14 तात्पर्यचन्द्रिका चतुर्दशोऽध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका चतुर्दशोऽध्यायः श्री भगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।।14.1।। ।।14.1।।पूर्वाध्यायप्रकृतविशोधनरूपतयाऽस्य तत्सङ्गतिं प्रदर्शयन्गुणबन्धविधा तेषां कर्तृत्वं तन्निवर्तनम्। गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते [गी.सं.18] इति सङ्ग्रहश्लोकं व्याचष्टे — त्रयोदश इति।इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते [13।2] इत्यारभ्यइति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते [13।19] इत्यन्तार्थमभिप्रेत्यप्रकृतिपुरुषयोरित्यादि बन्धान्मुच्यत इत्युक्तमित्यन्तमभिहितम्।गुणानां बन्धहेतुताप्रकार इत्यनेनगुणबन्धविधा इत्येतद्व्याख्यातम्।गुणनिवर्तनप्रकारश्चेत्यनेनतन्निवर्तनम् […]
13 तात्पर्यचन्द्रिका त्रयोदशोऽध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका त्रयोदशोऽध्यायः ||13|| अर्जुन उवाच प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च। एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव।।13.1।। श्री भगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.2।। ।।13.2।।अथ तृतीयषट्कसङ्गतिं वक्तुं प्रथमद्वितीयषट्कार्थं सङ्ग्रहेणाह — पूर्वस्मिन्निति। अत्र पदानां भावः प्राक्प्रपञ्चितः।ज्ञानकर्मात्मिके निष्ठे योगलक्ष्ये सुसंस्कृते। आत्मानुभूतिसिद्ध्यर्थे पूर्वषट्केन चोदिते [गी.सं.2] इति प्रथमषट्कार्थसङ्ग्रहः। सिषाधयिषितपर्यन्ताविच्छिन्नसाधनानुष्ठानमिह निष्ठा।मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये। […]
12 तात्पर्यचन्द्रिका द्वादशोध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका द्वादशोध्यायः ।।12।। अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। येचाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः।।12.1।। ।।12.1।।प्रसक्ताया भक्तेः श्रैष्ठ्यादिकमुच्यत इति द्वादशाध्यायार्थसङ्गतिं वक्तुं पूर्वोक्तमनुवदन् भक्तियोगप्रकरणे वैश्वरूप्यप्रदर्शनसङ्गतिमप्यर्थाद्विविनक्ति — भक्तियोगनिष्ठानामिति। साक्षात्कृते हि पूर्णोपासनं शक्यम्? उपास्यत्वफलत्वोपयुक्ताकारेण तत्प्रकाशनं च युक्तमिति भावः। प्रस्तुतसाक्षात्कारादिकारणप्रधानसङ्गतिस्थलमाहउक्तं चेति। स्वप्रकाशनहेतुः कारुण्यादिकम्। तदैव कार्यसिद्ध्यर्थं सत्यसङ्कल्पत्वोक्तिः। उपायफलनिर्देशानन्तरं फलाविलम्बाद्युक्तिरिति सङ्गतिमाहअनन्तरमिति। एतेनभक्तिशैघ्र्यमुपायोक्तिरशक्तस्यात्मनिष्ठता। तत्प्रकारास्त्वतिप्रीतिर्भक्ते द्वादश उच्यते [गी.सं.16] इति सङ्ग्रहश्लोकोऽपि व्याख्यातः।अतिप्रीतिः […]
11 तात्पर्यचन्द्रिका एकादशोऽध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका एकादशोऽध्यायः।।11।। अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्। यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम।।11.1।। ।।11.1।।विश्वरूपाध्यायभवतारयितुं विभूत्यध्यायार्थं सङ्गृह्याह — एवमिति।भक्तियोगनिष्पत्तये तद्विवृद्धये चेति प्रयोजनकथनेनानन्तरमर्जुनस्य दिदृक्षा भक्तिविवृद्ध्यधीनेति सूचितम्।सकलेतरविलक्षणनेति सकलेतरवैलक्षण्यरूपेणेत्यर्थः यद्वा सकलेतरस्वभावविलक्षणेनेत्यर्थः। एतेनानवधिकातिशयत्वमुक्तं भवति।अनन्यसाधारणं स्वाभाविकमनवधिकातिशयम् इति पूर्वोक्तस्यात्र प्रातिलोम्येन प्रत्यभिज्ञानात्सकलेतरविलक्षणेन भगवदसाधारणेनेत्यनयोर्यथेष्टं हेतुसाध्यभावेन अन्वयात्समाधिकराहित्यतात्पर्याच्च नानर्थक्यम्। श्रुतार्थनिश्चयाधीनभक्तिविवृद्धिफलभूतदिदृक्षामूलमुत्तराध्यायोपोद्धातरूपमर्जुनवाक्यमवतारयति — तमेतमिति। तं सर्वातिशायिनम्? एतं उक्तप्रकारम्।भगवत्सकाशादित्यनेन निश्चयहेतुभूतमाप्तत्वं सूचितम् नह्याचार्यान्तरसकाशादुपश्रवणे दिदृक्षायां सत्यामपि दर्शनप्रार्थनं घटत इति […]
10 तात्पर्यचन्द्रिका दशमोऽध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका दशमोऽध्यायः।।10।। श्री भगवानुवाच भूय एव महाबाहो श्रृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1।। ।।10.1।।दशमसङ्गतिं वक्तुं नवमार्थं सप्तमप्रभृत्यध्यायत्रयार्थं वा सङ्गृह्याह — भक्तियोग इति।स्वकल्याणगुणानन्त्यं कृत्स्नस्वाधीनतामतिः। भक्त्युत्पत्तिविवृद्ध्यर्था विस्तीर्णा दशमोदिता [गी.सं.14] इति सङ्ग्रहश्लोकं व्याकुर्वन् सङ्गतिमाह — इदानीमिति। पूर्वत्र सपरिकरभक्तियोगस्वरूपप्रपञ्चनपरतया स्वकल्याणगुणादेः सङ्ग्रहेण कथनम् इह तु तत्प्रपञ्चनमित्यवसरप्राप्तिरपौनरुक्त्यं चविस्तीर्णा इत्यनेन विवक्षितमिति दर्शयितुंइदानीं प्रपञ्च्यत इति पदद्वयम्। अर्जुनस्य वक्ष्यमाणार्थश्रवणयोग्यत्वं […]
09 तात्पर्यचन्द्रिका नवमोऽध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका नवमोऽध्यायः श्री भगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।। ।।9.1।।स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम्। विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः [गी.सं.13] इति सङ्ग्रहश्लोकमपि व्याकुर्वंस्तदनुसारेणाष्टमनवमयोः सङ्गतिं च दर्शयति — उपासकेत्यादिना। विशेषाः ज्ञातव्योपादेयभेदाः। परमपुरुषमाहात्म्यस्य ज्ञानिनां विशेषस्य च प्रागेव प्रकृतत्वात्तत्प्रभावविशोधनमत्रोपासनतत्फलानुप्रविष्टतया क्रियते अध्यायप्रधानार्थस्तूपासनस्वरूपनिष्कर्षप्रधानार्थत्वेन इत्यभिप्रायेणविशोध्येति विच्छिद्य?भक्तिरूपस्येत्यादि पृथगुक्तम्। भजनोपासनशब्दयोरस्मिन्नेवाध्याये प्रकरणान्तरेषु च समानविषयतयैव प्रयोगवशाच्छ्रुतिसिद्धोपासनस्यैवात्र भक्तिशब्देन विशेषणं […]
08 तात्पर्यचन्द्रिका अष्टमोऽध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका अष्टमोऽध्यायः अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम। अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते।।8.1।। अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।। ।।8.1,2।।सङ्गतिदर्शनायाह — सप्तम इति।परस्य ब्रह्मणो वासुदेवस्योपास्यत्वमिति — मय्यासक्तमनाः [7।1] इत्यादेरथः तत्रैव ह्युपासनं प्रस्तुतम्। तच्छेषतया चान्यत्सर्वमिहोच्यते। तस्यैव प्रपञ्चनम्अहं सर्वस्य प्रभवः [10।8]वासुदेवः सर्वं [7।19]चतुर्विधा भजन्ते माम् [7।16] इत्यादिभिः परस्तात्क्रियत इति […]
07 तात्पर्यचन्द्रिका सप्तमोऽध्यायः
श्रीमद् भगवद्गीता वेदान्ताचार्यविरचित तात्पर्यचन्द्रिका सप्तमोऽध्यायः श्री भगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु।।7.1।। ।।7.1।।षट्कसङ्गतिमाह प्रथमेनेति।परमेत्यादिना वक्तुमित्यन्तेन द्वितीयषट्कार्थ उक्तः। ततः परं प्रथमषट्कार्थः। प्रथमेनाध्यायषट्केनोक्तमित्यन्वयः।मामुपेत्य 8।16 इत्यादीनामर्थं दर्शयति परमप्राप्यभूतस्येति। तेन परिशुद्धजीवमात्रव्यावर्तनम्। परमप्राप्यत्वे हेतुः परब्रह्मत्वादिकम्।परं ब्रह्म परं धाम 10।12 इत्यादिकं वक्ष्यति। पुरुषोत्तमत्वप्रकरणादीनामर्थो निरवद्यत्वम्। एतेनाचिद्गता विकारादयः चिद्गताः क्लेशादयश्च परिहृताः।अहं सर्वस्य प्रभवः 10।8़ इत्यादेरर्थमाह निखिलेति। चिदचिदात्मकं सर्वं […]
माण्डूक्योपनिषत्कारिकाः
गौडपादीयाः माण्डूक्योपनिषत्कारिकाः ओमित्यारभ्य य एवं वेद, य एवं वेद इति पर्यन्तं द्वादशमन्त्रात्मिका इयं उपनिषत् सर्वत्र दरीदृश्यते । अनया साकं केचन एकोनत्रिंशत् श्लोकाः पठ्यन्ते । शांकरसिद्धान्ते एते श्लोकाः गौडपादीयकारिकाः इति प्रसिद्धाः । रङ्गरामानुजेस्तु एते गौडपादीयाः इति मत्त्वा न व्याख्याताः, परन्तु कूरनारायणमुनिभिः एते उपनिषद्विवरणरूपाः श्रुत्यन्तर्गताः इत्येव अङ्गीकृत्य व्याख्याताः, तथा भारद्वाजरामानुजाचार्यैरपि । मध्वाचार्यास्तु एता: कारिका: ब्रह्मदृष्टाः मन्त्राः इत्येव स्पष्ट अभिदधुः व्याचख्युश्च । […]
माण्डूक्योपनिषत्-कूरनारायणमुनि
माण्डूक्योपनिषत् कूरनारायणमुनिभाषितम् ।। श्रीः ।। माण्डूक्योपनिषत् (अथर्ववेदीयोपनिषच्छान्तिपाठः) ओम् भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।। स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ।। ओं शान्तिः शान्तिः शान्तिः ।। देवा: – हे देवाः ! भद्रम् – कल्याणम् (वेदाख्यं, साङ्गेतिहासपुराणम्), कर्णेभिः – श्रोत्रैः शृणुयाम […]