतान्तर्गतो भवतीत्यर्थः । हस्त्यृषभं…… वैदेहः । हस्तितुल्यः ऋषभः यस्मिन् गोसहस्रे तत् तथा । तादृशर्षभयुक्तं गोसहस्रमुपदिष्टविद्याया दक्षिणात्वेन ददामीति जनक उक्तवान् इत्यर्थः । हरेतेति । शिष्यं सम्यगननुशिष्य ततः किञ्चिदपि द्रव्यं नाहरेतेति मे पिता अमन्यत – बोधितवानिति यावत् । अतः सम्यगनुशिष्य हरिष्यामि; न ततः प्रागिति याज्ञवल्क्य उवाच इत्यर्थः । एवमुत्तरत्रापि नेयम् ।। २ ।।

[“प्राणो वै ब्रह्मइति शौल्बायनमतम्]

 

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति अब्रवीन्म उदङ्कः शौल्बायन: प्राणो वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छौल्बाायनोऽब्रवीत् प्राणो वैब्रह्मेत्याप्राणतोहि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति वै नो ब्रूहि याज्ञवल्क्य । प्राण एव आयतनमाकाशः प्रतिष्ठा प्रियमेनदुपासीत का प्रियता याज्ञवल्क्य । प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट् कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट्  कामायप्राणो वै सम्राट् परमं ब्रह्म नैनं प्राणो जहाति, सर्वाण्येनं भूतान्यभिरक्षन्ति देवो भूत्वा देवानप्येति एवं विद्वानेतदुपास्ते । हस्त्यृषभसहस्रं ददामीति होवाच जनको वैदेहः होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ।। ।।

प्र. – यदेव ते…… शौल्बायन: । नामत: उदङ्कः । शुल्बस्यापत्यं शौल्बायन: । नडादित्वात् फक् । अप्राणतो हि किं स्यात् । जीवतो हि सर्व पुरुषार्थावाप्तिरिति भावः । प्रियमित्येतदुपासीत । प्रियमिति नाम्ना प्राणप्रतीककं ब्रह्मोपासीत इत्यर्थः । प्राणस्य प्रियतामेव उपपादयति – प्राणस्य…… परमं ब्रह्म प्राणस्य कामायप्राणाशया अयाज्यमपि याजयति; अप्रतिगृह्यमपि प्रतिगृह्णाति । अप्रतिगृह्यस्य प्रतिगृह्णात्यपि इत्यत्र प्रत्यपिभ्यां ग्रहेश्छन्दसि (पा.सू.३-१-११८) इति क्यप् । पुरुषो यां दिशं गच्छति; तत्र ‘वधाशङ्क’ भवति । वधस्याशङ्का यस्मात् तत् चोरव्याघ्रादि वधाशङ्कम् । ‘तत्र तत्र वर्तते’ चेदपि; तत्रापि प्राणस्य कामाय याति । तत: प्राणस्य प्रियत्वात् स एवं परं ब्रह्म ‘इत्युपास्यमित्यर्थः । नैनं प्राणो जहाति । दीर्घायुर्भवति इत्यर्थः ।। ३ ।।

 

[“चक्षर्वै ब्रह्माइति बर्कुमतम्]

 

यदेव ते कशिदब्रवीत् तच्छृणवामेति अब्रवीन्मं बर्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद्वार्ष्णोऽब्रवीत् चक्षुर्वै ब्रह्मेत्यपश्यतो हि किँ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां मेऽब्रवीदिति एकपाद्वा एतत् सम्राट्। इति  वै नो ब्रूहि याज्ञवल्क्य! चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनत् उपासीत का सत्यता, याज्ञवल्क्य चक्षुरेव सम्राट् इति होवाच चक्षुषा वै सम्राट् पश्यंन्तमाहुरद्राक्षीरिति  आह अद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट् परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिरक्षन्ति देवो भूत्वा देवानप्येति एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ।। ।।

प्र. – यदेव ते…… बर्कुर्वार्ष्णः । नामतो बर्कु: । वृष्णेरपत्यं वार्ष्णः । तत् सत्यं भवति । चक्षुषा दृष्टे यथा सत्यत्वाध्यवसायः, तथा मानान्तरावगते न भवति इत्यर्थः । अतः चक्षुषि ब्रह्म सत्यनाम्ना उपास्यमित्यर्थः । नैनं चक्षुर्जहाति । चक्षुषा दृष्टं न विस्मरतीत्यर्थः । शिष्टं स्पष्टम् ।। ४ ।।

 

[“श्रोत्रं वै ब्रह्मइति भारद्वाजमतम् ]

 

यदेव ते कश्चिदब्रवीत् तच्छृणवामत्यब्रवीन्मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद्भारद्वाजोऽब्रवीत् श्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किँ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां मेऽब्रवीदिति एकपाद्वा एतत् सम्राट्, इति वै नो ब्रूहि याज्ञवल्क्य श्रोत्रमेवायतनमाकाशप्रतिष्ठानन्त इत्येनदुपासीत कानन्तता? याज्ञवल्क्य! दिश एव सम्राट् ! इति होवाच तस्माद्वै सम्राडपि यां कां दिशं गच्छति नैवास्या अन्तं गच्छति अनन्ता हि दिशो दिशो वे सम्राट! श्रोत्रं श्रोत्रं वै सम्राट! परमं ब्रह्म नैनँ श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः होवाच याज्ञवल्क्य: पिता मेऽमन्यत नाननुशिष्य हरेतेति ।। ।।

प्र. – यदेव ते…… भारद्वाजः । गोत्रतो भारद्वाजः, नाम्ना गर्दभी विपीत इत्यर्थः । दिशो वै सम्राट्छ्रोत्रम्दिशः श्रोत्रं भूत्वा कर्णा प्राविशन् (ऐ.उ.२-४) इति श्रुतेः दिक्छोत्रयोः ऐक्यमित्यर्थः । शिष्टं स्पष्टम् ।। ५ ।।

 

[“मनो वै ब्रह्मइति जाबालमतम्]

 

यदेव ते कश्चिदब्रवीत् तत्तच्छृणवामव इति अब्रवीन्मे सत्यकामो जाबालो मनो वे ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्तया तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो हि किँ स्यादित्यबृवीत्तु ते तस्यायतनं प्रतिष्ठां मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति वै नो ब्रूहि याज्ञवल्क्य मन एवायतनमाकाशः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत का आनन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच; मनसा वै सम्राड् स्त्रियमभिहार्यते; तस्यां प्रतिरूप: पुत्रो जायते; आनन्दः; मनो वै सम्राट्  परमं ब्रह्म नैनं मनो जहाति; सर्वाण्येनं भूतान्यभिक्षरन्ति, देवो भूत्वा देवानप्येति, एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः होवाच याज्ञवल्क्यपितामेऽमन्यत नाननुशिष्य हरेतेति ।। ।।

प्र. – यदेव…… सत्यकामो जाबाल: जबालायाः अपत्यं जाबालः, नाम्ना सत्यकाम इत्यर्थः । मनसा वै…… आनन्दः स्त्रियमभि – स्त्रियं प्रति मनसा हार्यते – मनसा नीयते । स्त्रीसंयोगो मन आयत्त इति भावः । प्रतिरूपः – ‘तुल्यं रूप इत्यर्थः’ । आनन्दहेतुत्वात् पुत्रस्यानन्दत्वमिति भावः । शिष्टं स्पष्टम् ।। ६ ।।

 

[“हृदयं वै ब्रह्मइति शाकल्यमतम्]

 

यदेव ते कश्चिदब्रवीत्, तच्छृणवामेति अब्रवीन्मे विदग्धः शाकल्यो हृदयं वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छाकल्योऽब्रवीत् हृदयं वै ब्रह्मेति! अहृदयस्य हि किँ स्यादिति अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् मेऽब्रवीदिति एकपाद्वा एतत् सम्राडिति वै नो ब्रूहि याज्ञवल्क्य हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितता याज्ञवल्क्य हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट् सर्वेषां भूतानामायतनं हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा, हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति; हृदयं वै सम्राट् परमं ब्रह्म नैनँ हृदयं जहाति सर्वाण्येनं भूतान्यभिरक्षन्ति देवो भूत्वा देवानप्येति, एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः होवाच याज्ञवल्क्यःपिता मेऽमन्यत नाननुशिष्य हरेतेति ।। ।।

 

।। इति षष्ठाध्याये प्रथमं ब्राह्मणम् ।।

प्र. – यदेव तेशाकल्यः । शकलस्यापत्यं शाकल्यः नाम्ना विदग्धः। हृदयं – बुद्धिः । आयतनम् – आधारः । प्रतिष्ठा – स्थिते हेतुः । अतो हृदये सर्वाणि भूतानि प्रतिष्ठितानि बुद्ध्यधीनस्थितिमन्ति भवन्ति । तस्मात् हृदयं वै सम्राट् परमं ब्रह्म । शिष्टं स्पष्टम् ।। ७ ।।

।। इति षष्ठाध्याये प्रथमब्राह्मण प्रकाशिका ।।

 

द्वितीयं ब्राह्मणम्इन्धब्राह्मणम् अथवा कूर्चब्राह्मणम्

 

[उपासकस्य परमागति: का इति विचारः]

 

जनको वैदेहः कूर्चादुपावसर्पन्नुवाच; नमस्तेऽस्तु याज्ञवल्क्य, अनु मा शाधीति होवाचयथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीतएवमेवैताभिरुपनिषद्भि: समाहितात्मासि एवं वृन्दारक आढ्यस्सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवन् वेद यत्र गमिष्यामीति अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ब्रवीतु भगवानिति ।। ।।

प्र. – जनको वैदेहः कूर्चादुपावसर्पन्नुवाच । जनकस्तु याज्ञवल्क्यस्य ‘ज्ञानवैशद्यं’ दृष्ट्वा कूर्चात् आसनविशेषादुत्थाय – ल्यब्लोपे पञ्चमी – उपावसर्पन उपसीदन् आचार्यम् उवाचेत्यर्थः । तदेवाह नमस्तेस्तु – शाधीति । हे याज्ञवल्क्य! तुभ्यं नमोऽस्तु । शिष्यं माम् अनुशाधीति । व्यवधानं छान्दसम् । होवाच । अत्र याज्ञवल्क्य आह । किमिति यथा .वै…… असि । हे सम्राट्। यथा महान्तं भौमं सामुद्रं वाऽप्यध्वानम् एष्यन् -गमिष्यन् रथं वा नावं वा समाददीत – सङ्गृह्णीयात् एवं तत्तदाचार्योपदिष्टाभिः एताभिरूप-निषद्भिः अत्यन्तं समाहितात्माऽसि – सम्पन्नपरलोकसाधनोऽसि । एवं…… गमिष्यसीति । एवं – तथा वृन्दारकः – राजत्वेन पूज्यमानः, आढ्यः धनाढ्यश्च सन् अधीतवेदः गुरुभिः । उक्तोपनिषत्कः – उपदिष्टब्रह्मविद्यश्चासीत्येवं सर्वपुरुषार्थसम्पत्तिमांस्त्वम् इतः .अस्माच्छरीरात् विमुच्यमानः – उत्क्रामन् क्व – कस्मिन् मार्गे गमिष्यसीत्यर्थः । एवं ब्रह्मविदः उत्क्रामतो गतौ याज्ञवल्क्येन पृष्टायाम् , इतर आह – नाहं…… गमिष्यामीति । याज्ञवल्क्य आह – अथ वै…… गमिष्यसीति । ‘यस्मिन् वर्त्मनि गमिष्यसि, तद्वक्ष्यामीत्यर्थः । इतर आह ब्रवीतु मे भगवानिति । यद्यनुजिघृक्षास्तीति शेषः । अत्र उपकोसलविद्यावत् गतिप्रश्नो गन्तव्यब्रह्मणोऽप्युपलक्षकः । अत एव तद्वदत्रापि द्वयोरप्युत्तरत्र प्रतिवचनमुपपद्यत इति द्रष्टव्यम् ।। १ ।।

 

[दक्षिणाक्षरस्यपुरुषस्वरूपकथनम् ]

 

इन्धो वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धँ सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया  इव हि देवा. प्रत्यक्षाद्विषः ।।  ।।

प्र. – इन्धो …… परोक्षेणैव । योऽयं दक्षिणाक्षिस्थः पुरुषः स इन्धो नाम इन्ध इति प्रसिद्ध इत्यर्थः । एवं तमेतं पुरुषमिन्धं सन्तं इन्द्र इति परोक्षेण वदन्ति । ‘देवा हि गोपनीयमर्थं पर्यायोक्तेन वदन्ति; न तु स्पष्टतया । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः इव शब्द एवार्थः । यस्माद्धि देवाः प्रत्यक्षेण ग्रहणे द्विषन्ति, पर्यायोक्तग्रहणे प्रीतिमन्तो भवन्ति; अत इन्द्र इति वदन्ति इत्यर्थः । एष एतस्मिन् मण्डले पुरुषो यश्चाऽयं दक्षिणेऽक्षन् इति दक्षिणाक्षिस्थितस्य आदित्यान्तरवस्थितस्य चैक्यश्रवणात्, आदित्यान्तरवस्थितस्य पुण्डरीकाक्षत्वात् अन्तर उपपत्तेः (ब्र.सू.१-२-१३) इति चक्षुषि स्थितत्वेनोपदिष्टस्य परब्रह्मत्वस्थापनात् इन्द्र निचिक्युः परमे व्योमन् (तै.आ.३-११-९) इन्द्रो मायाभिः पुरुरूप ईयते (बृ.उ.४-५-१९) इत्यादिषु परमपुरुषस्य इन्द्रशब्द वाच्यत्वप्रसिद्धेश्च नारायण एवात्र दक्षिणाक्षिस्थः पुरुष इति द्रष्टव्यम् । ज्योतिरधिकरणे व्यासार्यैरस्य नारायणत्वमुपपादितम् ।। २ ।।

[वामाक्षिस्थपुरुषस्वरूपकथनम्]

 

अथैतद्वामेऽक्षिणि पुरुषरूपमेषाऽस्य पत्नी विराट् तयोरेष सँस्तावो य एषोऽन्तर्हृदय आकाशः अथैनयोरेतदन्नम् एषोऽन्तर्हृदये लोहितपिण्डः । अथैनयोरेतत् प्रावरणम्, यदेतदन्तर्हृदये जालकमिव अथैनयोरेषा सृतिस्सञ्चरणीयैषा हृदयादूर्ध्वा नाड्युच्चरति यथा केशः सहस्रधा भिन्नः, एवमस्यै हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्ति एताभिर्वा एतदास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छरीरादात्मनः ।। ।।

प्र. – अथैतद्वामेऽक्षिणि……. विराट् पुरुषरूपं – मनुष्याकार इत्यर्थः । अस्य – इन्द्रस्य पत्नी विराट् – वामाक्षिस्था मनुष्याकारा तत्पनी साक्षाल्लक्ष्मीरेव । तैत्तिरीयके विराडसि बृहतीश्रीरसीन्द्रपत्नी (तै.ब्रा.३-११-२०) इति इन्द्रपत्न्याः श्रीशब्दवाच्यत्वावगमात् । अस्याः साक्षाल्लक्ष्मीत्वञ्च व्यासार्यै: तत्रैवोक्तम् । तयोरेष…… आकाशः । तयोः दम्पत्यो एषः – वक्ष्यमाणः संस्तावः – एकान्तसम्भोगभूमिः, अधिकरणे घञ् – य एष हृदयकमलमध्ये आकाश इत्यर्थः । एतच्च ज्योतिरधिकरणे एव व्यासार्युैरुक्तम् । अथैनयोरेतदन्नम् । एनयोर्दम्पत्योः अन्नं– भोग्यं प्रासादस्थानीयमेतदेव । किं तत्? एषोऽन्तर्हृदये लोहतिपिण्डः । य एषः – दृश्यमानः अन्तर्हृदये कमलकर्णिकाकारः मांसपिण्डः । अथैनयोः…… जालकमिव । एनयोः दम्पत्योरेतदेव प्रावरणम् – वस्रम् । किन्तत्? यदेतदन्तर्हृदये जालकमिव । यत् हृदये लूताजालबत् वक्ष्यमाणहितानामकनाडीनिचयसम्पन्नं जालकम्; तदेव पट्टवस्रम् अनयोरित्यर्थः । अथैनयोरेषा…… नाड्युच्यरति । एतस्मात् हृदयात् ऊर्ध्ववर्तिनी या ‘नाडी’ उच्चरति, सैषा सुषुम्नाख्या । एवमुपासकस्य ब्रह्मविदो ब्रह्मलोकसौधगतपरमदम्पतिप्राप्तिहेतुभूता सञ्चरणी सृतिः निरवग्रहमार्ग इत्यर्थ । यथा केशः…… आस्रवति अन्तर्हृदये – हृदयान्तःप्रतिष्ठिता भवन्ति याः केशसहस्रांशातिसूक्ष्माः हितनामकाः नाड्यः, ताभिः एतत् – जीवजातम्, आस्त्रवत् – आसमन्तात् स्रवत् -संसरद्भूतजाम् आस्त्रवति – संसरति इत्यर्थः । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति (क.उ.६-१६) इति हि श्रुत्यन्तरम् । तस्मादेष प्रविविक्ताहारतर इहैव भवत्यस्माच्छरीरादात्मनः । यस्माद्धेतोः दक्षिणाक्षिस्थः पुरुषो दिव्यमङ्गलविग्रह-गुणादिभिर्दीप्यमानतया इन्धो भवति; तस्मादेवास्माच्छरीरात् शरीरे स्थितात् सुषुम्नया गच्छतोऽस्माज्जीवात्मनः दक्षिणाक्षिस्थः एष पुरुषः प्रविविक्ताहारतर इवैव भवति । अतिप्रकृष्टामृतवद्भवतीति यावत् । स्वशरीरभूतात् अण्वानन्दरूपाज्जीवात् निरतिशयानन्द-रूपोऽयं पुरुषो अतिभोग्यो भवतीत्यर्थः । अत्र एषा सृति: सञ्चरणी इत्युक्त्या गमनमार्ग उक्तो भवति ।। ३ ।।

 

[परमात्मनः जीववैलक्षण्यवेदनम्]

 

तस्य प्राची दिक् प्राञ्चः प्राणाः, दक्षिणा दिग् दक्षिणे प्राणाः, प्रतीची दिक् प्रत्यञ्चः प्राणाः, उदीची दिगुदञ्चःप्राणाः‘, सर्वा दिशः सर्वे प्राणाः स एष नेति नेत्यात्मा अगृह्यो हि गृह्यते, अशीर्यो हि शीर्यते; असङ्गो हि सज्यते, असितो व्यथते रिष्यति अभयं वै जनक! प्राप्तोऽसीति होवाच याज्ञवल्क्यः होवाच जनको वैदेहोऽभयं त्वागच्छताद्याज्ञवल्क्य, यो नो भगवन् अभयं वेदयसे नमस्तेऽस्तु; इमे विदेहा अयमहमस्मीति ।। ।।

 

।। इति षष्ठाध्याये द्वितीयब्राह्मणम् ।।

प्र. – अथ पुनरपि दक्षिणाक्षिस्थस्य प्रकृतस्य पुरुषोत्तमस्य प्रकारान्तरेणापि शरीरगत जीव वैलक्षण्यमेव’ द्रढयति – तस्य प्राची…… प्राणाः तस्य – शरीरस्थजीवस्य प्राञ्च: – पूर्वाभिमुखा प्राणा एव प्राची दिक् – प्राचीदिग्गतविषयसाधनानि इत्यर्थः । एवमग्रेऽपि ‘ततश्च जीवः सर्वासु दिक्षु ‘प्राणेन्द्रियप्रचुरः’ “प्राणेन्द्रियोषकरणक: इति यावत् । एवं जीवस्वरूपमुक्त्वा इन्धस्य पुरुषस्य तद्वैलक्षण्यमाह – एष…… रिष्यति ।  एषःदक्षिणाक्षिस्थपुरुषः इन्द्रियपुरुषः इन्द्रियाद्यग्राह्यत्वात् विशरणशून्यत्वात् निर्लेपत्वात् शोकमृत्युरहितत्वाच्च, नेति नेतीति श्रुतिषु प्रकृतैतावत्त्वप्रतिषेधपूर्वकमितर-विलक्षणत्वेन निर्दिष्ट आत्मा इत्यर्थः । अभयं…… याज्ञवल्क्यः एतादृशमिमं पुरुषमुपास्व’; अभयं – परमात्मानं प्राप्त एवासि । बैशब्द एवार्थे । प्राप्तप्राय एवासि; उपासनोपकरण-सम्पत्तिमत्वात् । यद्वा, प्राप्नोसि इति, आशंसायां भूतवच्च (पा.सू.३-३-१३२) इति कर्तरि क्त प्रत्ययः; इति याज्ञवल्क्यो जनकमुवाचेत्यर्थः । होवाच जनको वैदेहः । किमिति । अभयं त्वागच्छताद्याज्ञवल्क्य । हे याज्ञवल्क्य! त्वदुक्तमभयं तु ममागच्छतात् । आशिषि तातङ् । ब्रह्मप्राप्तिर्मे भूयादित्यर्थः । ‘किन्तु भगवन् ! यस्त्वं न; – अस्माकम् अभयं वेदयसेअभयं परमात्मानं लम्भयसे, ईदृशाय परमात्मप्रापकाय तुभ्यं परमोपकारिणे नमोऽस्तु । इमे विदेहा: । “तुभ्यं दक्षिणात्येनसमर्पिता इति शेषः । अयमहम् – तद्देशाधिपतिरहमपि ते दासोऽस्मीत्यर्थः । इति शब्द: आख्यायिकासमाप्तौ ।। ४ ।।

।। इति षष्ठाध्याये द्वितीयब्राह्मण प्रकाशिका ।।

 

तृतीयं ब्राह्मणम्ज्योतिर्ब्राह्मणम्

[जनकयाज्ञवल्क्यसंवादः]

 

जनकँ वैदेहं याज्ञवल्क्यो जगाम मेने वदिष्य इति अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्च अग्निहोत्रे समूदाते, तस्मै याज्ञवल्क्यो वरं ददौ स  कामप्रश्नमेव वव्रे तँ हास्मै ददौ तँ सम्राडेव पूर्वं पप्रच्छ ।। ।।

प्र. – जनकं वैदेहं याज्ञवल्क्यो जगामयोगक्षेमार्थमीश्वरमभिगच्छेत् इति स्मृत्यनुसारेण कदाचित् जनकसमीपं याज्ञवल्क्यो गतः । मेने वदिष्य इति । सः – याज्ञवल्क्यो मार्गे, गच्छन्, एवं मेने – चिन्तितवान् । किमिति किञ्चिदप्यध्यात्मविषये न वक्ष्यामीति । एवं कृतसङ्कल्पोपि याज्ञवल्क्यो जनकेन पृष्टं ‘सर्वमपि प्रवक्तुमुपचक्रमें’ इत्याख्यायिकामाचष्टे – अथ……..समूदाते अथ – तदानीं जनकश्च वैदेहो याज्ञवल्क्यश्च अग्निहोत्रे समूदाते – अग्निहोत्रविषये संवादं कृतवन्तौ इत्यर्थः । तस्मै याज्ञवल्क्यो वरं ददौ तस्य जनकस्य कर्मविषयकं विज्ञानवैशिष्ट्यमुपलभ्य परितुष्टो याज्ञवल्क्यः तस्मै वरं ददौ – इष्टं वृणीष्व इत्यवोचदित्यर्थः । कामप्रश्नमेव वव्रे। सः जनकः अपेक्षितांशान् प्रक्ष्यामि तस्योत्तरं दातव्यमिति वरं वृतवान् । तं हास्मै ददौ । तञ्च वरं याज्ञवल्क्यः तस्मै ददौ इत्यर्थः । तं सम्राडेव पूर्वं पप्रच्छ । तेन वरप्रदानसामर्थ्येन, अनाचिख्यासुमपि याज्ञवल्क्यं तूष्णीं स्थितमपि सम्राडेव पूर्वं – प्रथमं पप्रच्छ इत्यर्थः ।। १ ।।

[“किं ज्योतिः अयं पुरुषइति जनकप्रश्नः]

 

याज्ञवल्क्य किंज्योतिरयं पुरुष इति आदित्यज्योतिः सम्राडिति होवाच आदित्येनैव ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतत् याज्ञवल्क्य ।। ।।

प्र. – प्रश्नमेवाह – याज्ञवल्क्य किंज्योतिरयं पुरुष इति । किं ज्योतिरिति बहुव्रीहिः । अस्य पुरुषस्य आसनगमनकर्म निवृत्त्यादिसाधनभूतं ज्योतिः किमिति प्रश्नार्थः । उत्तरमाह – आदित्यज्योति: सम्राडिति होवाच । याज्ञवल्क्य इति शेषः । हे सम्राट् अयं पुरुष: आदित्यज्योतिरिति होवाच याज्ञवल्क्य: आदित्यो ज्योतिर्यस्य स तथोक्तः । तदुपपादयति आदित्येनैव विपल्येते इति । आदित्येनैवायं ज्योतिषा आस्तेउपविशति; पल्ययतेउपसर्गस्यायतौ (पा.सू.८-२-१९) इति लत्वम् – पर्ययते इतस्ततो गमनं करोति; लौकिकं वैदिकं वा कर्म कुरुते; यथायथं विपल्येति – विपर्येति प्रतिनिवृत्त्य आगच्छतीति यावत् । उक्तमङ्गीकरोति जनक: एवमेवैतद्याज्ञवल्क्य इति ।। २ ।।

[याज्ञवल्क्येन आदित्यादिज्योतिष्ट्वोपपादनम्]

 

अस्तमित आदित्ये याज्ञवल्क्य किंज्योतिरेवायं पुरुष इति चन्द्रमा एवास्य ज्योतिर्भवतीति, चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । एवमेवैतद्याज्ञवल्क्य ।। ।।

प्र. – अन्यत् पृच्छति जनकः अस्तमिते…… इति । आदित्येऽस्तमिते अयं पुरुष: ‘किंज्योतिर्भवति’ । सर्वं पूर्ववत् ।। ३ ।।

 

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इति अग्निरेवास्य ज्योतिर्भवतीति अग्निनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येति इत्येवमेवैतद्याज्ञवल्क्य ।। ।।

प्र.– अन्यत् पृच्छति जनकः अस्तमिते…… पुरुष इति । स्पष्टम् । उत्तरमाह याज्ञवल्क्यः अग्निरेवास्य ज्योतिर्भवति – पूर्ववत् ।। ४ ।।

 

अस्तमितआदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति वागेवास्य ज्योतिर्भवतीति वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीति एवमेवैतद्याज्ञवल्क्य ।। ।।

प्र. – अन्यत् पृच्छति जनकः अस्तमिते…… पुरुष इति शान्तेऽग्नौ – अग्नौ च निर्वाणं गते इत्यर्थः । शिष्टं स्पष्टम् । उत्तरम् । वागेवास्य ज्योतिर्भवति । अत्र वागित्यनेन शब्द उच्यते । वाचो ज्योतिष्ट्वमुपपादयति तस्माद्वै…… न्येतीति । यस्मादादित्यचन्द्राग्निष्वसत्स्वपि वागेव ज्योतिः, तस्मादेव यत्र – यस्मिन् मेघान्धकारान्तरितायां तमिस्रायामात्मीयोपि पाणिर्न विनिर्जायते – न निश्चीयते अथापि तस्मिन् काले हे सम्राट् ! यत्र देवदत्तस्य वा यज्ञदत्तस्य वा, अहमत्र तिष्ठामि इति वागुच्चरति शब्दो निर्गच्छति – तत्र तदा; अत्रासौ वर्तते इति ज्ञात्वा उपन्येत्येव उप – समीपे नि – नितराम् एति – गच्छतीत्यर्थः । ततश्च शब्दद्वारा श्रोत्रं प्रकाशकं भवतीत्यर्थः । अङ्गीकरोति एवमेवैतद् याज्ञवल्क्य ।। ५ ।।

 

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इति आत्मैवास्य ज्योतिर्भवतीति, आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ।। ।।

प्र.– पृच्छति – अस्तमिते…… पुरुष इति । स्वप्ने किमस्य प्रकाशमिति प्रश्नार्थः । याज्ञवल्क्य उत्तरमाह आत्मैवास्यज्योतिर्भवति । स्वप्ने बाह्येन्द्रियाणाम् उपरततत्वात् प्रसिद्धादित्यादिप्रकाशकाभावाच्च आत्मैव स्वधर्मभूतज्ञानेन स्थितिगमनादि-हेतुभूतः प्रकाशको भवतीत्यर्थः । शिष्टं स्पष्टम् ।। ६ ।।

[आत्मा विज्ञानमयः]

 

कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः स समानस्सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ।। ।।

प्र. –आत्मैवास्य ज्योतिरित्यत्र आत्मज्योतिश्शब्दाभ्यां निर्दिश्यमानपुरुषस्वरूपं किमिति ‘पृच्छति जनक: कतम आत्मेति । हृत्कमलमध्यगतः प्राणशब्दितेन्द्रिय ‘मुख्यप्राणमध्यगः’ विज्ञानधर्मको ज्योतिश्शब्दित ‘प्रकाशस्वरूप:’ पुरुषो जीव इत्युत्तरमाह-योऽयं…… पुरुषः । अत्र विज्ञानमय इति प्राचुर्यार्थमयटा आत्मनो धर्मभूतज्ञान-व्यतिरेक उक्तः । प्राणेष्विति । पृथङनिर्देशात् इन्द्रियमुख्यप्राणव्यतिरेकोऽपि सिद्धः । अत्र ज्योतिश्शब्दितात्मनो ज्ञानस्वरूपस्य विज्ञानमयत्वोक्तया धर्मभूतज्ञानद्वारा भासकत्वम् आदित्यादीनामिव तेजोरूपाणां प्रभाद्वारा, ज्योतिष्ट्वमिति भावः । समानः……लेलायतीव सः – जीवः, परायत्तकर्तृत्वोऽपि, अहङ्कारविमूढात्मा कर्ताहमिति मन्यते । (भ.गी.३-२७) इत्युक्तरीत्या समानस्सन् – मानः- अभिमानः तेन सहितस्सन्; स्वातन्त्र्यलक्षणकर्तृत्वाभिमानयुक्तस्सन् गोपुरधारीव ध्यायतीव लेलायतीव स्वतन्त्रः कर्तेव उभौ लोकावनुसञ्चरति – लोकद्वयेपि सञ्चरतीत्यर्थः । लेलायतीव – स्वयं चलतीव ।

ध्यायतीव लेलायतीव इत्याभ्यां जीवस्य कर्तृत्वं परमात्मायत्तमिति, सांसारिककर्तृत्वम् औपाधिकमिति च दर्शितम् । अत्र परतन्त्रप्रभौ प्रभुरिवेत्युक्तिवत् परायत्तकर्तृत्वाश्रये ध्यायतीवेति इव शब्दप्रयोगे “नानुपपत्तिरिति द्रष्टव्यम् । ततश्च लोकद्वये देहद्वयेन सञ्चचरकथनात् देहद्वयव्यतिरेकोऽप्युक्तो भवति ।।

न चान्न ध्यायतीव लेलायतीव इति इव शब्दप्रयोगात् कर्तृत्वमात्मनो नास्तीत्ये-वाभ्युपगन्तव्यमिति वाच्यम् – कर्ता शास्त्रार्थवत्त्वात् (ब्र.सू.२-३-३३) इत्यधिकरणे साङ्ख्याभिमतमकर्तृत्वमात्मनः पूर्वपक्षीकृत्य कर्तृत्वस्य ‘परैरपि सिद्धान्तित्वात् । वस्तुस्थितौ चिन्त्यमानायामचेतनत्वात् कूटस्थत्वाच्च नान्त:करणस्य वा, चितो वा कर्तृत्वं इत्यभ्युपगमस्य, परस्पराविवेकेन परस्परधर्माध्यास इत्यभ्युपगमस्य च परेषां साङ्ख्यानाञ्च साम्येन साङ्ख्यापक्षात् परपक्षे वैषम्याभावेन, कर्ता शास्त्रार्थवत्त्वात् इत्यधिकरणविरोधस्य परपक्षे “दुर्निरसत्वात् । न च, यथा तक्षोभयथा (ब्र.सू.२-३-३९) इत्यत्र, तत्त्वमसि इत्यादिभिः बहुकृत्व: कर्तृत्वाद्यनर्थानाश्रयब्रह्माभेदबोधनात् कर्तृत्वमपरमार्थ इति परैरुक्तमिति वाच्यम् – यो वै बालाके एतेषां पुरुषाणां कर्ता, इत्यादि वाक्यैर्ब्रह्मणः सर्वकर्तृत्वा-वेदनेन ब्रह्मभेदबोधने सर्वकर्तृत्वापातेन अकर्तृत्वाप्रसक्तेः । दृश्यते त्वग्न्यया बुद्ध्या (क.उ.३-१२)) मनसा तु विशुद्धेन (व्या.स्मृ.) ध्यायन्तो मनसैव यम् इति करणत्वेन प्रतिपन्नस्य मनसः कर्तृत्वम्। यो वेदेदं जिघ्राणीति आत्मा (छां.उ.८-१२-४) एष हि द्रष्टा श्रोता मन्ता कर्ता बोद्धा विज्ञानात्मा पुरुषः (प्र.उ.४-९) इति कर्तृत्वेन प्रतिपन्नस्या-कर्तृत्वमित्युक्तेरयुक्तत्वात् । विज्ञानशब्दिताया; बुद्धेः कर्तृत्वे करणान्तराभ्युपगमप्रसङ्गात् प्रकृतिविवेक विलक्षण’समाधौ प्रकृतेः कर्तृत्वासम्भवेन आत्मन एव कर्तृत्वमास्थेयमिति, शक्तिविपर्ययात् (ब्र.सू.२-३-३७) समाध्यभावाच्च (ब्र.सू.२-३-३८) इति सूत्रयो: स्वयमेवोक्तत्वाच्च । कर्तृत्वादिबन्धस्यात्मगतत्वाभावे बन्धमोक्षयोः वैयधिकरण्यप्रसङ्गात् । न च कर्तृवाद्यनर्थाश्रयान्तः करणतादात्म्याध्यासाधिष्ठानभावलक्षणो वा, अविद्यारतमयो मोक्षः सा संसारः उदाहृत: इत्युक्तरीत्या तदाध्यासहेत्वविद्यालक्षणबन्धो वा आत्मगतः सम्भवतीति वाच्यम् । तदधीनत्वात् तदर्थवत् (ब्र.सू.१-४-३) इति सूत्रे, अविद्यात्मिका हि सा बीजशक्तिः अव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिः; यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः । तदेवाव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम्। एतस्मिन्नु खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्च इति । क्वचिदक्षरशब्दोदितम् अक्षरात् परतः परः (मुं.उ.२-१-२) क्वचिन्मायेति निर्दिष्टम्, मायां तु प्रकृतिं विद्यात् (श्वे.उ.४-१०) इति मन्त्रवर्णात् इति शाङ्करभाष्ये ‘परमेश्वराश्चिताया’ एव अविद्यायाः प्रतिपादनेन तन्मते जीवचैतन्ये समारासंभवात् ।

वाचस्पतिना परमेश्वराश्रयेत्यत्र, “परमेश्वरं विषयत्वेन आश्रयतीति परमेश्वराश्रया परमेश्वरविषया इत्यर्थः विद्यास्वरूपस्य परमात्मनोअविद्याश्रयत्वासम्भवात् यस्यां स्वरूपप्रतिबोधरहिताः शेरत इत्यत्रापि, यस्यामविद्यायां सत्यां शेरते जीवा इत्येवार्थः । अतश्च जीवाश्रया एवाविद्याः अविद्योपाधिभेदाधीनो जीवभेदः, जीवभेदाधीनोऽविद्योपाधिभेद इति परस्पराश्रयात् उभयासिद्धिरिति वाच्यम्बीजाङ्कुरन्यायेन अनादित्वात् उभयसिद्धेःइति अविद्यानां जीवाश्रितत्वमेव समर्थितमिति वाच्यम् – “ तस्याः जीवाश्रयत्वम् ; जीवशब्दवाच्यम्य कल्पितत्वात् आविधिकत्वात् जीवशब्दवाच्यस्य । जीवशब्दलक्ष्यस्य तु ब्रह्माव्यतिरेकेण ब्रह्माश्रयत्वपक्षस्यैव आश्रितत्वापातात्” इत्यानन्दगिरिप्रभृतिभिः तस्य पक्षस्य दूषिततया, आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ।। इत्युक्तरीत्या चिन्मात्रस्यैव अविद्याश्रयत्वेन जीवस्य बन्धाश्रयत्वासम्भवात् ।। न च बन्धो मोक्षश्च न जीवाश्रितः; अपि तु चिन्मात्राश्रित एव । अतः सम्भवत्येव बन्धमोक्षयोः सामानाधिकरण्यमिति वाच्यम् – अस्मिन् पक्षे ‘मुमुक्षा नाम चिन्मात्राश्रितान्त:-करणतादात्म्याध्यासाधिष्ठानभावापादक ‘अविद्यानिवृत्तिकामनैव वाच्या’ । तत्र च अविद्यैक्यपक्षे एकमुक्तौ सर्वमुक्तिप्रसङ्गः । न च कस्यापि मुक्तिर्नास्तीति शक्यं वक्तुम् –शुकस्तु मारुताच्छीघ्रां गतिं कृत्वाऽन्तरिक्षगाम् । दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत् ।। तद्धैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे; तद्यो यो देवानां प्रत्यबुध्यत एव तदभवत् (बृ.उ.१-४-१०) इत्यादिप्रमाणविरोधप्रसङ्गात् । अतो अविद्यानानात्वेऽभ्युपगन्तव्ये, तत्र च चिन्मात्राश्रितसर्वाविद्यानामेकविद्यानिवर्त्यत्वे एकमुक्तौ सर्वमुक्तिप्रसङ्गदोषतादवस्थ्यात् । एकाविद्यानिवृत्तिमात्राभ्युपगमे च ‘अविद्यान्तराश्रयत्वस्य’ चिन्मात्रे पूर्वमिव स्थितत्वेन अन्तःकरण-तादात्म्याध्यासाधिष्ठानभावलक्षणसंसारानिवृत्तेः तदवस्थत्वात् । अत: सोऽप्यनुपपन्नः । नन्वहमिति भासमाने अविद्यान्तःकरणोपाधिभेदभिन्ने चिदंशे अविद्यानिवृत्तिरुद्देश्या इति चेत्, न; अविद्यायाः अन्तःकरणस्य वा न दर्पणादिवत् प्रतिबिम्बनोपाधित्वं सम्भवति । दर्पणाद्युपाधिप्रतिहतनायनरश्मिगृह्यमाणस्य बिम्बस्यैव प्रतिबिम्बतया चक्षुषा अगृह्यमाणस्य चिदंशस्य प्रतिबिम्बत्वासम्भवेन घटादिवदवच्छेदकतयोपाधित्वे वक्तव्ये, अन्तःकरणस्य सञ्चरत उपाधित्वे अवच्छेद्यचैतन्यप्रदेशस्य भिन्नभिन्नतया कृतहान अकृताभ्यागमप्रसङ्गेन व्यापिन्या एवाविद्याया अवच्छेदकतया उपाधित्वे वक्तव्ये सर्वस्यापि अविद्यान्तर्गतचित्प्रदेशस्य सर्वाविद्यावृतत्वेन एकस्य ब्रह्मविद्यया एकाविद्याया नाशेऽपि अविद्यान्तरायत्तसंसारतादवस्थ्यात् ! अविद्यावच्छिन्नविकारप्रदेशे अनवच्छिन्नस्य ब्रह्मणोऽव-स्थानासम्भवेन ब्रह्मणो विकारान्तरवस्थानप्रतिपादकान्तर्यामिब्राह्मणानाञ्जस्यप्रसङ्गात् । अन्तर्यामिब्राह्मणस्य जीवविषयत्वाभावस्य अन्तर्याम्यधिकरणसिद्धत्वात् । न हि ‘घटानवच्छिन्नाकाशस्य घटान्तरावस्थितिः सम्भवति । अत्र ब्रह्म समश्नुते (क.उ.६-१४) इति तन्मते अत्रैव ब्रह्माभाववेदकश्रुतिव्याकोपश्च स्यात् । अविद्यावच्छिन्नदेशे अनवच्छिन्नब्रह्मभावासम्भवात् विकारान्तरवस्थितस्य च गीताचार्यस्य भगवतः कृष्णस्य जीवत्वमेव स्यात् । ततच चिदाश्रितसर्वाविद्यानिवृत्तिकामनारूपमुमुक्षाया असम्भवात्, एकाविद्या-निवृत्तिमात्रेण संसारस्यानपायात्, मुमुक्षा ब्रह्मविचारादिकं वा एतादृशविवेकशालिनां न स्यात् । अत एव, प्रतिबिम्ब: नाप्यवच्छेदो जीवः, अपितु कौन्तेयस्यैव राधेयत्ववत् ब्रह्मण एव अविकृतस्याविद्यया जीवभावः इति पक्षोऽपि ‘व्युदस्तः’, तथा सति नित्यमुक्त-श्रुतेनिर्विषयत्वप्रसङ्गात् । पारमार्थिकशोकाभावाभिप्राया नित्यमुक्तत्वश्रुतिरिति चेत् मोक्षे शोकाभावश्रुतेरपि पारमार्थिकशोकाभावविषयत्वप्रसङ्गात् । ‘तद्यो यो देवानां प्रत्यबुध्यत, स एव तदभवत्’ इत्यादीनां शुकादिमुक्तत्वप्रतिपादकानां ब्रह्मणो जगत्कर्तृत्वसर्वज्ञत्व-निरवद्यत्वावेदकानाञ्च अप्रामाण्यप्रसङ्गात् ।

विवादगोचरतापन्नप्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्य स्वदेशगतवस्त्वन्तरपूर्वकम् इत्यज्ञानस्य ज्ञानसमानाधिकरणत्वस्य विवरणे प्रतिपादितत्वात् , जडस्य अज्ञानाश्रयत्वे च भ्रान्तिसम्यग्ज्ञानयोरपि तदाश्रयत्वप्रसङ्गः इति ‘विवरणकृतोक्तत्वाच्च ज्ञात्रााश्रितत्वे ‘अज्ञानस्य’ तदधीनं कर्तृत्वादिकमपि ‘तस्यैव’ ।।

ततश्च अज्ञानस्य ज्ञानाश्रयशुद्धजीवाश्रितत्वात् कर्तृत्वादिकमप्यज्ञाश्रयशुद्धजीवाश्रितमेव इति सिद्धम् । ततश्च ध्यायतीव इति इवशब्दप्रयोगः परतन्त्रप्रभौ प्रभुरिवेत्युक्तिवत् । अतः “परतन्त्रकर्तृत्वाश्रयत्वाज्जीवस्य इव शब्दप्रयोगः उपपद्यत इत्येवास्थेयम् । प्रकृतमनुसरामः । शरीरव्यतिरेकमेव स्पष्टयति – हि…… रूपाणि हि जीवः स्वप्नो भूत्वा – स्वप्नावस्थो भूत्वा – स्वप्ने व्याघ्रादिशरीरको भूत्वा इत्यर्थः । इमं लोकं– परिदृश्यमानं जाग्रत्प्रपञ्चं मृत्योः – संसारस्य रूपाणि – दुःखरूपाणीति यावत् तादृशानि मानुषादीनि शरीराणि अतिक्रामति न पश्यतीति यावत् । ततश्च ‘स्वप्ने जाग्दृशावर्तिदेहानुपलम्भात् देहान्तरपरिग्रहदर्शनाच्च जीवस्य देहव्यतिरेकः प्रदर्शितो भवतीति द्रष्टव्यम् ।। ७ ।।

 

वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः सँसृज्यते ।  उत्क्रामन् म्रियमाणः पाप्मनो विजहाति ।। ।।

प्र. – एवं देहेन्द्रियमनःप्राणधीव्यतिरिक्तस्य आत्मनः पाप्मसम्बन्धोऽपि औपाधिक एव इत्याह – वा…… सँसृज्यते एवायं पुरुषः – जीवः जायमान इत्युक्ते; आत्मनो नित्यस्य जायमानत्वाभावादाह – शरीरमभिसम्पद्यमान इति । शरीरमभिसङ्गच्छमान इत्यर्थः । शरीरसम्बन्ध एव जननमिति भावः । शरीरमभिसम्पद्यमान एव सन् पाप्मभिः संसृज्यत इति, शरीरसम्बन्धोपाधिकः पापसम्बन्ध इत्युक्तं भवति । तदेव व्यतिरेकमुखेन द्रढयति …… विजहाति । ‘नित्यस्य म्रियमाणत्वाभावादाह उत्क्रमन्निति । अत्रोत्क्रमणञ्च चरमोत्क्रमणं विवक्षितम् पाप्मनो विजहाति इति सर्वपापविधूननश्रवणादिति द्रष्टव्यम् ।। ८ ।।

 

[जीवस्य लोकद्वयकथनम्]

 

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदञ्च परलोकस्थानञ्च सन्ध्यं तृतीयँ स्वप्नस्थानम् तस्मिन् सन्ध्ये स्थाने तिष्ठन्नेतेउभे स्थानेपश्यति इदञ्च परलोकस्थानञ्च अथ यथा क्रमोऽयं परलोकस्थाने भवति, तमाक्रममाक्रम्योभयान् पाप्मन आनन्दाँश्च पश्यति यत्र प्रस्वपिति अस्य लोकस्य सर्वावतो मात्रामुपादाय स्वयं निहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति अत्रायं पुरुषः स्वयंज्योतिः भवति ।। ।।

प्र. – ननु ‘स्वप्नो भूत्वेमं लोकमतिक्रामति’ इति स्वप्ने शरीरव्यतिरेकप्रदर्शनमयुक्तम्; एतल्लोकपरलोकयोरेव शरीरपरिग्रहस्थानत्वात्; स्वप्नस्यातथात्वात् इत्याशङ्क्याह – तस्य वा…… परलोकस्थानञ्च इति । तस्यैतस्य पुरुषस्य – जीवस्य शरीरपरिग्रहे अयञ्च परश्च लोक इति स्थानद्वयमेव लोके प्रसिद्धमित्यर्थः । सन्ध्यं तृतीयं स्वप्नस्थानम् । सन्धौ भवं सन्ध्यम् । स्वप्नरूपस्थानं तु ‘पूर्वोक्तस्थानद्वयानुभवयोग्यत्वात् सन्ध्यं तृतीयस्थानमेव भवतीत्यर्थः । मृतः परलोकं पश्यति; जाग्रत् पुरुषस्तु इममेव लोकं पश्यति; स्वप्नावस्थस्तु कदाचिदिमं लोकं पश्यति। कदाचित् परलोकं स्वर्ग’नरकादिकं पश्यति । अतः स्थानद्वयदर्शनयोग्या विलक्षणेयं स्वप्नावस्था इत्यर्थः । अमुमेवार्थं प्रपञ्चयति – तस्मिन् सन्ध्ये…… परलोकस्थानञ्च । स्पष्टोऽर्थः । ननु एतद्देहपरित्यागानन्तरभाविनः परलोकस्थानदर्शनस्य कथं स्वप्नावस्थपुरुषदृश्यत्वं सम्भवति; [अतः स्वप्ने दृश्यं परलोक-स्थानमन्यदेव] इत्यत्राह – अथ…… पश्यति । आक्रामति अनेन इत्याक्रमः आश्रयः पुण्यपापरूपः । यादृक्पुण्यपापरूपाक्रमविशिष्टस्सन् परलोके सुखदुःखे अनुभवति; तमेव तादृशमेव पुण्यपापलक्षणमाक्रममाक्रम्य अथ – तदा स्वप्ने प्रतिकूलान् अनुकूलांश्च उभयविधान् पदार्थान् पश्यति । ततश्च स्वप्ने परिदृश्यमानमेतदेहातिरिक्तदेहभोग्यं ‘पुण्यपापवर्जितं’ परलोकस्थानमेव इत्यर्थः ।

ननु स्वप्ने परलोकवत् पुण्यपापादिवशेन पदार्थसृष्टौ स्वयंञ्ज्योतिष्ट्वं कुतोऽभ्युप-गन्तव्यम् । इन्द्रियाणां प्रकाशकानां सत्त्वादित्याशङ्क्याह – यत्र…… प्रस्वपिति । – जीवः यत्र – यदा प्रस्वपिति – स्वप्नान् अनुभवति, तदा सर्वावतः – सर्वतो भोग्यभोगोपकपकरणादिसर्वयुक्तस्य अस्य – जगतः जाग्रत्प्रपञ्चस्य मात्रां – मीयतेऽनेनेति मात्रा प्रकाशको जाग्रदवस्थेन्द्रियवर्गः तमुपादाय, स्वयमेव तमिन्द्रियवर्ग निहत्यनिश्चेष्टतामापाद्य निर्व्यापारं कारयित्वा इति यावत् । अथ स्वाप्निकदेहेन्द्रियादि वस्तुजातं स्वयं निर्माय – सृष्ट्वा – अत्रोक्तं जीवस्य स्वाप्नपदार्थनिर्मातृत्वमदृष्टद्वारा इति द्रष्टव्यम् । अग्रे हि कर्ता इति वाक्येन तेषामीश्वरसृष्टत्वस्य वक्ष्यमाणत्वात् । परैरपि अदृष्टद्वारा इत्युक्तत्वाञ्च । स्वेन भासा इत्यस्यैव विवरणं स्वेन ज्योतिषा इति । प्रस्वपिति स्वप्नमनुभवति इत्यर्थः । अत्र – अस्यां दशायां पुरुषः – जीवः स्वयंज्योतिर्भवति । प्रकाशकान्तराभावात् इत्यर्थः । यद्यपि स्वप्नपदार्थभानं स्वाप्निकेन्द्रियद्वारप्रसृमरेण धर्मभूतज्ञानेनैव, नात्मज्योतिषा । तथापि आदित्यादि प्रकाशकान्तरस्थानाभिषिक्त: आत्मैवेति भावः । यद्यपि स्वप्नेऽपि आदित्यादिज्योतिस्सृष्टयभ्युपगमे प्रकाशकान्तरव्यतिरेको न वक्तुं शक्यः तथापि लोकप्रसिद्धादित्यादिज्योतिरन्तराभावात् जाग्रदादिवैषम्यमस्तीति अत्रोक्तं स्वयंज्योतिष्ट्वं प्रसिद्धज्योतिरनपेक्षप्रकाशकत्वमेवेति द्रष्टव्यम् ।। ९ ।।

 

[स्वप्नसृष्टिः]

 

तन्त्र रथा रथयोगा पन्थानो भवन्ति; अथ रथान् रथयोगान् पथः सृजते तत्रानन्दा मुदः प्रमुदो भवन्तिः अथानन्दान् मुदः प्रमुदः सृजते न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्तिःअथ वेशान्तान् (न्ताः) पुष्करिण्यः स्रवन्त्यः सृजते हि कर्ता ।। १० ।।

प्र. – ननु, आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते इत्यादि नोपपद्यते; स्वप्ने आसनगमनक्रियाकर्मकरणादीनामसत्त्वात् इत्याशङ्क्याह – तत्र रथा…… सृजते । युज्यन्ते इति योगाः । रथयोगाः – अश्वादयः । रथरथाश्वमार्गादयः जाग्रदृशानुभवयोग्या: तत्र – स्वप्ने सन्ति – न ज्ञायन्ते । अथ तु तत्तत्पुरुषतत्त्कालमात्रानुभाव्यान् रथादीन् अर्थान् परमात्मा सृजते इत्यर्थः । एवमग्रेऽपि द्रष्टव्यम् । अनुकूलवस्तुदर्शनजा प्रीति: आनन्दः । तस्मिन् स्वकीयत्वबुद्धिजा प्रीतिः मुत् । तद्विनियोगजा प्रीतिः प्रमुत् । वेशान्ताः – वेशन्ताः, पल्वलानि । वेशान्ता इति दीर्घश्छान्दसः । पुष्करिण्यः । वाप्यः । स्रवन्त्यः – नद्यः । ‘पुष्करिणीः स्रवन्तीः सृजत’ इत्यर्थः । पुष्करिण्यस्रवन्त्यस्सृजत इत्यत्र वा छन्दसि इति वा पूर्वसवर्णदीर्घाभावः । ननु स्वप्नदृक् यस्मिन् देशे यदा रथं पश्यति, तदानीं तत्र स्थितोऽन्यः तं न पश्यति । स्वप्नदृगपि प्रबोधानन्तरं तत्र गतः तं न पश्यति । तत्र तस्यान्यत्र नयनचिह्नानि वा नाशचिह्नानि वा नोपलभ्यन्ते । अतः कथमीदृशी स्वप्नार्थसृष्टिरुपपद्यताम् इत्यत्राह – हि कर्ता सकलप्रपञ्चनाटकसूत्रधारः सर्वेश्वरः खलु तत्र कर्ता । स किं वा कर्तुं न शक्नुयादिति हि शब्दाभिप्रायः । न च स हि इत्यनेन, यत्र प्रस्वपिति इति प्राक्प्रस्तुतो जीव एव परामृश्यतामिति वाच्यम् – सन्ध्याधिकरणे तस्य निरस्तत्वात् ।

[सन्ध्याधिकरणविचारः]

तथा हि सन्ध्ये सृष्टिराह हि (ब्र.सू.३-२-१) / तत्र रथा: रथयोगा: इति वाक्ये सन्ध्ये – स्वप्नस्थाने जीवकर्तृकैव सृष्टिराम्नायते । हि कर्ता इति स्वप्नदृशं प्राक्प्रस्तुतं जीवमेव इति शब्देन परामृश्य तस्य कर्तृत्वं श्रुतिराह हि । निर्मातारञ्चैके पुत्रादयश्च (ब्र.सू.३-२-२) । एके शाखिनः, एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण(क.उ.५-८) इति कामानां निर्मातारं जीवमामनन्ति । अत्र कामशब्देन काम्यमानाः पुत्रादयो वर्ण्यन्ते । ‘पूर्व हि’, सर्वान् कामान् छन्दत: प्रार्थयस्व (क.उ.१-२५) शतायुषः पुत्रपौत्रान् वृणीष्व (क.उ.१-२३) इति पुत्रादयो हि कामाः प्रकृताः । अतो जीव एवात्र कर्तृत्वेनाभि- धीयते । न च जीवस्य कथमीदृशं सृष्टिसामर्थ्यमिति वाच्यम् – प्रजापतिवाक्ये जीवस्यापि ‘सत्यसङ्कल्पादेराम्नानात् । न च तत् संसारदशायां तिरोहितमिति वाच्यम् मुक्ताविव “स्वप्नदशायामाविर्भावसम्भवादिति द्वाभ्यां सूत्राभ्यां पूर्वपक्षे प्राप्ते उच्यते-          मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । (ब्र.सू.३-२-३) तु शब्द: पक्षं व्यावर्तयति । मायाशब्दो ह्यश्चर्यत्वं प्रवृत्तिनिमित्तीकृत्य भगवत्सङ्कल्पवाची । माया वयुनं ज्ञानं इति निघण्ठुपाठाच्च मायाशब्दो ज्ञानरूपसङ्कल्पवचनः । मायामात्रम् -भगवत्सङ्कल्पमात्रस्पृष्टम्; न तु जीवसृष्टमित्यर्थः । तत्र हेतुः कार्त्स्न्येनानभि-व्यक्तस्वरूपत्वात् इति । जीवस्य सत्यसङ्कल्पत्वादिब्राह्मरूपस्य प्रजापतिवाक्योदितस्य संसारदशायां सर्वात्मना अनभिव्यक्तत्वात् न तस्य कर्तृत्वसंभावनापि हि कर्ता इति हि शब्देन प्रसिद्धस्यैव कर्तृतया निर्देशात् । स्वप्नदृश एव कर्तृत्वे स्वाहितचोरव्याघ्रादेः सृष्टिर्नोपपद्येत । इमान् स्वप्नान् पदार्थानस्राक्षमिति प्रतिसन्धानप्रसङ्गाच्च । कामं कामं पुरुषो निर्मिमाण: इत्यत्र, तदेव शुक्रं तद्ब्रह्म इत्युक्त्या तस्य वचनस्य ब्रह्मविषयत्वाच्च न जीवस्य स्रष्टुत्वम् ।

ननु स्वाभाविकस्यापहतपाप्मत्वादेः सत्यसङ्कल्पत्वपर्यन्तस्यानभिव्यक्तिः किन्निबन्धना इत्यत्राह – पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ (ब्र.सू.३-२-४) । पराभिध्यानात् परमात्मसङ्कल्पात् तत् तिरोहितं भवति । तत्सङ्कल्पादेव हि अस्य जीवस्य बन्धो मोक्षश्च । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवति; यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति (तै.आन.२-७)। एष ह्येवानन्दयति इति श्रवणात् । देहयोगाद्वा सोऽपि (ब्र.सू.३-२-५) । सोऽपि तिरोभावः सृष्टिकाले देहयोगद्वारेण वा भवति; प्रळयकाले सूक्ष्माचिच्छक्तियोगद्वारेण वा भवतीत्यर्थः । सूचकश्च हि श्रुतेराचक्षते तद्विदः (ब्र.सू.३-२-६) स्वाप्नार्थो हि शुभाशुभसूचकः । यदा कर्मसु काम्येषु स्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ।। (छां..स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति, एनं हन्ति इति श्रुतेः ।।

आचक्षते च स्वप्नाध्यायविदस्तथा । ततश्च यदि इयं स्वप्नसृष्टि: जीवकर्तृका, तर्हि शुभसूचकानेव सृष्ट्वा पश्येत् नाशुभसूचकान् । अतः न जीवकर्तृकेयं सृष्टिः इत्युभयलिङ्गपादे स्थितम् । यदत्र परैरुच्यते – स्वप्नसृष्टेः सत्यत्वे रथादिसृष्टिवत् आदित्यादेरपि सृष्ट्यभ्युपगमे जाग्रद्दशावत् स्वप्नेऽपि ज्योतिरन्तरव्यतिकरसत्त्वात् स्वप्नप्रकाशत्वस्य दुर्विवेचता स्यात् । अतः स्वप्नदृष्टानां सत्यत्वं प्रकरणावरुद्धमिति – तदसत् । परमतेऽपि मनस: प्रकाशकस्य सत्त्वेन स्वप्ने स्वयंज्योतिष्ट्वसाधनम् ‘असङ्गतमेव हि स्यात् । तस्मात् लोकप्रसिद्धादित्यादि अभावेऽपि स्वकीयज्ञानेन’ भासकरवात्  स्वयंज्योतिष्ट्वमस्तीत्यत्रैवास्या: श्रुतेस्तात्पर्यमिति सिद्धम् । प्रकृतमनुसरामः ॥ १० ॥

 

[स्वप्नविषयकश्लोकाः]

 

तदेते श्लोका भवन्ति

स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरेति स्थानँ हिरण्मयः पुरुष एकहँसः ।। ११ ।।

प्र.- तदेते श्लोका भवन्ति तत् – सुप्तमधिकृत्य एते – वक्ष्यमाणश्लोकाः प्रवृत्ता इत्यर्थः । स्वप्नेनअभिचाकशीति स्वप्नेन इतीत्थंभावे तृतीया । पुरुष:- जीवः स्वप्नेन उपलक्षितस्सन् शारीरं – शरीरमभिप्रहृत्य निश्चेष्टताम् आपाद्य असुप्तः . ‘अलुप्त’प्रकाश एव सन् सुप्तान् – लुप्तप्रकाशान् प्राणान् अभितः चाकशीति । कश गतिशासनयो: ‘ (धा.पा.१०२४) इत्यस्मात् यङ्लुगन्तात् इदं रूपम् । पर्यटतीत्यर्थः । शुक्रं (शुक्लं) – ज्योतिष्मत् प्रकाशकं मन ‘आदिकमिन्द्रियोवर्गमादाय स्वप्नान्ते पुनः स्वस्थानमेति . जाग्रदृशां प्रतिपद्यत इत्यर्थः । हिरण्मयः प्रकाशमयः । एकहँसः – एक एव हन्ति . गच्छतीति एकहँसः ।। ११ ।।

प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायायमृतश्चरित्वा ।  ईयतेऽमृतो यत्र कामँ हिरण्मय पुरुष: एकहँस: ।। १२ ।।

प्र. – प्राणेन…… एकहँसः सः – जीवः स्वप्ने अवरं – निकृष्टं कुलायं – स्थूलं शरीरं प्राणेन – पञ्चवृत्तिप्राणेन रक्षन् प्राणस्यापि स्वप्ने जीवेन सह निर्गमे सद्यो मरणमेव स्यात् । अतः प्राणेन शरीरं रक्षन् – अत एव अमृत एव सन् कुलायात् -जाग्रच्छरीरात् बहिर्निगम्य यत्र कामं – काम्यत इति कामम् – यत्र भोग्यम्, तत्र सर्वत्र चरित्वा अमृतः-अमरणधर्मा हिरण्मयः एकहंसः पुरुषः पुनरपि स्वस्थानम् ईयते – गच्छति इत्यर्थः । यद्वा कुलायात् बहिः चरित्वा यत्र कामं तत्र ईयते – गच्छति इत्यर्थः ।। १२ ।।

स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ।। १३ ।।

प्र.-स्वप्नान्ते…… बहूनि स्वप्नान्ते – स्वप्नमध्ये इत्यर्थः । अन्तशब्दो मध्यवचनः । उच्चावचं – पुण्यपापलक्षणम् उत्कृष्टापकृष्टम् ईयमान: – सङ्गच्छमानो देवः जीव इत्यर्थः । बहूनि – देवादीनि रूपाणि कुरुते – भजत इत्यर्थः । उतेव…… पश्यन् । उत – अपि च । उतशब्दः अप्यर्थः । स्रीभिस्सह मोदमान इव क्वचिद्रूपेषु भवति । क्वचिच्च जक्षदिव…… जक्षणं भक्षण ‘हसनं वा’ । ‘जक्ष भक्षणहसनयोः’ (धा.पा.१०७१) इति हि धातु: । उत– अपि च भयानि – बिभेति एभ्य इति भयानि – व्याघ्रादीनि पश्यन्निवापि भवतीत्यर्थः । स्वप्नार्थानां तत्कालमात्रावसानत्वात् तदेकानुभाव्यत्वाच्चान्न इवशब्दः ।। १३ ।।

 

आराममस्य पश्यन्ति तं पश्यति कश्चन इति त्रायतं बोधयेदित्याहुः । दुर्भिषज्यं हास्मै भवति, यमेष प्रतिपद्यते

 

अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत् पश्यतितानि सुप्त इति अत्रायं पुरुषः स्वयंज्योतिः भवति सोऽयं भगवते सहस्रं ददामि; अत ऊर्ध्वं विमोक्षाय ब्रूहीति ।। १४ ।।

प्र.- आराममस्य पश्यन्ति तं पश्यति कश्चन अस्य – जीवस्य आरामं-‘भोगोपकरण’भूतमुद्यानादिकं देहेन्द्रियादिकं च सर्वेऽपि पश्यन्ति । तं – देहेन्द्रियादि विविक्तम् अन्तर्बहिस्सञ्चरन्तमपि जीवं कश्चन न पश्यतीति लोकं प्रत्यनुक्रोशं दर्शयति श्रुतिः । इति मन्त्रसमाप्तौ । लोकप्रसिद्धिरपि तथा इत्याह – त्रायतं…… प्रतिपद्यते इति । यत एव स्वप्ने इन्द्रियाण्युपसंहृत्य जीवो बहिनिर्गच्छति तत् अत एव’ आयतं-गाढसुप्तं यम उपरमे (धा.पा.९८४) अनुदात्तोपदेश (पा.सू.६-४-३७) इत्यनुनासिकलोषः । ‘तं सहसा न’ बोधयेत् इत्याहुः चिकित्सकाः । ते हि तत्र दोषं पश्यन्ति । कोऽयं दोषः? एषः सहसा प्रबोधितो जाग्रच्छरीरे प्रविशन् बहिनिर्गत आत्मा यं कञ्चित् इन्द्रियदेशं न प्रतिपद्यते यदि कदाचित् तर्हि व्यत्यासेन इन्द्रियाणि इन्द्रियान्तरदेशे प्रवेशयेत् । तत्र आन्ध्यबाधिर्यादिदोषप्राप्ती दुर्भिषज्यं – दुःखेन भिषक् कर्मास्मै दोषाय भवति । अयं दोषो दुर्विचिकित्स एव स्यादित्यर्थः ।

अथो…… सुप्त इति । अथो इति वाक्यान्तरोपक्रमे । खलु प्रसिद्धं अन्ये आहुः -किमिति । जागरित देशे जाग्रत्स्थान ‘एवास्य जीवस्य एषः – स्वप्न इति; न स्थानान्तर इति । तत्र च हेतुमाहुः; यान्येव हस्त्यादीनि जाग्रत् पश्यति; तानि सुप्तोपि पश्यतीति । अत्र मतान्तरत्वेन उपन्यासस्यायं भावः – ‘उपरतेष्वेव इन्द्रियेषु’ हि स्वप्नान् । पश्यति । अतो न तत्र जागरितदेशस्यावकाशोऽस्ति । अत: तृतीयस्थानमेव स्वप्नस्थानमिति । केचित्तु अथो खल्वाहुरित्यादिग्रन्थोऽपि पूर्वोक्ताऽर्थोपादक एव; न मतान्तरम् । तथाहि -जागरितशब्दात् ईषदसमाप्तौ देश्यप्रत्यये छान्दसो यलोपः । जागरितादीषन्न्यूनमेवास्य जीवस्य स्वप्रस्थानमित्यर्थः । दिनान्तरानुभवायोग्यत्वम् ईषन्न्यूनत्वम् । उक्त एवार्थः उपपत्त्या समर्थ्यते, यानि ह्येव जाग्रत् पश्यति, तानिसुप्त इति यानि स्रक्चन्दनवनितान्नपानादीनि जाग्रद्दशायां पश्यति, “तादृश्यान्येवार्थ’ क्रियाकारीणि तानि स्वप्ने पश्यति । अत: स्वप्नार्थाः सृष्टा एव भगवता । तस्मादिह परलोकव्यतिरिक्तस्थानान्तरमेव स्वप्न स्थानमित्यर्थः’ इत्याहुः ।।

उक्तं स्वयंज्योतिष्ट्वमुपसंहरति – अत्रायं पुरुषः स्वयंज्योतिर्भवति । पूर्ववदर्थः । जनक आह – सोऽहं भगवते सहस्रं ददामि । प्राप्तस्वयंज्योतिष्ट्वविद्यानिष्क्रयत्वेन सहस्रं गवां दक्षिणात्वेन ददामि । अत ऊर्ध्व विमोक्षायैव ब्रूहीति । अतः परं ‘संसारविमोक्षायैव साधनं ब्रूहि नान्यत् किञ्चिदपेक्षितमिति भावः ।। १४ ।।

[जाग्रत्स्वप्नसुषुप्तिकथनम्]

 

वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यञ्च पापञ्च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्रायैव यत् तत्र किञ्चित् पश्यति, अनन्वागतस्तेन भवति; असङ्गो ह्ययं पुरुष इति । एवमेवैतद्याज्ञवल्क्य! सोऽहं भगवते सहस्रं ददामि; अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ।। १५ ।।

प्र. – याज्ञवल्क्य आह – वा एष…… स्वप्नायैव । सम्प्रसीदति अस्मिन्निति सम्प्रसादः । जागरिते देहेन्द्रियादिव्यापारशतसन्निपातजन्यं कालुष्यमस्ति । स्वप्ने तु तेभ्यो विप्रमुक्त ईषत् प्रसीदति । अतः सम्प्रसादशब्देन स्वप्रस्थानमुच्यते । यद्यपि समासादशब्दः सुषुप्तौ मुख्यः – अथापि स्वप्नस्य प्राक्प्रस्तुतत्वात् तस्यैव एतस्मिन् सम्प्रसाद इति एतच्छब्दसमानाधिकरणसम्प्रसादशब्देन परामर्शो युक्तः । तस्मिन्’, जिगमिषिते सतीति शेषः । रत्वा – रमेरनिदित्वात् अनुदात्तोपदेश इत्यनुनासिकलोपः । स एष जीवः जागरिते रत्वा – क्रीडित्वा चरित्वा – भक्षयित्वा; विहृत्य वा – चरगतिभक्षणयोः (धा.पा.५५९) इति हि धातुः । दृष्ट्वैव पुण्यञ्च पापञ्च – पुण्यपापफलमनुभूय ततः पुनः सम्प्रसादे – स्वप्रस्थाने जिगमिषिते सति प्रतिन्यायं – यथान्यायं यथानिर्गतमित्यर्थः । अयनं – आयः निर्गमनमित्यर्थः । पूर्वं स्वप्रस्थानात् यथा निर्गतः तथैवेति यावत् । प्रति योनि – योनिशब्दः स्थानवाची स्थानं प्रति स्वप्रस्थानं प्रति आद्रवति – आगच्छति । स्वप्नाय – स्वप्नानुभवाय इत्यर्थः । यत्तत्…… भवति तत्र जाग्रदृशायां : जीव: यत्किञ्चित् – मनुष्यव्याघ्रशरीरादिकं आत्मीयत्वेन पश्यति; तेनानन्वागतो भवतितेनाननुसृतो भवति । तत्सम्बन्धरहितो भवतीत्यर्थः । तत्र हेतुमाह – असङ्गो ह्ययं पुरुष इति । कर्माविद्योपाधिकेन शरीरेन्द्रियसंघातादिना असङ्गस्वभावत्त्वात् इत्यर्थः । यदि हि केनचित् सङ्गः स्वभावसिद्धस्स्यात्, तदैव हि तस्य सर्वदा तदनुवृत्तिः स्यात् । अतोऽसङ्गस्वभावत्वात् जाग्रदृशादृष्टपदार्थाननुवृत्तिः युज्यत इति भावः । उक्तमङ्गीकरोति जनकः’ एवमेवैतद्याज्ञवल्क्य इति । सोऽहं…… ब्रूहीति । पूर्ववदर्थः ।। १५ ।।

 

वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यञ्च पापञ्च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव यत् तत्र किञ्चित् पश्यतिअनन्वागतस्तेन भवति; असङ्गो ह्ययं पुरुष इति । एवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददामि अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ।। १६ ।।

प्र. – वा एष…… ब्रूहीति स्वप्नान्ते – स्वप्नस्थाने इत्यर्थः । अन्तशब्दः स्थानवचनः । अन्त: समाप्तौ स्थाने निर्णयेऽभ्यन्तरेऽपि इति हि नैघण्टुकाः । बुद्धान्तायैवबुद्धं – बोधः । भावे निष्ठा । अन्तशब्द स्थानवचनः । ‘स्थिरबोधस्थानाय । जाग्रत्स्थानायेति यावत् । …… भवति इति । जाग्रदृशायां स्वप्नदृष्टवस्तुसंबन्धरहितो भवतीत्यर्थः । शिष्टं स्पष्टम् ।। १६ ।।

वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यञ्च पापञ्च पुनप्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ।। १७ ।।

 

प्र.- वा एष…… स्वप्नान्तयैव । सर्वं पूर्ववत् ।। १७ ।।

तद्यथा महामत्स्य उभे कूले अनुसञ्चरति पूर्वं अपरञ्च, एवमेवायं पुरुष एतावुभावन्तावनुसञ्चरति स्वप्रान्तञ्च बुद्धान्तञ्च १८

प्र. – एवं त्रिभिः खण्डैः जागरितात् स्वप्नान्तं, स्वप्नान्तात् बुद्धान्त, बुद्धान्तात् स्वप्नान्तं याति इत्यारोहावरोहसञ्चारप्रदर्शनेन संसारचक्रप्रवृत्तिर्दर्शिता । अथैकस्यैव पुरुषस्य उभयत्र सञ्चारे दृष्टान्तमाह – तद्यथा महा मत्स्य…… बुद्धान्तञ्च स्पष्टोऽर्थः ।। १८ ।।

 

तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ सल्लयायैव ध्रियते, एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो कञ्चन कामं कामयते, कञ्चन स्वप्नं पश्यति ।। १९ ।।

प्र.- एवं स्थानद्वयसञ्चारं प्रदर्श्य सुषुप्तिदशां प्रकाशयति तद्यथा…… पश्यति इत्यादि । यथा आकाशे श्येनो वा गरुडो वा विपरिपत्य – विशेषेण परितः पतनं कृत्वा श्रान्तस्सन् पक्षौ संहृत्य सल्लयाय लीयते अस्मिन् पक्षीति लय: नीडं समीचीननीडायैव ध्रियते – अवतिष्ठते धृङ् अवस्थाने (धा.पा.१४१३) इति हि धातुः । क्षेमङ्करं नीडमभिधावति इत्यर्थः । एवमेवायं पुरुष: – ‘जीवः बुद्धान्तस्वप्नान्तसञ्चरणश्रान्ते’, यत्र स्थाने ‘सुप्तोऽयं’ कामाद्यनुपहतः स्वाप्नांश्चानुकूलप्रतिकूलपदार्थान् न पश्यति । तादृशाय पूर्वोक्तस्थानद्वयकालुष्यविरहिताय ‘सुषुप्तिस्थानाय’ धावति इत्यर्थः ।। १९ ।।

 

ता वा अस्यैताहितानाड्यो यथा केशः सहस्रधा भिन्नः तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते अथ यत्र देव इव राजेव अहमेवेदँ सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ।। २० ।।

प्र. – ननु कचित्स्वप्नादिदर्शनं कचित्तदभाव इत्यत्र किं विनिगमकमिति शङ्कायां स्थानवैषम्यकृतमित्याह ता वा…… सहस्रधा भिन्न इत्यादि । यत्र – स्थाने स्थितम् एनं – जीवं केचन घ्नन्तीव केचन जिनन्तीव, जयन्तीव, हस्ती विच्छाययतीवगजो विद्रावयतीव; गर्तमिव पतति – ‘पतननिमित्त भाति । ताःअस्य पुरुषस्य तादृशस्थानभूताः । स्वप्नदर्शनस्थानभूता इत्यर्थः । केशसहस्रांशो यावता अणिम्ना सौक्ष्म्येण तिष्ठति तावदतिसूक्ष्माः शुक्लनीलपिङ्गलहरितलोहितादि नानारूपान्नरसचूर्णाः हितानामिका नाड्यो भवन्तीत्यर्थः । यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते । यद्यज्जाग्रदवस्थायां भयसाधनं पश्यति तत्सर्वमत्र आसु नाडीषु अविद्यया – कर्मवशात् मन्यते – प्रत्येति । हितनामकस्वप्नवहनाडीस्थितस्य कर्मबन्धसत्त्वात् भीषणस्वप्रपदार्थ प्रतिभानं सम्भवतीति भावः ।

अथ यत्र…… परमो लोकः स यथा कुमारो वा महाराजो वा महाब्राह्मणो वा अतिघ्नीम् आनन्दस्य गत्वा शयीत एवमेवैष एतच्छेते इति बाला ब्राह्मणोक्तरीत्या यत्र स्थाने स्थितस्य देववत् राजवच्चानन्दानुभवः, किञ्च यत्र स्थित: अहमेव सर्वोस्मीति मन्यते । स्वव्यतिरिक्तानुकूलप्रतिकूलवस्तु नोपलभते सोऽस्य जीवस्य परमो लोकः मुख्याश्रयः परमात्मा इति यावत् । अतस्तत्र सुषुप्तिस्थाने स्थितस्य न स्वप्नाद्युपलम्भ इति भावः ।। २० ।।

[सुषुप्तौ बाह्यान्तरज्ञानराहित्यम्]

 

तद्वा अस्यैतदतिच्छन्दाअपहतपाप्माभयँ रूपम् तद्यथा प्रियया स्रिया सम्परिष्वक्तो बाह्यं किञ्चन वेद; नान्तरम्एवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो बाह्यं किञ्चन वेद नान्तरम् तद्वा अस्येतदाप्तकाममात्मकाममकामँ रूपँ शोकान्तरम् ।। २१ ।।

प्र.-तद्वा….. अभयं रूपम् तदेतत् – स्थानमेवास्य अतिच्छन्दाः – छन्द शब्द इच्छावाची । अतिच्छन्दा इति छान्दसम् । अतिच्छन्दं – अभिलाषातिगम् अपहतपाप्मापापप्रतिभटं अभयं प्रियं प्राप्यं रूपं – ‘परमात्मा’ इत्यर्थः । ततः किमित्यत आह – तद्यथा प्रियया इत्यादि । यथा – प्रियतमया स्रिया सम्परिष्वक्तस्य पुरुषस्य आन्तरदुःखादिपदार्थज्ञानं वा ब्राह्यपदार्थज्ञानं वा नास्ति, एवं परमप्रियेण प्राज्ञेनात्मना – ‘सर्वज्ञेन परमात्मना’ सम्परिष्वक्तस्यास्यपुरुषस्य जीवस्य बाह्याभ्यन्तरस्वेतरसर्ववस्तुज्ञानाभाव उपपद्यते इत्यर्थः । अत्र च सम्परिष्वङ्गो नाम तत्र लय एव । स्वाप्यय सूत्रे, स्वमपीतो भवति इति वाक्यसमानार्थकतया भगवता भाष्यकृतैतद्वाक्यस्योदाहृतत्वात् । अथवा जाग्रत्स्वप्न-भोगप्रदकर्मसम्बन्धविरोधी परिष्वङ्गः सम्बन्धविशेषः सुषुप्तिमात्रकाल’वर्तीति’ द्रष्टव्यम् । तद्वा…… शोकान्तरम् तदेव – जीवसुषुप्तिस्थानभूतं प्राज्ञात्मलक्षणं स्वरूपम् आप्त– कामम् – अवाप्तसमस्तकामम् आत्मकामम् आत्मानन्दतृप्तम् अकामम् – आत्म व्यतिरिक्तकामनाशून्यम् शोकान्तरं – शोकबाह्यम् – अन्तरशब्दो बहिर्योगवचनः शोकमन्तरा वर्तमानम् – शोकशून्यं प्राप्यं रूपमित्यर्थः ।। २१ ।।

 

[पुण्यपापसम्बन्धरहितम् सुषुप्तरूपम्]

 

अत्र पिताऽपिता भवति, माताऽमाता, लोका अलोकाः, देवा अदेवाःवेदा अवेदाः अत्र स्तेनोऽस्तेनो भवति, भ्रूणहाऽभ्रूणहा, चाण्डालोऽचाण्डालाःपौल्कसोऽपौल्कसः, श्रमणोऽश्रमणः, तापसोऽतापसः अनन्वागतं पुण्येन अनन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान् हृदयस्य भवति ।। २२ ।।

प्र.-  अत्रपिताऽपिताभवति माताऽमाता अत्र – परमात्मनि सुषुप्तिस्थाने लीनस्य जीवस्य पित्रादयो न सन्ति । तद्रूपस्य शरीरसम्बन्धघटककर्मसम्बन्धशून्यतया अशरीरस्य जनकाभावेन पित्रादेरभावात् इति भावः । लोका अलोकाः । तस्याश्रय-शून्यत्वादिति भावः । देवा अदेवा: – अनुग्राहकशून्यात्वादिति भावः । वेदा अवेदाः -‘अननुशासनीयस्वरूपत्वात्’ इति भावः । अत्र स्तेनोऽस्तेनो भवति भ्रूणहा अभ्रूणहा । परिशुद्धात्मस्वरूपे स्तैन्यादिकर्तृत्वाद्यसंभवात् इति भावः । चाण्डालोऽचाण्डालः.…..अतापसः । चण्डालपुल्कसश्रमणतापसादिदेहसम्बन्धाभावादेव इति भावः । अत्र हेतुमाह –अनन्वागतं पुण्येनानन्वागतं पापेन । शरीरसम्बन्धघटकपुण्यपाप ‘संस्पर्शाभावादिति’ भावः । ननु चरमदेहवियोगानन्तरभावित्वात् सर्वकर्मप्रहाणस्य कथं सुषुप्तौ कर्मसम्बन्धाभाव इत्याशक्य आह – तीर्णो हि…… भवति । सुषुप्तः पुरुषो हि यस्मात् हृदयस्य सर्वान् शोकान् तीर्णो भवति, ततो मनस्तापरूपफलाभावात् विद्यमानानामपि कर्मणां फलप्रदानाभिमुख्याभावात् कर्मणामसम्बन्धप्रायत्वात् ‘तत्कृतशरीरसम्बन्धाभावेन तदनुबन्धि-मातापित्रादयोऽपि न संबध्यन्ते । अतो न सन्तीत्यर्थः ।। २२ ।।

[ज्ञानस्य विपरिलोपाभावः (नाशाभाव:)]

 

यद् द्वैतन्न पश्यति, पश्यन्वै तन्न पश्यति हि द्रष्टुः दृष्टेविपरिलोपो विद्यते । अवनाशित्वात् तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यत् पश्येत् २३

प्र  योऽयं विज्ञानमयः इत्युक्त ज्ञातृस्वरूपस्य सुषुप्तस्य आत्मनः ‘बाह्यान्तर-ज्ञानाभावः किन्निबन्धन इत्याशङ्क्याह – यद् द्वैतं पश्यति पश्यन् वै तन्न पश्यति । द्वैतं बाह्यमान्तरं वा स्वातिरिक्तं वस्तु सुषुप्तो जीवो न पश्यतीति यत् तत् पश्यन् वै न पश्यति! वै शब्द एवार्थः । पश्यतः दर्शनयोग्यज्ञानवत एव बाह्यान्तरादर्शनमित्यर्थः । ननु अपश्यतः कथं पश्यत्त्वमित्यत्राह – हि…… अविनाशित्वात् । ज्ञातुः धर्मभूतज्ञानस्य नित्यत्वात् विनाशो नास्तीत्यर्थः । तर्हि सुषुप्तौ कथमदर्शनमिति; तत्राह तु…… यत् पश्येत् । अयमर्थः ज्ञानस्वरूपाभावनिबन्धनो बाह्याभ्यन्तरद्वितीयज्ञानाभावो न भवति । अपि तु ततो विभक्तस्य प्राज्ञात्मनः ‘पृथक्सिद्धस्य’ अन्यस्य बाह्याभ्यन्तररूप द्वितीयवस्तुनोऽभावादेवानुकूलप्रतिकूलपदार्थदर्शनमिति । न च पृथक्सिद्धपदार्थाभावस्य जाग्रत्स्वप्नयोरपि समत्वात् तत्रेव सुषुप्तावपि अविद्यमान पृथक्सिद्धपदार्थानुभवः अस्त्विति शङ्क्यम् – तत्र कर्मरूपदोषवशात् पृथक्सिद्धपदार्थोपलम्भसम्भवात् , सुषुप्तौ कर्मरूप-दोषस्य अकार्यकरत्वेनासम्बन्धप्रायत्वस्योपपादितत्त्वाच्च । न च तर्ह्यपृथक्सिद्धतया ब्रह्मात्मकत्वेनैव सुषुप्तौ विषयाणामुपलम्भो अस्त्विति शक्यम् – सर्वाः प्रजा अहरहर्गच्छन्त्यः एतं ब्रह्मलोकं विन्दन्त्यनृतेन हि प्रत्यूढाः (छां.उ.८-३-२) इति छान्दोग्योक्तरीत्या अनृतशब्दितकर्मविशेषेण जीवधर्मभूतज्ञानस्य तिरोहिततया ब्रह्मण उपलम्भासम्भवेन ब्रह्मात्मकतयाऽप्युपलम्भासम्भवात् । ब्रह्मात्मकत्वाब्रह्मात्मकत्वोभयबहिर्भूतपदार्थे प्रत्यक्षाभावादिति भावः । अत्र न तु तद् द्वितीयमिति तु शब्देन धर्मभूतज्ञानप्रसरद्वारभूत-मनःपर्यन्तसर्वेन्द्रियोपसंहारात् ज्ञानस्य विषयसम्बन्धाभावात् न सुषुप्तौ बाह्याभ्यन्तर-विषयज्ञानमित्यपि हेत्वन्तरमभिप्रेतं द्रष्टव्यम् ।। २३ ।।

यत् द्वैतं जिघ्रति, जिघ्रन्वै तन्न जिघ्रति हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यते अविनाशित्वात् तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यज्जिघ्रेत् ।। २४ ।।

यत् द्वैतं रसयते, रसयन् वै तन्न रसयते हिरसयितृरसयतेविपरिलोपो विद्यते अविनाशित्वात् तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यद्रसयेत् ।। २५ ।।

यत् द्वैतं वदति, वदन् वै तन्न वदति हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेअविनाशित्त्वात् तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ।। २६ ।।

यत् द्वैतं शृणोति, शृण्वन् वै तन्न शृणोति श्रोतुः हि श्रुतेर्विपरिलोपो विद्यते अविनाशित्वात् तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यच्छृणुयात् ।। २७ ।।

यत् द्वैतं मनुते; मन्वानो वै तन्न मनुते हि मन्तुर्मतेर्विपरिलोपो विद्यते अविनाशित्वात् तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ।। २८ ।।

यत् द्वैतं स्पृशति, स्पृशन् वै तन्न स्पृशति हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते अविनाशित्वात् तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं यत् स्पृशेत् ।। २९ ।।

यत् द्वैतं विजानाति, विजानन् वै तन्न विजानाति हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते अविनाशित्वात् तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यद्विजानीयात् ।। ३० ।।

प्र–  यत् द्वैतं जिघ्रति इत्यादि। द्वैतं -बाह्यमान्तरं वा आत्मनो भिन्नं वस्तु सौषु्प्तो जिव: न जिघ्रातो यत्।जिघ्रन्वै तन्न जिघ्रति इति। धातु: -आघ्रणं कुर्वत: घ्राते: अघ्राणस्य अविनाशित्वात् -नित्यत्वात् । विपरिलोपे-नाश: नास्तीत्यर्थ:। तथा चेत् सुषुप्तौ कथमाघ्रणनम् इत्यशङ्ख्य तु इत्याह।ततोऽन्यत् -प्राज्ञात्मनस्त्वितरत्। विभक्तंविनास्थितं यज्जिघ्रेत् तद् द्वितीयं -तादृशबाह्यान्तररूपं द्वितीयं वस्तु न विद्यते इति भाव:।।यद्वैतं रसयत इत्यादि। द्वैतं -बाह्यमाभ्यन्तरं वा स्वव्यतिरिक्तं वस्तु सुषुप्तो

जीव: रसयते इति यत्।रसयन् वै तन्न रसयते।रसयितु: -आस्वादयत: रसयते;-आस्वादनस्य नित्यत्वात् ।नाशो नास्तीति भाव:।तर्हि सुषुप्तौ कथं रसयन् इत्याशङ्क्य न तु इत्याह।ततोऽन्यद्विभक्तम् -प्राज्ञात्मनस्तु अन्यत् पृथगवस्थितं यद्रसयेत् तु तद् द्वितीयमस्ति-तादृग्बाह्याभ्यन्तररूपं द्वितीयं वस्तु नास्तीति भाव:।।

यद्वैतं वदति इत्यादि। द्वैतं-बाह्याभ्यन्तरं वा स्वातोभिन्नं वस्तु सौषुप्तिजीव: न वादतीति यत्।वदन् वै तन्न वदति। वदनकर्मकारणत्वार्हज्ञानवत एव अवदनमिति भाव:।वक्तु:-वदमानस्य वक्ते:-वदनस्य नित्यत्वात् विनाशो नास्तीत्यर्थ:।

ततोऽन्यद्विभक्तम् । प्राज्ञात्मनस्त्वन्यत् पृथग्भूतं यद्वदेत् तु तद्वितीयं वस्तु वर्तत इत्यर्थ:।। द्वैतं शृणोति इति। यत् शृण्वन् वै तन्न शृणोति आकर्णयन्नेव नाकर्णयति। श्रोतुर्श्रुते:-आकर्णयतु: आकर्णनस्य अविनाशित्वात् विपरिलोपो हि विद्यते-नित्यत्वात् नाशो नास्ति। ततोऽन्यद्विभक्तं यच्छृणुयात् द्वितीयं तु नास्ति। प्राज्ञात्मनस्त्वितरद्विनाभूतं यदाकर्णयेत तादृशद्वितीयं वस्तु नेति भाव:।। द्वैतं मनुते इति। यत् मन्वानो वै तन्न मनुते-बुद्ध्यन्नेव तन्न बुद्ध्यति। मन्तुर्मतेरविनाशित्वात् विपरिलोपो हि विद्यते। मननकर्तृर्मतेरनित्यत्वात् विनाशो नास्तीत्यर्थ: । ततोऽन्यद्विभक्तम्, यन्मन्वीत तद्वितीयं तु नास्ति-प्राज्ञात्मन: पृथग्भूतमन्यत् यद्बुद्ध्येत् तादृक् द्वितीयं वस्तु विद्यते इति भाव:।। द्वैतं स्पृशति इति । यत् स्पृशन् वै तन्न स्पृशति-स्प्रष्टुस्पृष्टे: अविनाशित्वात् विपरिलोपो हि विद्यते। स्पर्शनं कर्तृस्पर्शनस्य नित्यत्वात् विनाशो नास्ति। ततोऽन्तरद्विभक्तं यत्स्पृशेत् तद् द्वितीयं तु नास्ति। प्राज्ञात्मनस्तु इतरद्विनाभूतं यत्स्पर्शनं कुर्यात् तादृशं द्वितीयं वस्तु विद्यते इत्यर्थ:।।

 द्वेतं विजानाति इति। यत् विजानन् वै तन्न विजानाति। अव बुद्ध्यन्नाव-बुद्ध्यति । हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते। बुद्धिवृत्तिमत: बुद्धिवृत्ते: नित्यत्वात् विनाशो न हि वर्तत इत्यर्थ:।ततोऽन्यद्विभक्तं यद्विजानीयात् तद् द्वितीयं तु नास्ति। प्राज्ञात्मनोे परं विनाभूतं यदवबुद्ध्येत् तादृशं वस्तु नास्तीति भाव:।।२४-३०।।

वदन् वै तन्न वदति । वदनक्रियाहेतुतायोग्यज्ञानवत एवावदनम् इत्यर्थः । इदं सर्वकर्मेन्द्रियव्यापारोपलक्षणम् । मनुते इति मनोवृत्तिकथनम् । विजानातीति बुद्धिवृत्तिकथनम् । अन्यत् सर्वं पूर्ववत् ।। २४-३० ।।

यत्र वा अन्यदिव स्यात्, तत्रान्योऽन्यत् पश्येत्, अन्योऽन्यज्जिघ्रेत्, अन्योऽन्यद्रसयेत्, अन्योऽन्यद्वदेत्, अन्योऽन्यच्छृणुयात्, अन्योऽन्यन्मन्वीतअन्योऽन्यत् विजानीयात् ।। ३१ ।।

प्र. – अथ स्वप्नस्थानादौ नैवमित्याह यत्र वा…… विजानीयात् । अन्योऽन्यदित्यत्र अन्येनेति शेषः । तथा च यत्र स्थाने स्वप्नादौ स्थितस्याल्पमपि पृथक्सिद्धं स्यात् इन्द्रियादिकञ्च करणं स्यात्, तदानीं किञ्चित् दृश्यादिकं केनचित् करणेन कश्चित् पश्येदपि । इह तु पृथक्सिद्ध पदार्थाभावात् ‘ कर्मसम्बन्धोपरमेन करणभूतेन्द्रिय सम्बन्धाभावाच्च नान्यवरतुदर्शन मिति भावः ।। ११ ।।

 

सलिल एको द्रष्टाऽद्वैतो भवति एष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्यः एषाऽस्य परमागतिः एषाऽस्य परमा संपत् एषोऽस्य परमो लोकःएषोऽस्य परम आनन्दः एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ।। ३२ ।।

प्र. – सलिल एको…… ब्रह्मलोकः यथा जलं जले प्रक्षिप्तमेकं भवति, एवं ‘सलिले सलिलवत्’ स्वच्छस्वभावे परमात्मनि लीनोऽयं द्रष्टा जीवः प्राज्ञात्मपरिष्वङ्गवशेन एकीभूतस्सन् अद्वैतो भवति । देवादिलक्षणभेदकाकारशून्यो भवतीत्येष सुषुप्त्याधारा एव छान्दोग्ये, ब्रह्मलोकं विन्दन्ति (छां.उ.) इत्यत्र ब्रह्मलोकशब्दितः परमात्मा, हे सम्राडिति याज्ञवल्क्य: जनकमनुशिष्टवान् इत्यर्थः । ननु कथं सुषुप्त्याधारस्य ब्रह्मलोकत्वम् । ब्रह्मलोको हि परमगतित्वादिना श्रूयत इत्यत्राह – एषाऽस्य परमा गतिः । जीवस्यास्यार्चिरादिगत्या प्राप्यतया श्रुता परमगतिरेषैव । एषाऽस्य परमा संपत् । तत्त्वज्ञानादिना प्राप्याऽपि सम्पदेषैव एषोऽस्य परमो लोकः शाश्वतं भोगस्थानमप्येष एव । एषोऽस्य परम आनन्दः । निरतिशयानुकूलोऽप्यस्यायमेव इत्यर्थः । ननु स्वर्गादिषु भोगेषु अनुकूलेषु जाग्रत्सु कथमेतस्य परमानन्दकत्वमित्यत्राह’ – एतस्यैवानन्दस्य…… ‘मात्रांउपजीवन्ति । अन्यानि भूतानि – ब्रह्मानुभवितुरन्ये स्वर्गादिवैषयिकसुखानुभवितारः सर्वेऽप्येतदानन्द-सहस्रांशानुभवितार इत्यर्थः ।। ३२ ।।

 

[सुषुप्तिस्थानस्य परमानन्दता]

 

यो मनुष्याणाँ राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वेमानुष्यैर्भोगैसम्पन्नतमः, मनुष्याणां परमानन्दः अथ ये शतं मनुष्याणामानन्दाः एकः पितॄणां जितलोकानामानन्दः अथ ये शतं पितॄणां जितलोकानामानन्दाः, एको गन्धर्वलोक आनन्दः अथ ये शतं गन्धर्वलोक आनन्दाः, एकः कर्मदेवानामानन्दः ये कर्मणा देवत्वमभिसम्पद्यन्ते अथ ये शतं कर्मदेवानामानन्दाः, एक प्रजापतिलोक आनन्दः‘, यश्च श्रोत्रियोऽवृजिनोऽकामहतः अथ ये शतंप्रजापतिलोक आनन्दाः, एको ब्रह्मलोक आनन्दः‘, यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।।

अथैष एव परमानन्द एष ब्रह्मलोकः, सम्राडिति होवाच याज्ञवल्क्यः । सोऽहं भगवते सहस्रं ददामि; अत उर्ध्वं विमोक्षायैव ब्रूहीति अत्र याज्ञवल्क्यो बिभयाञ्चकार, मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति ।। ३३ ।।

प्र. – तस्य परमानन्दत्वमेव मनुष्यानन्दादितारतम्यनिरूपणेन प्रपञ्चयति यो मनुष्याणां…… परमानन्दः राद्ध:- राध साध संसिद्धौ(धा.पा.१२६३) इति हि धातुः – सिद्ध: । उपायैः सिद्धः, युवत्वादिगुणैः समृद्धः, अन्येषाञ्च मनुष्याणामधिपतिः सर्वमानुषभोगै: निरतिशयं सम्पन्नश्च कश्चिद्भवति यदि, सःउक्तलक्षण आनन्द: मनुष्याणां मध्ये श्रेष्ठ आनन्द इत्यर्थः । अत्र समृद्धत्वादिगुणानां अनुकूलतया वेदनीयत्वादानन्दत्वं अस्तीति द्रष्टव्यम् । अथ…… आनन्दः । शतगुणिता मनुष्याणां ‘पूर्वोक्ताः परमानन्दाः’, श्राद्धादिकर्मभिः ‘पितृृन्  तोषयित्वा जितपितृलोका ये पितरः तेषामेक आनन्दो भवतीत्यर्थः एवमग्रेऽपि । एकः कर्म देवानामानन्दः इत्यत्र कर्मदेवानाम् इत्यस्य अर्थमाह – ये कर्मणा देवत्वमभिसम्पद्यन्ते । देवत्वं हि द्विविधं कर्मसिद्धमाजानसिद्धञ्च । कल्पादावेव यत् सिद्धम्, तत् आजानसिद्धम् तदितरत् कर्मसिद्धम् । यद्वा उपासनसिद्धमाजानसिद्धम् । तदितरत् कर्मसिद्धम् । यद्वा त्रयस्त्रिंशद्देवतासायुज्यं कर्मदेवत्वम् । त्रयस्त्रिंशत् देवतात्मत्व-माजानसिद्धत्वमिति विवेको द्रष्टव्यः । अथ ये शतं….. अकामहत: श्रोत्रियः – श्रुतवेदान्तः, अत एव अवृजिनःअपापः, अत एव अकामहतः – ‘उपासननिवृत्त समस्त’क्लेशकाम’ इत्यर्थः । मुक्त इति यावत् । शतगुणिताः कर्मदेवानन्दा: आजानदेवानन्दः एको भवति । तथा उक्तगुणविशिष्टमुक्तानन्दोऽप्येको भवतीत्यर्थः । यद्यपि मुक्तानन्दाजानदेवानन्दयोः मेरुसर्षपवत् तारतम्यमस्ति, तथाप्यन्यूनन्वे तात्पर्यं द्रष्टव्यम् । अथ ये शतं…… अकामहतः । अत्र प्रजापतिशब्द: चतुर्मुखपरः; तैत्तिरीयके समानप्रकरणे, प्रजापतेरानन्दः (ते.आन.१३) इत्येकवचनान्तप्रजापतिशब्दश्रवणात् दक्षादिप्रजापतिपरत्वे बहुवचनान्तताप्रसङ्गेन तत्रत्य प्रजापति’शब्दस्य चतुर्मुखपरतया तदैकार्थेन अत्रत्यप्रजापतिशब्दस्यापि तत्परत्वात् । ततः चतुर्मुखानन्दः शतगुणितो ब्रह्मलोकलक्षण आनन्दो भवति; तथा मुक्तानन्दोऽपि भवतीत्यर्थः । न च ते ये शतं एक (तै.आन.१२) इति निर्देशात् ब्रह्मानन्दस्य परिच्छिन्नत्वं शङ्कनीयम् – आधिक्यमात्रे वाक्यतात्पर्यात् । यथा, क्षिप्तेषुरिव सर्पति इति वाक्यं सूर्यस्य गतिमान्द्यनिवृत्तिपरम्, न तु इषुसाम्यपरम्; सूर्यस्य निमेषमात्रे बहुयोजनातिलङ्वित्वस्य प्रमाणसिद्धत्वात् । एवमस्यापि वाक्यस्य चतुर्मुखा-नन्दापेक्षया आधिक्यमात्रे ‘तात्पर्यमवगम्यते ; ब्रह्मानन्दापरिच्छिन्नत्वस्य श्रुतिसिद्धत्वात् । यद्वा, रोमकूपेष्वनन्तानि ब्रह्माण्डानि भ्रमन्ति ते । अण्डानां तु सहस्राणां सहस्राण्ययुतानि ।। ईदृशानां तथा तत्र कोटिकोटिशतानि ।। गङ्गायां सिकता धारा यथा वर्षति वासवे । शक्या गणयितुं लोके व्यतीताः पितामहाः ।। इत्यादिभि:। ब्रह्माण्डानां तत्रत्यचतुर्मुखानाञ्चासङ्घेयत्वावगमात् नियाम्यान् “नियन्तुः शतगुणितानन्दत्वे ‘कथिते चतुर्मुखेभ्योऽप्यसंख्याकेभ्यः शतगुणानन्दतया अवगतस्य भगवतोऽपरिच्छिन्नानन्दत्वमर्थसिद्धं द्रष्टव्यम् । आनन्दमयाधिकरणादौ एवमेव व्यासार्यै: वर्णितम् । अथैष एव…… ब्रूहीति । पूर्ववदर्थः । अत्र उदरौत्सीदिति अर्थ राजा अतीव मेधावी मा – मां सर्वेभ्यः अन्तेभ्यः – अन्तः – निश्चयः निश्चयहेतुभ्यः प्रश्नेभ्यः उदरौत्सीत् – अव (उप) रोधं कृतवान् । सर्वान् प्रश्नान् मामसौ प्रष्टुमुपाक्रमत इत्यर्थः । अत इतःपरं न त्यक्ष्यतीति अत्र राजप्रश्नपरम्परायां विषये याज्ञवल्क्यो बिभयाञ्चकार – बिभेतिस्म इत्यर्थः ।। ३३ ।।

[जीवस्य बुद्धान्तसञ्चरणम्]

 

वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्या दृष्ट्वैव पुण्यञ्च पापञ्च पुनप्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ।। ३४ ।।

प्र. – अथ याज्ञवल्क्यो जाग्रद्देशादुत्क्रमणं विवक्षुः स्वप्नान्ते अवस्थापितस्य जीवस्य बुद्धान्तसञ्चरणं दर्शयति – वा एष एतस्मिन् स्वप्नान्ते…… । पूर्ववदर्थः ।। ३४ ।।

 

तद्यथाऽनः सुसमाहितमुत्सर्जद्यायात्, एवमेवायेँ शारीर आत्या प्राज्ञेनात्मनाऽन्वारुढ उत्सर्जन्  याति, यत्रैतदूर्ध्वाच्छ्वासि भवति ।। ३५ ।।

प्र. – अथोत्क्रान्तिमाह – तद्यथाऽनः…… याति यथा अनः – शकटं सुतरां समाहितं – यात्रोपकरणसंभाराक्रान्तं सत् पूर्वं देशमुत्सृज्य याति, एवमेव शकटस्थानीयोऽयं शारीर ‘आत्मा – जीवः प्राज्ञेन – सर्वज्ञेन आत्मना -परमात्मना सारथिस्थानीयेन अन्वारूढः – सम्बन्धविशेषं प्राप्तः शरीरमुत्सृज्य यातीत्यर्थः । कदा इत्यत्राह – यत्रैतदूर्ध्वाच्छ्वासि भवति यत्र – यदा एतत् – शरीरमूर्ध्वश्वासि भवति, तदा उत्सृज्य यातीत्यर्थ: ।। ३५ ।।

यन्नायमणिमानं न्येति जरया वोपतपता वाऽणिमानं निगच्छति तद्यथाऽम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात् प्रमुच्यते; एवमेवायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ।। ३६ ।।

प्र. – ऊर्ध्वश्वासी भावकालमाह – यन्नायमणिमानं…… निगच्छति । ‘सोऽयं प्राकृत’ शिरःपाण्यादिमान् पिण्डः यत्र – यदा – अणिमानंकार्श्यं न्येति – ‘निर्गच्छति’ तत्र हेतुमाह – जरया वा उपतपता वा । स्वयमेव कालपक्वफलवत् जरया वा कार्श्यं गच्छति; अथवा उपतपतीत्युपतपन् ज्वरादिरोगः । तेन वा उपतप्यमानः अग्निमान्द्येन भुक्तस्य अजरणे अन्नरसे नानुपचीयमानस्सन् पिण्डः कार्श्यमापद्यते; तदोर्ध्वश्वासी भवतीत्यर्थः । तद्यथाऽऽम्रं वोदुम्बरं वा…… प्राणायैव । यथा आम्रफलं वा उदुम्बरफलं वा पिप्पलफलं वा! अत्र, फले लुक् (पा.सू.४-३-१६३) इति विकारप्रत्ययस्य लुक् । वृन्तबन्धनात् कालवशजीर्णात् प्रमुच्यते, एवमेवायं पुरुषः सप्राणकरणग्राम: एभ्यः पाण्यादिभ्योङ्गेभ्यः सम्प्रमुच्यमोक्षं प्राप्य पुनः प्रतिन्यायं – यथापूर्वमागतः तथैव ‘ब्राह्मणादिप्रारब्धकर्मानुगुणयोनिं’ प्रति आद्रवति प्राणायैव – जीवनाय इत्यर्थः ।। ३६ ।।

 

तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नै: पानैरावसथैः प्रतिकल्पन्ते, ‘अयमायाति; अयमागच्छतिइति, एवँ हैवंविदँ सर्वाणि भूतानि प्रतिकल्पन्ते इदं ब्रह्माऽऽयातिः इदमागच्छतीति ।। ३७ ।।

प्र.- तद्यथा…… आगच्छतीति तत् – तत्र प्रपित्सितयोन्यन्तरे यथा अभिषिक्तं राजानमायान्तं श्रुत्वा राष्ट्रवर्तिनः सर्वेऽपि उग्राः – जातिविशेषाः क्रूरकर्माणो वा, प्रत्येनसः – पापकर्मणि तस्करादिदण्डनादौ नियुक्ताः, सूता: – वर्णसङ्करविशेषाः, ग्रामनेतारः ग्रामण्य: – सूताश्च ग्रामण्यश्च सूतग्रामण्यः अन्नैः – विविधैर्भाज्यै: पानै: , पेयविशेषै:  – आवसथैः – प्रासादादिभिश्च, अयं राजा आयाति, अयमागच्छत्तीति ससंभ्रमं वदन्तः प्रतिकल्पन्ते – प्रतीक्षन्ते । एवमेव एवं विदं – कर्मफलयुक्तं । संसरन्तमिति यावत् । कर्मफलं हि प्रस्तुतम् । तत् एवं शब्देन परामृश्यते । विच्छब्दस्तल्लब्धृपर: सर्वाणि भूतानि – एतद्भोगीपकरणभूतशरीरसाधनानि सर्वाणि भूतानि तत्तत्कर्मप्रयुक्तानि सन्ति कर्मफलोपभोगसाधनै: सह, इदं ब्रह्म – जीव: आयाति – इदमागच्छत्तीति ससंभ्रमं प्रतिकल्पन्ते – प्रतीक्षन्ते इत्यर्थः । एतच्छरीरत्यागसमनन्तरमेव शरीरान्तरतन्द्भोग्य-भोगस्थान भोगोपकरणानि परमात्मसकल्पवशेन प्रतिपुरुषं समग्राणि भवन्ति इत्यर्थः । यद्वा उक्तसंसरणप्रकाराभिज्ञस्य सर्वभूतोपजीव्यत्वं फलमुक्तमिति द्रष्टव्यम् ।। ३७ ।।

[जीवस्य अन्तकाले सर्वप्राणसंश्लेष:]

 

तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्ति एवमेवेममात्मानमन्तकाले सर्वे प्राणाअभिसमायन्तियत्रैतदूर्वोच्छ्वासी भवति ।। ३८ ।।

प्र. – तद्यथा राजानं…… भवति । यथा प्रयियासन्तं – जिगमिषुं राजानं तदुपजीविनः उग्रप्रत्येनः प्रभृतयः पूर्वव्याख्याताः सर्वे तदाज्ञामन्तरेणापि अभसमायन्ति-आभिमुख्येन आयान्ति, एवमेवेमम् आत्मानं – भोक्तारम्, यत्र-यदा एतत्शरीरमूर्ध्वोश्वासि भवति’; तदा अन्तकाले सर्वे प्राणाः आयान्ति इत्यर्थः ।। ३८ ।।

।। इति षष्ठोऽध्याये तृतीयब्राह्मण प्रकाशिका ।।

षष्ठोऽध्याये चतुर्थ ब्राह्मणम्

[ज्योतिर्ब्राह्मणम्]

 

यत्रायमात्माऽऽबल्यंन्येत्य संमोहमिव न्येति, अथैनमेते प्राणा अभिसमायान्ति एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्तते, अथारूपज्ञो भवति ।। ।।

प्र. – अथ, एभ्योऽङ्गेभ्यस्संप्रमुच्या इत्युक्तं सम्प्रमोक्षं विस्तरेण वर्णयितुमारभते  यत्रायमात्मा बल्यं न्येत्य संमोहमिव न्येति इति । सोऽयमात्मा यत्र – यस्मिन् काले आबल्यं- अबलस्य भावः आबल्यं बलराहित्यं न्येत्य-नितरामेत्य प्राप्य संमोहमिव न्येति – प्रतिपद्यते । करणक्षोभात् संमोहं प्रतिपद्यते । इवशब्दोऽल्पार्थे । मोहोप-क्रमदशायामित्यर्थः । मोहो नाम मरणायार्धसम्पत्तिः । तथाहि – उभयलिङ्गपादे जाग्रत्स्वप्नसुषुप्तिमरणानाम् अन्यतमो मोह इति पूर्वपक्षे प्राप्ते उच्यते – मुग्धेऽर्धसम्पत्तिपरिशेषात् (ब्र.सू.३-२-१०) । न तावत् मुग्धः जागरितावस्थो भवितुमर्हति, इन्द्रियैर्विषय अनिरीक्षणात् । नापि स्वप्नान् पश्यति, निस्संज्ञत्वात् । नापि मृतः, ‘प्राणोष्मणोर्भावात् । न च सुषुप्तः, तद्वैलक्षण्यात् । सुप्तो हि प्रसन्नवदनो निमीलितनेत्रश्च । तस्मान्मोहो नाम मृतेः अर्धसम्पत्तिः । अर्धमृतिरिति यावत् । मरणं हि सर्वप्राणवियोगः । सर्वप्राणवियोगोपक्रम-कतिपयप्राणसम्पत्तिः मूर्च्छा । तत्र औषधादिवशात्, कर्मशेषे च सति वाङ्मनसे प्रत्यागच्छतः । असति तस्मिन् प्राणोष्मणावपि अगच्छतः । तस्मादर्धमृतिर्मूछेति थितम् – अथैनमेते प्राणा अभिसमायन्ति अथ– तदानीं वागादय: प्राणा: एनमभिमासयान्ति – आत्मनः समीपमायान्ति इत्यर्थः । एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति सः – आत्मा तेजोमय्यो मात्रा: तेजोमात्राः । प्रकाशकांशाः इत्यर्थः । इन्द्रियाणीति यावत् । ता एताः समभ्याददानो समिति स्वप्नापेक्षया वैषम्यमुच्यते । अस्त्येव स्वप्नेपि अभ्यादानम् न तु सम्यक् सवासनमभ्यादानम् । इह तु सवासनमभ्यादाय इत्यर्थः । हृदयमेव पुण्डरीकाकारम् अन्ववक्रामति – अन्वागच्छति इत्यर्थः । यत्रैष…… पर्यावर्तते । चक्षुषि सन्निहितः चाक्षुषः चाक्षुषः पुरुषः इति म्रियमाणो जीव उच्यते । स यत्र – यदा पराङ् – रूपादिविषयपराङ्मुखस्सन् हृदयदेशे पर्यावर्तते इत्यर्थः । अथारूपज्ञो भवति । अथ – तदुत्तरकाले अयं मुमूर्षुः अरूपज्ञो भवति – रूपादिविषयान् न जानाति इत्यर्थः ।। १ ।।

 

एकीभवति, पश्यतीत्याहुः: एकीभवति, जिघ्रतीत्याहुः, एकीभवति  रसयत इत्याहुः एकीभवति, वदतीत्याहुः, एकीभवति, शृणोतीत्याहुःएकीभवति, मनुते इत्याहुः एकीभवति, स्पृशतीत्याहुः एकीभवति, न विजानातीत्याहुः ।। तस्य हैतस्य हृदयस्य अग्रं प्रद्योतते तेन प्रद्येतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यः तमुत्क्रामन्तं प्राणोऽनूत्क्रामति, प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति; सविज्ञानो भवतिसविज्ञानमेवान्ववक्रामति तं विद्याकर्मणी समन्वारभेते; पूर्वप्रज्ञा ।। ।।

प्र. – एकीभवति पश्यतीत्याहुः । अयं मुमूर्षुः एकीभवति स्वापकाल इव ‘इन्द्रियैः सह एकीभवति’; अतो न रूपादीन् पश्यतीति पार्श्वस्था ‘आहुरित्यर्थः । एकीभवति जिघ्रति । पूर्ववदर्थः । तस्य हैतस्य…… शरीरदेशेभ्यःतस्य हैतस्य – म्रियमाणस्य सम्बन्धि यत् हृदयम् तस्य अग्रं -‘नाडीमुखं निर्गमनद्वारं प्रद्योतते – उपसंहतकरणतेजःप्रज्वलितं सत् प्रदीप्तं भवति । तत्प्रकाशितद्वारस्सन् एष

आत्मा निष्क्रामति चक्षुरादिद्वारेभ्य इत्यर्थः । तमुत्क्रामन्तं…… अनूत्क्रामन्ति । एवमुत्क्रामन्तं तम् – अध्यक्षं जीवं मुख्यप्राणः अनु – पश्चात् उत्क्रामति । तं मुख्यप्राणं जीवमनूत्क्रामन्तं तदधीना इतरे प्राणाः अनूत्क्रामन्तीत्यर्थः । सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति । तस्यां दशायामुत्क्रामन् जीवः, यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कळेबरम् तं तमेवैति (भ.गी.८-६) इत्युक्तन्यायेन प्राप्तव्ययोनिविषयकस्मृतिमान् भवतीत्यर्थः । तच्च ज्ञानं कर्माधीनम्; न तु पुरुषयत्नसाध्यम् । यं योगिनः प्राणवियोगकाले यत्नेन चित्ते विनिवेशयन्ति इति स्मृत्युक्तरीत्या योगिनामेव हि चरमं ‘ज्ञान’ यत्नसाध्यम् । एवं सविज्ञानं प्राप्तव्ययोनिचिन्तनवन्तमेव पुरुषं प्राणवर्गो अन्ववक्रामति – अनुगच्छतीत्यर्थः । तं विद्याकर्मणी समन्वारभेते; पूर्वप्रज्ञा तं – तादृशं च पुरुषं विद्याकर्मणीतदनुष्ठितज्ञानकर्मणी ‘पूर्वप्रज्ञा ‘ – पूर्ववासना च तिस्र इमा अनुवर्तन्ते । तत्र ज्ञानकर्मणी भोग्यविषयोपस्थापनाद्यर्थम्, पूर्ववासना तु कर्तृत्वभोक्तृत्वार्थ चानुवर्तते । न हि पूर्ववासनां विना कश्चित् कर्तुं भोक्तुं वा प्रभवति । न ह्यनभ्यस्ते विषये कोशलमिन्द्रियाणां भवति । पूर्वानुभववासनया प्रवृत्तानाम् इन्द्रियाणामिह जन्मनि अभ्यासमन्तरेणैव कासुचित् क्रियासु चित्रकर्मादिलक्षणासु कौशलं दृश्यते; केषाञ्चिच्चात्यन्तसौकर्ययुक्तास्वपि क्रियासु अकौशलं दृश्यते । तदेतत्सर्वं पूर्ववासनोद्भवानुद्भवनिमित्तकम् । तस्माद्विद्याकर्मपूर्ववासनालक्षणमेतत् त्रितयं शाकटिकसंभारस्थानीयं परलोकपाथेयमित्यर्थः ।। २ ।।

 

[दृष्टान्तपूर्वकदेहान्तरप्राप्तिनिरूपणम्]

 

तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्य आत्मानमुपसँहरति, एवमेवायमात्मेदँ शरीरं निहत्य अविद्यां गमयित्वाऽन्यमाक्रममाक्रम्यात्मानं उपसँहरति ।। ।।

प्र.- तद्यथा तृणजलायुका……आत्मानमुपसंहरति । यथा ‘तृणजलूका’ तृणस्यान्तं अग्रभागं गत्वा अन्यं – तृणान्तरलक्षणम् आक्रमम् – आक्रम्यते ‘इत्याक्रमः आश्रय इति यावत् । तम् – आक्रम्य – आश्रित्य आत्मानम् – आत्मनोऽपरावयवम् उपसंहरति – पूर्वतृणवियुक्तं करोति, एवमेवायं संसरन् जीव: इदंप्राक्तनं शरीरं निहत्य तस्यैव विवरणम् अविद्यां गमयित्वेति निस्सङ्गबोधतामापाद्य’ इत्यर्थः। अन्यम् -अन्यशरीरलक्षणम् आक्रमं – आश्रयमाक्रम्य स्वात्मानं पूर्वस्माच्छरीरात् उपसंहरतिपूर्वशरीरं त्यजतीत्यर्थः ।। ३ ।।

[देहान्तरप्राप्तिप्रकारः]

 

तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरँ रूपं तनुतेएवमेवायमात्मेदँ शरीरं निहत्य अविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरँ रूपं कुरुते पित्र्यं वा गान्धर्वं वा देवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ।। ।।

प्र. – ननु देहान्तरारम्भे प्रागुपात्तमेवोपादानं स्वीकृत्य तदेवोपमृद्य स्वर्णकारवत् देहान्तरं करोति; आहोस्वित् अपूर्वमेव उपादानद्रव्यं स्वीकृत्य करोति’ । तत्राह – तद्यथा……. भूतानाम् पेश: – सुवर्णम् । तत् करोतीति पेशस्कारी सुवर्णकार: पेशसः -पूर्वोपात्तसुवर्णस्य मात्राम् – एकदेशमुपादाय यथा अन्यत् कल्याणतरं नवतरञ्च रूपं तनुते – कुरुते। यद्वा पेशस्कारी – कोशकारक्रिमिः । स यथा पेशसः पट्टतन्तोः मात्रां -अंशमुपादाय नवतरं ‘कल्याणतरञ्च रूपं जालात्मकं कुरुते – एवमेवायमात्मा इदं शरीरं निहत्यान्यत् रूपं कल्याणतरं नवतरं कुरुते । अविद्यां गमयित्वेति पूर्ववत् । तदेव रूपं विशिनष्टि पित्र्यं वा पित्र्यं – ‘पितृभ्यो हितम्’, पितृलोकोपभोगयोग्यम् इत्यर्थः । तथा गान्धर्वं देवं प्राजापत्यं ब्राह्मं – गन्धर्वादिलोकोपभोग्यमित्यर्थः । अन्येषां वा भूतानाम् । अन्यभूतसम्बन्धि वा शरीरं करोतीत्यर्थः । कर्तृत्वञ्चास्य कर्मद्वारकं द्रष्टव्यम् ।। ४ ।।

 

[कामादिपदार्थानामेकत्र प्रदर्शनम्]

 

वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय: आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमय: काममयोऽकाममयक्रोधमयोऽ क्रोधमयो धर्ममयोऽधर्ममयः सर्वमय: तत् यदेतदिदम्मयोऽदोमय इति । यथाकारी यथाचारी, तथा भवति साधुकारी साधुर्भवति, पापकारी पापो भवतिपुण्य: पुण्येन कर्मणा भवति पाप: पापेन अथो खल्वाहुः काममय एवायं पुरुष इति यथाकामो भवति, तत्क्रतुः भवति; यत्क्रतुर्भवति, तत् कर्म कुरुते; यत् कर्म कुरुते, तदभिसम्पद्यते ।। ।।

प्र. – सा वा अयमात्या…… अदोमय इति । वैशब्दोऽवधारणे । सोऽयं विज्ञानमयः – ज्ञानरूपो ज्ञानगुणक आत्मा ब्रह्मैव सन् अपहतपाप्मत्वादि ब्राह्मरूपयुक्तोऽपि सन् मनोमयः – उपकरणोपकरणित्वलक्षणसम्बन्धेन मनःप्रचुरः । मन उपकरणक इति यावत् । एवं प्राणमय इत्यादावपि द्रष्टव्यम् । अतेजोमयः – तेजोव्यतिरिक्तपूर्वोक्तातिरिक्त-महदहङ्कारादिमयः । तदुपकरणक इत्यर्थः । चतुर्विशतितत्त्वमयत्वात् शरीरस्येतरदनुक्तं सर्वञ्च अतेजोमयशब्दसङ्गृहीतमिति द्रष्टव्यम् । अकाममयः – कामव्यतिरिक्तसङ्कल्प-श्रद्धादिमय इत्यर्थः । अक्रोधमय:- प्रीतिमय इत्यर्थः । तद्येतदिति ब्रह्मापेक्षया नपुंसकलिङ्गनिर्देशः । इदंमयोऽदोमयः – एतल्लोकपरलोकमय इत्यर्थः । यथाकारी यथाचारी तथा भवति । यथा कर्तुं यथा आचरितुं शीलमस्य, सोऽयं यथाकारी ययाचारी । अग्निहोत्रादिकं  तु कर्म । तद्योग्यतापादकं सन्ध्यावन्दनादिकं तु आचरणम् । एतत् चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः (ब्र.सू.३-१-९) इति सूत्रभाष्ये स्पष्टम् । तथा भवति । तत्फलयुक्तो भवतीत्यर्थः । तदेव प्रपञ्चयति – साधुकारी साधुर्भवति पापकारी पापो भवति । सत्कर्मकारी ब्राह्मणादिरमणीयशरीरयुक्तो भवति; पापकारी श्वचण्डालादि कुत्सितशरीरयुक्तो भवतीत्यर्थः । एते साधुकारीत्वपापकारित्वे अपि प्राक्तनपुण्यपापप्रयुक्ते इत्याह – पुण्यः पुण्येन कर्मणा भवतिः पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति । अथो – शब्दः पक्षान्तरपरिग्रहे । केचिद्वन्धमोक्षकुशलाः खल्वाहुः -प्रसिद्धमित्वमाहुः – यद्यपि पुण्यापुण्ये शरीरग्रहणकारणम्, तथापि कामप्रयुक्त एव हि पुरुष: पुण्यपापे कर्मणी उपचिनोति । तथा च अयं पुरुषः काममय एव । काम एवास्य संसारस्य मूलमित्यर्थः । तथाचोक्तमाथर्वणे, कामान् यः कामयते मन्यमानः कामभिर्जायते तत्र तत्र (मुं.उ.३-२-२) इति तस्मात् काममय एवायं पुरुषः । तदेवोपपादयति – यथा कामो भवति, तत्क्रतुर्भवति । पुरुषस्य येन प्रकारेण कामना उदेति, तेन प्रकारेण ‘क्रतु’शब्दितोऽध्यवसाय उदेति । यत्क्रतुर्भवतितत् कर्म कुरुते । तदनन्तरमध्यवसितं कर्म कुरुते । यत्कर्म कुरुते, तदभिसम्पद्यते । तस्य फलञ्च प्राप्नोति इत्यर्थः ।। ५ ।।

तदेष श्लोको भवति-तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे ।। इति तु कामयमानः अथाकामयमानः योऽकामो निष्काम आप्तकाम आत्मकाम तस्य प्राणा उत्क्रामन्ति, ब्रह्मैव सन् ब्रह्माप्येति ।। ।।

प्र.- तदेषश्लोको भवति । एतस्मिन्नर्थे अयं श्लोकखण्डो भवतीत्यर्थः । तमेवाह – तदेव सक्तःनिषक्तमस्य । लिंग्यतेऽनेनति लिङ्गं गमकम् । तादृशमस्य जीवस्य मनः यत्र फले निषक्तं निविष्टं भवति, तदेव – तत् फलमेव तत्फलारम्भक कर्मणा सह देहवियोगकालेऽपि सक्तस्सन् एति – प्राप्नोतीत्यर्थः । इत्येषश्लोको भवतीत्यन्वयः’ ।।

प्रकृतमनुसरति – प्राप्यान्तं…… कर्मणे । अयं संसारी इह लोके फलमुद्दिश्य यत् किञ्चित् कर्म करोति, तस्य – कर्मण: अन्तं भोगेनावसानं प्राप्य कृत्स्नफलं भुक्त्वा इति यावत् – तस्मात् – अमुष्मात् लोकात् अस्मै लोकाय पुनरेति । किमर्थमित्यत्राह-कर्मणे – कर्म कर्तुमित्यर्थः । इति तु कामयमानः – एवं कामयमानः संसरतीत्यर्थः । एवमविद्वद्विषयं संसारं सप्रपञ्चमुपवर्ण्य उपसंहृत्याथ विदुषः तद्वैलक्षण्यं दर्शयति अथाकामयमानः…… ब्रह्माप्येति । अथ शब्दोऽर्थान्तरपरिग्रहे । अकामयमानःवीतरागः । अत्रोच्यते इति शेषः । योऽकामो निष्काम आप्तकाम आत्मकामः । यः अकामः – कामशून्यः । कथं कामशून्यता इत्यत्राह – निष्काम इति । निर्गताः कामाः यस्मात् स तथोक्तः । पूर्वस्थितानां कामानां निर्गतत्वात् अकामत्वम् उपपद्यत इति भावः । उत्तरकामानां सत्वे निवृत्तपूर्वकामस्यापि कथमकामत्वमित्यत आह – आप्तकाम इति । आप्ता: कामा: येन स तथोक्तः । अतोऽनुप्तन्नोत्तरकाम इत्यर्थः । कथमाप्तकामत्व इत्यत्राह – आत्मकाम इति । आत्मैव कामो यस्य स तथोक्तः । आत्मव्यतिरिक्तस्य काम्यस्य वस्तुनोऽभावात् आत्मरूपकाम्यस्य नित्यसिद्धत्वात् आप्तकामत्वम्। अत एव अकामत्वञ्च इत्यर्थः, एतादृशस्तु ब्रह्मैव सन् ब्रह्माप्येति इति योजना । ब्रह्मैव सन् ‘आविर्भूतगुणाष्टकरूपब्राह्मरूपस्सन्’ ब्रह्माप्येति– परब्रह्मणि लीनो भवतीत्यर्थः । अपिपूर्वस्य एतेः लयार्थकत्वात् । लयो नाम तद्विविक्ततया दर्शनाभावाः । अपहतपाप्मत्वादि-ब्राह्मरूपसाधर्म्येण परब्रह्मविविक्ततया ‘दर्शनयोग्यो’ भवतीत्यर्थः । ननु एतन्न सम्भवति । ब्राह्मरूपाविर्भावो हि परं ब्रह्म उपसन्नस्यैव भवति परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.उ.८-१२-२) इति श्रवणात् । परब्रह्मोपसम्पत्तिर्नाम देशविशेषविशिष्ट ‘ब्रह्मप्राप्तिरेव’ । सा च देशविशेषे अर्चिरादिमार्गगतिमन्तरेण न सम्भवति । तद्गतिश्च भूतसूक्ष्पयुक्त प्राणादिरूपलिङ्गशरीरयुक्तस्यैव भवति । तद्योगश्च कर्माधीनः । विधूतकर्मणश्च उत्क्रान्तप्राणतया देहेन्द्रियप्राणयोगासम्भवेनार्चिरादिगत्यादेशविशेषविशिष्टब्रह्मप्राप्त्यसम्भवात् ब्राह्मरूपाविर्भावाभावेन, ब्रह्मैव सन् ब्रह्माप्यति इति नोपपद्यते इत्याशक्याह – तस्य प्राणा उत्क्रामन्तीति । तस्मात् अकामत्वात् युक्तगुणाज्जीवात् प्राणा नोत्क्रामन्तीत्यर्थः । नटस्य शुणोति इतिवत् अपादानलक्षणसम्बन्धे षष्ठी । अत एव समानप्रकरणे माध्यन्दिन-शाखायाम्, तस्मात् प्राणा उत्क्रामन्ति इत्यतिस्पष्टं पञ्चमी श्रूयते ।

[आसृत्युपक्रमाधिकरणम्]

इदञ्च वाक्यमुत्क्रान्तिपादे चिन्तितम् । तत्र हि-अत्र ब्रह्म समश्नुते (क.उ.६-१४) इति अत्रैव विदुषः ब्रह्मभावश्रवणात् नोत्क्रान्तिरिति प्राप्ते उच्यते; समाना चामृत्युपक्रमादमृतत्वञ्चानुपोष्य (ब्र.सू.४-२-७) । आसृत्युपक्रमात् – आगत्युपक्रमात् नाडीप्रवेशात् प्राक् उत्क्रान्तिः ‘विद्वदविदुषोः समाना’ । शतञ्चैका हृदयस्य नाडयस्तासां मूर्धानमभिनिस्सृतैका तयोर्ध्वमायन्नमृत्वमेति (क.उ.६-१६) इति विदुषोऽपि नाडीविशेषेण उत्क्रान्ति’ श्रवणात् उत्क्रान्तिरवर्जनीयैव । अथ मोऽमृतो भवति अत्र ब्रह्म समश्नुते इति विदुषोऽत्रैव श्रूयमाणं यदमृतत्वम् तत् अनुपोष्य शरीरेन्द्रियसम्बन्धम् अदग्ध्वैव उत्तर-पूर्वाधाश्लेषविनाशरूप’ममृतत्वमश्नुते’ । अत्र ब्रह्म समश्नुते इति च उपासनकाल-ब्रह्मानुभवाभिप्रायम् ।

तदापीतेः संसारव्यपदेशात् (ब्र.सू.४-२-८) । अवश्यञ्च तत् अमृतत्वमदग्ध-देहसम्बन्धस्यैव वक्तव्यम् । कुतः? आपीतेः संसारव्यपदेशात् । अपीतिः – अप्ययः आब्रह्माप्ययं संसारो हि व्यपदिश्यते; तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ सम्पत्स्ये इति (छां.उ.६-१४-२) अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि (छां.उ.८-१३-१) इति व्यपदेशात्

सूक्ष्मं प्रमाणतश्च तथोपलब्धे: । (ब्र.सू.४-२-९) । देवयानेन पथा गच्छतोऽपि विदुषः, तं प्रति ब्रूयात् सत्यं ब्रूयात् (कौ.उ.१-२) इति चन्द्रमस्संवादस्य प्रमाणप्रतिपन्नत्वाञ्च सूक्ष्मं शरीरमामोक्षमनुवर्तते इति अभ्युपगन्तव्यम् । न ह्यशरीरस्य चन्द्रमसा संवादः सम्भवति । नोपमर्देनातः (ब्र.सू.४-२-१०) । अतः अथ मर्त्योऽमृतो भवति इति श्रूयमाण-ममृतत्वं शरीरेन्द्रियसम्बन्धानुपमर्देनैव उत्तरपूर्वाघाश्लेषविनाशरूपमङ्गीकर्तव्यम् । अस्यैव चोपपत्तेरूष्मा । (ब्र.सू.४-२-११)अस्यसूक्ष्मशरीरस्य क्वचिदुपसंहतत्वादेव विदुषोऽपि म्रियमाणस्य क्वाचित्क ऊष्मा उपलभ्यते । प्रतिषेधादिति चेन्न शरीरात्  स्पष्टो ह्येकेषाम् । (ब्र.सू.४-२-१२) ननु योऽकामो निष्काम आप्तकाम आत्मकामो तस्य प्राणा उत्क्रामन्ति इति विदुषो देहादुत्क्रान्तिः प्रतिषिद्धा । न च इदं शारीरापादानकोत्क्रमणनिषेधपरमिति वाच्यम् – यत्रायं पुरुषो म्रियते उदस्मात् प्राणा: क्रामन्ति आहो (बृ.उ.५-२-११) इत्यार्तभागप्रश्ने, नेति होवाच याज्ञवल्क्यः उच्छ्वयत्याध्मायत्याध्यातो मृतश्शेते (बृ.उ.५-२-११) इति उच्छूनत्वादीनां शरीरधर्माणां प्रतिपादनेन शरीरापादकोत्क्रमणप्रतिषेधकस्यैव’ युक्तत्वात् । न हि शरीरस्योच्छूनत्वम् आध्यातत्वं शयितृत्वं वा युज्यते । अतः शरीरापादानकोत्क्रमणनिषेधात् नोत्क्रान्तिर्विदुष इति चेन्न – शारीरादेव उत्क्रमणं प्रतिषिध्यते। एकेषां माध्यन्दिनानामाम्नाये विस्पष्टम् योऽकामो निष्काम आत्मकाम आप्तकामो तस्मात् प्राणा उत्क्रामन्ती इति शारीरापादानकोत्क्रमणप्रतिषेधात् । काण्वशाखायां तु तस्य प्राणा इति षष्ठी, नटस्य शृणोतीतिवत् अपादानत्वलक्षणसम्बन्धपरा । उदस्मात् प्राणाः क्रामन्त्याहो न इत्यार्तभागप्रश्ने तु विदुष: अप्रस्तुतत्वेनाविद्वद्विषयत्वावश्यम्भावेन अविदुषश्च शरीरादुत्क्रान्तेः प्रतिषेद्धुमशक्यतया तत्रापि शारीरापादानकोत्क्रमणप्रतिषेधपरत्वस्यैव युक्तत्वात् । न च तत्र वाक्यशेषश्रुतानां ऊच्छूनत्वादीनामात्मन्यनुपपत्तिः देहात्मनोरभेदोपचारेण देहधर्माणामुच्छूनत्वादीनाम् आत्मन्यभिधान ‘उपपत्तेः’ । शरीरापादानकोत्क्रान्ति-प्रतिषेधवादिनापि, आत्मकाम: – तस्मात् प्राणा उत्क्रामन्ति इति माध्यन्दिनशाखावाक्ये अभेदोपचारस्यावश्याश्रयणीत्वात् न च प्राणानां शरीरादुत्क्रान्तेः अप्रसक्ततया प्रतिषेधो न युक्त इति वाच्यम् – वृक्षादुड्डीयमान विहङ्गमसङ्घवत् यथायथं गमनसम्भवात्। तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये (छा.उ.६-१४-२) इति देहवियोगानन्तर-ब्रह्मसम्पत्तिवचनेन तदानीमेव शारीरात् प्राणोत्क्रमणस्य प्रसक्तत्वाच्च । तथा च सूक्ष्मशरीरसाध्यार्चिरादिगत्यभावे ब्रह्मसंपत्तेः तत्साध्याया अनुपपत्तिरिति शङ्कापरिहाराय न तस्य प्राणा उत्क्रामन्ति इत्युच्यते इति निरवद्यम् । अतो विद्वदविदुषोरुत्क्रान्तिः समाना इति स्थितम् । प्रकृतमनुसरामः ।। ६ ।।

तदेष श्लोको भवति

 

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदिस्थिताः । अथ मर्त्योऽमृतोभवत्यत्र ब्रह्म समश्नुते ।। इति । तद्यथाऽहिनिर्न्वयनीवल्मीके मृता प्रत्यस्ता शयीता, एवमेवेदँ शरीरँ शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव । सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेह ।। ।।

प्र. – तदेष श्लोको भवति । तत् – तत्र ब्रह्मविदि विषये एष श्लोकः प्रवृत्तो भवतीत्यर्थः। श्लोकमेवाह – यदा सर्वे…… समश्नुते इति कामाः – दुर्विषय-गोचरमनोरथाः अस्य – जीवस्य हृदि श्रिताः – हद्गताः सर्वे यदा शान्ता भवन्ति, अथ-अनन्तरमेवोपासको’ मर्त्यः सन् अमृतो भवति – विनष्टाश्लिष्टपूर्वोत्तराघो भवति। अत्र ब्रह्म समश्नुते – अत्रेव उपासनवेलायां ब्रह्म अनुभवतीत्यर्थः । पापसम्बन्ध-राहित्येन, ब्रह्मानुभवेन च इहेव मुक्त इव भवतीति यावत् । तद्यथा…… शरीरं शेते। यथा अहे: निल्वयनी सर्पस्य निर्मोकः सर्पेण वल्मीके प्रत्यस्ता – विसृष्टा सर्पासंसक्ता अत व मृता – निष्प्राणा अपि दूरे पश्यतां सर्पवदवभासमाना शयीत । एवमेव ब्रह्मविदः शरीरमहम्बुद्ध्यगोचरतया परित्यक्तमपि, पश्यतां ब्रह्मविच्छरीरमिव भासमानं ‘शेते इत्यर्थः । अथायमशरीरो…… तेज एव अथ – दर्शनसमानाकारब्रह्मविद्याधिगमोत्तरकालम् अयं – ब्रह्मवित् अमृतोऽपि – मरणहितोऽपि मरणात् प्रागपि अशरीरः – अशरीरकल्प एव इत्यर्थः । शरीरस्पर्शिपरिवादादिजनितविषादाद्यभावात् इति भावः । प्राणो ब्रह्मैव । ‘प्राणभृत्त्वेऽपि तादात्विकब्रह्मानुभवसत्त्वात् आविर्भूतब्राह्मरूप इवेत्यर्थः । तेज एवअज्ञानवक्षणान्धकारप्रतिभट एवेत्यर्थः । एवं प्राप्तब्रह्मविद्यो जनक आह (किमिति) सोऽहं भगवते सहस्रं ददामीति । स्पष्टोऽर्थः ।। ७ ।।

 

तदेते श्लोका भवन्ति

 

अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव तेन धीरा अपियन्ति ब्रह्मविदः स्वर्ग लोकमित ऊर्ध्वं विमुक्ताः ।। ।।

प्र.- तदेते श्लोका भवन्ति तत् – तत्र तस्मिन् विषये, ब्रह्मविद्विषये एते श्लोका भवन्तीत्यर्थः । तानेवाह – अणुः पन्थाः…… मयैव अणुः – दुर्विज्ञान:’ मानान्तरानधिगम्यः, विततः – वेदान्तेषु विस्तरेण प्रतिप्रादितः, पुराण: – अनादिः, मां स्पृष्टः – उपासकं मां प्राप्तः शताधिकनाडीद्वारा स्वदेहस्पर्शीत्यर्थः । मयैवानुवित्तः योगदशायां मयैवानुभूतश्च योऽयं पन्थाः अर्चिरादिमार्गः, तेन मार्गेण धीराः – प्रज्ञाशालिनो ब्रह्मविदः इतःअस्मात् देहात् विमुक्तास्सन्तः ऊर्ध्वं – सर्वेभ्यो लोकेभ्यः ऊर्ध्वं स्वर्गं लोकं – भगवल्लोकम् अत्र स्वर्गशब्दः प्रकरणात् भगवल्लोकपरः – अपियन्तिप्राप्नुवन्तीत्यर्थः ।। ८ ।।

तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितञ्च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित् पुण्यकृत् तैजसश्च ।। ।।

प्र.- तस्मिन्…… तेजसश्च तस्मिन् – अर्चिरादिके मार्गे शुक्लं नीलं पिङ्गलं हरितं लोहितम् – आदित्यमित्यर्थः । असौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः (छां.उ.८-६-१) इति श्रुत्यन्तरात् । एतादृशमादित्यं तस्मिन् मार्गे सन्तमाहुः शास्त्रविदः । एष पन्थाः – एषोऽर्चिरादिः पन्थाः ब्रह्मणा हानुवित्तःपरब्रह्मणा सह तत्प्रापकतया ह प्रसिद्धं यथा तथा सम्बद्धः । ब्रह्मपथ इति श्रुतिप्रसिद्ध इति यावत् । तेन – उक्तेनाचिरादिमार्गेण पुण्यकृत् ब्रह्मवित् – पूर्वं पुण्यं कृत्वा तद्वशेन शुद्धान्तःकरणो ब्रह्मविच्च, तैजसश्च तेजस्सम्बन्धी तेज उपासक: – पञ्चाग्निविद्यानिष्ठश्चेति यावत् – एति – गच्छतीत्यर्थः । तद्य इत्थं विदुः ये चे मेऽरण्ये श्रद्धा तप इत्युपासते (छां.उ.५-१०-१) इति श्रुत्यन्तरे पञ्चाग्निविदां ब्रह्मविदाञ्च अर्चिरादिगतिश्रवणात् । यद्यपि पञ्चाग्निविद्यापि ब्रह्मात्मकप्रत्यगात्मविद्यात्वात् ब्रह्मविद्यैव – अथापि विद्यान्तरवत् ब्रह्मविशेष्यकविद्यात्वाभावात् ब्रह्मवित् तेजसश्च इति पृथगुक्तिरिति द्रष्टव्यम् ।। ९ ।।

 

[अविदुषः अन्धतमसाभिगमनम्]

 

अन्धं तमः प्रविशन्ति योऽविद्यामुपासते

ततो भूय इव ते तमो विद्यायाँ रताः ।। १० ।।

प्र. – ब्रह्मवित्पुण्यकृदित्युक्तं कर्माङ्गकज्ञानस्य ब्रह्मप्राप्तिहेतुत्वं स्पष्टयति – अन्धं तमः…… रताः ये अविद्याम् उपासते – अत्र अविद्याशब्द: कर्मवाची । अविद्याकर्मसंज्ञान्या (वि.पु.६-७-६१) तर्तुं मृत्युमविद्यया (वि.पु.६-६-१२) इति च वचनात् – ये केवलं स्वर्गादि-फलोद्देशेन कर्मानुतिष्ठन्ति, न तु ब्रह्मज्ञानार्थितया, ते अन्धं तमः प्रविशन्ति दुस्तरं संसारलक्षणमन्धकारं प्रतिपद्यन्ते इत्यर्थः । विद्यायां रताः उ शब्दोऽवधारणे – नित्यनैमित्तिकं कर्म परित्यज्य विद्यायामेव यतन्ते ये तेऽपि ततः मोहात् तस्य परित्यागः तामसः परिकीर्तितः (भ.गी.१८-७) इत्युक्तरीत्या तस्मात् तामसत्यागवशात् भूय इव तमः– इव शब्दः एवार्थः । प्रविशन्तीत्यनुषङ्गः । पूर्वस्मादधिकं संसारमेव प्रविशन्तीत्यर्थः । उक्ततामसत्यागप्रयुक्तमनोमालिन्येन ज्ञानानिष्पत्त्या फललेशमपि अलब्ध्वा पतिता भवन्तीत्यर्थः । नानेन वचनेन ज्ञानकर्मणोः समुच्चय इति मन्तव्यम् ; ज्ञानव्यतिरिक्तोपायनिषेधकवचनैः ज्ञानस्य मोक्षोपायत्वप्रतिपादकवचनैः, कर्मणां ज्ञानाङ्गत्वप्रतिपादकवचनैश्च, नान्यः पन्था अयनाय विद्यते, (तै.सं.३-१२-७) ब्रह्मविदाप्नोति परम् (ते.आन.१-१) तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन (बृ.उ.६-४-२२) इत्यादिभिः भूयोभिः विरोधप्रसङ्गात् ।। १० ।।

अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः । ताँस्ते प्रेत्याभिगच्छन्ति अविद्वांसोऽबुधो जनाः ।। ११ ।।

प्र. – अन्धतमसप्रवेशे किं भवतीत्यत्राह – अनन्दा नाम…… जनाः । अनन्दाः – सुखलेशशून्याः अन्धतमसावृता: केचन लोकाः सन्ति । तान् लोकान् मृत्वा गच्छन्ति ते । के? ये अविद्वांसः – ‘ब्रह्मज्ञानहीनाः’; अबुधः – ये प्रत्यगात्मविद्याशून्याः । पञ्चाग्निविद्याशून्या इति यावत् । पूर्वं तयोरेव प्रस्तुतत्वादिति द्रष्टव्यम् । बुध इति बुध्यतेः क्विबन्तस्य प्रथमाबहुवचनान्तस्य रूपम् ।। ११ ।।

[देवकर्तृकं ज्योतिषां ज्योतिष उपासनम्]

 

आत्मानञ्चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् ।। १२ ।।

प्रआत्मानञ्चेद्विजानीयात्…… संज्वरेत् । यदि अयं पूरुषः – जीव: स्वात्मानम्, अयमस्मि – एतादृशोऽहमस्मि – देहेन्द्रियमनःप्राणधीविलक्षणो ब्रह्मात्मकोऽहम् अस्मीति विजानीयात्, तदा देहेन्द्रियोपभोग्येषु लोकादिषु स्पृहाया अभावात् ; देहाद्यभि-मानकाले स्वबन्धुभूततया अभिमतभार्यापुत्रादेरपि अभावाच्च किमिच्छन् – स्वस्य किं वा फलमिच्छन् कस्य कामाय – स्वानुबन्धिनो वा कस्य दारपुत्रादिकस्याभीष्टाय शरीरमनुसंज्वरेत् – शरीरानुबन्धिफलमनुस्मृत्य कुतस्तप्येदित्यर्थः । अतोऽसौ कृतकृत्य एवेत्यर्थः ।। १२ ।।

यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्सन्देहे। गहने प्रविष्टः ।  विश्वकृत् हि सर्वस्य कर्ता तस्य लोकः लोक एव ।। १३ ।।

प्र. – पुनरपि स्तौति – यस्यानुवित्तः…… प्रविष्टः गहने – विषमे अस्मिन् – अनर्थशतसङ्कटे देहे प्रविष्टस्सन् यस्य – जीवस्य आत्मा – स्वरूपं प्रकृतिविविक्तत्व-ब्रह्मात्मकत्वश्रवणमननाभ्यासेन अनुवित्तः – अवगतः प्रतिबुद्धः ध्यातश्च भवतीत्यर्थः । स विश्वकृत् – स एव लोककृत् । ईश्वरवत् जगद्वन्द्य इति यावत् । तत्र हेतुमाह – हि सर्वस्य कर्ता तस्य लोकः लोक एव लोकः – आश्रयभूतः उ – सर्वश्रुतिप्रसिद्धः सर्वस्य कर्ता य ईश्वरः, तस्यापि स तु ‘पूर्वोक्तब्रह्मवित्’ लोक एव – आधार एव । ज्ञानी त्वात्मैव मे मतम् (भ.गी.७-१८) इति भगवतैव गीतत्वात् भगवतो ज्ञानिनं विना आत्मसत्ताया अभावात् इति भावः । शब्दः प्रसिद्धी ।। १३ ।।

 

इहैव सन्तोऽथ विद्मस्तद् वयं चेदवेदिर्महती विनष्टिः ।  एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ।। १४ ।।

 

प्र. – इहैव…… विनष्टिः इहैव सन्तः अस्मिन्नेव जन्मनि वर्तमाना वयं तत्ब्रह्म विद्म:-जानीमः । चेत् जानीमः, तर्हि अवेदिः-वेदनं वेदिः । ‘सर्वधातुभ्यः इन्’ (उणादि.५५७) इति इन्प्रत्ययः । न: ‘स्वरार्थ: । अवेदिः – अज्ञानं भवति । तदिदञ्च महती विनष्टिः – महाहानिरित्यर्थः । तेन ज्ञानस्यास्मिन्नेव जन्मनि प्राप्तस्य महालाभरूपत्वमार्थिकम् । इदं ज्ञानाज्ञानयोरेव महालाभहानित्वं दर्शयति य एतद्विदुः…… अपियन्ति एतत् – परब्रह्म । अमृताः-मुक्ता: । इतरे– एतद्वैदनहीनाः दुःखं – संसारम् । ‘शिष्टः स्पष्टार्थः’ ।। १४ ।।

 

यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य ततो विजुगुप्सते ।। १५ ।।

 

प्र. – तज्ज्ञानस्य महाफलत्वमेवाह – यदैतम्…… ततो विजुगुप्सते । यदा एतं भूतभव्यादेरीशितारं देवं – द्योतमानं सर्वभूतानाम् आत्मानम् – अन्तर्यामिणं द्राक् अनुपश्यति – सम्यक् पश्यति, तत:– तदा सर्वस्यापि एकात्मकत्वज्ञानात् न विजुगुप्सते – सर्ववस्तुषु निन्दा न प्रवर्तत इत्यर्थः ।। १५ ।।

यस्मादर्वाक् संवत्सरोऽहोभिः परिवर्तते । तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ।। १६ ।।

प्र.- यस्मात्…… परिवर्तते यस्मात् – भूतभव्येशानात् परमात्मनः अर्वाक् – तदन्यविषय एवेति यावत् । कालात्मा संवत्सरः स्वावयवैरहोभिः परिवर्तते – परिच्छेदकत्वेन वर्तते । य आत्मा संवत्सरमासादिलक्षणकालपरिच्छेदात् अतीत इत्यर्थः । तं देवाः…… अमृतम् ज्योतिषां ज्योतिःप्रकाशकानां प्रकाशकम्, अमृतंकालापरिच्छिन्नम्, आयुः – सर्वप्राणिप्राणनहेतुभूतं तं देवा उपासते – देवोपास्यत्वं तु तस्यैवेत्यर्थः । उक्तञ्च व्यासार्यै:, ज्योतिषि भावाच्च (ब्र.सू.१-३-३१) इति सूत्रे, देवा एव ज्योतिरुपासतेइति वा, ‘देवा ज्योतिरेवोपासते इति वा वाक्यभङ्गी स्यात् । तत्र न प्रथम: कल्पो युज्यते; मनुष्याणामनधिकारप्रसङ्गात् । तस्मात् ज्योतिरेवोपासते इत्यर्थः इति ।। १६ ।।

[पञ्चपञ्चजनशब्दार्थविचारः]

 

यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवमन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ।। १७ ।।

 

प्र. – यस्मिन् …… प्रतिष्ठितः ‘पञ्चजनसंज्ञाः पञ्च’, आकाशश्च यत्र प्रतिष्ठित इत्यर्थः । अत्राकाशशब्दो भूतान्तरस्याप्युपलक्षकः । पूर्वस्मिन् मन्त्रे ज्योतिषां ज्योतिरिति ‘षष्ठ्यन्तज्योतिश्शब्दस्यार्थनिर्णायकसापेक्षत्वात्’, अत्र ‘पञ्चजनस्याप्यर्थनिर्णायकान्तर-सापेक्षत्वाच्च, पञ्चत्वसंख्यान्वययोग्यानि ज्योतीषीन्द्रियाणि एवेत्यवसीयन्ते । उक्तञ्च व्यासार्यै: श्रुत्यैव पञ्चसङ्ख्या विशेषितत्वात् पञ्चसङ्ख्यज्योतिरन्तरप्रसिद्ध्यभावाच्च परिशेषेणेन्द्रियत्वावगम इति । तमेवमन्य…… अमृतम् । तादृशमात्मानम् अमृतं ब्रह्मेत्येवं विद्वान् अन्यः – पूर्वमन्त्रे उपासकत्वेनोक्तदेवेभ्योऽन्यो मनुष्योऽप्यमृतो भवतीत्यर्थः ।। १७ ।।

प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम् । मनसो ये मनोविदुः, ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ।। १८ ।।

 

प्र.- पञ्चजनशब्दनिर्दिष्टानि ज्योतींषि कानि इत्यपेक्षायां आह – प्राणस्य……पुराणमग्र्यम् । अत्र प्राणशब्देन स्पार्शनेन्द्रियं गृह्यते; वाय्वाप्यायितत्त्वात् स्पार्शनेन्द्रियस्य मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगात् । चक्षुष इति चक्षुरिन्द्रियं गृह्यते । श्रोत्रस्येति श्रोत्रेन्द्रियम् । मनस इति मनो गृह्यते । समानप्रकरणे माध्यन्दिनशाखायाम् , अन्नस्यान्नम् इति’, पाठात् ‘अनुक्तमन्यतो ग्राह्यम्‘ इति न्यायेन तदपि गृह्यते । सूत्रितञ्च ज्योतिषैकेषामसत्यन्ने (ब्र.सू.१-४-१३) इति । ‘अन्नशब्देन च अन्नसम्बन्धिनोः’ घ्राणरसनयोः ‘तन्त्रेण ग्रहणम् । अन्नेन घ्राणस्य आप्यायितत्त्वलक्षणसम्बन्धः, रसनस्य अन्नभक्षकतया अन्नसम्बन्ध इति द्वयोरपि ग्रहणम् । एतत्सर्वं भाष्यश्रुतप्रकाशिकयोः स्पष्टम् । एवं प्रकाशकत्वेन ज्योतिश्शब्दितत्वक्चक्षुरादीन्द्रियाणामपि त्वक्चक्षुरादिवत् प्रकाशकम् – तेषां तत्तद्विषय-ग्रहणशक्तयाधायकमित्यर्थः । एतादृशं ये जानन्ति, ते पुराणं – पूर्वस्थितम् अग्र्यम् -अग्रे ऊर्ध्वमपि स्थितं ब्रह्म – परं ब्रह्म निचिक्युः – निश्चितवन्त इत्यर्थः ।।

[सङ्ख्योपसङ्ग्रहाधिकरणम्]

इदञ्च चिन्तितं समन्वयाध्याये चतुर्थे पादे । तत्रहि – यस्मिन् पञ्चपञ्चजना आकाशश्च प्रतिष्ठित: इति वाक्ये पञ्चत्वविशेषितया पञ्चसङ्ख्यया पञ्चविंशतिसङ्ख्याप्रतीतेः साङ्ख्यस्मृति सिद्धाब्रह्मात्मकपञ्चविंशतितत्त्वप्रतिपादकमेवेदं वाक्यमिति पूर्वपक्षे प्राप्ते उच्यते न सङ्घयोपसङ्ग्रहादपि नानाभावादतिरेकाच्च (ब्र.सू.१-४-११) पञ्चविंशतिसङ्ख्या-प्रतीतिवशादपि न साङ्ख्याभिमततत्त्वस्वीकारः नानाभावात् – नानात्वात् । भिन्नत्वादिति यावत् । साङ्ख्याभिमताब्रह्मात्मकपञ्चविंशतितत्त्वेभ्यः, यस्मिन् पञ्च पञ्चजनाः इति ब्रह्माधारकतया ब्रह्मात्मकत्वेन प्रतिपाद्यमानानां तत्त्वानां भिन्नत्वादित्यर्थः । अतिरेकाच्च यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठित: वाक्ये यस्मिन्नित्याधारतया निर्दिष्टस्यात्मनश्च, आकाशश्च प्रतिष्ठित ‘इत्याकाशस्य च’ प्रतिपादनेन सप्तविंशतितत्त्वप्रतीतेश्च न साङ्ख्यमत- प्रत्यभिज्ञानम् । सङ्घयोपसङ्ग्रहादपि इत्यपिशब्दात्, वस्तुतः सङ्ख्योपसङ्ग्रहोऽपि नास्ति; पञ्चभिरारब्धसमूहपञ्चकासम्भवात् । न हि तन्त्रप्रसिद्धेषु ‘तत्त्वेषु पञ्चसु ‘पञ्चत्व’संख्यानिवेश निमित्तं जात्यादिकमस्ति । न च पञ्चकर्मेन्द्रियाणि, पञ्चज्ञानेन्द्रियाणि, पञ्चमहाभूतानि, पञ्चतन्मात्राणि, अवशिष्टानि पञ्च इत्यवान्तरसङ्घयानिवेशनिमित्तमस्त्येवेति वाच्यम् – आकाशस्य ‘पृथङ्निर्देशेन पञ्चभिरारब्धमहाभूतसमूहासिद्धेः । अतः पञ्चजना इत्ययं समासो न समाहारविषयः । अपि तु दिक्सङ्घचे संज्ञायाम् (पा.सू.२-१-५०) इति संज्ञाविषयः । ‘अन्यथा पञ्च पञ्चपूल्ये इतिवत् पञ्च पञ्चजन्य इति स्यात् । ततश्च, सप्तसप्तर्षयो अमला: इतिवत् पञ्च पञ्चजना इति निर्देश उपपद्यते । के पुनस्ते पञ्चजना इत्यत्राह – प्राणादयो वाक्यशेषात् (ब्र.सू.१-४-१२) । प्राणस्य प्राणम् इति वाक्यशेषश्रुताः प्राणचक्षुश्श्रोत्रा मनोरूपाः पञ्चार्था अवसीयन्ते । नन्वेवं काण्वानामन्न पाठाभावात् कथं पञ्चपञ्चजनप्रतीतिरित्यत्राह-ज्योतिषैकेषामसत्यन्ने । एकेषां काण्वानां पाठे असति अन्ने, तं देवा ज्योतिषां ज्योतिरिति प्रक्रमश्नुत-षष्ठ्यन्तज्योतिश्शब्दादेव पञ्चजनशब्दितानि इन्द्रियाणि इत्यवसीयन्ते । ज्योतिश्शब्दस्यापि अर्थनिर्णायकसापेक्षत्वात् ; पञ्चजनशब्दस्यापि अर्थनिर्णायक सापेक्षत्वात् ; परस्पराकाङ्क्षा-वशेन पञ्चत्वसङ्ख्यायुक्तानि प्रकाशकतया ज्योतिश्शब्दितानि इन्द्रियाण्येव पञ्चजना इति स्थितम् । प्रकृतमनुसरामः ।। १८ ।।

[मनसा ब्रह्मण दर्शनम्]

मनसैवानु द्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योः मृत्युमाप्नोति इह नानेव पश्यति ।। १९ ।।

 

प्र. – तज्ज्ञाने साधनमाह – मनसैवानु द्रष्टव्यम् अनु – पश्चात् । श्रवणमननान्तरम् इत्यर्थः । मनसैव द्रष्टव्यम् । दर्शनसमानाकारस्मृतिसन्ततिरूपध्यानं विशुद्धेन मनसा सम्पाद्यमित्यर्थः । नन्वेकस्यात्मनः पञ्चजनभूताकाशाद्याधारत्वं न सम्भवतीति मन्यमानं प्रत्याह- नेह नानास्ति किञ्चन इह – द्रष्टव्ये ब्रह्मणि नानाशब्दो भावप्रधानः नानात्वमित्यर्थः । यस्मिन् पञ्च पञ्चजना इति मन्त्रनिर्दिष्टे आत्मनि किञ्चन ‘नानात्वं’ नास्ति; भेदलेशोऽपि नास्ति इत्यर्थः । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । इवशब्दः अल्पार्थः । इह निखिलप्रपञ्चाधारभूते आत्मनि अल्पमपि नानात्वं यः पश्यति,  मृत्योर्मृत्युमाप्नोति संसारात् संसारम् आप्नोति । अत्यन्तं संसारमाप्नोति इत्यर्थः । अस्य वाक्यस्य परैरप्येवमेव व्याख्यातत्वात् नात्र वाक्ये प्रपञ्चमिथ्यात्वप्रतिपादन-प्रत्याशा कार्या । विज्ञानमात्रास्तित्वनिरासिभिः, नाभाव उपलब्धेः (ब्र.सू.२-२-२७) वैधर्म्याच्च स्वप्नादिवत् (ब्र.सू.२-२-२८) भावोऽनुपलब्धे: (ब्र.सू.२-२-२९) इति सूत्रैः सर्वशून्यत्वनिरासिना सर्वथानुपपत्तेश्च (ब्र.सू.२-२-३०) इति सूत्रेण च प्रपञ्चमिथ्यात्ववादस्य निरस्तत्वाच्च । तत्र हि – विज्ञानमेव तत्त्वम् ; नान्यत् परमाणुसमुदायरूपं ‘तदारब्धावयविरूपं वा किञ्चिदस्ति; परमाणूनामप्रमाणिकत्वात् । तेषां क्षणिकानां समुदायभावसम्भवात् । निरवयवेषु परमाणुषु संयोगस्य व्याप्यवृत्तित्वाव्याप्यवृत्तित्वविकल्पदुःस्थत्वेन अवयवेषु अवयविनः कृत्स्नैकदेशविकल्पदुःस्थत्वेन च परस्परसंयुक्तावयवतदाश्रितावयसम्भवाच्च । ‘बाह्यार्थानाम्’ ‘आन्तरविज्ञानसम्बन्धानिरूपणेन तद्विषयत्वासम्भवाच्चः, सम्बन्धं विना विषयत्वे सर्वविषयाणामेकस्मिन्नेव विज्ञाने अवभासप्रसङ्गात् । न च बाह्यार्थाभावे नीलपितादिज्ञानानां निरालम्बनत्वापातः; ज्ञानानामेव नीलपीताद्याकारत्वात् । नीलादिकं ज्ञानाभिन्नं ज्ञानोपलम्भव्याप्योपलम्भविषयत्वात् ज्ञानवत् । व्याप्यत्वस्याभेदेऽपि सम्भवेन न दृष्टान्तासिद्धिः । न च नीलतज्ज्ञानयोरभेदे, ‘अहमिदं जानामीति’ क्रियाकर्मकर्तृभावेन ‘भेदभावसविरोध इति वाच्यम् तस्य द्विचन्द्रज्ञानवत् भ्रान्तत्वात् । तथाऽहुः –सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदस्तु भ्रान्तिविज्ञानैर्दृश्यश्चन्द्र इवाद्वये ।। अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनै: । ग्राह्यग्राहक संवित्तिभेदवानिव लक्ष्यते ।। इति । ननु सर्वस्याप्यान्तरत्वे बाह्यत्वावभासः कथमिति चेत् – न – उपरिस्थितानां नक्षत्रादीनामुद्यतां भूमिष्ठत्वावभासवत् बाह्यत्वावभासस्यापि भ्रमत्वात् । अपिच स्तम्भज्ञानं कुड्यज्ञानमित्येवंरूपज्ञानपक्षपातस्य ज्ञानगतं विशेषमन्तरेणानुपपत्तेः अवश्यं विषयसारूप्यं ज्ञानस्य अभ्युपगन्तव्यम् । ततश्चाङ्गीकृते ज्ञानगताकारे आकारद्वयानुपलम्भादपार्थिका बहिरर्थकल्पना । स्वप्नादिवच्च इदं द्रष्टव्यम् । यथा हि स्वप्रमायामरीच्युदकगन्धर्वनगरादिप्रत्ययाः विनैव बाह्यार्थेन ग्राह्यग्राहकाकाराः भवन्ति । एवं जागरितप्रत्यया अपि । प्रत्ययत्वा-विशेषात् । कथं पुनः असति बाह्येऽर्थे प्रत्ययवैचित्र्यमुपपद्यत इति चेन्न – वासनावैचित्र्यस्यैव नियामकत्वात् । अनादौ हि संसारे बीजाङकुरवत् ज्ञानानां वासनानाञ्चान्योन्यनिमित्तकत्वेन वैचित्र्यात् । तस्मादभावो बाह्यार्थस्यैत्येवं प्रत्यवस्थिते योगाचारे पठत्याचार्यः –नाभाव उपलब्धः (ब्र.सू.२-२-२७) न खल्वभावो बाह्यार्थस्य युक्तः । कस्मात् ? उपलब्धे: । उपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थः स्तम्भकुड्यादिः । न चोपलभ्य-मानस्यैवाभावो युक्तः । यथा हि कश्चिद्भुञ्जान एव भुजिसिद्धां तृप्तिञ्चानुभवन् ब्रूयात् नाहं भुञ्जे:, तृप्यामि इति, तद्वत् इन्द्रियसन्निकर्षेण स्वयमुपलभमान एव बाह्यमर्थम्, नाहमुपलभे, न च सोऽस्ति इति ब्रुवन् कथमुपादेयवचनस्स्यात् । ननु नाहमेवं ब्रवीमि, नैवार्थमुपलभ इति; किन्तु उपलब्धिव्यतिरिक्तं नोपलभे इति ब्रवीमि । बाढमेवं ब्रवीषि; [‘निरङ्कुशत्वात् ते तुण्डस्य । न तु युक्त्युपेतं ब्रवीषि । यत उपलब्धिव्यतिरेकोऽपि बलादर्थस्योपगन्तव्यः’] उपलब्धेरेव । न हि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं वा इत्युपलभते । उपलब्धिविषयत्वेनैव स्तम्भकुड्यादीन् सर्वे लौकिकाः उपलभन्ते । ननु बाह्यस्यार्थस्यासम्भव उक्तः न प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ हि सम्भवासम्भवौ; न तु सम्भवासम्भवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्ती । यत्र यद्धि प्रत्यक्षादीनाम् अन्यतमेनापि प्रमाणेनोपलभ्यते, तत् सम्भवति । यत्तु न केनचित् अप्युपलभ्यते, तन्न सम्भवति । इह तु यथास्वं सर्वैरेव प्रमाणेः बाह्योऽर्थो उपलभ्यमानः कथम् ; न सम्भवतीत्युच्यते । यदुक्तम् – स्वप्नादिप्रत्ययवत् जागरितप्रत्यया अपि स्वेनैव बाह्यार्थेन भवेयुः प्रत्ययत्वाविशेषादिति, तत्राह, वैधर्म्याच्च स्वप्नादिवत् (ब्र.सू.२-२-२८) । न स्वप्नादिवत् जागरितप्रत्यया भवितुमर्हन्ति । कस्मात्? वैधर्म्यात् । किं पुनर्वैधर्म्यम् ? “बाधाबाधौ । बाध्यते हि स्वप्नोपलब्धं वस्तु प्रबुद्धस्य मिथ्यैव मयोपलब्धो महाजनसमागमः ह्यस्ति महाजनसमागमः निद्रादूनं तु मे मनो बभूव तेनैषा भ्रान्तिरुद्धभूव इति । एवं मायादिष्वपि भवति यथायथं बाधः । नैवं जागरितोपलब्धं स्तम्भादि कस्याञ्चिदप्यवस्थायां बाध्यते । तत्रैवं सति न शक्यते वक्तुम् , मिथ्या जागरितोपलब्धिः, उपलब्धित्वात् स्वप्नोपलब्धिवत् इति उभयोरन्तरं स्वयमनुभवता । न च स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम् । तस्मात् विज्ञानव्यतिरिक्तो बाह्यार्थोऽबाधितोऽभ्युपगन्तव्यः इति । एवमेव सूत्रं व्याकुर्वतां परेषां प्रपञ्चमिथ्यात्ववादः कथं सङ्गच्छते । विरोधात् । ननु न विरोधः । ज्ञानार्थयोरभेदो योगाचाराभिमतः । वयं तु भेदमङ्गीकृत्य अर्थमिथ्यात्वं ब्रूम इति चेन्न – अर्थमिथ्यात्वस्यैव योगाचाराभिमतत्वात् । अन्यथा ज्ञानमिथ्यात्वार्थसत्यत्वयोः अन्यतरप्रसङ्गात् । ननु अर्थतुच्छत्वं तदभिमतम्। वयं तु तन्निरारोनानिर्वाच्यत्वं ब्रूम इति चेत् – तुच्छत्वमिति किमप्रतीतत्वं विवक्षितम्; उत प्रतीतत्वेऽपि बाधार्हत्वम् न तावदप्रतीतत्वं योगाचाराभिमतम्। सहोपलम्भनियमस्य तेरुच्यमानत्वात् । द्वितीये तु शब्दवैषम्यमेव तेषां युष्माकञ्च । प्रतीतत्वे सति बाधार्हत्वस्योभयाभिमतत्वात् । अस्तु वा किञ्चिद्वैषम्यं भवतां ग्रन्थेष्वन्यग्रन्थात्, तदानीमपि सूत्रं विरुद्धम्; कारणदोषबाधक-प्रत्यययोरनिर्वाच्यपक्षेऽपि उपाधित्वोपपत्तेरविशिष्टत्वात् । न हि अनिर्वाच्यपक्षास्पर्शी कश्चिदुपाधिः सूत्रितः, व्याख्यातश्च । अत एतत्सूत्रे स्वव्याख्यानविरोधोऽपि परेषां दुस्तरः । अथ – एतत् स्वप्नस्य कारणदोषबाधकप्रत्ययाभ्यां वैधर्म्यमन्वारुह्य उक्तम् । न च स्वप्नज्ञानानां निर्विषयत्वम् ; प्रत्ययसामान्यस्य निर्विषयत्वासम्भवात् । अतो ज्ञानत्वहेतु: विरुद्धश्च इत्याह आचार्यः – भावोऽनुपलब्धे: (ब्र.सू.२-२-२९) केवलस्यार्थशून्यस्य ज्ञानस्य न भावः सम्भवति । कुतः? क्वचिदप्यनुपलब्धेः । न ह्यकर्तृकस्याकर्मकस्य वा ज्ञानस्य क्वचिदप्युपलब्धिः । स्वप्रज्ञानादिष्वपि ईश्वरसृष्टपदार्थानां सत्त्वात् नार्थशून्यत्वमिति ख्यातिनिरूपणभाष्ये प्रतिपादितम् । किञ्च सर्वेषां ज्ञानानामर्थशून्यत्वे, भवद्भिः साध्योऽप्यर्य़ो न सिद्ध्यति, निरालम्बनानुमानज्ञानस्यापि अर्थशून्यत्वात् । तस्यार्थवत्त्वे ज्ञानत्वस्य तत्र अनेकान्तिकत्वात् सुतराम् अर्थशून्यत्वासिद्धिरेवेति स्थितम् । एवमस्मिन्नधिकरणे ज्ञानातिरिक्तविषयासत्त्वनिरासेन विषयाश्रयशून्यज्ञाननिरासेन च प्रपश्चमिथ्यात्वं निरस्तम् । अथ सर्वशून्यवादनिरासेनापि प्रपञ्चमिथ्यात्वं निरस्यति आचार्यः -अत्र सर्वशून्यवादी माध्यमिकः प्रत्यवतिष्ठते – शून्यवाद एव हि सुगतमतकाष्ठा । शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उक्ताः । विज्ञानं बाह्यार्थाश्च न सन्ति शून्यमेव तत्त्वम् अभावापत्तिरेव मोक्षः इत्येव बुद्धस्याभिप्रायः । तदेव हि युक्तम् । शून्यस्य अहेतुसाध्यतया स्वतस्सिद्धेः । सत एव हि हेतुरन्वेषणीयः । तच्च सत् भावादभावाच्च नोत्पद्यते । तत्र भावात् तावत् न कस्यचिदप्युत्पत्तिर्दृष्टा । न हि घटादिः अनुपमृदिते पिण्डादिके जायते । नापि अभावादुत्पत्तिः सम्भवति । नष्टे पिण्डादिके ह्यभावादुत्पद्यमानं घटादिकं अभावात्मकमेव स्यात् । तथा स्वत: परतश्चोत्पत्तिर्न सम्भवति । स्वतः स्वोत्पत्तौ आत्माश्रयदोषप्रसङ्गात् । प्रयोजनाभावाच्च । परत: परोत्पत्तौ परत्वाविशेषात् सर्वेषां सर्वेभ्य उत्पत्तिप्रसङ्गः । जन्माभावादेव विनाशस्याप्यभावः । अत: शून्यमेव तत्त्वम् । अतो जन्मविनाशसदसदादयो भ्रान्तिमात्रम् । न च निरधिष्ठानभ्रमासम्भवात् भ्रमाधिष्ठानं किञ्चित् पारमार्थिकं तत्त्वमाश्रयितव्यम् – दोषदोषाश्रयत्वज्ञातृत्वाद्यपारमार्थ्येऽपि भ्रमोपपत्तिवत् अधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेः । अतः शून्यमेव तत्त्वम् – इति प्राप्ते उच्यते – सर्वथाऽनुपपत्तेश्च (ब्र.सू.२-२-३०) । सर्वथाऽनुपपत्तेः सर्वशून्यत्वञ्च भवदभिप्रेतं न सम्भवति । किं भवान्, सर्वं सदिति प्रतिजानीतेव, असदिति वा, अन्यथा वा? सर्वथाऽपि तवाभिप्रेतं तुच्छत्वं न सम्भवति । लोके भावाभावशब्दयोः तत्प्रतीत्योश्च विद्यमानस्यैव वस्तुनोऽवस्थाविशेषगोचरत्वस्य लाघवन्यायसिद्धत्वात् । अतः,सर्वं शून्यम् इति प्रतिजानता, सर्वं सदिति प्रतिजानतेव, सर्वस्य विद्यमानस्यावस्थाविशेषयोगितैव प्रतिज्ञाता भवतीति भवदभिमता तुच्छता न कुतश्चिदपि संभवति । किञ्च कुतश्चित् प्रमाणात् शून्यत्वमुपलभ्यशून्यत्वं सिषाधयिषता तस्य प्रमाणस्य सत्त्वमभ्युपेतम्, तस्यासत्त्वे तु सर्वं सत्यं स्यादिति सर्वथा सर्वशून्यत्वञ्चानुपपन्नमिति हि स्थितम् ।

[प्रपज्ञमिथ्यात्वखण्डनम्]

नन्वत्र निरस्तं तुच्छत्वमेव; न मिथ्यात्वमिति चेन्न । प्रपञ्चमिथ्यात्वरूपविषयस्य तत्साधकप्रमाणस्य च सत्यत्वमिथ्यात्वविकल्पेषु सर्वथा प्रपञ्चमिथ्यात्वासिद्ध्या प्रमाणप्रमेयदौःस्थ्यरूपसर्वथानुपपत्तिन्यायसाम्यात् । निरूपितञ्चैतत् व्यासार्यैः जिज्ञासाधिकरणे प्रपञ्चमिथ्यात्वानुमाननिरासभाष्यव्याख्यानावसरे । तुच्छत्वव्यावृत्तमिथ्यात्वस्य दुर्नि-रूपितत्त्वाच्च ।

तथाहि – न तावत् भवदभिमतं मिथ्यात्वं प्रतीतत्वे सति बाध्यत्वम् शशशृङ्गादेरपि प्रतीत्यादेरविशेषात् । शब्दज्ञानानुपाती वस्तुशून्यो विकल्प: (यो.द.१-९) इति हि योगसूत्रम्। यदि शशशृङ्गादिर्न प्रतीयते, तर्हि त्वया एतदनुयुक्तेन वक्तव्यम् – तदप्रतीतम्, ख्यातेर्नासत् इति व्यतिरेकदृष्टान्तभूमितया त्वया कथं निर्दिष्टमिति । अथ यदि प्रत्यक्षप्रतीतत्वं विवक्षितम्, तर्ह्यनुमानादिप्रतीतस्यामिथ्यात्वप्रसङ्गः । यदि तु प्रमाणप्रतीतत्वं विवक्षितम्, तर्हि बाध्यत्वव्याघातः । अत एव न प्रतिपन्नोपाधौ बाध्यत्वं मिथ्यात्वम् शृङ्गादिप्रति-पत्त्युपाधौ शशादावेव शृङ्गाभावसत्त्वात् । न च स्वसमानाधिकरणाभावप्रतियोगित्वं मिथ्यात्वम् घटाद्यधिकरणदेशकालयोः तदभावस्य व्याघातात् । यत्तु घटाद्यधिकरणे स्वापसमाध्योः तदप्रतीत्या तत्र तदभावसिद्धिरिति – तदप्याशामात्रम् । तदानीं सत्स्वपि घटादिषु ज्ञानप्रसरद्वाराणा मिन्द्रियाणामुपसंहारेण ज्ञानस्य विषयसम्बन्धाभावादेव तदप्रतीत्युपपत्त्या ततस्तदभावासिद्धेः । अत एव सदसदनिर्वचनीयत्वं मिथ्यात्वमित्यपि प्रत्युक्तम् । असत्त्वेनैव निर्वचनीयस्य मिथ्यार्थस्य सदसदनिर्वचनीयत्वायोगात् । एतेन सत्तात्रयभेदकल्पनाऽपि सुदूरनिरस्ता । पारमार्थिकसत्त्वासत्त्वाभ्यामेव सर्वव्यवहारोपपत्तौ व्यावहारिकप्रातिभासिकसत्तयोः कल्पनागौरवहतत्वात् । अप्रामाणिकत्वाच्च । यदप्यधिष्ठानपारमार्थ्याङ्गीकारात् शून्यवादवैलक्षण्यं मृषावादस्येति, तदपि मृषावाद एव । सर्वजगदध्यास अधिष्ठानभूतस्याविद्याशबळस्य तैः पारमार्थ्यानङ्गीकारात् । तैः परमार्थतयाऽङ्गीकृतस्य तु कस्यचिच्छुद्धस्य जगदध्यासानधिष्ठानत्वात् । सर्वप्रमाणाविषयस्य तस्य शशविषाणादिसमानयोगक्षेमत्वाच्च । ननु न तस्य शशविषाणसमानयोगक्षेमत्वम्; द्वे वाव ब्रह्मणो रूपे मूर्तञ्चामूर्तञ्च (बृ.उ.४-३-१) इत्यारभ्योपन्यस्तस्य मूर्तामूर्तादिरूपस्य, सर्वस्य च नेति नेति (बृ.उ.४-३-६) इति निषेधेन सर्वनिषेधाधिकरणत्वेन श्रुत्यैव परिशेषित्वादिति चेन्न – तस्याः श्रुतेः, प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः (ब्र.सू.३-२-२१) इति सूत्रोक्तन्यायेन ब्रह्मणः परिच्छेदनिषेधार्थकत्वस्य प्रागेवोपपादितत्त्वात् । प्रमाणान्तराप्राप्तस्य ब्रह्मरूपतया स्वेनैवोक्तस्य सर्वस्य स्वश्रुत्या स्वयमेव निषेधायोगाच्च । न च निर्विशेषस्य मिथ्यात्वे निरधिकरणनिषेधायोगः, मिथ्याभूतस्यैव तस्य निषेधाधिकरणत्वस्य शशविषाणादेरिव परमते सूपपादत्वात् । असतोऽपि हि व्यतिरेकोदारहरणत्वं तेषामिष्टम् ।

न च निर्विशेषस्य मिथ्यात्वापादकनिषेधशास्त्रमृग्यता । सर्वं शून्यं इति बुद्धागमवचनस्यैव निर्विशेषनिषेधकस्य सुलभत्वात् । न च बुद्धागमस्य अप्रामाण्यं शङ्क्यं सर्वमिथ्यात्ववादिना; आविद्यिकानां वेदानाञ्च अप्रामाण्यस्यैव तदिष्टत्वेन तन्मते प्रमाणभूतवचनस्यैव मृग्यत्वात् । यद्वा; द्वे वाव ब्रह्मणो रूपे इति प्रकृतब्रह्मरूपनिषेधकतया ‘तदभिमते’ नेति नेति इत्यादिवचनमेव प्रकृतत्वाविशेषात् ब्रह्मापि निषेधतु; नेह नाना इत्यादि वा ।

न च तन्निषेधाधिकरणदौर्घट्यम् । माध्यमिकाभिमतस्य शून्यतत्त्वस्यैव तदध्यासाधिष्ठानत्वनिषेधाधिकरणत्वयोः सम्भवात् । तस्मात् मानान्तराप्राप्तजगत्कारणत्वादि ब्रह्मधर्मप्रतिषेधे ब्रह्म कुतो न प्रतिषिध्येत । ब्रह्मव्यतिरिक्तस्य सर्वस्य स्वरूपतो निषेधे अखण्डार्थवेदान्तवाक्यगतयोग्यताया अपि असत्त्वेन तत्समसत्ताकस्य वाक्यार्थभूतब्रह्मणोऽपि असत्त्वापातात् ।

प्रपञ्चस्य शशशृङ्गादिवत् निस्स्वरूपत्वापाताच्च । न च – न स्वरूपेण निषेधं ब्रूमः, किन्तु पारमार्थिकत्वाकारेणेति वाच्यम् – स्वरूपस्यानिषेधे अबाध्यत्वलक्षणपारमार्थिकत्व-स्यापि सत्त्वेन तस्यापि निषेधानर्हत्वात् । ननु सत्त्वनिषेध एव स्वरूपनिषेधः । अतः नेह नानास्ति इति सत्त्वनिषेधात् स्वरूपमपि निषिद्धमेव । न च तस्य निस्स्वरूपत्वे शून्यवादाविशेष इति वाच्यम् । ब्रह्मव्यतिरिक्तविषये शून्यवादाविशेषस्य इष्टत्वादिति चेन्न –तर्हि नाभाव उपलब्धे: (ब्र.सू.२-२-२६) इत्यधिकरणविरोधस्य दुर्निरसत्वात् । किञ्च चैत्यवन्दनवाक्यार्थस्येव’; ज्योतिष्टोमेन यजेत स्वर्गकामः इत्यादि वेद- वाक्यार्थस्यापि, नेह नानेति स्वरूपतो निषेधे बौद्धशास्त्रस्येव वेदानामप्यप्रामाण्यं तन्मते दुर्वारम् । न च उभयोः असदर्थत्वाविशेषेऽपि ज्योतिष्टोमेन इति वाक्यार्थस्य बौद्धाभिमतसांवृतिकसत्यत्वस्थानाभिषिक्तव्यावहारिकसत्यत्वस्याभ्युपगतत्वात् चैत्यवन्दनवाक्ये तस्याप्यभावाद्वैषम्यमिति वाच्यम् । व्यावहारिकत्वस्य आपातप्रतिपन्नत्वे सति यौक्तिकनिरूपणासहत्वरूपतया तादृशसत्त्वस्य यथावस्थितार्थरूपत्वासम्भवेन तद्विशिष्टार्थप्रतिपादकवेदानामप्रामाण्यस्य अकामेनापि अङ्गीकरणीयत्वात् । अपि च, नेह नानास्ति इति प्रपञ्चसत्तानिषेधपक्षे व्यवहारसिद्धाया एव तस्याः निषेध्यत्वेन तथाविधव्यावहारिकप्रातिभासिकसत्तानिषेधपरत्वमेवास्याः श्रुतेः वक्तव्यम् । ततश्च परैः प्रपञ्चे पारमार्थिकसत्ताया अनङ्गीकारे सत्तात्रयशून्यस्य तस्य तुच्छत्वमेवापतति इति परेषां बौद्धवैषम्यं दुर्वचम् । न च, नेह घटोऽस्ति इति वाक्येन पारमार्थिकसत्तैव निषिध्यताम् इति वाच्यम्; नेह घटोऽस्ति इति वाक्येऽपि लोकप्रसिद्धिसत्त्वस्यैव निषेद्धं युक्ततया सत्त्वान्तरनिषेधस्यासम्भवात् । इतरथा नेह नानास्ति इत्यस्याः श्रुतेरप्रसक्त-प्रतिषेधतापातात् । उक्तञ्चाभियुक्तैः –

वेदोऽनृतो बुद्धकृतागमोऽनृतः

प्रामाण्यमेतस्य तस्य चानृतम्

बोद्धानृतो बुद्धिफले तथाऽनृते

यूयज्ञ बौद्धाश्च समानसंसदः ।। इति । ‘इत्यलं’ प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः ।। १९ ।।

[ब्रह्मस्वरूपम्]

 

एकधैवानुद्रष्टव्यम् एतदप्रमेयं ध्रुवम् । विरजः पर आकाशात् अज आत्मा महान् ध्रुवः ।। २० ।।

प्र. – एकधैवानुद्रष्टव्यम् अप्रमेयम् अपरिच्छेद्यं ध्रुवम् – निश्चलं एतत्सर्वभूतात्मभूतं ब्रह्म एकधैव – एकत्वेनैव अनु – श्रवणादेः ‘पश्चात् द्रष्टव्यमित्यर्थः । व्यासार्यैस्तु एकधैवानुद्रष्टव्यम् । केषाञ्चित् स्वनिष्ठत्वं ब्रह्मान्यपरतन्त्रत्वं वा न मन्तव्यम्; अपि तु परमात्मप्रकारतया’ एकरूपमेव द्रष्टव्यमित्यर्थ इत्युक्तम् । नेह नानास्ति किञ्चन इत्यत्रापि, अब्रह्मात्मकनानात्वं निषिध्यत इत्यत्युक्तम् । तदपि युक्तमेव; मदुक्तमपि, एकार्थपर्यवसायित्वात् द्वयोरपीति द्रष्टव्यम् । विरजःपर इति । विरजः – रागादिदोषरहितः आकाशात् – अव्याकृताकाशादपि परः । तस्यापि कारणभूत इत्यर्थः । ध्रुवः – स्थिरः । अनाशीत्यर्थः । अजः – उत्पत्तिरहितः । एवम्भूतो महानात्मा ।। २० ।।

 

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्वहून् शब्दान् वाचो विग्लापनँ हि तत् ।। इति ।। २१ ।।

 

प्र.- तमेव…… ब्राह्मणः । तादृशमात्मानं धीरः प्रज्ञाशाली विज्ञाय-श्रवणमननाभ्यां ज्ञात्वा प्रज्ञां निदिध्यासनं कुर्वीत इत्यर्थः । अत्र ब्राह्मणग्रहणं द्विजातेरुपलक्षणम् । यद्वा, ब्रह्माधीत इति ब्राह्मणः – अधीतवेद इत्यर्थः । नानुध्यायान् बहून् शब्दान् – बहून् शब्दान् ब्रह्मगुणानुवर्णनरहितान् नानुध्यायात् न चिन्तयेत् इत्यर्थः । तत्र प्रयोजनं ब्रह्मविदः नास्तीति हेतुमाह – वाचो विग्लापनं हि तत् तत् -अब्रह्मगुणवर्णनादिकशब्दानुध्यानादिकं हि वाचो विग्लापनं – विग्लानिसाधनम् , श्रमैक-फलकमित्यर्थः । इतिर्मन्त्रसमाप्तौ ।। २१ ।।

वा एष महानज आत्मा, योऽयं विज्ञानमयः प्राणेषु एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेत्ते, सर्वस्य वशी सर्वस्येशान: सर्वस्याधिपति:, साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राहाणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन एतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति एतद्ध स्म वै तत् पूर्वे विद्वाँसः प्रजां  कामयन्ते, किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ते स्म पुत्रेषणायाश्च वित्तैषणायश्च लोकेषणायाश्च व्युत्थयाथ भिक्षाचर्य चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा था वित्तैषणा सा लोकैषणा उभे ह्येते एषणे एव भवतः एष नेति नेत्यात्मा अगृह्यो हि गृह्यते, अशीयो हि शीर्यतेअसङ्गो हि सज्ज्यते, असितो व्यथते रिष्यति एतमु हैवेते तरत इत्यतपापम् अकरवमित्यत: कल्याणमकरवमित्युभे इहैवैष एते तरति नैनं कृताकृते तपतः ।। २२ ।।

प्र. – वा एष…… शेते एषः प्राङ्निर्दिष्टः अज आत्माअज आत्मा महान् ध्रुवः इति योऽयं निर्दिष्ट आत्मा, ‘अयम्‘, कतम, आत्मा योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योति: (बृ.उ.६-३-७) इति पूर्वनिर्दिष्टो यः तस्मिन् – जीवात्मनि शेते । तदन्तर्यामितया वर्तत इत्यर्थः । अत एवोत्तरत्र, आत्मन्येवात्मानं पश्यति इति वक्ष्यति । अत्र हृद्यन्तः इत्यस्य व्याख्यानं एषोऽन्तर्हृदय इति । ज्योतिः इत्यस्य व्याख्यानम् आकाश इति; ज्योतिराकाश शब्दयोः प्रकाशकत्वार्थकत्वेनैकार्थकत्वात् । अतोऽत्राकाशशब्दो जीवपर एव । ननु कामादीतरत्र तत्र चायतनादिभ्यः (ब्र.सू.३-३-३८) इत्यधिकरणे, वाजसनेयके तु आकाशे शयानस्य वशित्वादिश्रवणात् तस्य शयानस्य परमात्मत्वे सति तदाधाराभिधायिनः आकाशशब्दस्य, तस्यान्ते सुषिरं सूक्ष्मम् (तै.आ.१०-११-२) (महा.न.उ.११-९) इति हृदयान्तर्गतस्य सुषिरशब्द वाच्यस्याकाशस्य अभिधायकत्वमवगम्यते’ इति भाष्ये श्रुतप्रकाशिकायां च ‘अत्राकाश’ शब्दस्य भूताकाशपरत्वं समर्थितमिति प्रतीयते । अतः तद्विरुद्धमिदमिति चेत् -मैवम् । दहरोऽस्मिन्नन्तर आकाशः (८-१-१) इति छान्दोग्यगताकाशशब्दस्यैव अत्रत्याकाशशब्दस्य परमात्मपरत्वं नास्ति इत्यत्रैव ‘भाष्यादितात्पर्यम् ।

केचित्तु – ‘भाष्यानुरोधात् अन्तर्हृदये यो भूताकाशः, तत्र विज्ञानमयः महानात्मा शेते ‘इत्यर्थः । अस्मिन् प्रकरणे, प्राज्ञेनात्मना संपरिष्वक्त: (बृ.उ.६-३-२१) प्राज्ञेनात्मनाऽन्वारूढः (बृ.उ.६-३-३५) इति सुषुप्त्युत्क्रान्त्योः जीवपरमात्मप्रभेद प्रतिपादनेन’ विज्ञानमयशब्दनिर्दिष्टस्य जीवस्य, महतश्च परमात्मनः अभेदासम्भवात् विज्ञानमयशब्देन तच्छरीरकः परमात्मैवाभिधीयते । महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति (बृ.उ.४-४-१२) इति मैत्रेयी ब्राह्मणोक्तरीत्या विज्ञानमयशब्दस्य, अवस्थितेरिति काशकृत्स्नः (ब्र.सू.१-४-२२) सूत्रोक्तन्यायेनात्रान्तर्यामिपरत्वम् इत्याहुः । केचित्तु – योऽयं विज्ञानमय: इत्यत्र कतम आत्मा योऽयं विज्ञानमयः, (बृ.उ.६-३-७) इति पूर्वनिर्दिष्टजीवस्य ‘प्रत्यभिज्ञालेशेन ग्रहणं न सम्भवति; तस्य महानज इत्युक्तमहत्त्वादि असम्भवात् । अपि तु विज्ञानमय इति साक्षादेव परमात्मनो निर्देश: – इत्याहुः । तमेव मुमुक्षूपास्यं विशिनष्टि – सर्वस्य वशी सर्वस्येशान: सर्वस्याधिपतिः । सर्वस्य ब्रह्मरुद्रादेः वशी । सर्वो ह्यस्य वशे वर्तते । उक्तं च, एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (बृ.उ.५-८-८) इत्यादि । अतश्च प्रशासनेन धारकत्व-लक्षणमात्मत्वमुक्तं भवति । सर्वस्येशानः इत्यनेन नियन्तृत्वलक्षणमात्मत्वम् । सर्वस्याधिपतिः इति शेषित्वलक्षणमात्मत्वमुक्तमिति द्रष्टव्यम् । इदं च छान्दोग्यदहरविद्यावाक्यप्रतिपन्न-सत्य कामत्वादीनामपि’ उपलक्षणम् । उक्तं च भाष्ये, ‘वशित्वादयश्च वाजसनेयके श्रुताः छान्दोग्यश्रुतस्य गुणाष्टकान्यतमभूतस्य सत्यसङ्कल्पत्वस्य विशेषा एवेति सत्यसङ्कल्पत्व-सहचारिणां सत्यकामत्वादीनामपहतपाप्मत्वपर्यन्तानां सद्भावमवगमयन्ति इति ।

…… कनीयान् साध्वसाधुकर्मकृतोत्कर्षापकर्षशून्य इत्यर्थः । एष सर्वेश्वरःअसंभेदाय सर्वेश्वरः – सर्वनियन्ता । भूतानां – प्राणिनाम् अधिपतिः शेषी । ‘भूतानां पाल: रक्षक: । एषां सर्वेषां लोकानाम् असंभेदाय – असाङ्कर्याय विधरण:-– धारकः ‘सेतुरप्येवमेव’। अनेनेश्वरेण सेतुना अविधार्यमाणाश्चेत् इमे लोकाः, निर्मर्यादा भवेयुरिति भावः ।।

अत्र ब्रह्मप्रकरणोपक्रमे, आत्मैवेदमग्र आसीत् पुरुषविधः इति ‘देवताविशेषस्य’ नारायणस्यैव प्रस्तुतत्वादिह तस्यैव सर्वेश्वरत्वादिकथनमिति न देवतान्तराणामवकाश इति द्रष्टव्यम् ।

इदञ्च वाक्यं गुणोपसंहारपादे चिन्तितम् एषोऽन्तहृदय आकाशः तस्मिन् शेते सर्वस्य वशी सर्वस्येशान: (बृ.उ.४-२-३) इति आकाशशयानत्ववशित्वादिगुणविशिष्ट- तयोपास्यः छान्दोग्यदहरविद्याप्रतिपादितापहतपाप्मत्वादिगुणाष्टकविशिष्टाकाशाद्भिन्नः । अतो रूपभेदात् विद्याभेद इति पूर्वपक्षे प्राप्तेऽभिधीयते – कामादीतरत्र तत्र चायतनादिभ्यः । (व.सू.३-३-३८) तत्र चेतरत्र च स्थलद्वयेऽपि कामादिविशिष्टं ब्रह्मैवोपास्यम् । “हृदयायतनत्वसेतुविधरणत्वादिभिः’ विद्यैक्यप्रत्यभिज्ञानात् ।  वाजसनेयकश्रुतवशित्वादीनां छान्दोग्यश्रुतसत्यसङ्कल्पत्वविततिरूपतया रूपभेदाभावात् । परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छां.उ.८-१२-२) इति, अभयं वै ब्रह्म भवति (बृ.उ.६-४-२५) इति चोभयत्रापि ब्रह्मप्राप्तिरूपफलसंयोगाविशेषाच्च । इयांस्तु विशेषः – छान्दोग्ये दहराकाशे परमात्म-धर्मसद्भावात् आकाशशब्दितस्य परमात्मत्त्वम् न भूताकाशत्वम् । वाजसनेयके तु आकाशे शयाने एव परमात्मलिङ्गसद्भावात् शयानस्यैव परमात्मत्वम् आकाशस्य तु भूताकाशत्वमिति ।

ननु नेह नानास्ति किञ्चन, एकधैवानुद्रष्टव्यमेतदप्रमेयम्, एष नेति नेति इत्यादि पूर्वोत्तर वाक्यैः निर्गुणमेवेह ब्रह्म प्रतिपाद्यते । छान्दोग्ये तु सगुणम् । अतो निर्गुणसगुणब्रह्मविद्ययोरैक्यासम्भवात् वाजसनेयकश्रुतमोक्षार्थनिर्गुणोपासने “गुणानां लोप एव इत्यत्राह, आदरादलोपः (ब.सू.३-३-३९) । वाजसनेयकेऽपि; सर्वस्य वशी सर्वस्येशानःएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल: इति भूयोभूयोगुणोपदेशात् गुणेष्वादरः प्रतीयते । अतो वाजसनेयकश्रुतदहरविद्याया अपि सगुणत्वादेव न गुणानां लोपः कार्यः । नेह नाना इत्यादिनिषेधानाम्अब्रह्मात्मकनिषेधपरत्वेन विहितगुणनिषेधपरत्वा- भावात् ।

ननु छान्दोग्ये, तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति (छां.उ.८-१-६) इति छान्दोग्यदहरविद्यायाः सर्वलोककामचार-लक्षणसांसारिकफलसम्बन्धः प्रतीयते । वाजसनेयके तु, अभयं वै ब्रह्म भवति इति मुक्तिफलकत्वम् । अतो नानयोर्विद्ययोः ऐक्यमित्यत्राह उपस्थितेऽतस्तद्वचनात् (ब्र.सू.३-३-४०) । उपस्थिते – ब्रह्मोप सम्पन्ने प्रत्यगात्मनि अतः – उपसम्पत्तेरेव हेतोः सर्वलोककामचारः श्रूयते, परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते उत्तमः पुरुषः तत्र पर्येति, (छां.उ.८-१२-२) तस्य सर्वेषु लोकेषु कामचारो भवति (छां.उ.७-२५-२) इति । सर्वबन्धनविनिर्मुक्त अनुभाव्यफलतया’ हि सर्वलोककामचारः श्रूयते; अत: छान्दोग्यगतदहरविद्याऽपि मुक्तिफलैव । अतो न विद्याभेद इति तत्र स्थितम् । एतेन वाजसनेयकगतहार्दविद्या निर्गुणविद्येति वदन्तः परे प्रत्युक्ताः । तथा हि सति छान्दोग्यसगुणहार्दविद्यैक्यसमर्थनस्य च परस्परगुणोपसंहारसमर्थनस्य चासङ्गति-प्रसङ्गात् । न च निर्गुणायामपि विद्यायां ब्रह्मस्तुत्यर्थमेव सगुण विद्यासम्बन्धिगुणोपसंहारः सम्भवतीति वाच्यम् – निर्गुणस्योत्कृष्टस्य परस्य ब्रह्मणः सगुणत्वरूपापकर्षप्रतिपादनेन निन्दाया एव प्रतीयमानतया स्तुतेरप्रतीतेः । अत एव; व्यतिहारो विशिषन्ति (ब्र.सू.३-३-३७) इति सूत्रे ‘वस्तुतो निर्गुणस्य ब्रह्मणः सगुणत्वेनोपासनमात्रेण निकर्षो नास्ति; ब्रह्मणो वस्तुतो निर्गुणत्वात्’ इति परैरेव सगुणत्वे अपकर्षमङ्गीकृत्य तस्यावास्तवत्वेन परिहारस्य कृतत्वात् । किञ्च लोके हि स्तुतिर्विधेये रुच्युत्पादनेन सप्रयोजना । न चात्र निर्गुणस्य तज्ज्ञानस्य वा विधेयत्वमस्ति । प्रतिपाद्ये न निर्गुणे ब्रह्मणि सगुणत्वप्रतिपादनलक्षणास्तुतिश्च निर्गुणप्रतिपत्तिलक्षणशेषिविरुद्धा । अतः ‘कामादीतरत्र’ इत्यधिकरणे परेषां विद्यैक्यगुणोप-संहाराभिलपनं दुरुपपादमिति यत्किञ्चिदेतत् इत्यस्तां तावत् ।

यच्छेदमुच्यते, निर्गुणवाक्यसन्निधिपठितस्य, सर्वस्य वशी इत्यादिगुणगण समर्पक’ वाक्यस्य निषेध्यानुवादकतयैकवाक्यत्वसम्भवे वाक्यभेदेन गुणप्रापकता न युक्तेति, ‘तन्न वशीत्वादीनां गुणानामन्यतोऽप्राप्तेः । श्रुतिप्राप्तस्य श्रुत्या निषेधे, अहिंसावाक्यमग्नीषोमीय-हिंसायाः, अग्रहण वाक्यञ्च षोडशीग्रहणस्य, असद्वा इत्यादि वाक्यञ्च ब्रह्मसत्त्वस्य निषेधकं किं न स्यात् । किञ्च मृडमृद (पा.सू.१-२-७) इत्यादिविधिः, नक्त्वा सेट् (पा.सू.१-२-१८) इत्यादि निषेधस्येव सगुणवाक्येव सगुणवाक्यमेव निर्गुणत्वनिषेधकं किं न स्यात् । न च जगत्कर्तृत्वाक्षिप्तसार्वज्ञ्यादिगुणाः निषेधाय अनूद्यन्त इति वक्तुं शक्यम् – तथा सति जगदारोपाधिष्ठानत्वेन कुसमयसिद्धं ब्रह्मसत्त्वम्, असद्वा इदमग्र आसीत् (तै.आन.७-१) इति निषेद्धम्, सत्यं ज्ञानमनन्तम् (तै.आन.२-१) इत्यनूद्यते ज्ञाननिवर्त्यत्व ‘श्रुत्याक्षिप्त विश्वमिथ्यात्वम् नेह नानास्ति इत्यनूद्यते – विश्वं सत्यं मघवाना इति वाक्येन प्रतिषेद्धमिति किं न स्यात् । सत्यत्वं हि मिथ्यात्वप्रतिषेध एव । अत्मैवेदं सर्वम् इति वाक्यप्राप्तो जीवब्रह्माभेदः तत्त्वमसि (छां.उ.६-८-७) इत्यनूद्यते, द्वा सुपर्णा । (मुं.उ.३-१-१) इति निषेद्धमिति च किं न स्यात् ।

नेह नानास्ति किञ्चन इति वाक्ये किञ्चन इत्यनेनैव निषेध्यसमर्पणस्य सिद्धतया निषेध्यसमर्पणाय, एष सर्वेश्वरः इत्यादीनामनपेक्षितत्त्वाच्च । न हि, सुरां पिबेत् इत्यत्र निषेध्यसमर्पणाय, सुरां पिबेत् इति वाक्यान्तरमपेक्षितम् । वशित्वादीनां निषेधार्थमनुवादे  साधुना कर्मणा भूयान् इति निषेध्यानां कर्मकृतोत्कर्षादीनामिव ब्रह्मणि तेषां’ व्यावहारिकसत्यत्वस्याप्यभावप्रसङ्गात् ।

यच्छेदमुच्यते – सगुणनिर्गुणवाक्यविरोधे परत्वेन निर्गुणवाक्येनापच्छेदन्यायेन सगुणवाक्यं बाध्यत इति – तदेतत् सकलजनविदितसामान्यविशेषन्यायानभिज्ञानात् । को हि मीमांसको ब्रूयात् विरोधे शास्त्रयोर्मिथः । एकं प्रमाणमितरत्वप्रमाणं भवेदिति ।।

लोके हि सामान्यं विशेषेण, सावकाशं निरवकाशेन, नित्यं नैमित्तिकेन, नैमित्तिकं काम्येन, अतिदिष्टमुपदिष्टेन बाध्यमानमपि स्वोचित सत्यवस्तुसमर्पणेन संभावनीयं दृष्टम्; न तु मिथ्याभूतवस्तुविषयकतया । ततश्च सगुणवाक्यस्य मिथ्याभूतवस्तुविषय-समर्पणेन संभावनां कुर्वन् कथं नोपहास्यः । अतोऽत्रापच्छेदनयानवतारादुत्सर्गापवादनयेन निषेधस्य विशिष्य विहितेतर-गुण विषयत्वस्य॑ वक्तव्यत्वात् उपाध्यनुक्तिपूर्वकमुक्तानां, गुणानां निरुपाधिकत्वस्य स्वतः प्राप्तत्वात्, स्वाभाविकी ज्ञानबलक्रिया (श्वे.उ.६-८) इति स्वाभाविकत्वश्रुतेः, नान्यो हेतुर्विद्यत ईशनाय इति ईश्वरत्वस्याहेतुकत्वश्रवणात् सत्यः सोऽस्य महिमा इति सत्यकामा इति च तेषां गुणानां सत्यत्वस्यापि प्रतिपादनात् तेषां मानान्तराप्राप्तानां निषेधार्थमनुवाद इत्यप्यसम्भवात् ; क्वचिद्गुणानामुपास्यत्वश्रवणमात्रेणासत्यत्वे-उत्तरंस्मिस्तापनीये शैब्यप्रश्ऽथ काठके । माण्डूक्यादौ सर्वत्रनिर्गुणोपास्तिरीतिरितां ।।

इति परैरप्युपास्यत्वेनाभ्युपगतस्य निर्गुणस्याप्यसत्यत्वप्रसङ्गाच्च, : सर्वज्ञस्सर्ववित् (मुं.उ.१-१-९) इति स्वरूपोपदेशपरवाक्येषु उपासनाविध्यश्रवणेऽपि गुणानां श्रवणाच्च, तमेवं विद्वानमृत इह भवति (तै.आ.३-१-३) इति सगुणज्ञानस्य मोक्षहेतुत्वश्रवणेन च गुणानां सत्यत्वमवश्याभ्युपगन्तव्यम् ।

गुणनिषेधश्रुतयस्तु अध्यात्मशास्त्रे गुणशब्दवाच्यत्वेन प्रसिद्धसत्त्वादिगुणनिषेधपरा इत्येव अभ्युपगन्तव्यम् । कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि । वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणै: ।। नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमीरितः । तवानन्तगुणस्यापि षडेव प्रथमे गुणाः ।। वर्षायुतैर्यस्य गुणा: शक्या वक्तुं समेतैरपि सर्वलोकैः । महात्मनः शंखचक्रासिपाणेर्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ।। चतुर्मुखायुर्यदि कोटिवक्त्रो भवेन्नरः क्वापि विशुद्धचेताः ।  ते गुणानामयुतैकदेशं वदेन्न वा देववर प्रसीद ।। यथा रत्नानि जलधेरसंख्येयानि पुत्रक । तथा गुणा ह्यनन्तस्य असङ्खेया महात्मनः ।। इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते गोविन्दगुणक्षयात् ।।  समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धृतभूतसर्गः । इच्छागृहीताभिमतोरुदेह संसाधिताशेषजगद्धितोऽसौ ॥ तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकल यत्र क्लेशादयः सन्ति परावरेशे ।। (वि.पु.८५इत्यादिप्रमाणानामनाञ्जस्यमेव परमते । उक्तञ्च वरदाचार्यै: –

यद्ब्रह्मणो गुणशरीरविकारभेदकर्मादिगोचरविधिप्रतिषेधवाचः

अन्योन्यभिन्नविषया विरोधगन्धंअर्हन्ति तन्न विधयः प्रतिषेधबाध्याः ।। (त.सा.६१)

इति । अनयैव दिशा अन्तर्यामिब्राह्मणादिषु, आत्मनि तिष्ठन् (बृ.उ.मा.पा.५-७-२२,२६) इत्यादिवाक्यैर्जीवब्रह्मणोः नियन्तृनियाम्यभावलक्षणस्य भेदस्य विहितत्वात् निषेधस्य तदितरविषयत्वस्यैव युक्तत्वात्, समस्तहेयरहितस्य ब्रह्मणः हेयाश्रय जीवैक्यस्यायुक्तत्वात् हेयस्यापारमार्थेऽपि तस्य निरसनीयतया हेयत्वस्यावर्जनीयत्वात्। तत्प्रतिभटतयोक्तस्य ब्रह्मणः तत्सम्बन्धार्हवस्त्वैक्यासंभवात्, सर्वज्ञस्य ब्रह्मणः स्वसङ्कल्पेन स्वगतहेयस्य तद्विषयविभ्रमस्य वोपादानायोगात्, असर्वज्ञत्वे सर्वज्ञश्रुतिविरोधात् सर्वशक्तेः स्वगतहेयानि-वारकत्वायोगात्, अशक्तत्वस्य सर्वशक्तित्वश्रुतिविरोधेन अभ्युपगमानहत्वात्, श्रुतिबलादेव विरुद्धयोरपि अविरोधाभ्युपगमे मीमांसानैरर्थक्यप्रसङ्गात् पृथगात्मानं प्रेरितारं मत्वा (श्वे.उ.१-६) इति पृथक्त्वज्ञानस्य मोक्षहेतुत्वावेदनात्, यस्मात् क्षरमतीतोऽहम् (भ.गी.१५-१८) इत्युक्तवैलक्षण्यज्ञानवत एव, असंमूढः मर्त्येषु (भ.गी.१०-३) इत्यसंमूढत्वप्रतिपादनात्ः जीवब्रह्मणोर्नियन्तृनियाम्यभावलक्षणभेदस्य मानान्तराप्राप्तत्वात् विहितस्य निषेधायोगात्।

उपासनार्थत्वाश्रयणस्य, अथ योऽन्यां देवतामुपास्ते (बृ.उ.३-४-१०) इति वाक्यप्रतिपन्नैक्येऽपि सम्भवात्, ऐक्यस्य स्वरूपोपदेशवाक्यप्रतिपन्नत्ववत् स्वरूपोपदेशपरान्तर्यामि-ब्राह्मण-प्रतिपाद्यत्वस्य नियन्तृनियाम्यभावलक्षणभेदेऽपि सत्त्वाच्च भेदनिषेधश्रुतयस्तु पृथक्सिद्धत्व-लक्षणाब्रह्मात्मकभेदनिषेधपरा इत्येव स्थितमित्यलं प्रसक्तानुप्रसक्तया । प्रक्तमनुसरामः ।।

तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन । तम् ईदृशं परमात्मानं वेदानुवचनेन – वेदाध्ययनेन, ‘यज्ञेन‘, अनाशकेन– अनशन- लक्षणेन तपसा च ब्राह्मणाः ज्ञातुमिच्छन्तीत्यर्थः । आशः – अशनम् । भावे घञ् । अनाश: -अनशनम् । ‘स्वार्थे कः । तच्च अशनं कामानशनात्मकम् ; न तु सर्वात्मनाऽनशनम्; देहपातप्रसङ्गात् । यद्वा, न विद्यते आशा फलेषु यस्य तदनाशम् । स्वार्थे कप्रत्ययः । अनाशकम् तादृशेन तपसा । फलाभिसन्धिरहितेनेति यावत् । अश्वेन जिगमिषति, असिना जिघांसति इत्यादौ अश्वादेः सन् प्रत्ययप्रकृत्यर्थीभूतगमनादिसाधनत्वप्रतिपादन-दर्शनात् इहापि वेदनसाधनत्वमेव प्रतिपाद्यते; न तु विविदिषासाधनत्वम् । यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमित्युत्सर्गः तथाऽपि अश्वेन जिगमिषति इत्यादौ सन्नन्तप्रयोगस्थले प्रकृत्यर्थप्राधान्यस्यैव व्युत्पत्तिसिद्धत्वात् अत्रापि प्रकृत्यर्थीभूत-वेदनसाधनत्वमेव वेदानुवचनादीनां तृतीयया प्रतिपाद्यत इति द्रष्टव्यम् ।

[अग्नीन्धनाद्यधिकरणम्]

इदञ्च तृतीयाध्याये अङ्गपादे चिन्तितम् । तत्र हि ऊर्ध्वरेतसो यज्ञाद्यभावात् तदङ्गिका विद्या न संभवतीति पूर्वपक्षे प्राप्ते, एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति, ये चेमेऽरण्ये श्रद्धा तप इत्युपासते (छां.उ.५-१०-१) इत्यादि-वाक्यैरूर्ध्वरेतस्सु ब्रह्मविद्यायाः प्रमाणप्रतिपन्नत्वात् तेषु विद्या अग्नयाधानलक्षणाग्नीन्धन-पूर्वकाग्निहोत्राद्यनपेक्षेति अत एव चाग्नीन्धनाद्यनपेक्षा (ब्र.सू.३-४-२५) इति सूत्रे स्थितत्वात् गृहस्थेष्वपि ब्रह्मविद्या अग्नीन्धनाद्यनपेक्षैव । न च विविदिषा वाक्यवत्’ यज्ञादीनां तादर्थ्य-प्रतीतिरिति वाच्यम् – तेन वाक्येन यज्ञादिकर्मणां विविदिषार्थत्वोपलम्भेऽपि विद्यार्थत्वा-प्रतीतेरिति पूर्वपक्षे प्राप्ते उच्यते – सर्वापेक्षा यज्ञादिश्रुतेः अश्ववत् (ब्र.सू.३-४-२६) । यथा गमनसाधनभूतो अश्वः परिकरबन्धसापेक्षः, तथा गृहस्थेषु विद्या यज्ञादिसर्वकर्मापेक्षैवः तमेतं वेदानुवचनेन ब्राह्मणाः विविदिषन्ति यज्ञेन इति श्रुतेः अश्वेन जिगमिषति इत्यादि सन्नन्तप्रयोगे प्रकृत्यर्थभूतगमनसाधनत्वप्रतीतिदर्शनेन यज्ञेन विविदिषन्ति इत्यत्राऽपि यज्ञादौ वेदनसाधनत्वस्यैव प्रतीतेरिति स्थितम् ।

तथा तत्रैव पादे; यावज्जीवमग्निहोत्रं जुहोति इति नित्यतया विहितानाम् अग्रिहोत्रादीनाम् अनित्यकामनाविषयब्रह्मविद्यार्थत्वे नित्यानित्यसंयोगविरोधात् आश्रमकर्मापेक्षया विद्यार्थानि कर्माणि भिन्नानि इति पूर्वपक्षे प्राप्ते – यथैकस्यैव खदिरत्वस्य, खादिरो यूपो भवतिखादिरं वीर्यकामस्य यूपं कुर्यात् इति वचनद्वयेन क्रतौ फले च पृथग्विनियोगदर्शनात् क्रत्वर्थतया नित्यस्यापि खदिरत्वस्यानित्यकामनाविषयवीर्यार्थत्वा विरोधः, तद्वत् यावज्जीवमग्निहोत्रं जुहोति इति नित्यतया अग्निहोत्रादीनां विहितत्वात् आश्रमकर्मत्वमप्यस्ति; विविदिषावाक्येन विद्यासहकारितया विहितत्त्वात् विद्यार्थत्वमप्यस्तीति स्थापितम् , विहितत्वाच्चाश्रमकर्मापि (ब्र.सू.३-४-३२) सहकारित्वेन च (ब्र.सू.३-४-३३) इति सूत्राभ्याम् । ननु इह यथा कुण्डपायिनामयने, मासमग्निहोत्रं जुहोति (वि.७-३-१४) इति श्रुतं मासाग्निहोत्रं नैयमिकाग्निहोत्रात् भिद्यते, तथा विविदिषावाक्येन विद्यार्थतया विधीयमानं नित्यादग्निहोत्रादेरन्यदेवास्तु । तत्राह – सर्वथाऽपि एवोभयलिङ्गात् (ब्र.सू.३-४-३४) विद्यार्थत्वे, आश्रमार्थत्वेऽपि त एव यज्ञादयः प्रतिपत्तव्याः । उभयत्र यज्ञादिशब्दैः प्रत्यभिज्ञाप्यमानत्वरूपलिङ्गात् । यज्ञेन इत्यादिशब्दैः प्रसिद्धयज्ञादिविलक्षणयज्ञादिविधाने तस्य द्रव्यदेवताद्यभावे अरूपत्वप्रसङ्गात् , तत्सद्भावे च देवतोद्देशेन द्रव्यत्यागत्वरूपयज्ञशब्द-प्रवृत्तिनिमित्तेन यज्ञशब्दमुख्यार्थतया , मासाग्निहोत्रवत् गौण्या वृत्त्या कर्मान्तर विधीयते इति वक्तुमशक्यत्वात् न तन्न्याय इह प्रवर्तते । अतः, यज्ञोऽध्ययनं दानमितिप्रथमः यज्ञानां जपयज्ञोऽस्मि (भ.गी.१०-२५) भोक्तारं यज्ञतपसाम् (भ.गी.५-२९) इत्यादिष्विव प्रसिद्धयज्ञपरत्वमेव युक्तम् ।

अनभिभवञ्च दर्शयति (ब्र.सू.३-४-३५) । धर्मेण पापमपनुदति (तै.आ.१०-६३-१) इत्यादिश्रुतिश्च तानेव यज्ञादिधर्मान् निर्दिश्य तैर्विद्याया अनभिभवं पापकर्मभिरुत्पत्ति-प्रतिबन्धाभावं दर्शयति ।

ततश्च प्रसिद्धस्यैव अग्निहोत्रादेः धर्मस्य विद्योत्पत्तिप्रतिबन्धकपापापनोदहेतुत्वात् तस्यैव विद्याङ्गत्वम् इति स्थितम् ।

[विधुराधिकरणविचारः]

तथा- तत्रैव -अनाश्रमिणां विधुरादीनामाश्रमधर्माभावात् तदङ्गिका विद्या न सम्भवतीति पूर्वपक्षे प्राप्ते उच्यते – अन्तरा चापि तु तद्दृष्टे: । (ब्र.सू.३-४-३६) तुशब्दः पक्ष व्यावर्तकः । चशब्दोऽवधारणे । आश्रमान् अन्तरा वर्तमानानां अनाश्रमिणामिति यावत् । तेषामपि विद्यायामधिकारोऽस्त्येव । तादृशानामपि भीष्मरैक्वसंवर्तादीनां ब्रह्मविद्यादर्शनात्, यज्ञेन दानेन तपसाऽनाशकेन इति आश्रमानियतदानतप आदिभिरपि विद्यानुग्रहस्य श्रुतत्वात् ।

अपि स्मर्यते (ब्र.सू.३-४-३७) । जप्येनापि संसिद्ध्येत् ब्राह्मणो नात्र संशयः (म.स्मृ.२-८७) इति हि स्मर्यते । संसिद्ध्येत् – जपाद्यनुगृहीतया विद्यया सिद्धो भवतीत्यर्थः । विशेषानुग्रहश्च (ब्र.सू.३-४-३८) । तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानम् अन्विष्याऽऽदित्यमभिजयन्ते (प्र.उ.१-१०) इति आश्रमानियततप आदि धर्मविशेषैरनुग्रहः श्रूयते ।

अतस्वितरज्ज्यायो लिङ्गाच्च । (ब्र.सू.३-४-३९) तुशब्दोऽवधारणे । अतः -अनाश्रमित्वादितरत् । अनाश्रमित्वम् आपद्विषयम् । शक्तस्य तु आश्रमित्वमेवोपादेयम् । भूयोधर्मकाल्पधर्मकयोः अतुल्यकारित्वात् । लिङ्गाच्च । लिङ्गं हि स्मृतिः । स्मर्यते हि अनाश्रमी तिष्ठेत्तु दिनमेकमपि द्विजः । (द.स्मृ.१-१०) इति । असति वैराग्ये दारालाभ: आपत्, सति वैराग्ये सन्न्यासस्वीकारसम्भवात् । न च अविरक्तस्य ब्रह्मविद्याधिकार: कथमुच्यते इति शङ्क्यम् – अग्निहोत्राद्यनुतिष्ठासयादारपरिग्रहरागसंभवेऽपि दारादिषु भोग्यतातिशयबुद्धिकृतरागाभावेन ब्रह्मविद्याधिकारसम्भवात् । देहान्तरोपभोग्य-ब्रह्मव्यतिरिक्तफलाशाभावेन मुमुक्षौपयिकवैराग्यसम्भवाच्च, एवमेव व्यासार्यैरुक्तत्वाच्च, न दोषः । इत्थं स्थितम् । प्रकृतमनुसरामः ।

एतमेव विदित्वा मुनिर्भवति एतमेव – आत्मानं विदित्वा मुनि: – मननशील: योगी भवति; नान्यमित्यर्थः । एतमेव…… प्रव्रजन्ति । लोक्यत इति लोकः । एतमेव लोकं परमात्मानमिच्छन्तः सन्न्यासिनः सन्न्यस्यन्तीत्यर्थः । एतमेव इत्यवधारणात् लोकान्तरेप्सूनां पारिव्राज्ये नाधिकार इति गम्यते । न हि गङ्गाद्वारं प्रतिपित्सुः काशीवासी पूर्वाभिमुखो याति । एतद्धस्म…… कामयन्ते । हस्म वै इति प्रसिद्धौ । तदेतद्विद्वांसः एतादृशब्रह्मविदः पूर्वे प्रजां न कामयन्ते । तत्र हेतुं तदभिसन्धिमाह किं प्रजयालोक इति । प्रजासाध्योऽयं लोकोऽपि येषामस्माकं अयमात्मा – परमात्मैव, एतल्लोकसाध्यस्य सुखानुभवस्य परमात्मानुभवाम्बुधिलवकणिकायमानत्वात् । अतः एतादृशे परमात्मनि लब्धे ते वयम् एतल्लोकक्षुद्रफलसाधनभूतथा प्रजया किं करिष्याम इति प्रजां पूर्वे ब्रह्मविदो म कामयन्त इत्यर्थः । ते स्म…… एष भवतः । इदञ्च कहोलब्राह्मणे व्याख्यातम्।

एष नेति नेत्यात्मा…… रिष्यति एतदपि पाक् व्याकृतम् । एतमु हैवैतेइत्युभे अतः – देहयात्रादिलक्षणात् प्रकृताद्धेतोः पापमकार्षम्, कल्याणं – पुण्यम् अकरवम् इति द्वे एते – चिन्ते एतम् – उक्तलक्षणब्रह्मविदं नैव तरतः-न प्राप्नुत इत्यर्थः । तत्र हेतुमाह – इहैवैष एते तरति । यस्माद्धैतोः इहैव – अस्मिन्नेव लोके वसन् एषः – उक्तब्रवित् एते – पुण्यं च पापं च तोर्णवान् इत्यर्थः । तत्र हेतुः नेनं कृताकृते तपतःएनं – हि ब्रह्मविदं कृताकृते – सुकृतदुष्कृते फलसम्बन्धिनं कर्तुं न प्रभवत इत्यर्थः । एवमेवंविदि पापं कर्म निश्लिष्यते इत्यश्लेषश्रवणादिति भाव: ।। २२ ।।

तदेतदृचाभ्युक्तम्

 

एष नित्यो महिमा ब्राह्मणस्य वर्धते कर्मणा नो कनीयान् । तस्येव स्यात् पदवित् तं विदित्वा लिप्यते कर्मणा पापकेन ।। इति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षु: समाहितो भूत्वा आत्मन्येवात्मानं पश्यति, सर्वमात्मानं पश्यति

 

नैनं पाप्मा तरति, सर्वं पाप्मानं तरति, नैनं पाप्मा तपति, सर्वं पाप्मानं तपति, विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति एष ब्रह्मलोकः सम्राडिति होवाच याज्ञवल्क्यः सोऽहं भगवते विदेहान् ददामि, मां चापि सह दास्यायेति ।। २३ ।।

प्र. – तदेतदृचाऽभ्युक्तम् । तदेतत् – पुण्यपापसन्तरणम् अभिमुखीकृत्य ऋचा उक्तमित्यर्थः । तामेव ऋचं पठति एष नित्यो महिमा ब्राह्मणस्य ब्राह्मणस्य – ब्रह्मविदः य एष महिमा, नित्यः – ब्रह्मज्ञानानन्तरं यावदात्मभावितया अनुवर्तत इत्यर्थः । कोऽसौ महिमा इत्यत्राह- वर्धते….. पदवित् तस्य – ब्रह्मणः पदवित् – पद्यत इति पदं स्वरूपम् – ब्रह्मस्वरूपविदेव कर्मणा न वर्धते, कर्मणा कनीयांश्च न स्यात् । ‘पुण्यपाप- लक्षण’कर्मकृतोत्कर्षापकर्षशून्यः स्यादित्यर्थः, ‘उक्तब्रह्मविन्महिमज्ञानस्य’ फलमाह – तं विदित्वा लिप्यते कर्मणा पापकेन तं – ब्रह्मविन्महिमानं ‘विदित्वा’ नरः पापकेन कर्मणा न लिप्यते इत्यर्थः ।

तस्मादेवंवित्…… पश्यति तस्मात् ब्रह्मविदः एवंविधमहिमशालित्वात् एवंवित् – शास्रजन्यज्ञानवान् शान्तः – शमः अन्तरिन्द्रियनियमनरूप: दान्तःदम: बहिरिन्द्रियनियमनरूपः । उपरतिः निषिद्धकाम्यादिषु कर्मसूपरति: । तितिक्षाक्षमा । समाहितः – समाहितचित्त इत्यर्थः । एवंरूपस्सन् आत्मनि – जीवात्मनि आत्मानं -परमात्मानं तदन्तर्यामिणं पश्यति – पश्येदित्यर्थः । भाष्यादिषु कोशेषु आत्मन्येवात्मानं पश्येत् इति पाठो दृश्यते । अतः पाठद्वैविध्यमत्र द्रष्टव्यम् । किञ्च सर्वमात्मानं पश्यति

आत्मानं – परमात्मानं सर्वं – सर्वशरीरकञ्च पश्यति – पश्येदित्यर्थः । इदञ्च वाक्यं तृतीयाध्याये अङ्गपादे चिन्तितम् । तत्र हि गृहस्थस्य बाह्याभ्यन्तर-करणव्यापाररूपकर्मानुष्ठानस्याऽऽवश्यकत्वात् , शमादीनाञ्च तद्विपरीतत्वात् नानुष्ठेयमिति प्राप्ते उच्यते – शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् (ब्र.सू.३-४-२७) । तथाऽपि – गृहस्थस्य कर्मानुष्ठानावश्यकत्वेऽपि गृहस्थः शमदमाद्युपेतः स्यात् । शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येव आत्मानं पश्यति इति विद्याङ्गतया शमादीनां विधानात् । अशान्तचित्तस्य चित्तविक्षेपेण विद्यानिष्पत्त्यसंभवेन दृष्टार्थतया अनुष्ठेयत्वाच्च । न च कर्मणां शमादीनाञ्च विरोधः; भिन्नविषयत्वात्। विहितेषु करणव्यापारः ; इतरेषु तदुपरमरूपशम: इति । न च करणव्यापाररूपकर्मसु वर्तमानस्य वासनानुवृत्त्या शमादिकं न सम्भवतीति वाच्यम् । परमपुरुषाराधनरूपकर्मणां वासनोच्छेद एव हेतुत्वादिति स्थितम् । प्रकृतमनुसरामः ।।

नैनं पाप्मा तरति, सर्वं पाप्मानं तरति एनं ब्रह्मविदं पाप्मा – – पुण्यपापलक्षणं कर्म तरति – न प्राप्नोति । अयं तु ब्रह्मवित् सर्वं पाप्मानं तरति – सर्वपापातिगो भवतीत्यर्थः । नैनं पाप्मा तपतिः सर्वं पाप्मानं तपति एनं – ब्रह्मविदं पाप्मा न तपति – न बाधते । अयमेव सर्वं पाप्मानं ज्ञानाग्निना तपति – दहतीत्यर्थः । विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति विपापः – पापशून्य: विरजः – विरागः अविचिकित्सः – संशयशून्यः – भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशया: (मुं.उ.२-२-९) इत्युक्तेः – ब्राह्मणः – ब्रह्मविद्भवतीत्यर्थः । अत्र ब्राह्मण इति पश्चात् निर्दिष्टस्यापि ब्राह्मण शब्दस्यौचित्याद् उद्देश्यसमर्पकत्वमेव । ततश्च ब्राह्मणो विपापो विरजोऽविचिकित्सो भवतीत्यर्थः । एष ब्रह्मलोकःआत्मानं पश्येत् इति द्रष्टव्यतयोक्तो यः, स ब्रह्मलोकः । ब्रह्मैव लोको ब्रह्मलोकः, हे सम्राडिति याज्ञवल्क्य उवाच इत्यर्थः ।। सोऽयं भगवते विदेहान् ददामि मां चापि सह दास्याय इति । सोऽहम् एवमनुशिष्टब्रह्मवित् यः स्वराज्यं सर्वं भगवते तुभ्यं ददामि; राज्येन सह आत्मानमपि कैङ्कर्याय ददामीति जनक उवाच इत्यर्थः ।। २३ ।।

वा एष महानज आत्माऽन्नादो वसुदान: विन्दते वसु एवं वेद ।। २४ ।।

प्र. – एवं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा उपासकानामुपासनभेदेन भुक्तिमुक्तिप्रदः इति श्रुतिराह – वा एष…… वेद अन्नाद: अन्नद: वसुदानः वसुप्रदः । एवं वेद – अनेनाऽऽकारेण ब्रह्मोपासीनः विन्दते वसु – अन्नं वसु च लभते इत्यर्थः । इदश्च तृतीयाध्याये उभयलिङ्गपादे चिन्तितम् । तत्र हि ऐहिकामुष्मिकं शास्त्रीयं फलं कर्मण एव स्यात् । तस्य फलसाधनत्वश्रवणादिति पूर्वपक्षे प्राप्तेऽभिधीयते – फलमत उपपत्तेः (ब्र.सू.३-२-३७) । कर्मभिराराधितात् अस्मादेव परमपुरुषात् फलम् ; सर्वज्ञस्य सर्वशक्तेः : ब्रह्मणः सेवाराधितराजवत् फलप्रदत्वोपपत्तेः । श्रुतत्वाच्च (ब्र.सू.३-२-३८) । स बा एष महानज आत्माऽन्नादो वसुदानः इति तस्यैव फलप्रदत्वस्य श्रुतत्वात् । पूर्वपक्षमाह धर्मं जैमिनिरत एव । (ब्र.सू.३-२-३९) यागदानाख्यधर्ममेव जैमिनि: फलप्रदं मन्यते । अत एव उपपत्तेः शास्त्राच्च । कृष्यादीनां फलसाधनत्त्ववत् यागदानादीनां विनश्वराणामपि अपूर्वद्वारेण फलसाधनत्वोपपत्तेः, यजेत स्वर्गकामः इति विधिप्रत्ययेन प्रकृत्यर्थ-यागस्यैव फलसाधनत्वावगमात् ।

पूर्वं तु बादरायणो हेतुव्यपदेशात् (ब्र.सू.३-२-४०) बादरायणस्त्वाचार्यः पूर्वोक्तमेव परमात्मनः फलप्रदत्वं मन्यते, हेतुयपदेशात् यज देवपूजायाम् (धा.पा.१००२) इति प्रीतिहेतुत्ववाचिना पूजाशब्देन यागस्य देवताप्रीतिहेतुत्वव्यपदेशात्, एवैनं भूतिं गमयति इत्यादिकर्मविधिशेषवाक्येषु कर्माराधितदेवताया एव (यागादेः) प्रीतिहेतुत्वावगमात्, अहं हि सर्वयज्ञानां भोक्ता प्रभुरेव (भ.गी.९-२४) इति फलप्रदायित्वलक्षणप्रभुत्वस्य परमात्मन्येव स्मृतत्वात् । आशुविनश्यतः कर्मणो विधिवाक्यश्रुतकालान्तरभाविफल-साधनत्वनिर्वाहाय द्वारापेक्षायां वाक्यशेषप्रतिपन्नदेवताप्रीतिरूपद्वारपरित्यागेन आत्मसमवेता-दृष्टरूपद्वारपरिकल्पनस्यानुचितत्वात् कर्मप्रीतिः परमात्मैव फलप्रद इति स्थितम् । प्रकृतमनुसरामः ।। २४ ।।

वा एष महानज आत्माऽजरोऽमृतोऽभयो ब्रह्म अभयं वै ब्रह्म । अभयं हि वै ब्रह्म भवति, एवं वेद ।। २५ ।।

 

।। इति षष्टाध्याये चतुर्थब्राह्मणम् ।।

प्र. वा एष महानज…… ब्रह्म एष महानात्मा – परमात्मा जन्मजरामरणशून्यः अमृतः – असंसारी, अत एव भयशून्यः । एवम्भूतोऽयमात्मा ब्रह्म -निरतिशयबृहदि(न्नि)त्यर्थः । तत्र हेतुमाह – अभयं वै ब्रह्म अमृतमभयमेतद्ब्रह्म इति निरुपाधिकाभयत्वाश्रयस्य परब्रह्मत्वप्रसिद्धेरिति भावः । तज्ज्ञानस्य फलमाह – अभयं हि वै ब्रह्मभवति एवं वेद ब्रह्म भवति – आविर्भूतब्राह्मरूपो भवतीत्यर्थः । शिष्टं स्पष्टम् ।। २५ ।।

।। इति षष्ठाऽध्याये चतुर्थब्राह्मण प्रकाशिका ।।

षष्ठाध्याये पञ्चमं ब्राह्मणम्

 

द्वितीयमैत्रेयीब्राह्मणम्

[याज्ञवल्क्यवृत्तान्तः]

 

अथ याज्ञवल्क्यस्य द्वे भार्ये बभूवतुमैत्रेयी कात्यायनी तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव; ‘स्त्रीप्रज्ञैवतर्हि कात्यायनी अथ याज्ञवल्क्यः अन्यद्वृत्तमुपाकरिष्यन् ।।।।

प्र. – अथ मैत्रेयीब्राह्मणं चतुर्थवदिहापि किञ्चिन्न्यूनातिरिक्तपदविशेषोपेतमारभ्यते । ननु किमर्थोऽस्य पठितस्य मैत्रेयीब्राह्मणस्य पुनः पाठः? उच्यते । पूर्वं याज्ञवल्क्यः प्रविव्रजिषायां मैत्रेय्यै आत्मतत्त्वमुपदिश्य पारिव्राज्याय प्रवृत्तः स्ववैराग्यमान्द्यं दृष्ट्वा कञ्चित्कालं धनार्जनं कृत्वा गृह एव अनिषिद्धान् कामान् अनुभूय निष्पन्नदृढवैराग्योऽथ प्रविव्रजिषुः पुनर्गृहकृत्यव्यापृतचित्ततया विस्मृतात्मतत्त्वायै मैत्रेय्यै पुनरुपदेष्टुमारभते । अनया चाख्यायिकया ‘वैराग्यमान्द्ये सति संन्यासे अनधिकार इति प्रदर्शितं भवति । अत्र विशेषपदानि व्याकुर्मः । यद्वा ‘मैत्रेयीब्राह्मणस्य एतदध्यायेन एकार्थत्वप्रदर्शनाय पुनरप्यारम्भ’ ‘इति’ द्रष्टव्यम् ।

अथ याज्ञवल्क्यस्य…… बभूव । तयोर्हि मध्ये मैत्रेयी ब्रह्मवादिनी बभूव‘ब्रह्मवदनशीला’ बभूव इत्यर्थः । स्रीप्रज्ञैव तर्हि कात्यायनी । तर्हि – तस्मिन् काले कात्यायनी स्त्रीप्रज्ञैव – स्त्रीणां या उचिता गृहव्यापारविषया प्रज्ञा, तादृक् प्रज्ञावत्येव बभूवेत्यर्थः । अथ याज्ञवल्क्योऽन्यद् वृत्तमुपाकरिष्यन् अन्यत् वृत्तं – गार्हस्थ्याद्विलक्षणं तुर्याश्रममुपाश्रयिष्यन् इत्यर्थः ।। १ ।।

[मैत्रेयीयाज्ञवल्क्यसंवादः]

 

मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन् वा अरेऽहमस्मात् स्थानादस्मि । हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ।। ।।

 

सा होवाच मैत्रेयी, ‘यन्नु इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् स्यां न्वहं तेनामृताऽऽहो३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितम्। तथैव ते जीवितँ स्यादमृतत्वस्य तु नाशाऽस्ति वित्तेनेति ।। ।।

 

सा होवाच मैत्रेयी, ‘येनाहं नामृता स्याम्, किमहं तेन कुर्याम् यदेव भगवान् वेत्थ तदेव मे ब्रूहीति ।। ।।

 

होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधद्धन्त तर्हि भवत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ।। ।।

 

होवाच वा अरे पत्युः कामाय पतिः प्रियो भवति; आत्मनस्तु कामाय पति: प्रियो भवति वा अरे जायायै कामाय जाया प्रिया भवति आत्मनस्तु कामाय जाया प्रिया भवति वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्तिआत्मनस्तु कामाय पुत्राः प्रिया भवन्ति वा अरे वित्तस्य कामाय वित्तं प्रियं भवति; आत्मनस्तु कामाय वित्तं प्रियं भवति [ वा अरे पशूनां कामाय पशवप्रिया भवन्ति; आत्मनस्तु कामाय पशवः प्रिया भवन्ति ] वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति; आत्मनस्तु कामाय ब्रह्म प्रियं भवति वा अरे क्षत्रस्य कामाव क्षत्रं प्रियं भवति; आत्मनस्तु कामाय क्षत्रं प्रियं भवति वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति; आत्मनस्तु कामाय लोकाः प्रिया भवन्ति वा अरे देवानां कामाय देवाः प्रिया भवन्ति; आत्मनस्तु कामाय देवाः प्रिया भवन्ति [ वा अरे वेदानां कामाय वेदाः प्रिया भवन्ति आत्मनस्तु कामाय वेदाः प्रिया भवन्ति। वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति वा अरे सर्वस्य कामाय सर्व प्रियं भवति; आत्मनस्तु कामाय सर्वं प्रियं भवति

 

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदँ सर्वं विदितम् ।। ।।

 

ब्रह्म तँ परादाद्योऽन्यत्रात्मनो ब्रह्म वेद क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद [वेदास्तं परादुः योऽन्यत्रात्मनो वेदान् वेद ] भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा [इमे वेदाः] इमानि सर्वाणि भूतानीदँ सर्वं यदयमात्मा ।। ।।

 

यथा दुन्दुभेर्हन्यमानस्य बाह्याञ्छब्दाञ्छक्रुयाद्ग्रहणाय; दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ।। ।।

 

यथा [शङ्खस्य ध्मायमानस्य] बाह्याञ्छब्दाञ्छक्रुयाद्ग्रहणायः शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ।। ।।

 

यथा वीणायै वाद्यमानायै बाह्याञ्छब्दाञ्छक्रुयात् ग्रहणाय; वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ।। १० ।।

प्र. – स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवति सती…… निदिध्यासस्व इति । भवति – त्वं : – अस्माकं प्रिया सती प्रियमेव अवृधत् – वर्धितवतीत्यर्थः । अनुकूलभाषणादिति भावः । धुतादित्वादङ् द्युद्भ्यो लुङि  (पा.सू.१-३-९१) इति परस्मैपदम् । अतः तुष्टोऽहं है भवति; अमृतत्वसाधनं जिज्ञासमानायै तुभ्यमेतत् अमृतत्त्वसाधनं व्याख्या-स्यामि । व्याचक्षाणस्य मे वाक्यं निदिध्यासस्व – सावधानं शृणु इत्यर्थः ।। २-१० ।।

 

यथार्द्रैधाग्नेरभ्याहित[स्य] पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहास: पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि [इष्टँ हुतमाशितं पायितमयञ्च लोकः परश्च लोकः सर्वाणि भूतानि] अस्यैवैतानि सर्वाणि नि:श्वसितानि ।। ११ ।।

 

यथा सर्वासामपाँ समुद्र एकायनमेवँ सर्वेषाँ स्पर्शानां त्वगेकायनमेवेँ सर्वेषाँ रसानां जिह्वैकायनमेवँ सर्वेषां गन्धानां नासिके एकायनमेवेँ सर्वेषां रूपाणां चक्षुरेकायनमेवेँ सर्वेषां शब्दानां श्रोत्रमेकायनमेवँ सर्वेषां सङ्कल्पानां मन एकायनमेवँ सर्वासां विद्यानां हृदयमेकायनमेवँ सर्वेषाँ कर्मणां हस्तावेकायनमेवेँ सर्वेषामानन्दानामुपस्थ एकायनमेवँ सर्वेषां विसर्गाणां पायुरेकायनमेवँ सर्वेषामध्वनां पादावेकायनमेवँ सर्वेषां वेदानां वागेकायनम् ।। १२ ।।

प्र.- यथार्द्रैधाग्नेः इत्यादि । इष्टं हुतं – यागहोमादिकर्म । आशितं पायितं अन्नपानादि । अयं लोकः परश्चलोकः – इहलोकपरलोकौ । भोग्य-भोगोपकरण भोगस्थानात्मकः प्रपञ्च इति यावत् ।। ११-१२ ।।

 

[अमृतत्वसाधनम्]

 

यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति प्रेत्य संज्ञाऽस्तीत्यरे ब्रवीमि इति होवाच याज्ञवल्क्यः ।। १३ ।।

प्र.- यथा सैन्धवघन इत्यादि । सैन्धवघन: लवणखण्डः अनन्तरःअन्तरवयवव्यतिरिक्तः अबाह्यः बाह्यावयवव्यतिरिक्तश्च सर्वोऽप्यवयवः यथा रसघनो भवति । अत्र अन्तरो बाह्यश्च रसघन इति वक्तव्ये अन्तरत्वबाह्यत्वशून्यानां मध्यवर्तिनामपि ग्रहणं यथा स्यादिति अनन्तरोऽबाह्य इति व्यतिरेकमुखेन निर्देशः । एवञ्च सति निरवयवात्म-साधारण्यमपि फलितं भवतीति द्रष्टव्यम् । एवमेवायमात्मा सर्वत्र ‘प्रज्ञानघनः’ स्वरूपतो धर्मतश्च विज्ञानघनजीवशरीरक इत्यर्थः । जीवपरयोः स्वरूपेण ऐक्याभावात् शरीरात्मभावे इदं सामानाधिकरण्यं द्रष्टव्यम् । अत्र वक्तव्यं सर्वं चतुर्थाध्याय एवोक्तम् ।। १३ ।।

 

सा होवाच मैत्रेय्यत्रैव भगवान्मोहान्तम्आपीपत् वा अहमिमं विजानामीति होवाच वाऽरेऽहं मोहं ब्रवीमि अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा ।। १४ ।।

प्र.- अत्रैव मा भगवान्….. आपीपत् अत्रैव प्रेत्य संज्ञाऽस्ति इत्यस्मिन्नेवार्थे भगवान् मा – मां मोहान्तं – मोहमध्यम् अपीपत् – प्रापितवान् । ओपेर्णा चञ् मोहमेव दर्शयति- वा अहमिमं विजानामीति इमं अर्थमित्यर्थः । अविनाशी वाऽरेऽयमात्माऽनुच्छित्तिधर्मा – अयमात्मा स्वयमविनाशी । अनुच्छित्तिधर्मा । न विद्यते उच्छित्तिर्यस्य सोऽनुच्छित्तिः । अविनाशीति यावत् । अनुच्छित्तिः धर्मो यस्य सोऽनुच्छित्तिधर्मा । एवं बहुव्रीहिगर्भो बहुव्रीहिः । तस्य ज्ञानलक्षणो धर्मोऽप्यविनाशीत्यर्थः । न तु उच्छित्तेरभावोऽनुच्छित्तिः । स धर्मो यस्येति बहुव्रीहिः । अविनाशी इत्यनेन पौनरुक्तयप्रसङ्गात् इति द्रष्टव्यम् ।। १४ ।।

 

यत्र हि द्वैतमिव भवतितदितर इतरं पश्यति, तदितर इतरं जिघ्रतितदितर इतरँ रसयते; तदितर इतरमभिवदति, तदितर इतरँ शृणोति, तदितर इतरं मनुते, तदितरं इतरँ स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्येत्, तत् केन कं जिघ्रेत् तत् केन कँ रसयेत्, तत् केन कँ अभिवदेत्, तत् केन कँ शृणुयात्। तत् केन कँ मन्वीत, तत् केन कँ स्पृशेत्, तत् केन कँ विजानीयात् येनेदँ सर्वं विजानाति, तँ केन विजानीयात् एष नेति नेत्यात्मा अगृह्यो हि गृह्यते; अशीर्यों हि शीर्यते; असङ्गो हि सज्यतेअसितो व्यथते रिष्यति विज्ञातारमरे केन विजानीयादिति उक्तानुशासनाऽसि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ।। १५ ।।

प्र. – उक्तानुशासनाऽसि…… विजहार । हे मैत्रेयि! उक्तोपदेष्टव्याऽसि । एतावदेव खलु अमृतत्वार्थिभिः ज्ञेयमित्यर्थः । अमृतत्वमिति कारणे’ कार्यवाचिशब्द उपचारात् प्रयुक्तः । एवमुक्त्वा याज्ञवल्क्य: विजहार – यथाभिलषितं प्रव्रज्यां कृतवानित्यर्थः ।। १५ ।।

।। इति षष्ठाध्याये पञ्चमब्राह्मण प्रकाशिका ।।

 

षष्ठाध्याये षष्ठं ब्राह्मणम्

 

[वंशब्राह्मणम्]

[आचार्यशिष्यवंशकथनम्]

 

अथ वंश: पोतिमाष्यात् पोतिमाष्यो गौपवनात् गोपवनः पौतिमाष्यात् पोतिमाष्यो गोपवनात् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः शाण्डिल्यात् शाण्डिल्यः कौशिकाञ्च गौतमा गौतमः ।। ।।

 

आग्निवेश्यात्, आग्निवेश्यो गार्ग्यात्गार्ग्य गौतमात् गौतमः सैतवात् सैतवः पाराशर्यायणात् पाराशर्यायणो गार्ग्यायणात् गार्ग्यायण: उद्दालकायनात् उद्दालकायनो जाबालायनात् जाबालायनो माध्यन्दिनायनात् माध्यन्दिनायनसौकरायणात् सौकरावण: काषायणात् काषायण: सायकायनात् सायकायनकौशिकायने: कौशिकायनिः ।। ।।

 

घृतकौशिकात् घृतकौशिकः पाराशर्यायणात् पाराशर्यायणः पाराशर्यात् पाराशर्यो जातूकर्ण्यात् जातूकर्ण्य आसुरायणाच्च यास्काच्च आसुरायणः त्रैवणे:, त्रैवणिरो पजन्धनेरौपजन्धनिरासुरेः आसुरिर्भारद्वाजात् भारद्वाज आत्रेयात् आत्रेयो माण्डे: “माण्डिर्गौतमात् गौतमो गौतमात् गौतमो वात्स्यात् वात्स्यः शाण्डिल्यात् शाण्डिल्य: केशोर्यात् काप्यात् कैशोर्यः काप्यः कुमारहारितात् कुमारहारितो गालवाद्गालवो विदर्भीकोण्डिन्यात् विदर्भीकोण्डिन्यो वत्सनपातो बाभ्रवात् वत्सनपाद्वाभ्रवः पथस्सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसात् अयास्य आङ्गिरसः आभूतेस्त्वाष्ट्रात् आभूतिस्त्वाष्ट्र: विश्वरूपात् त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम् अश्विनौ दधीच आथर्वणात् दध्यङ्ङाथर्वणोऽथर्वणो दैवात् अथर्वादैवो मृत्योः प्राध्वँसनात् मृत्युः प्राध्वँसन: प्रध्वँसनात् प्रध्वँसनः एकर्षे: एकर्षिविप्रचित्तेविप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात् सनातन: सनकात् सनकः परमेष्ठिन: परमेष्ठी ब्रह्मणः । ब्रह्म स्वयम्भु ब्रह्मणे नमः

 

।। इति षष्ठाध्याये षष्ठं ब्राह्मणम् ।।

 

प्र.- पूर्ववदेव वंशब्राह्मणम् । आचार्यवंशकीर्तनस्य मङ्गळत्वान्नान पौनरुक्त्यं शङ्कनीयम् । पौतिमाष्यादिति प्रथमं पञ्चम्युक्तिः ततोऽर्वागपि शिष्यपरम्पराऽस्तीति ज्ञापनार्थम् ।। १ ।।

 

।। इति षष्ठाऽध्याये षष्ठब्राह्मण प्रकाशिका ।।

 

।। समाप्तश्च षष्ठः अध्यायः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.